This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवमः सर्गः ॥२-९॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे नवमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe navamaḥ sargaḥ ..2..
एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना।दीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत्॥ १॥
एवम् उक्ता तु कैकेयी क्रोधेन ज्वलित-आनना।दीर्घम् उष्णम् विनिःश्वस्य मन्थराम् इदम् अब्रवीत्॥ १॥
evam uktā tu kaikeyī krodhena jvalita-ānanā.dīrgham uṣṇam viniḥśvasya mantharām idam abravīt.. 1..
अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम्।यौवराज्येन भरतं क्षिप्रमद्याभिषेचये॥ २॥
अद्य रामम् इतस् क्षिप्रम् वनम् प्रस्थापयामि अहम्।यौवराज्येन भरतम् क्षिप्रम् अद्य अभिषेचये॥ २॥
adya rāmam itas kṣipram vanam prasthāpayāmi aham.yauvarājyena bharatam kṣipram adya abhiṣecaye.. 2..
इदं त्विदानीं सम्पश्य केनोपायेन साधये।भरतः प्राप्नुयाद् राज्यं न तु रामः कथंचन॥ ३॥
इदम् तु इदानीम् सम्पश्य केन उपायेन साधये।भरतः प्राप्नुयात् राज्यम् न तु रामः कथंचन॥ ३॥
idam tu idānīm sampaśya kena upāyena sādhaye.bharataḥ prāpnuyāt rājyam na tu rāmaḥ kathaṃcana.. 3..
एवमुक्ता तु सा देव्या मन्थरा पापदर्शिनी।रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्॥ ४॥
एवम् उक्ता तु सा देव्या मन्थरा पाप-दर्शिनी।राम-अर्थम् उपहिंसन्ती कैकेयीम् इदम् अब्रवीत्॥ ४॥
evam uktā tu sā devyā mantharā pāpa-darśinī.rāma-artham upahiṃsantī kaikeyīm idam abravīt.. 4..
हन्तेदानीं प्रपश्य त्वं कैकेयि श्रूयतां वचः।यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम्॥ ५॥
हन्त इदानीम् प्रपश्य त्वम् कैकेयि श्रूयताम् वचः।यथा ते भरतः राज्यम् पुत्रः प्राप्स्यति केवलम्॥ ५॥
hanta idānīm prapaśya tvam kaikeyi śrūyatām vacaḥ.yathā te bharataḥ rājyam putraḥ prāpsyati kevalam.. 5..
किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे।यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि॥ ६॥
किम् न स्मरसि कैकेयि स्मरन्ती वा निगूहसे।यत् उच्यमानम् आत्म-अर्थम् मत्तः त्वम् श्रोतुम् इच्छसि॥ ६॥
kim na smarasi kaikeyi smarantī vā nigūhase.yat ucyamānam ātma-artham mattaḥ tvam śrotum icchasi.. 6..
मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि।श्रूयतामभिधास्यामि श्रुत्वा चैतद् विधीयताम्॥ ७॥
मया उच्यमानम् यदि ते श्रोतुम् छन्दः विलासिनि।श्रूयताम् अभिधास्यामि श्रुत्वा च एतत् विधीयताम्॥ ७॥
mayā ucyamānam yadi te śrotum chandaḥ vilāsini.śrūyatām abhidhāsyāmi śrutvā ca etat vidhīyatām.. 7..
श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी।किंचिदुत्थाय शयनात् स्वास्तीर्णादिदमब्रवीत्॥ ८॥
श्रुत्वा एवम् वचनम् तस्याः मन्थरायाः तु कैकयी।किंचिद् उत्थाय शयनात् सु आस्तीर्णात् इदम् अब्रवीत्॥ ८॥
śrutvā evam vacanam tasyāḥ mantharāyāḥ tu kaikayī.kiṃcid utthāya śayanāt su āstīrṇāt idam abravīt.. 8..
कथयस्व ममोपायं केनोपायेन मन्थरे।भरतः प्राप्नुयाद् राज्यं न तु रामः कथंचन॥ ९॥
कथयस्व मम उपायम् केन उपायेन मन्थरे।भरतः प्राप्नुयात् राज्यम् न तु रामः कथंचन॥ ९॥
kathayasva mama upāyam kena upāyena manthare.bharataḥ prāpnuyāt rājyam na tu rāmaḥ kathaṃcana.. 9..
