This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकनवतितम: सर्गः ॥२-९१॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekanavatitama: sargaḥ ..2-91..
कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा । भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥ २.९१.१ ॥
kṛtabuddhiṃ nivāsāya tatraiva sa munistadā . bharataṃ kaikayīputramātithyena nyamantrayat .. 2.91.1 ..
अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् । पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ॥ २.९१.२ ॥
abravīdbharatastvenaṃ nanvidaṃ bhavatā kṛtam . pādyamarghyaṃ tathātithyaṃ vane yadupapadyate .. 2.91.2 ..
अथोवाच भरद्वाजो भरतं प्रहसन्निव । जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥ २.९१.३ ॥
athovāca bharadvājo bharataṃ prahasanniva . jāne tvāṃ prītisaṃyuktaṃ tuṣyestvaṃ yena kenacit .. 2.91.3 ..
सेनायास्तु तवैतस्या: कर्तुमिच्छामि भोजनम् । मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ॥ २.९१.४ ॥
senāyāstu tavaitasyā: kartumicchāmi bhojanam . mama prītiryathārūpā tvamarho manujādhipa .. 2.91.4 ..
किमर्थं चापि निक्षिप्य दूरे बलमिहागत: । कस्मान्नेहोपयातोसि सबल: पुरुषर्षभ ॥ २.९१.५ ॥
kimarthaṃ cāpi nikṣipya dūre balamihāgata: . kasmānnehopayātosi sabala: puruṣarṣabha .. 2.91.5 ..
भरत: प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् । ससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात् ॥ २.९१.६ ॥
bharata: pratyuvācedaṃ prāñjalistaṃ tapodhanam . sasainyo nopayāto 'smi bhagavan bhagavadbhayāt .. 2.91.6 ..
राज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा । यत्नत: परिहर्त्तव्या विषयेषु तपस्विन: ॥ २.९१.७ ॥
rājñā ca bhagavan nityaṃ rājaputreṇa vā sadā . yatnata: pariharttavyā viṣayeṣu tapasvina: .. 2.91.7 ..
वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणा: । प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ॥ २.९१.८ ॥
vājimukhyā manuṣyāśca mattāśca varavāraṇā: . pracchādya bhagavan bhūmiṃ mahatīmanuyānti mām .. 2.91.8 ..
ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा । न हिंस्युरिति तेनाहमेक एव समागत: ॥ २.९१.९ ॥
te vṛkṣānudakaṃ bhūmimāśrameṣūṭajāṃstathā . na hiṃsyuriti tenāhameka eva samāgata: .. 2.91.9 ..
आनीयतामित: सेनेत्याज्ञप्त: परमर्षिणा । ततस्तु चक्रे भरत: सेनाया: समुपागमम् ॥ २.९१.१० ॥
ānīyatāmita: senetyājñapta: paramarṣiṇā . tatastu cakre bharata: senāyā: samupāgamam .. 2.91.10 ..
अग्निशालां प्रविश्याथ पीत्वाप: परिमृज्य च । आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥ २.९१.११ ॥
agniśālāṃ praviśyātha pītvāpa: parimṛjya ca . ātithyasya kriyāhetorviśvakarmāṇamāhvayat .. 2.91.11 ..
आह्वये विश्वकर्माणमहं त्वष्टारमेव च । आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ २.९१.१२ ॥
āhvaye viśvakarmāṇamahaṃ tvaṣṭārameva ca . ātithyaṃ kartumicchāmi tatra me saṃvidhīyatām .. 2.91.12 ..
आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा । आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ २.९१.१३ ॥
āhvaye lokapālāṃstrīn devān śakramukhāṃstathā . ātithyaṃ kartumicchāmi tatra me saṃvidhīyatām .. 2.91.13 ..
प्राक्स्रोतसश्च या नद्य: प्रत्यक्स्रोतस एव च । पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वश: ॥ २.९१.१४ ॥
prāksrotasaśca yā nadya: pratyaksrotasa eva ca . pṛthivyāmantarikṣe ca samāyāntvadya sarvaśa: .. 2.91.14 ..
