This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकनवतितम: सर्गः ॥२-९१॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकनवतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekanavatitamaḥ sargaḥ ..2..
कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा । भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥ २.९१.१ ॥
कृत-बुद्धिम् निवासाय तत्र एव स मुनिः तदा । भरतम् कैकयी-पुत्रम् आतिथ्येन न्यमन्त्रयत् ॥ २।९१।१ ॥
kṛta-buddhim nivāsāya tatra eva sa muniḥ tadā . bharatam kaikayī-putram ātithyena nyamantrayat .. 2.91.1 ..
अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् । पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ॥ २.९१.२ ॥
अब्रवीत् भरतः तु एनम् ननु इदम् भवता कृतम् । पाद्यम् अर्घ्यम् तथा आतिथ्यम् वने यत् उपपद्यते ॥ २।९१।२ ॥
abravīt bharataḥ tu enam nanu idam bhavatā kṛtam . pādyam arghyam tathā ātithyam vane yat upapadyate .. 2.91.2 ..
अथोवाच भरद्वाजो भरतं प्रहसन्निव । जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥ २.९१.३ ॥
अथ उवाच भरद्वाजः भरतम् प्रहसन् इव । जाने त्वाम् प्रीति-संयुक्तम् तुष्येः त्वम् येन केनचिद् ॥ २।९१।३ ॥
atha uvāca bharadvājaḥ bharatam prahasan iva . jāne tvām prīti-saṃyuktam tuṣyeḥ tvam yena kenacid .. 2.91.3 ..
सेनायास्तु तवैतस्या: कर्तुमिच्छामि भोजनम् । मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ॥ २.९१.४ ॥
सेनायाः तु तव एतस्याः कर्तुम् इच्छामि भोजनम् । मम प्रीतिः यथारूपा त्वम् अर्हः मनुज-अधिप ॥ २।९१।४ ॥
senāyāḥ tu tava etasyāḥ kartum icchāmi bhojanam . mama prītiḥ yathārūpā tvam arhaḥ manuja-adhipa .. 2.91.4 ..
किमर्थं चापि निक्षिप्य दूरे बलमिहागत: । कस्मान्नेहोपयातोसि सबल: पुरुषर्षभ ॥ २.९१.५ ॥
किमर्थम् च अपि निक्षिप्य दूरे बलम् इह आगत । कस्मात् न इह उपयातः सबलः पुरुष-ऋषभ ॥ २।९१।५ ॥
kimartham ca api nikṣipya dūre balam iha āgata . kasmāt na iha upayātaḥ sabalaḥ puruṣa-ṛṣabha .. 2.91.5 ..
भरत: प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् । ससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात् ॥ २.९१.६ ॥
भरतः प्रत्युवाच इदम् प्राञ्जलिः तम् तपोधनम् । स सैन्यः न उपयातः अस्मि भगवन् भगवत्-भयात् ॥ २।९१।६ ॥
bharataḥ pratyuvāca idam prāñjaliḥ tam tapodhanam . sa sainyaḥ na upayātaḥ asmi bhagavan bhagavat-bhayāt .. 2.91.6 ..
राज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा । यत्नत: परिहर्त्तव्या विषयेषु तपस्विन: ॥ २.९१.७ ॥
राज्ञा च भगवत् नित्यम् राज-पुत्रेण वा सदा । यत्नतः परिहर्त्तव्याः विषयेषु तपस्विनः ॥ २।९१।७ ॥
rājñā ca bhagavat nityam rāja-putreṇa vā sadā . yatnataḥ pariharttavyāḥ viṣayeṣu tapasvinaḥ .. 2.91.7 ..
वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणा: । प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ॥ २.९१.८ ॥
वाजि-मुख्याः मनुष्याः च मत्ताः च वर-वारणाः । प्रच्छाद्य भगवन् भूमिम् महतीम् अनुयान्ति माम् ॥ २।९१।८ ॥
vāji-mukhyāḥ manuṣyāḥ ca mattāḥ ca vara-vāraṇāḥ . pracchādya bhagavan bhūmim mahatīm anuyānti mām .. 2.91.8 ..
ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा । न हिंस्युरिति तेनाहमेक एव समागत: ॥ २.९१.९ ॥
ते वृक्षान् उदकम् भूमिम् आश्रमेषु उटजान् तथा । न हिंस्युः इति तेन अहम् एकः एव समागतः ॥ २।९१।९ ॥
te vṛkṣān udakam bhūmim āśrameṣu uṭajān tathā . na hiṃsyuḥ iti tena aham ekaḥ eva samāgataḥ .. 2.91.9 ..
आनीयतामित: सेनेत्याज्ञप्त: परमर्षिणा । ततस्तु चक्रे भरत: सेनाया: समुपागमम् ॥ २.९१.१० ॥
आनीयताम् इतस् सेना इति आज्ञप्तः परम-ऋषिणा । ततस् तु चक्रे भरतः सेनायाः समुपागमम् ॥ २।९१।१० ॥
ānīyatām itas senā iti ājñaptaḥ parama-ṛṣiṇā . tatas tu cakre bharataḥ senāyāḥ samupāgamam .. 2.91.10 ..
अग्निशालां प्रविश्याथ पीत्वाप: परिमृज्य च । आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥ २.९१.११ ॥
अग्निशालाम् प्रविश्य अथ पीत्वा अपः परिमृज्य च । आतिथ्यस्य क्रिया-हेतोः विश्वकर्माणम् आह्वयत् ॥ २।९१।११ ॥
agniśālām praviśya atha pītvā apaḥ parimṛjya ca . ātithyasya kriyā-hetoḥ viśvakarmāṇam āhvayat .. 2.91.11 ..