एवमुक्ता तदा देव्या मन्थरा पापदर्शिनी।रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्॥ १०॥
एवम् उक्ता तदा देव्या मन्थरा पाप-दर्शिनी।राम-अर्थम् उपहिंसन्ती कैकेयीम् इदम् अब्रवीत्॥ १०॥
evam uktā tadā devyā mantharā pāpa-darśinī.rāma-artham upahiṃsantī kaikeyīm idam abravīt.. 10..
पुरा देवासुरे युद्धे सह राजर्षिभिः पतिः।अगच्छत् त्वामुपादाय देवराजस्य साह्यकृत्॥ ११॥
पुरा देवासुरे युद्धे सह राजर्षिभिः पतिः।अगच्छत् त्वाम् उपादाय देवराजस्य साह्य-कृत्॥ ११॥
purā devāsure yuddhe saha rājarṣibhiḥ patiḥ.agacchat tvām upādāya devarājasya sāhya-kṛt.. 11..
दिशमास्थाय कैकेयि दक्षिणां दण्डकान् प्रति।वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः॥ १२॥
दिशम् आस्थाय कैकेयि दक्षिणाम् दण्डकान् प्रति।वैजयन्तम् इति ख्यातम् पुरम् यत्र तिमिध्वजः॥ १२॥
diśam āsthāya kaikeyi dakṣiṇām daṇḍakān prati.vaijayantam iti khyātam puram yatra timidhvajaḥ.. 12..
स शम्बर इति ख्यातः शतमायो महासुरः।ददौ शक्रस्य संग्रामं देवसङ्घैरनिर्जितः॥ १३॥
स शम्बरः इति ख्यातः शत-मायः महा-असुरः।ददौ शक्रस्य संग्रामम् देव-सङ्घैः अनिर्जितः॥ १३॥
sa śambaraḥ iti khyātaḥ śata-māyaḥ mahā-asuraḥ.dadau śakrasya saṃgrāmam deva-saṅghaiḥ anirjitaḥ.. 13..
तस्मिन् महति संग्रामे पुरुषान् क्षतविक्षतान्।रात्रौ प्रसुप्तान् घ्नन्ति स्म तरसापास्य राक्षसाः॥ १४॥
तस्मिन् महति संग्रामे पुरुषान् क्षत-विक्षतान्।रात्रौ प्रसुप्तान् घ्नन्ति स्म तरसा अपास्य राक्षसाः॥ १४॥
tasmin mahati saṃgrāme puruṣān kṣata-vikṣatān.rātrau prasuptān ghnanti sma tarasā apāsya rākṣasāḥ.. 14..
तत्राकरोन्महायुद्धं राजा दशरथस्तदा।असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः॥ १५॥
तत्र अकरोत् महा-युद्धम् राजा दशरथः तदा।असुरैः च महा-बाहुः शस्त्रैः च शकलीकृतः॥ १५॥
tatra akarot mahā-yuddham rājā daśarathaḥ tadā.asuraiḥ ca mahā-bāhuḥ śastraiḥ ca śakalīkṛtaḥ.. 15..
अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः।तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया॥ १६॥
अपवाह्य त्वया देवि संग्रामात् नष्ट-चेतनः।तत्र अपि विक्षतः शस्त्रैः पतिः ते रक्षितः त्वया॥ १६॥
apavāhya tvayā devi saṃgrāmāt naṣṭa-cetanaḥ.tatra api vikṣataḥ śastraiḥ patiḥ te rakṣitaḥ tvayā.. 16..
तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने।स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरम्॥ १७॥
तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभ-दर्शने।स त्वया उक्तः पतिः देवि यदा इच्छेयम् तदा वरम्॥ १७॥
tuṣṭena tena dattau te dvau varau śubha-darśane.sa tvayā uktaḥ patiḥ devi yadā iccheyam tadā varam.. 17..