अन्या: स्रवन्तु मैरेयं सुरामन्या: सुनिष्ठिताम् । अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ २.९१.१५ ॥
anyā: sravantu maireyaṃ surāmanyā: suniṣṭhitām . aparāścodakaṃ śītamikṣukāṇḍarasopamam .. 2.91.15 ..
आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् । तथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वश: ॥ २.९१.१६ ॥
āhvaye devagandharvān viśvāvasuhahāhuhūn . tathaivāpsaraso devīrgandharvvīścāpi sarvaśa: .. 2.91.16 ..
घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् । नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥ २.९१.१७ ॥
ghṛtācīmatha viśvācīṃ miśrakeśīmalambusām . nāgadantāṃ ca hemāṃ ca himāmadrikṛtasthalām .. 2.91.17 ..
शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषित: । सर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदा: ॥ २.९१.१८ ॥
śakraṃ yāścopatiṣṭhanti brahmāṇaṃ yāśca yoṣita: . sarvāstumburuṇā sārddhamāhvaye saparicchadā: .. 2.91.18 ..
वनं कुरुषु यद्दिव्यं वासोभूषणपत्ऺत्रवत् । दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ॥ २.९१.१९ ॥
vanaṃ kuruṣu yaddivyaṃ vāsobhūṣaṇapat_ötravat . divyanārīphalaṃ śaśvattatkauberamihaitu ca .. 2.91.19 ..
इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् । भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥ २.९१.२० ॥
iha me bhagavān somo vidhattāmannamuttamam . bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu .. 2.91.20 ..
विचित्राणि च माल्यानि पादपप्रच्युतानि च । सुरादीनि च पेयानि मांसानि विविधानि च ॥ २.९१.२१ ॥
vicitrāṇi ca mālyāni pādapapracyutāni ca . surādīni ca peyāni māṃsāni vividhāni ca .. 2.91.21 ..
एवं समाधिना युक्तस्तेजसा ऽप्रतिमेन च । शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनि: ॥ २.९१.२२ ॥
evaṃ samādhinā yuktastejasā 'pratimena ca . śīkṣāsvarasamāyuktaṃ tapasā cābravīnmuni: .. 2.91.22 ..
मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जले: । आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥ २.९१.२३ ॥
manasā dhyāyatastasya prāṅmukhasya kṛtāñjale: . ājagmustāni sarvāṇi daivatāni pṛthakpṛthak .. 2.91.23 ..
मलयं दर्दुरं चैव तत: स्वेदनुदऽ ऽनिल: । उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुख: शिव: ॥ २.९१.२४ ॥
malayaṃ darduraṃ caiva tata: svedanuda' 'nila: . upaspṛśya vavau yuktyā supriyātmā sukha: śiva: .. 2.91.24 ..
ततोभ्यवर्तन्त घना दिव्या: कुसुमवृष्टय: । दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ २.९१.२५ ॥
tatobhyavartanta ghanā divyā: kusumavṛṣṭaya: . divyadundubhighoṣaśca dikṣu sarvāsu śuśruve .. 2.91.25 ..
प्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणा: । प्रजगुर्देवगन्धर्वा वीणा: प्रमुमुचु: स्वरान् ॥ २.९१.२६ ॥
pravavuścottamā vātānanṛtuścāpsarogaṇā: . prajagurdevagandharvā vīṇā: pramumucu: svarān .. 2.91.26 ..
स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च । विवेशोऺच्चारित: श्लक्ष्ण: समो लयगुणान्वित: ॥ २.९१.२७ ॥
sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca . viveśoöccārita: ślakṣṇa: samo layaguṇānvita: .. 2.91.27 ..
तस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम् । ददर्श भारतं सैन्यं विधानं विश्वकर्मण: ॥ २.९१.२८ ॥
tasminnuparate śabde divye śrotṛ(tra)sukhe nṛṇām . dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇa: .. 2.91.28 ..
बभूव हि समा भूमि: समन्तात्पञ्चयोजना । शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभै: ॥ २.९१.२९ ॥
babhūva hi samā bhūmi: samantātpañcayojanā . śādvalairbahubhiśchannā nīlavaiḍūryyasannibhai: .. 2.91.29 ..
