This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवाशीतितमः सर्गः ॥२-८९॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe navāśītitamaḥ sargaḥ ..2-89..
व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघव: । भरत: काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ॥ २.८९.१ ॥
vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghava: . bharata: kālyamutthāya śatrughnamidamabravīt .. 2.89.1 ..
शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् । शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ॥ २.८९.२ ॥
śatrughnottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham . śīghramānaya bhadraṃ te tārayiṣyati vāhinīm .. 2.89.2 ..
जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन् । इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदित: ॥ २.८९.३ ॥
jāgarmi nāhaṃ svapimi tamevāryyaṃ vicintayan . ityevamabravīdbhrātrā śatrughnopi pracodita: .. 2.89.3 ..
इति संवदतोरेवमन्योन्यं नरसिंहयो: । आगम्य प्राञ्जलि: काले गुहो भरतमब्रवीत् ॥ २.८९.४ ॥
iti saṃvadatorevamanyonyaṃ narasiṃhayo: . āgamya prāñjali: kāle guho bharatamabravīt .. 2.89.4 ..
कच्चित्सुखं नदीतीरे ऽवात्सी: काकुत्स्थ शर्वरीम् । कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् ॥ २.८९.५ ॥
kaccitsukhaṃ nadītīre 'vātsī: kākutstha śarvarīm . kaccitte sahasainyasya tāvatsarvamanāmayam .. 2.89.5 ..
गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् । रामस्यानुवशो वाक्यं भरतो ऽपीदमब्रवीत् ॥ २.८९.६ ॥
guhasya tattu vacanaṃ śrutvā snehādudīritam . rāmasyānuvaśo vākyaṃ bharato 'pīdamabravīt .. 2.89.6 ..
सुखा न: शर्वरी राजन् पूजिताश्चापि ते वयम् । गङ्गां तु नौभिर्बह्वीभिर्दाशा: सन्तारयन्तु न: ॥ २.८९.७ ॥
sukhā na: śarvarī rājan pūjitāścāpi te vayam . gaṅgāṃ tu naubhirbahvībhirdāśā: santārayantu na: .. 2.89.7 ..
ततो गुह: संत्वरितं श्रुत्वा भरतशासनम् । प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ॥ २.८९.८ ॥
tato guha: saṃtvaritaṃ śrutvā bharataśāsanam . pratipraviśya nagaraṃ taṃ jñātijanamabravīt .. 2.89.8 ..
उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च व: सदा । नाव: समनुकर्षध्वं तारयिष्याम वाहिनीम् ॥ २.८९.९ ॥
uttiṣṭhata prabudhyadhvaṃ bhadramastu ca va: sadā . nāva: samanukarṣadhvaṃ tārayiṣyāma vāhinīm .. 2.89.9 ..
ते तथोक्ता: समुत्थाय त्वरिता राजशासनात् । पञ्च नावां शतान्याशु समानिन्यु: समन्तत: ॥ २.८९.१० ॥
te tathoktā: samutthāya tvaritā rājaśāsanāt . pañca nāvāṃ śatānyāśu samāninyu: samantata: .. 2.89.10 ..
अन्या: स्वस्तिकविज्ञेया महाघण्टाधरा वरा: । शोभमाना: पताकाभिर्युक्तवाता: सुसंहता: ॥ २.८९.११ ॥
anyā: svastikavijñeyā mahāghaṇṭādharā varā: . śobhamānā: patākābhiryuktavātā: susaṃhatā: .. 2.89.11 ..
तत: स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् । सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् । तामारुरोह भरत: शत्रुघ्नश्च महाबल: ॥ २.८९.१२ ॥
tata: svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām . sanandighoṣāṃ kalyāṇīṃ guho nāvamupāharat . tāmāruroha bharata: śatrughnaśca mahābala: .. 2.89.12 ..
कौसल्या च सुमित्रा च याश्चान्या राजयोषित: । पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये । अनन्तरं राजदारास्तथैव शकटापणा: ॥ २.८९.१३ ॥
kausalyā ca sumitrā ca yāścānyā rājayoṣita: . purohitaśca tatpūrvaṃ guravo brāhmaṇāśca ye . anantaraṃ rājadārāstathaiva śakaṭāpaṇā: .. 2.89.13 ..
आवासमादीपयतां तीर्थं चाप्यवगाहताम् । भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ॥ २.८९.१४ ॥
āvāsamādīpayatāṃ tīrthaṃ cāpyavagāhatām . bhāṇḍāni cādadānānāṃ ghoṣastridivamaspṛśat .. 2.89.14 ..
पताकिन्यस्तु ता नाव: स्वयं दाशैरधिष्ठिता: । वहन्त्यो जनमारूढं तदा सम्पेतुराशुगा: ॥ २.८९.१५ ॥
patākinyastu tā nāva: svayaṃ dāśairadhiṣṭhitā: . vahantyo janamārūḍhaṃ tadā sampeturāśugā: .. 2.89.15 ..
नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् । काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ॥ २.८९.१६ ॥
nārīṇāmabhipūrṇāstu kāścit kāścicca vājinām . kāścidatra vahanti sma yānayugyaṃ mahādhanam .. 2.89.16 ..
ता: स्म गत्वा परं तीरमवरोप्य च तं जनम् । निवृत्ता: काण्डचित्राणि क्रियन्ते दाशबन्धुभि: ॥ २.८९.१७ ॥
tā: sma gatvā paraṃ tīramavaropya ca taṃ janam . nivṛttā: kāṇḍacitrāṇi kriyante dāśabandhubhi: .. 2.89.17 ..
सवैजयन्तास्तु गजा गजारोहप्रचोदिता: । तरन्त: स्म प्रकाशन्ते सध्वजा इव पर्वता: ॥ २.८९.१८ ॥
savaijayantāstu gajā gajārohapracoditā: . taranta: sma prakāśante sadhvajā iva parvatā: .. 2.89.18 ..
नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे । अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभि: ॥ २.८९.१९ ॥
nāvaścāruruhuścānye plavaisterustathāpare . anye kumbhaghaṭaisteruranye teruśca bāhubhi: .. 2.89.19 ..
सा पुण्या ध्वजिनी गङ्गा दाशै: सन्तारिता स्वयम् । मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम् ॥ २.८९.२० ॥
sā puṇyā dhvajinī gaṅgā dāśai: santāritā svayam . maitre muhūrtte prayayau prayāgavanamuttamam .. 2.89.20 ..
आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् । द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृत: सन् भरत: प्रतस्थे ॥ २.८९.२१ ॥
āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopajoṣam . draṣṭuṃ bharadvājamṛṣipravaryyamṛtvigvṛta: san bharata: pratasthe .. 2.89.21 ..
स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य । ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम् ॥ २.८९.२२ ॥
sa brāhmaṇasyāśramamabhyupetya mahātmano devapurohitasya . dadarśa ramyoṭajavṛkṣaṣaṇḍaṃ mahadvanaṃ vipravarasya ramyam .. 2.89.22 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोननवतितम: सर्ग: ॥ ८९ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe ekonanavatitama: sarga: .. 89 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In