गृह्णीयां तु तदा भर्तस्तथेत्युक्तं महात्मना।अनभिज्ञा ह्यहं देवि त्वयैव कथितं पुरा॥ १८॥
गृह्णीयाम् तु तदा भर्तर् तथा इति उक्तम् महात्मना।अनभिज्ञा हि अहम् देवि त्वया एव कथितम् पुरा॥ १८॥
gṛhṇīyām tu tadā bhartar tathā iti uktam mahātmanā.anabhijñā hi aham devi tvayā eva kathitam purā.. 18..
कथैषा तव तु स्नेहान्मनसा धार्यते मया।रामाभिषेकसम्भारान्निगृह्य विनिवर्तय॥ १९॥
कथा एषा तव तु स्नेहात् मनसा धार्यते मया।राम-अभिषेक-सम्भारान् निगृह्य विनिवर्तय॥ १९॥
kathā eṣā tava tu snehāt manasā dhāryate mayā.rāma-abhiṣeka-sambhārān nigṛhya vinivartaya.. 19..
तौ च याचस्व भर्तारं भरतस्याभिषेचनम्।प्रव्राजनं च रामस्य वर्षाणि च चतुर्दश॥ २०॥
तौ च याचस्व भर्तारम् भरतस्य अभिषेचनम्।प्रव्राजनम् च रामस्य वर्षाणि च चतुर्दश॥ २०॥
tau ca yācasva bhartāram bharatasya abhiṣecanam.pravrājanam ca rāmasya varṣāṇi ca caturdaśa.. 20..
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्।प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति॥ २१॥
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्।प्रजा-भाव-गत-स्नेहः स्थिरः पुत्रः भविष्यति॥ २१॥
caturdaśa hi varṣāṇi rāme pravrājite vanam.prajā-bhāva-gata-snehaḥ sthiraḥ putraḥ bhaviṣyati.. 21..
क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते।शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी॥ २२॥
क्रोध-आगारम् प्रविश्य अद्य क्रुद्धा इव अश्वपतेः सुते।शेष्व अनन्तर्हितायाम् त्वम् भूमौ मलिन-वासिनी॥ २२॥
krodha-āgāram praviśya adya kruddhā iva aśvapateḥ sute.śeṣva anantarhitāyām tvam bhūmau malina-vāsinī.. 22..
मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः।रुदन्ती पार्थिवं दृष्ट्वा जगत्यां शोकलालसा॥ २३॥
मा स्म एनम् प्रत्युदीक्षेथाः मा च एनम् अभिभाषथाः।रुदन्ती पार्थिवम् दृष्ट्वा जगत्याम् शोक-लालसा॥ २३॥
mā sma enam pratyudīkṣethāḥ mā ca enam abhibhāṣathāḥ.rudantī pārthivam dṛṣṭvā jagatyām śoka-lālasā.. 23..
दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः।त्वत्कृते च महाराजो विशेदपि हुताशनम्॥ २४॥
दयिता त्वम् सदा भर्तुः अत्र मे ना अस्ति संशयः।त्वद्-कृते च महा-राजः विशेत् अपि हुताशनम्॥ २४॥
dayitā tvam sadā bhartuḥ atra me nā asti saṃśayaḥ.tvad-kṛte ca mahā-rājaḥ viśet api hutāśanam.. 24..
न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम्।तव प्रियार्थं राजा तु प्राणानपि परित्यजेत्॥ २५॥
न त्वाम् क्रोधयितुम् शक्तः न क्रुद्धाम् प्रत्युदीक्षितुम्।तव प्रिय-अर्थम् राजा तु प्राणान् अपि परित्यजेत्॥ २५॥
na tvām krodhayitum śaktaḥ na kruddhām pratyudīkṣitum.tava priya-artham rājā tu prāṇān api parityajet.. 25..
न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः।मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः॥ २६॥
न हि अतिक्रमितुम् शक्तः तव वाक्यम् महीपतिः।मन्द-स्वभावे बुध्यस्व सौभाग्य-बलम् आत्मनः॥ २६॥
na hi atikramitum śaktaḥ tava vākyam mahīpatiḥ.manda-svabhāve budhyasva saubhāgya-balam ātmanaḥ.. 26..