आह्वये विश्वकर्माणमहं त्वष्टारमेव च । आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ २.९१.१२ ॥
आह्वये विश्वकर्माणम् अहम् त्वष्टारम् एव च । आतिथ्यम् कर्तुम् इच्छामि तत्र मे संविधीयताम् ॥ २।९१।१२ ॥
āhvaye viśvakarmāṇam aham tvaṣṭāram eva ca . ātithyam kartum icchāmi tatra me saṃvidhīyatām .. 2.91.12 ..
आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा । आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ २.९१.१३ ॥
आह्वये लोकपालान् त्रीन् देवान् शक्र-मुखान् तथा । आतिथ्यम् कर्तुम् इच्छामि तत्र मे संविधीयताम् ॥ २।९१।१३ ॥
āhvaye lokapālān trīn devān śakra-mukhān tathā . ātithyam kartum icchāmi tatra me saṃvidhīyatām .. 2.91.13 ..
प्राक्स्रोतसश्च या नद्य: प्रत्यक्स्रोतस एव च । पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वश: ॥ २.९१.१४ ॥
प्राच्-स्रोतसः च याः नद्यः प्रत्यक्-स्रोतसः एव च । पृथिव्याम् अन्तरिक्षे च समायान्तु अद्य सर्वशस् ॥ २।९१।१४ ॥
prāc-srotasaḥ ca yāḥ nadyaḥ pratyak-srotasaḥ eva ca . pṛthivyām antarikṣe ca samāyāntu adya sarvaśas .. 2.91.14 ..
अन्या: स्रवन्तु मैरेयं सुरामन्या: सुनिष्ठिताम् । अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ २.९१.१५ ॥
अन्याः स्रवन्तु मैरेयम् सुराम् अन्याः सु निष्ठिताम् । अपराः च उदकम् शीतम् इक्षु-काण्ड-रस-उपमम् ॥ २।९१।१५ ॥
anyāḥ sravantu maireyam surām anyāḥ su niṣṭhitām . aparāḥ ca udakam śītam ikṣu-kāṇḍa-rasa-upamam .. 2.91.15 ..
आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् । तथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वश: ॥ २.९१.१६ ॥
आह्वये देव-गन्धर्वान् विश्वावसु-हहा-हुहून् । तथा एव अप्सरसः देवीः गन्धर्व्वीः च अपि सर्वशस् ॥ २।९१।१६ ॥
āhvaye deva-gandharvān viśvāvasu-hahā-huhūn . tathā eva apsarasaḥ devīḥ gandharvvīḥ ca api sarvaśas .. 2.91.16 ..
घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् । नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥ २.९१.१७ ॥
घृताचीम् अथ विश्वाचीम् मिश्रकेशीम् अलम्बुसाम् । नागदन्ताम् च हेमाम् च हिमाम् अद्रिकृतस्थलाम् ॥ २।९१।१७ ॥
ghṛtācīm atha viśvācīm miśrakeśīm alambusām . nāgadantām ca hemām ca himām adrikṛtasthalām .. 2.91.17 ..
शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषित: । सर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदा: ॥ २.९१.१८ ॥
शक्रम् याः च उपतिष्ठन्ति ब्रह्माणम् याः च योषितः । सर्वाः तुम्बुरुणा सार्द्धम् आह्वये स परिच्छदाः ॥ २।९१।१८ ॥
śakram yāḥ ca upatiṣṭhanti brahmāṇam yāḥ ca yoṣitaḥ . sarvāḥ tumburuṇā sārddham āhvaye sa paricchadāḥ .. 2.91.18 ..
वनं कुरुषु यद्दिव्यं वासोभूषणपत्ऺत्रवत् । दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ॥ २.९१.१९ ॥
वनम् कुरुषु यत् दिव्यम् वासः-भूषण-पत्ऺत्र-वत् । दिव्य-नारी-फलम् शश्वत् तत् कौबेरम् इह एतु च ॥ २।९१।१९ ॥
vanam kuruṣu yat divyam vāsaḥ-bhūṣaṇa-pat_ötra-vat . divya-nārī-phalam śaśvat tat kauberam iha etu ca .. 2.91.19 ..
इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् । भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥ २.९१.२० ॥
इह मे भगवान् सोमः विधत्ताम् अन्नम् उत्तमम् । भक्ष्यम् भोज्यम् च चोष्यम् च लेह्यम् च विविधम् बहु ॥ २।९१।२० ॥
iha me bhagavān somaḥ vidhattām annam uttamam . bhakṣyam bhojyam ca coṣyam ca lehyam ca vividham bahu .. 2.91.20 ..
विचित्राणि च माल्यानि पादपप्रच्युतानि च । सुरादीनि च पेयानि मांसानि विविधानि च ॥ २.९१.२१ ॥
विचित्राणि च माल्यानि पादप-प्रच्युतानि च । सुरा-आदीनि च पेयानि मांसानि विविधानि च ॥ २।९१।२१ ॥
vicitrāṇi ca mālyāni pādapa-pracyutāni ca . surā-ādīni ca peyāni māṃsāni vividhāni ca .. 2.91.21 ..
एवं समाधिना युक्तस्तेजसा ऽप्रतिमेन च । शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनि: ॥ २.९१.२२ ॥
एवम् समाधिना युक्तः तेजसा अप्रतिमेन च । शीक्षा-स्वर-समायुक्तम् तपसा च अब्रवीत् मुनिः ॥ २।९१।२२ ॥
evam samādhinā yuktaḥ tejasā apratimena ca . śīkṣā-svara-samāyuktam tapasā ca abravīt muniḥ .. 2.91.22 ..
मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जले: । आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥ २.९१.२३ ॥
मनसा ध्यायतः तस्य प्राच्-मुखस्य कृत-अञ्जले । आजग्मुः तानि सर्वाणि दैवतानि पृथक् पृथक् ॥ २।९१।२३ ॥
manasā dhyāyataḥ tasya prāc-mukhasya kṛta-añjale . ājagmuḥ tāni sarvāṇi daivatāni pṛthak pṛthak .. 2.91.23 ..
मलयं दर्दुरं चैव तत: स्वेदनुदऽ ऽनिल: । उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुख: शिव: ॥ २.९१.२४ ॥
मलयम् दर्दुरम् च एव ततस् स्वेद-नुदः अनिलः । उपस्पृश्य ववौ युक्त्या सु प्रिय-आत्मा सुख-शिवः ॥ २।९१।२४ ॥
malayam darduram ca eva tatas sveda-nudaḥ anilaḥ . upaspṛśya vavau yuktyā su priya-ātmā sukha-śivaḥ .. 2.91.24 ..
ततोभ्यवर्तन्त घना दिव्या: कुसुमवृष्टय: । दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ २.९१.२५ ॥
ततस् अभ्यवर्तन्त घनाः दिव्याः कुसुम-वृष्टयः । दिव्य-दुन्दुभि-घोषः च दिक्षु सर्वासु शुश्रुवे ॥ २।९१।२५ ॥
tatas abhyavartanta ghanāḥ divyāḥ kusuma-vṛṣṭayaḥ . divya-dundubhi-ghoṣaḥ ca dikṣu sarvāsu śuśruve .. 2.91.25 ..
प्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणा: । प्रजगुर्देवगन्धर्वा वीणा: प्रमुमुचु: स्वरान् ॥ २.९१.२६ ॥
प्रववुः च उत्तमाः वातान् अनृतुः च अप्सरः-गणाः । प्रजगुः देव-गन्धर्वाः वीणाः प्रमुमुचुः स्वरान् ॥ २।९१।२६ ॥
pravavuḥ ca uttamāḥ vātān anṛtuḥ ca apsaraḥ-gaṇāḥ . prajaguḥ deva-gandharvāḥ vīṇāḥ pramumucuḥ svarān .. 2.91.26 ..
स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च । विवेशोऺच्चारित: श्लक्ष्ण: समो लयगुणान्वित: ॥ २.९१.२७ ॥
स शब्दः द्याम् च भूमिम् च प्राणिनाम् श्रवणानि च । विवेश उष्चारितः श्लक्ष्णः समः लय-गुण-अन्वितः ॥ २।९१।२७ ॥
sa śabdaḥ dyām ca bhūmim ca prāṇinām śravaṇāni ca . viveśa uṣcāritaḥ ślakṣṇaḥ samaḥ laya-guṇa-anvitaḥ .. 2.91.27 ..
तस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम् । ददर्श भारतं सैन्यं विधानं विश्वकर्मण: ॥ २.९१.२८ ॥
तस्मिन् उपरते शब्दे दिव्ये श्रोतृ(त्र-सुखे नृणाम् । ददर्श भारतम् सैन्यम् विधानम् विश्वकर्मणः ॥ २।९१।२८ ॥
tasmin uparate śabde divye śrotṛ(tra-sukhe nṛṇām . dadarśa bhāratam sainyam vidhānam viśvakarmaṇaḥ .. 2.91.28 ..
बभूव हि समा भूमि: समन्तात्पञ्चयोजना । शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभै: ॥ २.९१.२९ ॥
बभूव हि समा भूमि समन्तात् पञ्च-योजना । शाद्वलैः बहुभिः छन्नाः नील-वैडूर्य-सन्निभैः ॥ २।९१।२९ ॥
babhūva hi samā bhūmi samantāt pañca-yojanā . śādvalaiḥ bahubhiḥ channāḥ nīla-vaiḍūrya-sannibhaiḥ .. 2.91.29 ..
तस्मिन् बिल्वा: कपित्थाश्च पनसा बीजपूरका: । आमलक्यो बभूवुश्च चूताश्च फलभूषणा: ॥ २.९१.३० ॥
तस्मिन् बिल्वाः कपित्थाः च पनसाः बीजपूरकाः । आमलक्यः बभूवुः च चूताः च फल-भूषणाः ॥ २।९१।३० ॥
tasmin bilvāḥ kapitthāḥ ca panasāḥ bījapūrakāḥ . āmalakyaḥ babhūvuḥ ca cūtāḥ ca phala-bhūṣaṇāḥ .. 2.91.30 ..
उत्तरेभ्य: कुरुभ्यश्च वनं दिव्योपभोगवत् । आजगाम नदी दिव्या तीजैर्बहुभिर्वृता ॥ २.९१.३१ ॥
उत्तरेभ्यः कुरुभ्यः च वनम् दिव्य-उपभोगवत् । आजगाम नदी दिव्या तीजैः बहुभिः वृता ॥ २।९१।३१ ॥
uttarebhyaḥ kurubhyaḥ ca vanam divya-upabhogavat . ājagāma nadī divyā tījaiḥ bahubhiḥ vṛtā .. 2.91.31 ..
चतु:शालानि शुभ्राणि शालाश्च गजवाजिनाम् । हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ॥ २.९१.३२ ॥
चतुर्-शालानि शुभ्राणि शालाः च गज-वाजिनाम् । हर्म्य-प्रासाद-सम्बाधाः तोरणानि शुभानि च ॥ २।९१।३२ ॥
catur-śālāni śubhrāṇi śālāḥ ca gaja-vājinām . harmya-prāsāda-sambādhāḥ toraṇāni śubhāni ca .. 2.91.32 ..