तस्मिन् बिल्वा: कपित्थाश्च पनसा बीजपूरका: । आमलक्यो बभूवुश्च चूताश्च फलभूषणा: ॥ २.९१.३० ॥
tasmin bilvā: kapitthāśca panasā bījapūrakā: . āmalakyo babhūvuśca cūtāśca phalabhūṣaṇā: .. 2.91.30 ..
उत्तरेभ्य: कुरुभ्यश्च वनं दिव्योपभोगवत् । आजगाम नदी दिव्या तीजैर्बहुभिर्वृता ॥ २.९१.३१ ॥
uttarebhya: kurubhyaśca vanaṃ divyopabhogavat . ājagāma nadī divyā tījairbahubhirvṛtā .. 2.91.31 ..
चतु:शालानि शुभ्राणि शालाश्च गजवाजिनाम् । हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ॥ २.९१.३२ ॥
catu:śālāni śubhrāṇi śālāśca gajavājinām . harmyaprāsādasambādhāstoraṇāni śubhāni ca .. 2.91.32 ..
सितमेघनिभं चापि राजवेश्मसु तोरणम् । दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ २.९१.३३ ॥
sitameghanibhaṃ cāpi rājaveśmasu toraṇam . divyamālyakṛtākāraṃ divyagandhasamukṣitam .. 2.91.33 ..
चतुरश्रमसम्बाधं शयनासनयानवत् । दिव्यै: सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् । उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ॥ २.९१.३४ ॥
caturaśramasambādhaṃ śayanāsanayānavat . divyai: sarvarasairyuktaṃ divyabhojanavastravat . upakalpitasarvānnaṃ dhautanirmalabhājanam .. 2.91.34 ..
क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् । प्रविवेश महाबाहुरनुज्ञातो महर्षिणा । वेश्म तद्रत्नसम्पूर्णं भरत: केकयीसुत: ॥ २.९१.३५ ॥
klṛptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam . praviveśa mahābāhuranujñāto maharṣiṇā . veśma tadratnasampūrṇaṃ bharata: kekayīsuta: .. 2.91.35 ..
अनुजग्मुश्च तं सर्वे मन्त्रिण: सपुरोहिता: । बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ॥ २.९१.३६ ॥
anujagmuśca taṃ sarve mantriṇa: sapurohitā: . babhūvuśca mudā yuktā dṛṣṭvā taṃ veśmasaṃvidhim .. 2.91.36 ..
तत्र राजासनं दिव्यं व्यजनं छत्रमेव च । भरतो मन्त्रिभि: सार्द्धमभ्यवर्त्तत राजवत् ॥ २.९१.३७ ॥
tatra rājāsanaṃ divyaṃ vyajanaṃ chatrameva ca . bharato mantribhi: sārddhamabhyavarttata rājavat .. 2.91.37 ..
आसनं पूजयामास रामायाभिप्रणम्य च । वालव्यजनमादाय न्यषीदत् सचिवासने ॥ २.९१.३८ ॥
āsanaṃ pūjayāmāsa rāmāyābhipraṇamya ca . vālavyajanamādāya nyaṣīdat sacivāsane .. 2.91.38 ..
आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिता: । तत: सेनापति: पश्चात् प्रशास्ता च निषेदतु: ॥ २.९१.३९ ॥
ānupūrvyāniṣeduśca sarve mantripurohitā: . tata: senāpati: paścāt praśāstā ca niṣedatu: .. 2.91.39 ..
ततस्तत्र मुहूर्त्तेन नद्य: पायसकर्दमा: । उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ २.९१.४० ॥
tatastatra muhūrttena nadya: pāyasakardamā: . upātiṣṭhanta bharataṃ bharadvājasya śāsanāt .. 2.91.40 ..
तासामुभयत:कूलं पाण्डुमृत्तिकलेपना: । रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजा: ॥ २.९१.४१ ॥
tāsāmubhayata:kūlaṃ pāṇḍumṛttikalepanā: . ramyāścāvasathā divyā brahmaṇastu prasādajā: .. 2.91.41 ..
