This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥२-८८॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे अष्टाशीतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe aṣṭāśītitamaḥ sargaḥ ..2..
तत् श्रुत्वा निपुणम् सर्वम् भरतः सह मन्त्रिभिः । इन्गुदी मूलम् आगम्य राम शय्याम् अवेक्ष्य ताम् ॥२-८८-१॥
तत् श्रुत्वा निपुणम् सर्वम् भरतः सह मन्त्रिभिः । इन्गुदी-मूलम् आगम्य राम-शय्याम् अवेक्ष्य ताम् ॥२॥
tat śrutvā nipuṇam sarvam bharataḥ saha mantribhiḥ . ingudī-mūlam āgamya rāma-śayyām avekṣya tām ..2..
अब्रवीद् जननीः सर्वा इह तेन महात्मना । शर्वरी शयिता भूमाउ इदम् अस्य विमर्दितम् ॥२-८८-२॥
अब्रवीत् जननीः सर्वाः इह तेन महात्मना । शर्वरी शयिता भूमौ इदम् अस्य विमर्दितम् ॥२॥
abravīt jananīḥ sarvāḥ iha tena mahātmanā . śarvarī śayitā bhūmau idam asya vimarditam ..2..
महा भाग कुलीनेन महा भागेन धीमता । जातो दशरथेन ऊर्व्याम् न रामः स्वप्तुम् अर्हति ॥२-८८-३॥
महा-भाग-कुलीनेन महा-भागेन धीमता । जातः दशरथेन ऊर्व्याम् न रामः स्वप्तुम् अर्हति ॥२॥
mahā-bhāga-kulīnena mahā-bhāgena dhīmatā . jātaḥ daśarathena ūrvyām na rāmaḥ svaptum arhati ..2..
अजिन उत्तर सम्स्तीर्णे वर आस्तरण सम्चये । शयित्वा पुरुष व्याघ्रः कथम् शेते मही तले ॥२-८८-४॥
अजिन-उत्तर-सम्स्तीर्णे वर-आस्तरण-सम्चये । शयित्वा पुरुष-व्याघ्रः कथम् शेते मही-तले ॥२॥
ajina-uttara-samstīrṇe vara-āstaraṇa-samcaye . śayitvā puruṣa-vyāghraḥ katham śete mahī-tale ..2..
प्रासाद अग्र विमानेषु वलभीषु च सर्वदा । हैम राजत भौमेषु वर आस्त्ररण शालिषु ॥२-८८-५॥
प्रासाद-अग्र-विमानेषु वलभीषु च सर्वदा । हैम-राजत-भौमेषु वर-आस्त्ररण-शालिषु ॥२॥
prāsāda-agra-vimāneṣu valabhīṣu ca sarvadā . haima-rājata-bhaumeṣu vara-āstraraṇa-śāliṣu ..2..
पुष्प सम्चय चित्रेषु चन्दन अगरु गन्धिषु । पाण्डुर अभ्र प्रकाशेषु शुक सम्घ रुतेषु च ॥२-८८-६॥
पुष्प-सम्चय-चित्रेषु चन्दन-अगरु-गन्धिषु । पाण्डुर-अभ्र-प्रकाशेषु शुक-सम्घ-रुतेषु च ॥२॥
puṣpa-samcaya-citreṣu candana-agaru-gandhiṣu . pāṇḍura-abhra-prakāśeṣu śuka-samgha-ruteṣu ca ..2..
प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु । उषित्वा मेरुकल्पेषु कृतकाम्चनभित्तिषु ॥२-८८-७॥
प्रासाद-वर-वर्येषु शीतवत्सु सुगन्धिषु । उषित्वा मेरु-कल्पेषु कृत-काम्चन-भित्तिषु ॥२॥
prāsāda-vara-varyeṣu śītavatsu sugandhiṣu . uṣitvā meru-kalpeṣu kṛta-kāmcana-bhittiṣu ..2..