सितमेघनिभं चापि राजवेश्मसु तोरणम् । दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ २.९१.३३ ॥
सित-मेघ-निभम् च अपि राज-वेश्मसु तोरणम् । दिव्य-माल्य-कृत-आकारम् दिव्य-गन्ध-समुक्षितम् ॥ २।९१।३३ ॥
sita-megha-nibham ca api rāja-veśmasu toraṇam . divya-mālya-kṛta-ākāram divya-gandha-samukṣitam .. 2.91.33 ..
चतुरश्रमसम्बाधं शयनासनयानवत् । दिव्यै: सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् । उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ॥ २.९१.३४ ॥
चतुर्-अश्रम-सम्बाधम् शयन-आसन-यानवत् । दिव्यैः सर्व-रसैः युक्तम् दिव्य-भोजन-वस्त्रवत् । उपकल्पित-सर्व-अन्नम् धौत-निर्मल-भाजनम् ॥ २।९१।३४ ॥
catur-aśrama-sambādham śayana-āsana-yānavat . divyaiḥ sarva-rasaiḥ yuktam divya-bhojana-vastravat . upakalpita-sarva-annam dhauta-nirmala-bhājanam .. 2.91.34 ..
क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् । प्रविवेश महाबाहुरनुज्ञातो महर्षिणा । वेश्म तद्रत्नसम्पूर्णं भरत: केकयीसुत: ॥ २.९१.३५ ॥
क्लृप्त-सर्व-आसनम् श्रीमत् सु आस्तीर्ण-शयन-उत्तमम् । प्रविवेश महा-बाहुः अनुज्ञातः महा-ऋषिणा । वेश्म तद्-रत्न-सम्पूर्णम् भरतः केकयी-सुतः ॥ २।९१।३५ ॥
klṛpta-sarva-āsanam śrīmat su āstīrṇa-śayana-uttamam . praviveśa mahā-bāhuḥ anujñātaḥ mahā-ṛṣiṇā . veśma tad-ratna-sampūrṇam bharataḥ kekayī-sutaḥ .. 2.91.35 ..
अनुजग्मुश्च तं सर्वे मन्त्रिण: सपुरोहिता: । बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ॥ २.९१.३६ ॥
अनुजग्मुः च तम् सर्वे मन्त्रिणः स पुरोहिताः । बभूवुः च मुदा युक्ताः दृष्ट्वा तम् वेश्म-संविधिम् ॥ २।९१।३६ ॥
anujagmuḥ ca tam sarve mantriṇaḥ sa purohitāḥ . babhūvuḥ ca mudā yuktāḥ dṛṣṭvā tam veśma-saṃvidhim .. 2.91.36 ..
तत्र राजासनं दिव्यं व्यजनं छत्रमेव च । भरतो मन्त्रिभि: सार्द्धमभ्यवर्त्तत राजवत् ॥ २.९१.३७ ॥
तत्र राज-आसनम् दिव्यम् व्यजनम् छत्रम् एव च । भरतः मन्त्रिभिः सार्द्धम् अभ्यवर्त्तत राज-वत् ॥ २।९१।३७ ॥
tatra rāja-āsanam divyam vyajanam chatram eva ca . bharataḥ mantribhiḥ sārddham abhyavarttata rāja-vat .. 2.91.37 ..
आसनं पूजयामास रामायाभिप्रणम्य च । वालव्यजनमादाय न्यषीदत् सचिवासने ॥ २.९१.३८ ॥
आसनम् पूजयामास रामाय अभिप्रणम्य च । वाल-व्यजनम् आदाय न्यषीदत् सचिव-आसने ॥ २।९१।३८ ॥
āsanam pūjayāmāsa rāmāya abhipraṇamya ca . vāla-vyajanam ādāya nyaṣīdat saciva-āsane .. 2.91.38 ..
आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिता: । तत: सेनापति: पश्चात् प्रशास्ता च निषेदतु: ॥ २.९१.३९ ॥
आनुपूर्व्या अनिषेदुः च सर्वे मन्त्रि-पुरोहिताः । ततस् सेनापतिः पश्चात् प्रशास्ता च निषेदतु ॥ २।९१।३९ ॥
ānupūrvyā aniṣeduḥ ca sarve mantri-purohitāḥ . tatas senāpatiḥ paścāt praśāstā ca niṣedatu .. 2.91.39 ..
ततस्तत्र मुहूर्त्तेन नद्य: पायसकर्दमा: । उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ २.९१.४० ॥
ततस् तत्र मुहूर्त्तेन नद्यः पायस-कर्दमाः । उपातिष्ठन्त भरतम् भरद्वाजस्य शासनात् ॥ २।९१।४० ॥
tatas tatra muhūrttena nadyaḥ pāyasa-kardamāḥ . upātiṣṭhanta bharatam bharadvājasya śāsanāt .. 2.91.40 ..
तासामुभयत:कूलं पाण्डुमृत्तिकलेपना: । रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजा: ॥ २.९१.४१ ॥
तासाम् उभयतस् कूलम् पाण्डु-मृत्तिक-लेपनाः । रम्याः च आवसथाः दिव्याः ब्रह्मणः तु प्रसाद-जाः ॥ २।९१।४१ ॥
tāsām ubhayatas kūlam pāṇḍu-mṛttika-lepanāḥ . ramyāḥ ca āvasathāḥ divyāḥ brahmaṇaḥ tu prasāda-jāḥ .. 2.91.41 ..
तेनैव च मुहूर्त्तेन दिव्याभरणभूषिता: । आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिता: स्त्रिय: ॥ २.९१.४२ ॥
तेन एव च मुहूर्त्तेन दिव्य-आभरण-भूषिता । आगुः विंशति-साहस्राः ब्रह्मणा प्रहिताः स्त्रियः ॥ २।९१।४२ ॥
tena eva ca muhūrttena divya-ābharaṇa-bhūṣitā . āguḥ viṃśati-sāhasrāḥ brahmaṇā prahitāḥ striyaḥ .. 2.91.42 ..
