This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥२-८८॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे अष्टाशीतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe aṣṭāśītitamaḥ sargaḥ ..2..
भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभ: । बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभि: ॥ २.९०.१ ॥
भरद्वाज-आश्रमम् दृष्ट्वा क्रोशात् एव नर-ऋषभ । बलम् सर्वम् अवस्थाप्य जगाम सह मन्त्रिभिः ॥ २।९०।१ ॥
bharadvāja-āśramam dṛṣṭvā krośāt eva nara-ṛṣabha . balam sarvam avasthāpya jagāma saha mantribhiḥ .. 2.90.1 ..
पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छद: । वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ॥ २.९०.२ ॥
पद्भ्याम् एव हि धर्म-ज्ञः न्यस्त-शस्त्र-परिच्छदः । वसानः वाससी क्षौमे पुरोधाय पुरोधसम् ॥ २।९०।२ ॥
padbhyām eva hi dharma-jñaḥ nyasta-śastra-paricchadaḥ . vasānaḥ vāsasī kṣaume purodhāya purodhasam .. 2.90.2 ..
तत: सन्दर्शने तस्य भरद्वाजस्य राघव: । मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥ २.९०.३ ॥
ततस् सन्दर्शने तस्य भरद्वाजस्य राघवः । मन्त्रिणः तान् अवस्थाप्य जगाम अनु पुरोहितम् ॥ २।९०।३ ॥
tatas sandarśane tasya bharadvājasya rāghavaḥ . mantriṇaḥ tān avasthāpya jagāma anu purohitam .. 2.90.3 ..
वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपा: । सञ्चचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् ॥ २.९०.४ ॥
वसिष्ठम् अथ दृष्ट्वा एव भरद्वाजः महा-तपाः । सञ्चचाल आसनात् तूर्णम् शिष्य-अनर्घ्यम् इति ब्रुवन् ॥ २।९०।४ ॥
vasiṣṭham atha dṛṣṭvā eva bharadvājaḥ mahā-tapāḥ . sañcacāla āsanāt tūrṇam śiṣya-anarghyam iti bruvan .. 2.90.4 ..
वसिष्ठसाहचर्य्यादिति भाव: ॥ २.९०.५ ॥
वसिष्ठ-साहचर्य्यात् इति भावः ॥ २।९०।५ ॥
vasiṣṭha-sāhacaryyāt iti bhāvaḥ .. 2.90.5 ..
ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात् फलानि च । आनुपूर्व्याच्च धर्मज्ञ: पप्रच्छ कुशलं कुले ॥ २.९०.६ ॥
ताभ्याम् अर्घ्यम् च पाद्यम् च दत्त्वा पश्चात् फलानि च । आनुपूर्व्यात् च धर्म-ज्ञः पप्रच्छ कुशलम् कुले ॥ २।९०।६ ॥
tābhyām arghyam ca pādyam ca dattvā paścāt phalāni ca . ānupūrvyāt ca dharma-jñaḥ papraccha kuśalam kule .. 2.90.6 ..
अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु । जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥ २.९०.७ ॥
अयोध्यायाम् बले कोशे मित्रेषु अपि च मन्त्रिषु । जानन् दशरथम् वृत्तम् न राजानम् उदाहरत् ॥ २।९०।७ ॥
ayodhyāyām bale kośe mitreṣu api ca mantriṣu . jānan daśaratham vṛttam na rājānam udāharat .. 2.90.7 ..
वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् । शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥ २.९०.८ ॥
वसिष्ठः भरतः च एनम् पप्रच्छतुः अनामयम् । शरीरे अग्निषु वृक्षेषु शिष्येषु मृग-पक्षिषु ॥ २।९०।८ ॥
vasiṣṭhaḥ bharataḥ ca enam papracchatuḥ anāmayam . śarīre agniṣu vṛkṣeṣu śiṣyeṣu mṛga-pakṣiṣu .. 2.90.8 ..
तथेति तत्प्रतिज्ञाय भरद्वाजो महातपा: । भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥ २.९०.९ ॥
तथा इति तत् प्रतिज्ञाय भरद्वाजः महा-तपाः । भरतम् प्रत्युवाच इदम् राघव-स्नेह-बन्धनात् ॥ २।९०।९ ॥
tathā iti tat pratijñāya bharadvājaḥ mahā-tapāḥ . bharatam pratyuvāca idam rāghava-sneha-bandhanāt .. 2.90.9 ..