गीत वादित्र निर्घोषैर् वर आभरण निह्स्वनैः । मृदन्ग वर शब्दैः च सततम् प्रतिबोधितः ॥२-८८-८॥
गीत-वादित्र-निर्घोषैः वर-आभरण-निह्स्वनैः । मृदन्ग-वर-शब्दैः च सततम् प्रतिबोधितः ॥२॥
gīta-vāditra-nirghoṣaiḥ vara-ābharaṇa-nihsvanaiḥ . mṛdanga-vara-śabdaiḥ ca satatam pratibodhitaḥ ..2..
बन्दिभिर् वन्दितः काले बहुभिः सूत मागधैः । गाथाभिर् अनुरूपाभिः स्तुतिभिः च परम्तपः ॥२-८८-९॥
बन्दिभिः वन्दितः काले बहुभिः सूत मागधैः । गाथाभिः अनुरूपाभिः स्तुतिभिः च परम्तपः ॥२॥
bandibhiḥ vanditaḥ kāle bahubhiḥ sūta māgadhaiḥ . gāthābhiḥ anurūpābhiḥ stutibhiḥ ca paramtapaḥ ..2..
अश्रद्धेयम् इदम् लोके न सत्यम् प्रतिभाति मा । मुह्यते खलु मे भावः स्वप्नो अयम् इति मे मतिः ॥२-८८-१०॥
अश्रद्धेयम् इदम् लोके न सत्यम् प्रतिभाति मा । मुह्यते खलु मे भावः स्वप्नः अयम् इति मे मतिः ॥२॥
aśraddheyam idam loke na satyam pratibhāti mā . muhyate khalu me bhāvaḥ svapnaḥ ayam iti me matiḥ ..2..
न नूनम् दैवतम् किम्चित् कालेन बलवत्तरम् । यत्र दाशरथी रामो भूमाउ एवम् शयीत सः ॥२-८८-११॥
न नूनम् दैवतम् किम्चिद् कालेन बलवत्तरम् । यत्र दाशरथिः रामः भूमौ एवम् शयीत सः ॥२॥
na nūnam daivatam kimcid kālena balavattaram . yatra dāśarathiḥ rāmaḥ bhūmau evam śayīta saḥ ..2..
विदेह राजस्य सुता सीता च प्रिय दर्शना । दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥२-८८-१२॥
विदेह-राजस्य सुता सीता च प्रिय-दर्शना । दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥२॥
videha-rājasya sutā sītā ca priya-darśanā . dayitā śayitā bhūmau snuṣā daśarathasya ca ..2..
इयम् शय्या मम भ्रातुर् इदम् हि परिवर्तितम् । स्थण्डिले कठिने सर्वम् गात्रैर् विमृदितम् तृणम् ॥२-८८-१३॥
इयम् शय्या मम भ्रातुः इदम् हि परिवर्तितम् । स्थण्डिले कठिने सर्वम् गात्रैः विमृदितम् तृणम् ॥२॥
iyam śayyā mama bhrātuḥ idam hi parivartitam . sthaṇḍile kaṭhine sarvam gātraiḥ vimṛditam tṛṇam ..2..
मन्ये साभरणा सुप्ता सीता अस्मिन् शयने तदा । तत्र तत्र हि दृश्यन्ते सक्ताः कनक बिन्दवः ॥२-८८-१४॥
मन्ये स आभरणा सुप्ता सीता अस्मिन् शयने तदा । तत्र तत्र हि दृश्यन्ते सक्ताः कनक-बिन्दवः ॥२॥
manye sa ābharaṇā suptā sītā asmin śayane tadā . tatra tatra hi dṛśyante saktāḥ kanaka-bindavaḥ ..2..
उत्तरीयम् इह आसक्तम् सुव्यक्तम् सीतया तदा । तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेय तन्तवः ॥२-८८-१५॥
उत्तरीयम् इह आसक्तम् सुव्यक्तम् सीतया तदा । तथा हि एते प्रकाशन्ते सक्ताः कौशेय तन्तवः ॥२॥
uttarīyam iha āsaktam suvyaktam sītayā tadā . tathā hi ete prakāśante saktāḥ kauśeya tantavaḥ ..2..
मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी । सुकुमारी सती दुह्खम् न विजानाति मैथिली ॥२-८८-१६॥
मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी । सुकुमारी सती दुह्खम् न विजानाति मैथिली ॥२॥
manye bhartuḥ sukhā śayyā yena bālā tapasvinī . sukumārī satī duhkham na vijānāti maithilī ..2..