सुवर्णमणिमुक्तेन प्रवालेन च शोभिता: । आगुर्विंशतिसाहस्रा: कुबेरप्रहिता: स्त्रिय: ॥ २.९१.४३ ॥
सुवर्ण-मणि-मुक्तेन प्रवालेन च शोभिता । आगुः विंशति-साहस्राः कुबेर-प्रहिताः स्त्रियः ॥ २।९१।४३ ॥
suvarṇa-maṇi-muktena pravālena ca śobhitā . āguḥ viṃśati-sāhasrāḥ kubera-prahitāḥ striyaḥ .. 2.91.43 ..
याभिर्गृहीतपुरुष: सोन्माद इव लक्ष्यते । आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणा: ॥ २.९१.४४ ॥
याभिः गृहीत-पुरुषः स उन्मादः इव लक्ष्यते । आगुः विंशति-साहस्राः नन्दनात् अप्सरः-गणाः ॥ २।९१।४४ ॥
yābhiḥ gṛhīta-puruṣaḥ sa unmādaḥ iva lakṣyate . āguḥ viṃśati-sāhasrāḥ nandanāt apsaraḥ-gaṇāḥ .. 2.91.44 ..
नारदस्तुम्बुरुर्गोप: प्रवरा: सूर्य्यवर्चस: । एते गन्धर्वराजानो भरतस्याग्रतो जगु: ॥ २.९१.४५ ॥
नारदः तुम्बुरुः गोपः प्रवराः सूर्य्य-वर्चसः । एते गन्धर्व-राजानः भरतस्य अग्रतस् जगुः ॥ २।९१।४५ ॥
nāradaḥ tumburuḥ gopaḥ pravarāḥ sūryya-varcasaḥ . ete gandharva-rājānaḥ bharatasya agratas jaguḥ .. 2.91.45 ..
अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना । उपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ॥ २.९१.४६ ॥
अलम्बुसा मिश्रकेशी पुण्डरीका अथ वामना । उपानृत्यन् तु भरत भरद्वाजस्य शासनात् ॥ २।९१।४६ ॥
alambusā miśrakeśī puṇḍarīkā atha vāmanā . upānṛtyan tu bharata bharadvājasya śāsanāt .. 2.91.46 ..
यानि माल्यानि देवेषु यानि चैत्ररथे वने । प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥ २.९१.४७ ॥
यानि माल्यानि देवेषु यानि चैत्ररथे वने । प्रयागे तानि अदृश्यन्त भरद्वाजस्य तेजसा ॥ २।९१।४७ ॥
yāni mālyāni deveṣu yāni caitrarathe vane . prayāge tāni adṛśyanta bharadvājasya tejasā .. 2.91.47 ..
बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतका: । अश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ॥ २.९१.४८ ॥
बिल्वाः मार्दङ्गिकाः आसन् शम्याग्राहाः विभीतकाः । अश्वत्थ-आनर्तकाः च आसन् भरद्वाजस्य शासनात् ॥ २।९१।४८ ॥
bilvāḥ mārdaṅgikāḥ āsan śamyāgrāhāḥ vibhītakāḥ . aśvattha-ānartakāḥ ca āsan bharadvājasya śāsanāt .. 2.91.48 ..
तत: सरलतालाश्च तिलका नक्तमालका: । प्रहृष्टास्तत्र सम्पेतु: कुब्जा भूत्वाथ वामना: ॥ २.९१.४९ ॥
ततस् सरल-तालाः च तिलकाः नक्तमालकाः । प्रहृष्टाः तत्र सम्पेतु कुब्जा भूत्वा अथ वामना ॥ २।९१।४९ ॥
tatas sarala-tālāḥ ca tilakāḥ naktamālakāḥ . prahṛṣṭāḥ tatra sampetu kubjā bhūtvā atha vāmanā .. 2.91.49 ..
शिंशुपामलकीजम्ब्वो याश्चान्या: काननेषु ता: । मालती मल्लिका जातिर्याश्चान्या: कानने लता: ॥ २.९१.५० ॥
शिंशु-पामलकी-जम्ब्वः याः च अन्याः काननेषु ताः । मालती मल्लिका जातिः याः च अन्याः कानने लताः ॥ २।९१।५० ॥
śiṃśu-pāmalakī-jambvaḥ yāḥ ca anyāḥ kānaneṣu tāḥ . mālatī mallikā jātiḥ yāḥ ca anyāḥ kānane latāḥ .. 2.91.50 ..
प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवदन् । सुरा: सुरापा: पिबत पायसं च बुभुक्षिता: । मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥ २.९१.५१ ॥
प्रमदा-विग्रहम् कृत्वा भरद्वाज-आश्रमे अवदन् । सुराः सुरा-पाः पिबत पायसम् च बुभुक्षिताः । मांसानि च सु मेध्यानि भक्ष्यन्ताम् यावत् इच्छथ ॥ २।९१।५१ ॥
pramadā-vigraham kṛtvā bharadvāja-āśrame avadan . surāḥ surā-pāḥ pibata pāyasam ca bubhukṣitāḥ . māṃsāni ca su medhyāni bhakṣyantām yāvat icchatha .. 2.91.51 ..
उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु । अप्येकमेकं पुरुषं प्रमदा: सप्त चाष्ट च ॥ २.९१.५२ ॥
उच्छाद्य स्नापयन्ति स्म नदी-तीरेषु वल्गुषु । अपि एकम् एकम् पुरुषम् प्रमदाः सप्त च अष्ट च ॥ २।९१।५२ ॥
ucchādya snāpayanti sma nadī-tīreṣu valguṣu . api ekam ekam puruṣam pramadāḥ sapta ca aṣṭa ca .. 2.91.52 ..
