कौसल्या च सुमित्रा च याश्चान्या राजयोषित: । पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये । अनन्तरं राजदारास्तथैव शकटापणा: ॥ २.८९.१३ ॥
PADACHEDA
कौसल्या च सुमित्रा च याः च अन्याः राज-योषितः । पुरोहितः च तद्-पूर्वम् गुरवः ब्राह्मणाः च ये । अनन्तरम् राज-दाराः तथा एव शकट-आपणाः ॥ २।८९।१३ ॥
TRANSLITERATION
kausalyā ca sumitrā ca yāḥ ca anyāḥ rāja-yoṣitaḥ . purohitaḥ ca tad-pūrvam guravaḥ brāhmaṇāḥ ca ye . anantaram rāja-dārāḥ tathā eva śakaṭa-āpaṇāḥ .. 2.89.13 ..