मणिमुक्तासुवर्णानि रत्नानि विविधानि च।दद्याद् दशरथो राजा मा स्म तेषु मनः कृथाः॥ २७॥
मणि-मुक्ता-सुवर्णानि रत्नानि विविधानि च।दद्यात् दशरथः राजा मा स्म तेषु मनः कृथाः॥ २७॥
maṇi-muktā-suvarṇāni ratnāni vividhāni ca.dadyāt daśarathaḥ rājā mā sma teṣu manaḥ kṛthāḥ.. 27..
यौ तौ देवासुरे युद्धे वरौ दशरथो ददौ।तौ स्मारय महाभागे सोऽर्थो न त्वा क्रमेदति॥ २८॥
यौ तौ देवासुरे युद्धे वरौ दशरथः ददौ।तौ स्मारय महाभागे सः अर्थः न त्वा क्रमेत् अति॥ २८॥
yau tau devāsure yuddhe varau daśarathaḥ dadau.tau smāraya mahābhāge saḥ arthaḥ na tvā kramet ati.. 28..
यदा तु ते वरं दद्यात् स्वयमुत्थाप्य राघवः।व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्॥ २९॥
यदा तु ते वरम् दद्यात् स्वयम् उत्थाप्य राघवः।व्यवस्थाप्य महा-राजम् त्वम् इमम् वृणुयाः वरम्॥ २९॥
yadā tu te varam dadyāt svayam utthāpya rāghavaḥ.vyavasthāpya mahā-rājam tvam imam vṛṇuyāḥ varam.. 29..
रामप्रव्रजनं दूरं नव वर्षाणि पञ्च च।भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभ॥ ३०॥
राम-प्रव्रजनम् दूरम् नव वर्षाणि पञ्च च।भरतः क्रियताम् राजा पृथिव्याम् पार्थिव-ऋषभ॥ ३०॥
rāma-pravrajanam dūram nava varṣāṇi pañca ca.bharataḥ kriyatām rājā pṛthivyām pārthiva-ṛṣabha.. 30..
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्।रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः॥ ३१॥
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्।रूढः च कृत-मूलः च शेषम् स्थास्यति ते सुतः॥ ३१॥
caturdaśa hi varṣāṇi rāme pravrājite vanam.rūḍhaḥ ca kṛta-mūlaḥ ca śeṣam sthāsyati te sutaḥ.. 31..
रामप्रव्राजनं चैव देवि याचस्व तं वरम्।एवं सेत्स्यन्ति पुत्रस्य सर्वार्थास्तव कामिनि॥ ३२॥
राम-प्रव्राजनम् च एव देवि याचस्व तम् वरम्।एवम् सेत्स्यन्ति पुत्रस्य सर्व-अर्थाः तव कामिनि॥ ३२॥
rāma-pravrājanam ca eva devi yācasva tam varam.evam setsyanti putrasya sarva-arthāḥ tava kāmini.. 32..
एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति।भरतश्च गतामित्रस्तव राजा भविष्यति॥ ३३॥
एवम् प्रव्राजितः च एव रामः अरामः भविष्यति।भरतः च गत-अमित्रः तव राजा भविष्यति॥ ३३॥
evam pravrājitaḥ ca eva rāmaḥ arāmaḥ bhaviṣyati.bharataḥ ca gata-amitraḥ tava rājā bhaviṣyati.. 33..
येन कालेन रामश्च वनात् प्रत्यागमिष्यति।अन्तर्बहिश्च पुत्रस्ते कृतमूलो भविष्यति॥ ३४॥
येन कालेन रामः च वनात् प्रत्यागमिष्यति।अन्तर् बहिस् च पुत्रः ते कृत-मूलः भविष्यति॥ ३४॥
yena kālena rāmaḥ ca vanāt pratyāgamiṣyati.antar bahis ca putraḥ te kṛta-mūlaḥ bhaviṣyati.. 34..
संगृहीतमनुष्यश्च सुहृद्भिः साकमात्मवान्।प्राप्तकालं नु मन्येऽहं राजानं वीतसाध्वसा॥ ३५॥
संगृहीत-मनुष्यः च सुहृद्भिः साकम् आत्मवान्।प्राप्त-कालम् नु मन्ये अहम् राजानम् वीत-साध्वसा॥ ३५॥
saṃgṛhīta-manuṣyaḥ ca suhṛdbhiḥ sākam ātmavān.prāpta-kālam nu manye aham rājānam vīta-sādhvasā.. 35..
रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय।अनर्थमर्थरूपेण ग्राहिता सा ततस्तया॥ ३६॥
राम-अभिषेक-संकल्पान् निगृह्य विनिवर्तय।अनर्थम् अर्थ-रूपेण ग्राहिता सा ततस् तया॥ ३६॥
rāma-abhiṣeka-saṃkalpān nigṛhya vinivartaya.anartham artha-rūpeṇa grāhitā sā tatas tayā.. 36..
हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत्।सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता॥ ३७॥
हृष्टा प्रतीता कैकेयी मन्थराम् इदम् अब्रवीत्।सा हि वाक्येन कुब्जायाः किशोरी इव उत्पथम् गता॥ ३७॥
hṛṣṭā pratītā kaikeyī mantharām idam abravīt.sā hi vākyena kubjāyāḥ kiśorī iva utpatham gatā.. 37..
कैकेयी विस्मयं प्राप्य परं परमदर्शना।प्रज्ञां ते नावजानामि श्रेष्ठे श्रेष्ठाभिधायिनि॥ ३८॥
कैकेयी विस्मयम् प्राप्य परम् परम-दर्शना।प्रज्ञाम् ते न अवजानामि श्रेष्ठे श्रेष्ठ-अभिधायिनि॥ ३८॥
kaikeyī vismayam prāpya param parama-darśanā.prajñām te na avajānāmi śreṣṭhe śreṣṭha-abhidhāyini.. 38..
पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये।त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी॥ ३९॥
पृथिव्याम् असि कुब्जानाम् उत्तमा बुद्धि-निश्चये।त्वम् एव तु मम अर्थेषु नित्य-युक्ता हित-एषिणी॥ ३९॥
pṛthivyām asi kubjānām uttamā buddhi-niścaye.tvam eva tu mama artheṣu nitya-yuktā hita-eṣiṇī.. 39..
नाहं समवबुद्ध्येयं कुब्जे राज्ञश्चिकीर्षितम्।सन्ति दुःसंस्थिताः कुब्जाः वक्राः परमपापिकाः॥ ४०॥
न अहम् समवबुद्ध्येयम् कुब्जे राज्ञः चिकीर्षितम्।सन्ति दुःसंस्थिताः कुब्जाः वक्राः परम-पापिकाः॥ ४०॥
na aham samavabuddhyeyam kubje rājñaḥ cikīrṣitam.santi duḥsaṃsthitāḥ kubjāḥ vakrāḥ parama-pāpikāḥ.. 40..
त्वं पद्ममिव वातेन संनता प्रियदर्शना।उरस्तेऽभिनिविष्टं वै यावत् स्कन्धात् समुन्नतम्॥ ४१॥
त्वम् पद्मम् इव वातेन संनता प्रिय-दर्शना।उरः ते अभिनिविष्टम् वै यावत् स्कन्धात् समुन्नतम्॥ ४१॥
tvam padmam iva vātena saṃnatā priya-darśanā.uraḥ te abhiniviṣṭam vai yāvat skandhāt samunnatam.. 41..
अधस्ताच्चोदरं शान्तं सुनाभमिव लज्जितम्।प्रतिपूर्णं च जघनं सुपीनौ च पयोधरौ॥ ४२॥
अधस्तात् च उदरम् शान्तम् सुनाभम् इव लज्जितम्।प्रतिपूर्णम् च जघनम् सु पीनौ च पयोधरौ॥ ४२॥
adhastāt ca udaram śāntam sunābham iva lajjitam.pratipūrṇam ca jaghanam su pīnau ca payodharau.. 42..
विमलेन्दुसमं वक्त्रमहो राजसि मन्थरे।जघनं तव निर्मृष्टं रशनादामभूषितम्॥ ४३॥
विमल-इन्दु-समम् वक्त्रम् अहो राजसि मन्थरे।जघनम् तव निर्मृष्टम् रशना-दाम-भूषितम्॥ ४३॥
vimala-indu-samam vaktram aho rājasi manthare.jaghanam tava nirmṛṣṭam raśanā-dāma-bhūṣitam.. 43..