संवाहन्त्य: समापेतुर्नार्यो रुचिरलोचना: । परिमृज्य तथान्योन्यं पाययन्ति वराङ्गना: ॥ २.९१.५३ ॥
संवाहन्त्यः समापेतुः नार्यः रुचिर-लोचनाः । परिमृज्य तथा अन्योन्यम् पाययन्ति वर-अङ्गनाः ॥ २।९१।५३ ॥
saṃvāhantyaḥ samāpetuḥ nāryaḥ rucira-locanāḥ . parimṛjya tathā anyonyam pāyayanti vara-aṅganāḥ .. 2.91.53 ..
हयान् गजान् खरानुष्ट्रांस्तथैव सुरभे: सुतान् । अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ॥ २.९१.५४ ॥
हयान् गजान् खरान् उष्ट्रान् तथा एव सुरभे सुतान् । अभोजयन् वाहनपाः तेषाम् भोज्यम् यथाविधि ॥ २।९१।५४ ॥
hayān gajān kharān uṣṭrān tathā eva surabhe sutān . abhojayan vāhanapāḥ teṣām bhojyam yathāvidhi .. 2.91.54 ..
इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् । इक्ष्वाकुवरयोधानां चोदयन्तो महाबला: ॥ २.९१.५५ ॥
इक्षून् च मधु-लाजान् च भोजयन्ति स्म वाहनान् । इक्ष्वाकु-वर-योधानाम् चोदयन्तः महा-बलाः ॥ २।९१।५५ ॥
ikṣūn ca madhu-lājān ca bhojayanti sma vāhanān . ikṣvāku-vara-yodhānām codayantaḥ mahā-balāḥ .. 2.91.55 ..
नाश्वबन्धो ऽश्वमाजानान्न गजं कुञ्जरग्रह: । मत्तप्रमत्तमुदिता नमू: सा तत्र सम्बभौ ॥ २.९१.५६ ॥
न अश्वबन्धः अश्वम् आजानात् न गजम् कुञ्जरग्रहः । मत्त-प्रमत्त-मुदिता ॥ २।९१।५६ ॥
na aśvabandhaḥ aśvam ājānāt na gajam kuñjaragrahaḥ . matta-pramatta-muditā .. 2.91.56 ..
तर्पिता: सर्वकामैस्ते रक्तचन्दनरूषिता: । अप्सरोगणसंयुक्ता: सैन्या वाचमुदैरयन् ॥ २.९१.५७ ॥
तर्पिताः सर्व-कामैः ते रक्तचन्दन-रूषिताः । अप्सरः-गण-संयुक्ताः सैन्याः वाचम् उदैरयन् ॥ २।९१।५७ ॥
tarpitāḥ sarva-kāmaiḥ te raktacandana-rūṣitāḥ . apsaraḥ-gaṇa-saṃyuktāḥ sainyāḥ vācam udairayan .. 2.91.57 ..
नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् । कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ २.९१.५८ ॥
न एव अयोध्याम् गमिष्यामः न गमिष्याम दण्डकान् । कुशलम् भरतस्य अस्तु रामस्य अस्तु तथा सुखम् ॥ २।९१।५८ ॥
na eva ayodhyām gamiṣyāmaḥ na gamiṣyāma daṇḍakān . kuśalam bharatasya astu rāmasya astu tathā sukham .. 2.91.58 ..
इति पादातयोधाश्च हस्त्यश्वारोह बन्धका: । अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥ २.९१.५९ ॥
इति पादात-योधाः च हस्ति-अश्व-आरोह बन्धकाः । अनाथाः तम् विधिम् लब्ध्वा वाचम् एताम् उदैरयन् ॥ २।९१।५९ ॥
iti pādāta-yodhāḥ ca hasti-aśva-āroha bandhakāḥ . anāthāḥ tam vidhim labdhvā vācam etām udairayan .. 2.91.59 ..
सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रश: । भरतस्यानुयातार: स्वर्गोयमिति चाब्रुवन् ॥ २.९१.६० ॥
सम्प्रहृष्टाः विनेदुः ते नराः तत्र सहस्रशस् । भरतस्य अनुयातारः स्वर्गः यम् इति च ब्रुवन् ॥ २।९१।६० ॥
samprahṛṣṭāḥ vineduḥ te narāḥ tatra sahasraśas . bharatasya anuyātāraḥ svargaḥ yam iti ca bruvan .. 2.91.60 ..
नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिका: । समन्तात् परिधावन्ति माल्योपेता: सहस्रश: ॥ २.९१.६१ ॥
नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः । समन्तात् परिधावन्ति माल्य-उपेताः सहस्रशस् ॥ २।९१।६१ ॥
nṛtyanti sma hasanti sma gāyanti sma ca sainikāḥ . samantāt paridhāvanti mālya-upetāḥ sahasraśas .. 2.91.61 ..
ततो भुक्तवतां तेषां तदन्नममृतोपमम् । दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मति: ॥ २.९१.६२ ॥
ततस् भुक्तवताम् तेषाम् तत् अन्नम् अमृत-उपमम् । दिव्यान् उद्वीक्ष्य भक्ष्यान् तान् अभवत् भक्षणे मतिः ॥ २।९१।६२ ॥
tatas bhuktavatām teṣām tat annam amṛta-upamam . divyān udvīkṣya bhakṣyān tān abhavat bhakṣaṇe matiḥ .. 2.91.62 ..