तेनैव च मुहूर्त्तेन दिव्याभरणभूषिता: । आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिता: स्त्रिय: ॥ २.९१.४२ ॥
tenaiva ca muhūrttena divyābharaṇabhūṣitā: . āgurviṃśatisāhasrā brahmaṇā prahitā: striya: .. 2.91.42 ..
सुवर्णमणिमुक्तेन प्रवालेन च शोभिता: । आगुर्विंशतिसाहस्रा: कुबेरप्रहिता: स्त्रिय: ॥ २.९१.४३ ॥
suvarṇamaṇimuktena pravālena ca śobhitā: . āgurviṃśatisāhasrā: kuberaprahitā: striya: .. 2.91.43 ..
याभिर्गृहीतपुरुष: सोन्माद इव लक्ष्यते । आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणा: ॥ २.९१.४४ ॥
yābhirgṛhītapuruṣa: sonmāda iva lakṣyate . āgurviṃśatisāhasrā nandanādapsarogaṇā: .. 2.91.44 ..
नारदस्तुम्बुरुर्गोप: प्रवरा: सूर्य्यवर्चस: । एते गन्धर्वराजानो भरतस्याग्रतो जगु: ॥ २.९१.४५ ॥
nāradastumbururgopa: pravarā: sūryyavarcasa: . ete gandharvarājāno bharatasyāgrato jagu: .. 2.91.45 ..
अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना । उपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ॥ २.९१.४६ ॥
alambusā miśrakeśī puṇḍarīkātha vāmanā . upānṛtyaṃstu bharata bharadvājasya śāsanāt .. 2.91.46 ..
यानि माल्यानि देवेषु यानि चैत्ररथे वने । प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥ २.९१.४७ ॥
yāni mālyāni deveṣu yāni caitrarathe vane . prayāge tānyadṛśyanta bharadvājasya tejasā .. 2.91.47 ..
बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतका: । अश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ॥ २.९१.४८ ॥
bilvā mārdaṅgikā āsan śamyāgrāhā vibhītakā: . aśvatthānarttakāścāsan bharadvājasya śāsanāt .. 2.91.48 ..
तत: सरलतालाश्च तिलका नक्तमालका: । प्रहृष्टास्तत्र सम्पेतु: कुब्जा भूत्वाथ वामना: ॥ २.९१.४९ ॥
tata: saralatālāśca tilakā naktamālakā: . prahṛṣṭāstatra sampetu: kubjā bhūtvātha vāmanā: .. 2.91.49 ..
शिंशुपामलकीजम्ब्वो याश्चान्या: काननेषु ता: । मालती मल्लिका जातिर्याश्चान्या: कानने लता: ॥ २.९१.५० ॥
śiṃśupāmalakījambvo yāścānyā: kānaneṣu tā: . mālatī mallikā jātiryāścānyā: kānane latā: .. 2.91.50 ..
प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवदन् । सुरा: सुरापा: पिबत पायसं च बुभुक्षिता: । मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥ २.९१.५१ ॥
pramadāvigrahaṃ kṛtvā bharadvājāśrame 'vadan . surā: surāpā: pibata pāyasaṃ ca bubhukṣitā: . māṃsāni ca sumedhyāni bhakṣyantāṃ yāvadicchatha .. 2.91.51 ..
उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु । अप्येकमेकं पुरुषं प्रमदा: सप्त चाष्ट च ॥ २.९१.५२ ॥
ucchādya snāpayanti sma nadītīreṣu valguṣu . apyekamekaṃ puruṣaṃ pramadā: sapta cāṣṭa ca .. 2.91.52 ..
संवाहन्त्य: समापेतुर्नार्यो रुचिरलोचना: । परिमृज्य तथान्योन्यं पाययन्ति वराङ्गना: ॥ २.९१.५३ ॥
saṃvāhantya: samāpeturnāryo ruciralocanā: . parimṛjya tathānyonyaṃ pāyayanti varāṅganā: .. 2.91.53 ..
हयान् गजान् खरानुष्ट्रांस्तथैव सुरभे: सुतान् । अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ॥ २.९१.५४ ॥
hayān gajān kharānuṣṭrāṃstathaiva surabhe: sutān . abhojayan vāhanapāsteṣāṃ bhojyaṃ yathāvidhi .. 2.91.54 ..
इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् । इक्ष्वाकुवरयोधानां चोदयन्तो महाबला: ॥ २.९१.५५ ॥
ikṣūṃśca madhulājāṃśca bhojayanti sma vāhanān . ikṣvākuvarayodhānāṃ codayanto mahābalā: .. 2.91.55 ..
नाश्वबन्धो ऽश्वमाजानान्न गजं कुञ्जरग्रह: । मत्तप्रमत्तमुदिता नमू: सा तत्र सम्बभौ ॥ २.९१.५६ ॥
nāśvabandho 'śvamājānānna gajaṃ kuñjaragraha: . mattapramattamuditā namū: sā tatra sambabhau .. 2.91.56 ..
तर्पिता: सर्वकामैस्ते रक्तचन्दनरूषिता: । अप्सरोगणसंयुक्ता: सैन्या वाचमुदैरयन् ॥ २.९१.५७ ॥
tarpitā: sarvakāmaiste raktacandanarūṣitā: . apsarogaṇasaṃyuktā: sainyā vācamudairayan .. 2.91.57 ..
नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् । कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ २.९१.५८ ॥
naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān . kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham .. 2.91.58 ..
इति पादातयोधाश्च हस्त्यश्वारोह बन्धका: । अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥ २.९१.५९ ॥
iti pādātayodhāśca hastyaśvāroha bandhakā: . anāthāstaṃ vidhiṃ labdhvā vācametāmudairayan .. 2.91.59 ..
सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रश: । भरतस्यानुयातार: स्वर्गोयमिति चाब्रुवन् ॥ २.९१.६० ॥
samprahṛṣṭā vineduste narāstatra sahasraśa: . bharatasyānuyātāra: svargoyamiti cābruvan .. 2.91.60 ..
नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिका: । समन्तात् परिधावन्ति माल्योपेता: सहस्रश: ॥ २.९१.६१ ॥
nṛtyanti sma hasanti sma gāyanti sma ca sainikā: . samantāt paridhāvanti mālyopetā: sahasraśa: .. 2.91.61 ..
ततो भुक्तवतां तेषां तदन्नममृतोपमम् । दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मति: ॥ २.९१.६२ ॥
tato bhuktavatāṃ teṣāṃ tadannamamṛtopamam . divyānudvīkṣya bhakṣyāṃstānabhavadbhakṣaṇe mati: .. 2.91.62 ..
प्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रश: । बभूवुस्ऺते भृशं दृप्ता: सर्वे चाहतवासस: ॥ २.९१.६३ ॥
preṣyāśceṣṭyaśca vadhvaśca balasthāśca sahasraśa: . babhūvus_öte bhṛśaṃ dṛptā: sarve cāhatavāsasa: .. 2.91.63 ..
कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिण: । बभूवु: सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥ २.९१.६४ ॥
kuñjarāśca kharoṣṭrāśca gośvāśca mṛgapakṣiṇa: . babhūvu: subhṛtāstatra nānyo hyanyamakalpayat .. 2.91.64 ..
नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनो ऽपि वा । रजसा ध्वस्तकेशो वा नर: कश्चिददृश्यत ॥ २.९१.६५ ॥
nāśuklavāsāstatrāsīt kṣudhito malino 'pi vā . rajasā dhvastakeśo vā nara: kaścidadṛśyata .. 2.91.65 ..
आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयै: । फलनिर्यूहसंसिद्धै: सूपैर्गन्धरसान्वितै: ॥ २.९१.६६ ॥
ājaiścāpi ca vārāhairniṣṭhānavarasañcayai: . phalaniryūhasaṃsiddhai: sūpairgandharasānvitai: .. 2.91.66 ..
पुष्पध्वजवती: पूर्णा: शुक्लस्यान्नस्य चाभित: । ददृशुर्विस्मितास्तत्र नरा लौही: सहस्रश: ॥ २.९१.६७ ॥
puṣpadhvajavatī: pūrṇā: śuklasyānnasya cābhita: . dadṛśurvismitāstatra narā lauhī: sahasraśa: .. 2.91.67 ..
