This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥२-८७॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे सप्ताशीतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe saptāśītitamaḥ sargaḥ ..2..
गुहस्य वचनम् श्रुत्वा भरतो भृशम् अप्रियम् । ध्यानम् जगाम तत्र एव यत्र तत् श्रुतम् अप्रियम् ॥२-८७-१॥
गुहस्य वचनम् श्रुत्वा भरतः भृशम् अप्रियम् । ध्यानम् जगाम तत्र एव यत्र तत् श्रुतम् अप्रियम् ॥२॥
guhasya vacanam śrutvā bharataḥ bhṛśam apriyam . dhyānam jagāma tatra eva yatra tat śrutam apriyam ..2..
सुकुमारो महा सत्त्वः सिम्ह स्कन्धो महा भुजः । पुण्डरीक विशाल अक्षः तरुणः प्रिय दर्शनः ॥२-८७-२॥
सुकुमारः महा-सत्त्वः सिम्ह-स्कन्धः महा-भुजः । पुण्डरीक-विशाल-अक्षः तरुणः प्रिय-दर्शनः ॥२॥
sukumāraḥ mahā-sattvaḥ simha-skandhaḥ mahā-bhujaḥ . puṇḍarīka-viśāla-akṣaḥ taruṇaḥ priya-darśanaḥ ..2..
प्रत्याश्वस्य मुहूर्तम् तु कालम् परम दुर्मनाः । पपात सहसा तोत्रैर् हृदि विद्ध इव द्विपः ॥२-८७-३॥
प्रत्याश्वस्य मुहूर्तम् तु कालम् परम-दुर्मनाः । पपात सहसा तोत्रैः हृदि विद्धः इव द्विपः ॥२॥
pratyāśvasya muhūrtam tu kālam parama-durmanāḥ . papāta sahasā totraiḥ hṛdi viddhaḥ iva dvipaḥ ..2..
भरतम् मुर्च्Cइतम् द्रुष्ट्वा विवर्णवदनो गुहः । बभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः ॥२-८७-४॥
भरतम् मुर्च्चितम् द्रुष्ट्वा विवर्ण-वदनः गुहः । बभूव व्यथितः तत्र भूमिकम्पे यथा द्रुमः ॥२॥
bharatam murccitam druṣṭvā vivarṇa-vadanaḥ guhaḥ . babhūva vyathitaḥ tatra bhūmikampe yathā drumaḥ ..2..
तद् अवस्थम् तु भरतम् शत्रुघ्नो अनन्तर स्थितः । परिष्वज्य रुरोद उच्चैर् विसम्ज्नः शोक कर्शितः ॥२-८७-५॥
तद्-अवस्थम् तु भरतम् शत्रुघ्नः अनन्तर-स्थितः । परिष्वज्य रुरोद उच्चैस् शोक कर्शितः ॥२॥
tad-avastham tu bharatam śatrughnaḥ anantara-sthitaḥ . pariṣvajya ruroda uccais śoka karśitaḥ ..2..
ततः सर्वाः समापेतुर् मातरो भरतस्य ताः । उपवास कृशा दीना भर्तृ व्यसन कर्शिताः ॥२-८७-६॥
ततस् सर्वाः समापेतुः मातरः भरतस्य ताः । उपवास-कृशा दीना भर्तृ-व्यसन-कर्शिताः ॥२॥
tatas sarvāḥ samāpetuḥ mātaraḥ bharatasya tāḥ . upavāsa-kṛśā dīnā bhartṛ-vyasana-karśitāḥ ..2..
ताः च तम् पतितम् भूमौ रुदन्त्यः पर्यवारयन् । कौसल्या तु अनुसृत्य एनम् दुर्मनाः परिषस्वजे ॥२-८७-७॥
ताः च तम् पतितम् भूमौ रुदन्त्यः पर्यवारयन् । कौसल्या तु अनुसृत्य एनम् दुर्मनाः परिषस्वजे ॥२॥
tāḥ ca tam patitam bhūmau rudantyaḥ paryavārayan . kausalyā tu anusṛtya enam durmanāḥ pariṣasvaje ..2..
वत्सला स्वम् यथा वत्सम् उपगूह्य तपस्विनी । परिपप्रग्च्Cअ भरतम् रुदन्ती शोक लालसा ॥२-८७-८॥
वत्सला स्वम् यथा वत्सम् उपगूह्य तपस्विनी । परिपप्रग्च्च भरतम् रुदन्ती शोक-लालसा ॥२॥
vatsalā svam yathā vatsam upagūhya tapasvinī . paripapragcca bharatam rudantī śoka-lālasā ..2..