जङ्घे भृशमुपन्यस्ते पादौ च व्यायतावुभौ।त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी॥ ४४॥
जङ्घे भृशम् उपन्यस्ते पादौ च व्यायतौ उभौ।त्वम् आयताभ्याम् सक्थिभ्याम् मन्थरे क्षौम-वासिनी॥ ४४॥
jaṅghe bhṛśam upanyaste pādau ca vyāyatau ubhau.tvam āyatābhyām sakthibhyām manthare kṣauma-vāsinī.. 44..
अग्रतो मम गच्छन्ती राजसेऽतीव शोभने।आसन् याः शम्बरे मायाः सहस्रम् असुराधिपे॥ ४५॥
अग्रतस् मम गच्छन्ती राजसे अतीव शोभने।आसन् याः शम्बरे मायाः सहस्रम् असुर-अधिपे॥ ४५॥
agratas mama gacchantī rājase atīva śobhane.āsan yāḥ śambare māyāḥ sahasram asura-adhipe.. 45..
हृदये ते निविष्टास् ता भूयश् चान्याः सहस्रशः।तदेव स्थगुद् दीर्घं रथ-घोणम् इवायतम्॥ ४६॥
हृदये ते निविष्टाः ताः भूयस् च अन्याः सहस्रशस्।तत् एव स्थगुध् दीर्घम् रथ-घोणम् इव आयतम्॥ ४६॥
hṛdaye te niviṣṭāḥ tāḥ bhūyas ca anyāḥ sahasraśas.tat eva sthagudh dīrgham ratha-ghoṇam iva āyatam.. 46..
मतयः क्षत्र-विद्याश् च मायाश्चात्र वसन्ति ते।अत्र तेऽहं प्रमोक्ष्यामि मालां कुब्जे हिरण्मयीम्॥ ४७॥
मतयः क्षत्र-विद्याः च मायाः च अत्र वसन्ति ते।अत्र ते अहम् प्रमोक्ष्यामि मालाम् कुब्जे हिरण्मयीम्॥ ४७॥
matayaḥ kṣatra-vidyāḥ ca māyāḥ ca atra vasanti te.atra te aham pramokṣyāmi mālām kubje hiraṇmayīm.. 47..
अभिषिक्ते च भरते राघवे च वनं गते।जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि॥ ४८॥
अभिषिक्ते च भरते राघवे च वनम् गते।जात्येन च सुवर्णेन सु निष्टप्तेन सुन्दरि॥ ४८॥
abhiṣikte ca bharate rāghave ca vanam gate.jātyena ca suvarṇena su niṣṭaptena sundari.. 48..
लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु।मुखे च तिलकं चित्रं जातरूपमयं शुभम्॥ ४९॥
लब्ध-अर्था च प्रतीता च लेपयिष्यामि ते स्थगु।मुखे च तिलकम् चित्रम् जातरूप-मयम् शुभम्॥ ४९॥
labdha-arthā ca pratītā ca lepayiṣyāmi te sthagu.mukhe ca tilakam citram jātarūpa-mayam śubham.. 49..
कारयिष्यामि ते कुब्जे शुभान्याभरणानि च।परिधाय शुभे वस्त्रे देवतेव चरिष्यसि॥ ५०॥
कारयिष्यामि ते कुब्जे शुभानि आभरणानि च।परिधाय शुभे वस्त्रे देवता इव चरिष्यसि॥ ५०॥
kārayiṣyāmi te kubje śubhāni ābharaṇāni ca.paridhāya śubhe vastre devatā iva cariṣyasi.. 50..
चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना।गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जने॥ ५१॥
चन्द्रम् आह्वयमानेन मुखेन अप्रतिम-आनना।गमिष्यसि गतिम् मुख्याम् द्विषत्-जने॥ ५१॥
candram āhvayamānena mukhena apratima-ānanā.gamiṣyasi gatim mukhyām dviṣat-jane.. 51..
तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः।पादौ परिचरिष्यन्ति यथैव त्वं सदा मम॥ ५२॥
तव अपि कुब्जाः कुब्जायाः सर्व-आभरण-भूषिताः।पादौ परिचरिष्यन्ति यथा एव त्वम् सदा मम॥ ५२॥
tava api kubjāḥ kubjāyāḥ sarva-ābharaṇa-bhūṣitāḥ.pādau paricariṣyanti yathā eva tvam sadā mama.. 52..
इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत्।शयानां शयने शुभ्रे वेद्यामग्निशिखामिव॥ ५३॥
इति प्रशस्यमाना सा कैकेयीम् इदम् अब्रवीत्।शयानाम् शयने शुभ्रे वेद्याम् अग्नि-शिखाम् इव॥ ५३॥
iti praśasyamānā sā kaikeyīm idam abravīt.śayānām śayane śubhre vedyām agni-śikhām iva.. 53..
गतोदके सेतुबन्धो न कल्याणि विधीयते।उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय॥ ५४॥
गत-उदके सेतुबन्धः न कल्याणि विधीयते।उत्तिष्ठ कुरु कल्याणम् राजानम् अनुदर्शय॥ ५४॥
gata-udake setubandhaḥ na kalyāṇi vidhīyate.uttiṣṭha kuru kalyāṇam rājānam anudarśaya.. 54..
तथा प्रोत्साहिता देवी गत्वा मन्थरया सह।क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता॥५५॥
तथा प्रोत्साहिता देवी गत्वा मन्थरया सह।क्रोध-आगारम् विशाल-अक्षी सौभाग्य-मद-गर्विता॥५५॥
tathā protsāhitā devī gatvā mantharayā saha.krodha-āgāram viśāla-akṣī saubhāgya-mada-garvitā..55..
अनेकशतसाहस्रं मुक्ताहारं वराङ्गना।अवमुच्य वरार्हाणि शुभान्याभरणानि च॥५६॥
अनेक-शत-साहस्रम् मुक्ता-हारम् वर-अङ्गना।अवमुच्य वर-अर्हाणि शुभानि आभरणानि च॥५६॥
aneka-śata-sāhasram muktā-hāram vara-aṅganā.avamucya vara-arhāṇi śubhāni ābharaṇāni ca..56..
तदा हेमोपमा तत्र कुब्जावाक्यवशंगता।संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत्॥ ५७॥
तदा हेम-उपमा तत्र कुब्जा-वाक्य-वशंगता।संविश्य भूमौ कैकेयी मन्थराम् इदम् अब्रवीत्॥ ५७॥
tadā hema-upamā tatra kubjā-vākya-vaśaṃgatā.saṃviśya bhūmau kaikeyī mantharām idam abravīt.. 57..
इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि।वनं तु राघवे प्राप्ते भरतः प्राप्स्यते क्षितिम्॥ ५८॥
इह वा माम् मृताम् कुब्जे नृपाय आवेदयिष्यसि।वनम् तु राघवे प्राप्ते भरतः प्राप्स्यते क्षितिम्॥ ५८॥
iha vā mām mṛtām kubje nṛpāya āvedayiṣyasi.vanam tu rāghave prāpte bharataḥ prāpsyate kṣitim.. 58..
सुवर्णेन न मे ह्यर्थोन रत्नैर्न च भोजनैः।एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते॥ ५९॥
सुवर्णेन न मे रत्नैः न च भोजनैः।एष मे जीवितस्य अन्तः रामः यदि अभिषिच्यते॥ ५९॥
suvarṇena na me ratnaiḥ na ca bhojanaiḥ.eṣa me jīvitasya antaḥ rāmaḥ yadi abhiṣicyate.. 59..
ततः पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमैः।उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम्॥ ६०॥
ततस् पुनर् ताम् महिषीम् महीक्षितः वचोभिः अत्यर्थ-महा-पराक्रमैः।उवाच कुब्जा भरतस्य मातरम् हितम् वचः रामम् उपेत्य च अहितम्॥ ६०॥
tatas punar tām mahiṣīm mahīkṣitaḥ vacobhiḥ atyartha-mahā-parākramaiḥ.uvāca kubjā bharatasya mātaram hitam vacaḥ rāmam upetya ca ahitam.. 60..