हा हन्तास्मि नृशम्सोऽहम् यत्सभार्यः कृतेमम । ईदृशीं राघवः शय्यामधिशेते ह्यानाथवत् ॥२-८८-१७॥
हा हन्तास्मि नृशम्सः अहम् यत् स भार्यः कृता इमम । ईदृशीम् राघवः शय्याम् अधिशेते हि आनाथ-वत् ॥२॥
hā hantāsmi nṛśamsaḥ aham yat sa bhāryaḥ kṛtā imama . īdṛśīm rāghavaḥ śayyām adhiśete hi ānātha-vat ..2..
सार्वभौम कुले जातः सर्व लोक सुख आवहः । सर्व लोक प्रियः त्यक्त्वा राज्यम् प्रियम् अनुत्तमम् ॥२-८८-१८॥
सार्वभौम-कुले जातः सर्व-लोक-सुख-आवहः । सर्व-लोक-प्रियः त्यक्त्वा राज्यम् प्रियम् अनुत्तमम् ॥२॥
sārvabhauma-kule jātaḥ sarva-loka-sukha-āvahaḥ . sarva-loka-priyaḥ tyaktvā rājyam priyam anuttamam ..2..
कथम् इन्दीवर श्यामो रक्त अक्षः प्रिय दर्शनः । सुख भागी च दुह्ख अर्हः शयितो भुवि राघवः ॥२-८८-१९॥
कथम् इन्दीवर-श्यामः रक्त-अक्षः प्रिय-दर्शनः । सुख-भागी च दुह्ख-अर्हः शयितः भुवि राघवः ॥२॥
katham indīvara-śyāmaḥ rakta-akṣaḥ priya-darśanaḥ . sukha-bhāgī ca duhkha-arhaḥ śayitaḥ bhuvi rāghavaḥ ..2..
धन्यः खलु महाभागो लक्ष्मणः शुभलक्षमणः । भ्रातरम् विषमे काले यो राममनुवर्तते ॥२-८८-२०॥
धन्यः खलु महाभागः लक्ष्मणः शुभ-लक्ष-मणः । भ्रातरम् विषमे काले यः रामम् अनुवर्तते ॥२॥
dhanyaḥ khalu mahābhāgaḥ lakṣmaṇaḥ śubha-lakṣa-maṇaḥ . bhrātaram viṣame kāle yaḥ rāmam anuvartate ..2..
सिद्ध अर्था खलु वैदेही पतिम् या अनुगता वनम् । वयम् सम्शयिताः सर्वे हीनाः तेन महात्मना ॥२-८८-२१॥
सिद्ध-अर्था खलु वैदेही पतिम् या अनुगता वनम् । वयम् सम्शयिताः सर्वे हीनाः तेन महात्मना ॥२॥
siddha-arthā khalu vaidehī patim yā anugatā vanam . vayam samśayitāḥ sarve hīnāḥ tena mahātmanā ..2..
अकर्ण धारा पृथिवी शून्या इव प्रतिभाति मा । गते दशरथे स्वर्गे रामे च अरण्यम् आश्रिते ॥२-८८-२२॥
अकर्ण-धारा पृथिवी शून्या इव प्रतिभाति मा । गते दशरथे स्वर्गे रामे च अरण्यम् आश्रिते ॥२॥
akarṇa-dhārā pṛthivī śūnyā iva pratibhāti mā . gate daśarathe svarge rāme ca araṇyam āśrite ..2..
न च प्रार्थयते कश्चिन् मनसा अपि वसुम्धराम् । वने अपि वसतः तस्य बाहु वीर्य अभिरक्षिताम् ॥२-८८-२३॥
न च प्रार्थयते कश्चिद् मनसा अपि वसुम्धराम् । वने अपि वसतः तस्य बाहु-वीर्य-अभिरक्षिताम् ॥२॥
na ca prārthayate kaścid manasā api vasumdharām . vane api vasataḥ tasya bāhu-vīrya-abhirakṣitām ..2..