पुत्र व्याधिर् न ते कच्चित् शरीरम् परिबाधते । अद्य राज कुलस्य अस्य त्वद् अधीनम् हि जीवितम् ॥२-८७-९॥
पुत्र व्याधिः न ते कच्चित् शरीरम् परिबाधते । अद्य राज-कुलस्य अस्य त्वद्-अधीनम् हि जीवितम् ॥२॥
putra vyādhiḥ na te kaccit śarīram paribādhate . adya rāja-kulasya asya tvad-adhīnam hi jīvitam ..2..
त्वाम् दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते । वृत्ते दशरथे राज्नि नाथ एकः त्वम् अद्य नः ॥२-८७-१०॥
त्वाम् दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते । वृत्ते दशरथे राज्नि नाथ एकः त्वम् अद्य नः ॥२॥
tvām dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate . vṛtte daśarathe rājni nātha ekaḥ tvam adya naḥ ..2..
कच्चिन् न लक्ष्मणे पुत्र श्रुतम् ते किम्चिद् अप्रियम् । पुत्र वा ह्य् एकपुत्रायाः सह भार्ये वनम् गते ॥२-८७-११॥
कच्चित् न लक्ष्मणे पुत्र श्रुतम् ते किम्चिद् अप्रियम् । वा हि एक-पुत्रायाः सह भार्ये वनम् गते ॥२॥
kaccit na lakṣmaṇe putra śrutam te kimcid apriyam . vā hi eka-putrāyāḥ saha bhārye vanam gate ..2..
स मुहूर्तम् समाश्वस्य रुदन्न् एव महा यशाः । कौसल्याम् परिसान्त्व्य इदम् गुहम् वचनम् अब्रवीत् ॥२-८७-१२॥
स मुहूर्तम् समाश्वस्य रुदन् एव महा-यशाः । कौसल्याम् परिसान्त्व्य इदम् गुहम् वचनम् अब्रवीत् ॥२॥
sa muhūrtam samāśvasya rudan eva mahā-yaśāḥ . kausalyām parisāntvya idam guham vacanam abravīt ..2..
भ्राता मे क्व अवसद् रात्रिम् क्व सीता क्व च लक्ष्मणः । अस्वपत् शयने कस्मिन् किम् भुक्त्वा गुह शम्स मे ॥२-८७-१३॥
भ्राता मे क्व अवसत् रात्रिम् क्व सीता क्व च लक्ष्मणः । अस्वपत् शयने कस्मिन् किम् भुक्त्वा गुह शम्स मे ॥२॥
bhrātā me kva avasat rātrim kva sītā kva ca lakṣmaṇaḥ . asvapat śayane kasmin kim bhuktvā guha śamsa me ..2..
सो अब्रवीद् भरतम् पृष्टो निषाद अधिपतिर् गुहः । यद् विधम् प्रतिपेदे च रामे प्रिय हिते अतिथौ ॥२-८७-१४॥
सः अब्रवीत् भरतम् पृष्टः निषादः अधिपतिः गुहः । यद्-विधम् प्रतिपेदे च रामे प्रिय-हिते अतिथौ ॥२॥
saḥ abravīt bharatam pṛṣṭaḥ niṣādaḥ adhipatiḥ guhaḥ . yad-vidham pratipede ca rāme priya-hite atithau ..2..
अन्नम् उच्च अवचम् भक्ष्याः फलानि विविधानि च । रामाय अभ्यवहार अर्थम् बहु च उपहृतम् मया ॥२-८७-१५॥
अन्नम् उच्च-अवचम् भक्ष्याः फलानि विविधानि च । रामाय अभ्यवहार-अर्थम् बहु च उपहृतम् मया ॥२॥
annam ucca-avacam bhakṣyāḥ phalāni vividhāni ca . rāmāya abhyavahāra-artham bahu ca upahṛtam mayā ..2..
तत् सर्वम् प्रत्यनुज्नासीद् रामः सत्य पराक्रमः । न हि तत् प्रत्यगृह्णात् स क्षत्र धर्मम् अनुस्मरन् ॥२-८७-१६॥
तत् सर्वम् प्रत्यनुज्नासीत् रामः सत्य-पराक्रमः । न हि तत् प्रत्यगृह्णात् स क्षत्र-धर्मम् अनुस्मरन् ॥२॥
tat sarvam pratyanujnāsīt rāmaḥ satya-parākramaḥ . na hi tat pratyagṛhṇāt sa kṣatra-dharmam anusmaran ..2..
न ह्य् अस्माभिः प्रतिग्राह्यम् सखे देयम् तु सर्वदा । इति तेन वयम् राजन्न् अनुनीता महात्मना ॥२-८७-१७॥
न हि अस्माभिः प्रतिग्राह्यम् सखे देयम् तु सर्वदा । इति तेन वयम् राजन् अनुनीताः महात्मना ॥२॥
na hi asmābhiḥ pratigrāhyam sakhe deyam tu sarvadā . iti tena vayam rājan anunītāḥ mahātmanā ..2..