प्रपत्स्यते राज्यमिदं हि राघवो यदि ध्रुवं त्वं ससुता च तप्स्यसे।ततो हि कल्याणि यतस्व तत् तथा यथा सुतस्ते भरतोऽभिषेक्ष्यते॥ ६१॥
प्रपत्स्यते राज्यम् इदम् हि राघवः यदि ध्रुवम् त्वम् स सुता च तप्स्यसे।ततस् हि कल्याणि यतस्व तत् तथा यथा सुतः ते भरतः अभिषेक्ष्यते॥ ६१॥
prapatsyate rājyam idam hi rāghavaḥ yadi dhruvam tvam sa sutā ca tapsyase.tatas hi kalyāṇi yatasva tat tathā yathā sutaḥ te bharataḥ abhiṣekṣyate.. 61..
तथातिविद्धा महिषीति कुब्जया समाहता वागिषुभिर्मुहुर्मुहुः।विधाय हस्तौ हृदयेऽतिविस्मिताशशंस कुब्जां कुपिता पुनः पुनः॥ ६२॥
तथा अतिविद्धा महिषी इति कुब्जया समाहता वाच्-इषुभिः मुहुर् मुहुर्।विधाय हस्तौ हृदये अति विस्मिता अशशंस कुब्जाम् कुपिता पुनर् पुनर्॥ ६२॥
tathā atividdhā mahiṣī iti kubjayā samāhatā vāc-iṣubhiḥ muhur muhur.vidhāya hastau hṛdaye ati vismitā aśaśaṃsa kubjām kupitā punar punar.. 62..
यमस्य वा मां विषयं गतामितो निशम्य कुब्जे प्रतिवेदयिष्यसि।वनं गते वा सुचिराय राघवे समृद्धकामो भरतो भविष्यति॥ ६३॥
यमस्य वा माम् विषयम् गताम् इतस् निशम्य कुब्जे प्रतिवेदयिष्यसि।वनम् गते वा सुचिराय राघवे समृद्ध-कामः भरतः भविष्यति॥ ६३॥
yamasya vā mām viṣayam gatām itas niśamya kubje prativedayiṣyasi.vanam gate vā sucirāya rāghave samṛddha-kāmaḥ bharataḥ bhaviṣyati.. 63..
अहं हि नैवास्तरणानि न स्रजो न चन्दनं नाञ्जनपानभोजनम्।न किंचिदिच्छामि न चेह जीवनं न चेदितो गच्छति राघवो वनम्॥ ६४॥
अहम् हि न एव आस्तरणानि न स्रजः न चन्दनम् न अञ्जन-पान-भोजनम्।न किंचिद् इच्छामि न च इह जीवनम् न चेद् इतस् गच्छति राघवः वनम्॥ ६४॥
aham hi na eva āstaraṇāni na srajaḥ na candanam na añjana-pāna-bhojanam.na kiṃcid icchāmi na ca iha jīvanam na ced itas gacchati rāghavaḥ vanam.. 64..
अथैवमुक्त्वा वचनं सुदारुणंनिधाय सर्वाभरणानि भामिनी।असंस्कृतामास्तरणेन मेदिनींतदाधिशिश्ये पतितेव किंनरी॥ ६५॥
अथा एवम् उक्त्वा वचनम् सु दारुणम् निधाय सर्व-आभरणानि भामिनी।अ संस्कृताम् आस्तरणेन मेदिनीम् तदा अधिशिश्ये पतिता इव किंनरी॥ ६५॥
athā evam uktvā vacanam su dāruṇam nidhāya sarva-ābharaṇāni bhāminī.a saṃskṛtām āstaraṇena medinīm tadā adhiśiśye patitā iva kiṃnarī.. 65..
उदीर्णसंरम्भतमोवृतानना तदावमुक्तोत्तममाल्यभूषणा।नरेन्द्रपत्नी विमना बभूव सा तमोवृता द्यौरिव मग्नतारका॥ ६६॥
उदीर्ण-संरम्भ-तमः-वृत-आनना तदा अवमुक्त-उत्तम-माल्य-भूषणा।नरेन्द्र-पत्नी विमनाः बभूव सा तमः-वृता द्यौः इव मग्न-तारका॥ ६६॥
udīrṇa-saṃrambha-tamaḥ-vṛta-ānanā tadā avamukta-uttama-mālya-bhūṣaṇā.narendra-patnī vimanāḥ babhūva sā tamaḥ-vṛtā dyauḥ iva magna-tārakā.. 66..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे नवमः सर्गः ॥२-९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे नवमः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe navamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In