प्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रश: । बभूवुस्ऺते भृशं दृप्ता: सर्वे चाहतवासस: ॥ २.९१.६३ ॥
प्रेष्याः च इष्ट्यः च वध्वः च बलस्थाः च सहस्रशस् । बभूवुः ते भृशम् दृप्ताः सर्वे च अहत-वाससः ॥ २।९१।६३ ॥
preṣyāḥ ca iṣṭyaḥ ca vadhvaḥ ca balasthāḥ ca sahasraśas . babhūvuḥ te bhṛśam dṛptāḥ sarve ca ahata-vāsasaḥ .. 2.91.63 ..
कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिण: । बभूवु: सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥ २.९१.६४ ॥
कुञ्जराः च खर-उष्ट्राः च गो-श्वाः च मृग-पक्षिणः । बभूवुः सु भृताः तत्र न अन्यः हि अन्यम् अकल्पयत् ॥ २।९१।६४ ॥
kuñjarāḥ ca khara-uṣṭrāḥ ca go-śvāḥ ca mṛga-pakṣiṇaḥ . babhūvuḥ su bhṛtāḥ tatra na anyaḥ hi anyam akalpayat .. 2.91.64 ..
नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनो ऽपि वा । रजसा ध्वस्तकेशो वा नर: कश्चिददृश्यत ॥ २.९१.६५ ॥
न अ शुक्ल-वासाः तत्र आसीत् क्षुधितः मलिनः अपि वा । रजसा ध्वस्त-केशः वा नरः कश्चिद् अदृश्यत ॥ २।९१।६५ ॥
na a śukla-vāsāḥ tatra āsīt kṣudhitaḥ malinaḥ api vā . rajasā dhvasta-keśaḥ vā naraḥ kaścid adṛśyata .. 2.91.65 ..
आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयै: । फलनिर्यूहसंसिद्धै: सूपैर्गन्धरसान्वितै: ॥ २.९१.६६ ॥
आजैः च अपि च वाराहैः निष्ठान-वर-सञ्चयैः । फल-निर्यूह-संसिद्धैः सूपैः गन्ध-रस-अन्वितैः ॥ २।९१।६६ ॥
ājaiḥ ca api ca vārāhaiḥ niṣṭhāna-vara-sañcayaiḥ . phala-niryūha-saṃsiddhaiḥ sūpaiḥ gandha-rasa-anvitaiḥ .. 2.91.66 ..
पुष्पध्वजवती: पूर्णा: शुक्लस्यान्नस्य चाभित: । ददृशुर्विस्मितास्तत्र नरा लौही: सहस्रश: ॥ २.९१.६७ ॥
पुष्प-ध्वजवतीः पूर्णाः शुक्लस्य अन्नस्य च अभितस् । ददृशुः विस्मिताः तत्र नराः सहस्रशस् ॥ २।९१।६७ ॥
puṣpa-dhvajavatīḥ pūrṇāḥ śuklasya annasya ca abhitas . dadṛśuḥ vismitāḥ tatra narāḥ sahasraśas .. 2.91.67 ..
बभूवुर्वनपार्श्वेषु कूपा: पायसकर्दमा: । ताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुत: ॥ २.९१.६८ ॥
बभूवुः वन-पार्श्वेषु कूपाः पायस-कर्दमाः । ताः च कामदुघाः गावः द्रुमाः च आसन् मधु-स्रुतः ॥ २।९१।६८ ॥
babhūvuḥ vana-pārśveṣu kūpāḥ pāyasa-kardamāḥ . tāḥ ca kāmadughāḥ gāvaḥ drumāḥ ca āsan madhu-srutaḥ .. 2.91.68 ..
वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृता: । प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटै: ॥ २.९१.६९ ॥
वाप्यः मैरेय-पूर्णाः च मृष्ट-मांस-चयैः वृताः । प्रतप्त-पिठरैः च अपि मार्ग-मायूर-कौक्कुटैः ॥ २।९१।६९ ॥
vāpyaḥ maireya-pūrṇāḥ ca mṛṣṭa-māṃsa-cayaiḥ vṛtāḥ . pratapta-piṭharaiḥ ca api mārga-māyūra-kaukkuṭaiḥ .. 2.91.69 ..
पात्रीणां च सहस्राणि स्थालीनां नियुतानि च । न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥ २.९१.७० ॥
पात्रीणाम् च सहस्राणि स्थालीनाम् नियुतानि च । न्यर्बुदानि च पात्राणि शातकुम्भ-मयानि च ॥ २।९१।७० ॥
pātrīṇām ca sahasrāṇi sthālīnām niyutāni ca . nyarbudāni ca pātrāṇi śātakumbha-mayāni ca .. 2.91.70 ..
स्थाल्य: कुम्भ्य: करम्भ्यश्च दधिपूर्णा: सुसंस्कृता: । यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिन: ॥ २.९१.७१ ॥
स्थाल्यः कुम्भ्यः करम्भ्यः च दधि-पूर्णाः सुसंस्कृताः । यौवन-स्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥ २।९१।७१ ॥
sthālyaḥ kumbhyaḥ karambhyaḥ ca dadhi-pūrṇāḥ susaṃskṛtāḥ . yauvana-sthasya gaurasya kapitthasya sugandhinaḥ .. 2.91.71 ..
ह्रदा: पूर्णा रसालस्य दघ्न: श्वेतस्य चापरे । बभूवु: पायसस्यान्ये शर्करायाश्च सञ्चया: ॥ २.९१.७२ ॥
ह्रदाः पूर्णाः रसालस्य श्वेतस्य च अपरे । बभूवुः पायसस्य अन्ये शर्करायाः च सञ्चयाः ॥ २।९१।७२ ॥
hradāḥ pūrṇāḥ rasālasya śvetasya ca apare . babhūvuḥ pāyasasya anye śarkarāyāḥ ca sañcayāḥ .. 2.91.72 ..
कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च । ददृशुर्भाजनस्थानि तीर्थेषु सरितां नरा: ॥ २.९१.७३ ॥
कल्कान् चूर्ण-कषायान् च स्नानानि विविधानि च । ददृशुः भाजन-स्थानि तीर्थेषु सरिताम् नराः ॥ २।९१।७३ ॥
kalkān cūrṇa-kaṣāyān ca snānāni vividhāni ca . dadṛśuḥ bhājana-sthāni tīrtheṣu saritām narāḥ .. 2.91.73 ..
शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् । शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठत: ॥ २.९१.७४ ॥
शुक्लान् अंशुमतः च अपि दन्तधावन-सञ्चयान् । शुक्लान् चन्दन-कल्कान् च समुद्गेषु अवतिष्ठत ॥ २।९१।७४ ॥
śuklān aṃśumataḥ ca api dantadhāvana-sañcayān . śuklān candana-kalkān ca samudgeṣu avatiṣṭhata .. 2.91.74 ..
दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् । पादुकोपानहश्चैव युग्मानि च सहस्रश: ॥ २.९१.७५ ॥
दर्पणान् परिमृष्टान् च वाससाम् च अपि सञ्चयान् । पादुका-उपानहः च एव युग्मानि च सहस्रशस् ॥ २।९१।७५ ॥
darpaṇān parimṛṣṭān ca vāsasām ca api sañcayān . pādukā-upānahaḥ ca eva yugmāni ca sahasraśas .. 2.91.75 ..
आञ्जनी: कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च । मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥ २.९१.७६ ॥
आञ्जनी कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च । मर्म-त्राणानि चित्राणि शयनानि आसनानि च ॥ २।९१।७६ ॥
āñjanī kaṅkatān kūrcān śastrāṇi ca dhanūṃṣi ca . marma-trāṇāni citrāṇi śayanāni āsanāni ca .. 2.91.76 ..
प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् । अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ॥ २.९१.७७ ॥
प्रतिपान-ह्रदान् पूर्णान् खर-उष्ट्र-गज-वाजिनाम् । अवगाह्य सु तीर्थान् च ह्रदान् स उत्पल-पुष्करान् ॥ २।९१।७७ ॥
pratipāna-hradān pūrṇān khara-uṣṭra-gaja-vājinām . avagāhya su tīrthān ca hradān sa utpala-puṣkarān .. 2.91.77 ..
आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान् । नीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ॥ २.९१.७८ ॥
आकाश-वर्ण-प्रतिमान् सु अच्छ-तोयान् सुख-प्लवान् । नील-वैडूर्य-वर्णान् च मृदून् यवस-सञ्चयान् ॥ २।९१।७८ ॥
ākāśa-varṇa-pratimān su accha-toyān sukha-plavān . nīla-vaiḍūrya-varṇān ca mṛdūn yavasa-sañcayān .. 2.91.78 ..
निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वश: ॥ २.९१.७९ ॥
निर्वाप-अर्थान् पशूनाम् ते ददृशुः तत्र सर्वशस् ॥ २।९१।७९ ॥
nirvāpa-arthān paśūnām te dadṛśuḥ tatra sarvaśas .. 2.91.79 ..
व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् । दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ॥ २.९१.८० ॥
व्यस्मयन्त मनुष्याः ते स्वप्न-कल्पम् तत् अद्भुतम् । दृष्ट्वा आतिथ्यम् कृतम् तादृश् भरतस्य महा-ऋषिणा ॥ २।९१।८० ॥
vyasmayanta manuṣyāḥ te svapna-kalpam tat adbhutam . dṛṣṭvā ātithyam kṛtam tādṛś bharatasya mahā-ṛṣiṇā .. 2.91.80 ..
इत्येवं रममाणानां देवानामिव नन्दने । भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ॥ २.९१.८१ ॥
इति एवम् रममाणानाम् देवानाम् इव नन्दने । भरद्वाज-आश्रमे रम्ये सा रात्रिः व्यत्यवर्त्तत ॥ २।९१।८१ ॥
iti evam ramamāṇānām devānām iva nandane . bharadvāja-āśrame ramye sā rātriḥ vyatyavarttata .. 2.91.81 ..
प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् । भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गना: ॥ २.९१.८२ ॥
प्रतिजग्मुः च ताः नद्यः गन्धर्वाः च यथागतम् । भरद्वाजम् अनुज्ञाप्य ताः च सर्वाः वर-अङ्गनाः ॥ २।९१।८२ ॥
pratijagmuḥ ca tāḥ nadyaḥ gandharvāḥ ca yathāgatam . bharadvājam anujñāpya tāḥ ca sarvāḥ vara-aṅganāḥ .. 2.91.82 ..
तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिता: । तथैव दिव्या विविधा: स्रगुत्तमा: पृथक् प्रकीर्णा मनुजै: प्रमर्दिता: ॥ २.९१.८३ ॥
तथा एव मत्ताः मदिरा-उत्कटाः नराः तथा एव दिव्य-अगुरु-चन्दन-उक्षिताः । तथा एव दिव्याः विविधाः स्रज्-उत्तमाः पृथक् प्रकीर्णाः मनुजैः प्रमर्दिताः ॥ २।९१।८३ ॥
tathā eva mattāḥ madirā-utkaṭāḥ narāḥ tathā eva divya-aguru-candana-ukṣitāḥ . tathā eva divyāḥ vividhāḥ sraj-uttamāḥ pṛthak prakīrṇāḥ manujaiḥ pramarditāḥ .. 2.91.83 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकनवतितम: सर्ग: ॥ ९१ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे एकनवतितमः सर्गः ॥ ९१ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe ekanavatitamaḥ sargaḥ .. 91 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In