लक्ष्मणेन समानीतम् पीत्वा वारि महा यशाः । औपवास्यम् तदा अकार्षीद् राघवः सह सीतया ॥२-८७-१८॥
लक्ष्मणेन समानीतम् पीत्वा वारि महा-यशाः । औपवास्यम् तदा अकार्षीत् राघवः सह सीतया ॥२॥
lakṣmaṇena samānītam pītvā vāri mahā-yaśāḥ . aupavāsyam tadā akārṣīt rāghavaḥ saha sītayā ..2..
ततः तु जल शेषेण लक्ष्मणो अप्य् अकरोत् तदा । वाग् यताः ते त्रयः सम्ध्याम् उपासत समाहिताः ॥२-८७-१९॥
ततस् तु जल-शेषेण लक्ष्मणः अपि अकरोत् तदा । वाच्-यताः ते त्रयः सम्ध्याम् उपासत समाहिताः ॥२॥
tatas tu jala-śeṣeṇa lakṣmaṇaḥ api akarot tadā . vāc-yatāḥ te trayaḥ samdhyām upāsata samāhitāḥ ..2..
सौमित्रिः तु ततः पश्चाद् अकरोत् स्वास्तरम् शुभम् । स्वयम् आनीय बर्हीम्षि क्षिप्रम् राघव कारणात् ॥२-८७-२०॥
सौमित्रिः तु ततस् पश्चात् अकरोत् सु आस्तरम् शुभम् । स्वयम् आनीय बर्हीम्षि क्षिप्रम् राघव-कारणात् ॥२॥
saumitriḥ tu tatas paścāt akarot su āstaram śubham . svayam ānīya barhīmṣi kṣipram rāghava-kāraṇāt ..2..
तस्मिन् समाविशद् रामः स्वास्तरे सह सीतया । प्रक्षाल्य च तयोः पादाउ अपचक्राम लक्ष्मणः ॥२-८७-२१॥
तस्मिन् समाविशत् रामः सु आस्तरे सह सीतया । प्रक्षाल्य च तयोः पादौ अपचक्राम लक्ष्मणः ॥२॥
tasmin samāviśat rāmaḥ su āstare saha sītayā . prakṣālya ca tayoḥ pādau apacakrāma lakṣmaṇaḥ ..2..
एतत् तद् इन्गुदी मूलम् इदम् एव च तत् तृणम् । यस्मिन् रामः च सीता च रात्रिम् ताम् शयिताउ उभौ ॥२-८७-२२॥
एतत् तत् इन्गुदी मूलम् इदम् एव च तत् तृणम् । यस्मिन् रामः च सीता च रात्रिम् ताम् शयितौ उभौ ॥२॥
etat tat ingudī mūlam idam eva ca tat tṛṇam . yasmin rāmaḥ ca sītā ca rātrim tām śayitau ubhau ..2..
नियम्य पृष्ठे तु तल अन्गुलित्रवान् । शरैः सुपूर्णाउ इषुधी परम् तपः । महद् धनुः सज्यम् उपोह्य लक्ष्मणो । निशाम् अतिष्ठत् परितो अस्य केवलम् ॥२-८७-२३॥
नियम्य पृष्ठे तु तल-अन्गुलित्रवान् । शरैः सुपूर्णौ इषुधी परम् तपः । महत् धनुः सज्यम् उपोह्य लक्ष्मणो । निशाम् अतिष्ठत् परितस् अस्य केवलम् ॥२॥
niyamya pṛṣṭhe tu tala-angulitravān . śaraiḥ supūrṇau iṣudhī param tapaḥ . mahat dhanuḥ sajyam upohya lakṣmaṇo . niśām atiṣṭhat paritas asya kevalam ..2..
ततः तु अहम् च उत्तम बाण चापधृक् । स्थितो अभवम् तत्र स यत्र लक्ष्मणः । अतन्द्रिभिर् ज्नातिभिर् आत्त कार्मुकैर् । महा इन्द्र कल्पम् परिपालयमः तदा ॥२-८७-२४॥
ततस् तु अहम् च उत्तम-बाण-चापधृक् । स्थितः अभवम् तत्र स यत्र लक्ष्मणः । अतन्द्रिभिः ज्नातिभिः आत्त-कार्मुकैः । महा-इन्द्र-कल्पम् परिपालयमः तदा ॥२॥
tatas tu aham ca uttama-bāṇa-cāpadhṛk . sthitaḥ abhavam tatra sa yatra lakṣmaṇaḥ . atandribhiḥ jnātibhiḥ ātta-kārmukaiḥ . mahā-indra-kalpam paripālayamaḥ tadā ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥२-८७॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe saptāśītitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In