किमिहागमने कार्य्यं तव राज्यं प्रशासत: । एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मन: ॥ २.९०.१० ॥
किम् इह आगमने कार्य्यम् तव राज्यम् प्रशासतः । एतत् आचक्ष्व मे सर्वम् नहि मे शुद्ध्यते मनः ॥ २।९०।१० ॥
kim iha āgamane kāryyam tava rājyam praśāsataḥ . etat ācakṣva me sarvam nahi me śuddhyate manaḥ .. 2.90.10 ..
सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम् । भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ॥ २.९०.११ ॥
सुषुवे यम् अमित्र-घ्नम् कौसल्या नन्द-वर्द्धनम् । भ्रात्रा सह स भार्यः यः चिरम् प्रव्राजितः वनम् ॥ २।९०।११ ॥
suṣuve yam amitra-ghnam kausalyā nanda-varddhanam . bhrātrā saha sa bhāryaḥ yaḥ ciram pravrājitaḥ vanam .. 2.90.11 ..
नियुक्त: स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशा: । वनवासी भवेतीह समा: किल चतुर्दश ॥ २.९०.१२ ॥
नियुक्तः स्त्री-नियुक्तेन पित्रा यः असौ महा-यशाः । वन-वासी भव इति इह समाः किल चतुर्दश ॥ २।९०।१२ ॥
niyuktaḥ strī-niyuktena pitrā yaḥ asau mahā-yaśāḥ . vana-vāsī bhava iti iha samāḥ kila caturdaśa .. 2.90.12 ..
कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि । अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ॥ २.९०.१३ ॥
कच्चित् न तस्य अपापस्य पापम् कर्तुम् इह इच्छसि । अकण्टकम् भोक्तु-मनाः राज्यम् तस्य अनुजस्य च ॥ २।९०।१३ ॥
kaccit na tasya apāpasya pāpam kartum iha icchasi . akaṇṭakam bhoktu-manāḥ rājyam tasya anujasya ca .. 2.90.13 ..
एवमुक्तो भरद्वाजं भरत: प्रत्युवाच ह । पर्य्यश्रुनयनो दु:खाद्वाचा संसज्जमानया ॥ २.९०.१४ ॥
एवम् उक्तः भरद्वाजम् भरत प्रत्युवाच ह । पर्यश्रु-नयनः दुःखात् वाचा संसज्जमानया ॥ २।९०।१४ ॥
evam uktaḥ bharadvājam bharata pratyuvāca ha . paryaśru-nayanaḥ duḥkhāt vācā saṃsajjamānayā .. 2.90.14 ..
हतो ऽस्मि यदि मामेवं भगवानपि मन्यते । मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ॥ २.९०.१५ ॥
हतः अस्मि यदि माम् एवम् भगवान् अपि मन्यते । मत्तः न दोषम् आशङ्के न एवम् माम् अनुशाधि हि ॥ २।९०।१५ ॥
hataḥ asmi yadi mām evam bhagavān api manyate . mattaḥ na doṣam āśaṅke na evam mām anuśādhi hi .. 2.90.15 ..
न चैतदिष्टं माता मे यदवोचन्मदन्तरे । नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥ २.९०.१६ ॥
न च एतत् इष्टम् माता मे यत् अवोचत् मद्-अन्तरे । न अहम् एतेन तुष्टः च न तत् वचनम् आददे ॥ २।९०।१६ ॥
na ca etat iṣṭam mātā me yat avocat mad-antare . na aham etena tuṣṭaḥ ca na tat vacanam ādade .. 2.90.16 ..
अहं तु तं नरव्याघ्रमुपयात: प्रसादक: । प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥ २.९०.१७ ॥
अहम् तु तम् नर-व्याघ्रम् उपयातः प्रसादकः । प्रतिनेतुम् अयोध्याम् च पादौ तस्य अभिवन्दितुम् ॥ २।९०।१७ ॥
aham tu tam nara-vyāghram upayātaḥ prasādakaḥ . pratinetum ayodhyām ca pādau tasya abhivanditum .. 2.90.17 ..