शून्य सम्वरणा रक्षाम् अयन्त्रित हय द्विपाम् । अपावृत पुर द्वाराम् राज धानीम् अरक्षिताम् ॥२-८८-२४॥
शून्य-सम्वरणा-रक्षाम् अयन्त्रित-हय-द्विपाम् । अपावृत-पुर-द्वाराम् राज-धानीम् अरक्षिताम् ॥२॥
śūnya-samvaraṇā-rakṣām ayantrita-haya-dvipām . apāvṛta-pura-dvārām rāja-dhānīm arakṣitām ..2..
अप्रहृष्ट बलाम् न्यूनाम् विषमस्थाम् अनावृताम् । शत्रवो न अभिमन्यन्ते भक्ष्यान् विष कृतान् इव ॥२-८८-२५॥
अप्रहृष्ट-बलाम् न्यूनाम् विषमस्थाम् अनावृताम् । शत्रवः न अभिमन्यन्ते भक्ष्यान् विष-कृतान् इव ॥२॥
aprahṛṣṭa-balām nyūnām viṣamasthām anāvṛtām . śatravaḥ na abhimanyante bhakṣyān viṣa-kṛtān iva ..2..
अद्य प्रभृति भूमौ तु शयिष्ये अहम् तृणेषु वा । फल मूल अशनो नित्यम् जटा चीराणि धारयन् ॥२-८८-२६॥
अद्य प्रभृति भूमौ तु शयिष्ये अहम् तृणेषु वा । फल-मूल-अशनः नित्यम् जटा-चीराणि धारयन् ॥२॥
adya prabhṛti bhūmau tu śayiṣye aham tṛṇeṣu vā . phala-mūla-aśanaḥ nityam jaṭā-cīrāṇi dhārayan ..2..
तस्य अर्थम् उत्तरम् कालम् निवत्स्यामि सुखम् वने । तम् प्रतिश्रवम् आमुच्य न अस्य मिथ्या भविष्यति ॥२-८८-२७॥
तस्य अर्थम् उत्तरम् कालम् निवत्स्यामि सुखम् वने । तम् प्रतिश्रवम् आमुच्य न अस्य मिथ्या भविष्यति ॥२॥
tasya artham uttaram kālam nivatsyāmi sukham vane . tam pratiśravam āmucya na asya mithyā bhaviṣyati ..2..
वसन्तम् भ्रातुर् अर्थाय शत्रुघ्नो मा अनुवत्स्यति । लक्ष्मणेन सह तु आर्यो अयोध्याम् पालयिष्यति ॥२-८८-२८॥
वसन्तम् भ्रातुः अर्थाय शत्रुघ्नः मा अनुवत्स्यति । लक्ष्मणेन सह तु आर्यः अयोध्याम् पालयिष्यति ॥२॥
vasantam bhrātuḥ arthāya śatrughnaḥ mā anuvatsyati . lakṣmaṇena saha tu āryaḥ ayodhyām pālayiṣyati ..2..
अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायाम् द्विजातयः । अपि मे देवताः कुर्युर् इमम् सत्यम् मनो रथम् । प्रसाद्यमानः शिरसा मया स्वयम् । बहु प्रकारम् यदि न प्रपत्स्यते ॥२-८८-२९॥
अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायाम् द्विजातयः । अपि मे देवताः कुर्युः इमम् सत्यम् मनः-रथम् । प्रसाद्यमानः शिरसा मया स्वयम् । बहु-प्रकारम् यदि न प्रपत्स्यते ॥२॥
abhiṣekṣyanti kākutstham ayodhyāyām dvijātayaḥ . api me devatāḥ kuryuḥ imam satyam manaḥ-ratham . prasādyamānaḥ śirasā mayā svayam . bahu-prakāram yadi na prapatsyate ..2..
ततोन्रुवत्सयामि चिराय राघवम् । वनेचरम् नह्रुति माम्रुपेक्षित्रुम् ॥२-८८-३०॥
चिराय राघवम् । वनेचरम् नह्रुति माम्रुपेक्षित्रुम् ॥२॥
cirāya rāghavam . vanecaram nahruti māmrupekṣitrum ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥२-८८॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe aṣṭāśītitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In