त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि । शंस मे भगवन् राम: क्व सम्प्रति महीपति: ॥ २.९०.१८ ॥
त्वम् माम् एवङ्गतम् मत्वा प्रसादम् कर्तुम् अर्हसि । शंस मे भगवन् राम क्व सम्प्रति महीपतिः ॥ २।९०।१८ ॥
tvam mām evaṅgatam matvā prasādam kartum arhasi . śaṃsa me bhagavan rāma kva samprati mahīpatiḥ .. 2.90.18 ..
वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्तत: । उवाच तं भरद्वाज: प्रसादाद्भरतं वच: ॥ २.९०.१९ ॥
वसिष्ठ-आदिभिः ऋत्विग्भिः याचितः भगवान् ततस् । उवाच तम् भरद्वाजः प्रसादात् भरतम् वचः ॥ २।९०।१९ ॥
vasiṣṭha-ādibhiḥ ṛtvigbhiḥ yācitaḥ bhagavān tatas . uvāca tam bharadvājaḥ prasādāt bharatam vacaḥ .. 2.90.19 ..
त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे । गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥ २.९०.२० ॥
त्वयि एतत् पुरुष-व्याघ्र युक्तम् राघव-वंश-जे । गुरु-वृत्तिः दमः च एव साधूनाम् च अनुयायि-ता ॥ २।९०।२० ॥
tvayi etat puruṣa-vyāghra yuktam rāghava-vaṃśa-je . guru-vṛttiḥ damaḥ ca eva sādhūnām ca anuyāyi-tā .. 2.90.20 ..
जाने चैतन्मन:स्थं ते दृढीकरणमस्त्विति । अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन् ॥ २.९०.२१ ॥
जाने च एतत् मनः-स्थम् ते दृढीकरणम् अस्तु इति । अपृच्छम् त्वाम् तथा अत्यर्थम् कीर्त्तिम् समभिवर्द्धयन् ॥ २।९०।२१ ॥
jāne ca etat manaḥ-stham te dṛḍhīkaraṇam astu iti . apṛccham tvām tathā atyartham kīrttim samabhivarddhayan .. 2.90.21 ..
जाने च रामं धर्म्मज्ञं ससीतं सहलक्ष्मणम् । असौ वसति ते भ्राता चित्रकूटे महागिरौ ॥ २.९०.२२ ॥
जाने च रामम् धर्म्म-ज्ञम् स सीतम् सह लक्ष्मणम् । असौ वसति ते भ्राता चित्रकूटे महा-गिरौ ॥ २।९०।२२ ॥
jāne ca rāmam dharmma-jñam sa sītam saha lakṣmaṇam . asau vasati te bhrātā citrakūṭe mahā-girau .. 2.90.22 ..
श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभि: । एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥ २.९०.२३ ॥
श्वस् तु गन्तासि तम् देशम् वस अद्य सह मन्त्रिभिः । एतम् मे कुरु सु प्राज्ञ कामम् काम-अर्थ-कोविद ॥ २।९०।२३ ॥
śvas tu gantāsi tam deśam vasa adya saha mantribhiḥ . etam me kuru su prājña kāmam kāma-artha-kovida .. 2.90.23 ..
ततस्तथेत्येवमुदारदर्शन: प्रतीतरूपो भरतो ऽब्रवीद्वच: । चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपात्मज: ॥ २.९०.२४ ॥
ततस् तथा इति एवम् उदार-दर्शनः प्रतीत-रूपः भरतः अब्रवीत् वचः । चकार बुद्धिम् च तदा तद्-आश्रमे निशा-निवासाय नर-अधिप-आत्मजः ॥ २।९०।२४ ॥
tatas tathā iti evam udāra-darśanaḥ pratīta-rūpaḥ bharataḥ abravīt vacaḥ . cakāra buddhim ca tadā tad-āśrame niśā-nivāsāya nara-adhipa-ātmajaḥ .. 2.90.24 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवतितम: सर्ग: ॥ ९० ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे नवतितमः सर्गः ॥ ९० ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe navatitamaḥ sargaḥ .. 90 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In