बभूवुर्वनपार्श्वेषु कूपा: पायसकर्दमा: । ताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुत: ॥ २.९१.६८ ॥
babhūvurvanapārśveṣu kūpā: pāyasakardamā: . tāśca kāmadughā gāvo drumāścāsan madhusruta: .. 2.91.68 ..
वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृता: । प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटै: ॥ २.९१.६९ ॥
vāpyo maireyapūrṇāśca mṛṣṭamāṃsacayairvṛtā: . prataptapiṭharaiścāpi mārgamāyūrakaukkuṭai: .. 2.91.69 ..
पात्रीणां च सहस्राणि स्थालीनां नियुतानि च । न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥ २.९१.७० ॥
pātrīṇāṃ ca sahasrāṇi sthālīnāṃ niyutāni ca . nyarbudāni ca pātrāṇi śātakumbhamayāni ca .. 2.91.70 ..
स्थाल्य: कुम्भ्य: करम्भ्यश्च दधिपूर्णा: सुसंस्कृता: । यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिन: ॥ २.९१.७१ ॥
sthālya: kumbhya: karambhyaśca dadhipūrṇā: susaṃskṛtā: . yauvanasthasya gaurasya kapitthasya sugandhina: .. 2.91.71 ..
ह्रदा: पूर्णा रसालस्य दघ्न: श्वेतस्य चापरे । बभूवु: पायसस्यान्ये शर्करायाश्च सञ्चया: ॥ २.९१.७२ ॥
hradā: pūrṇā rasālasya daghna: śvetasya cāpare . babhūvu: pāyasasyānye śarkarāyāśca sañcayā: .. 2.91.72 ..
कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च । ददृशुर्भाजनस्थानि तीर्थेषु सरितां नरा: ॥ २.९१.७३ ॥
kalkāṃścūrṇakaṣāyāṃśca snānāni vividhāni ca . dadṛśurbhājanasthāni tīrtheṣu saritāṃ narā: .. 2.91.73 ..
शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् । शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठत: ॥ २.९१.७४ ॥
śuklānaṃśumataścāpi dantadhāvanasañcayān . śuklāṃścandanakalkāṃśca samudgeṣvavatiṣṭhata: .. 2.91.74 ..
दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् । पादुकोपानहश्चैव युग्मानि च सहस्रश: ॥ २.९१.७५ ॥
darpaṇān parimṛṣṭāṃśca vāsasāṃ cāpi sañcayān . pādukopānahaścaiva yugmāni ca sahasraśa: .. 2.91.75 ..
आञ्जनी: कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च । मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥ २.९१.७६ ॥
āñjanī: kaṅkatān kūrcān śastrāṇi ca dhanūṃṣi ca . marmatrāṇāni citrāṇi śayanānyāsanāni ca .. 2.91.76 ..
प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् । अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ॥ २.९१.७७ ॥
pratipānahradān pūrṇān kharoṣṭragajavājinām . avagāhya sutīrthāṃśca hradān sotpalapuṣkarān .. 2.91.77 ..
आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान् । नीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ॥ २.९१.७८ ॥
ākāśavarṇapratimān svacchatoyān sukhaplavān . nīlavaiḍūryyavarṇāṃśca mṛdūn yavasasañcayān .. 2.91.78 ..
निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वश: ॥ २.९१.७९ ॥
nirvāpārthān paśūnāṃ te dadṛśustatra sarvaśa: .. 2.91.79 ..
व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् । दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ॥ २.९१.८० ॥
vyasmayanta manuṣyāste svapnakalpaṃ tadadbhutam . dṛṣṭvātithyaṃ kṛtaṃ tādṛk bharatasya maharṣiṇā .. 2.91.80 ..
इत्येवं रममाणानां देवानामिव नन्दने । भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ॥ २.९१.८१ ॥
ityevaṃ ramamāṇānāṃ devānāmiva nandane . bharadvājāśrame ramye sā rātrirvyatyavarttata .. 2.91.81 ..
प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् । भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गना: ॥ २.९१.८२ ॥
pratijagmuśca tā nadyo gandharvāśca yathāgatam . bharadvājamanujñāpya tāśca sarvā varāṅganā: .. 2.91.82 ..
तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिता: । तथैव दिव्या विविधा: स्रगुत्तमा: पृथक् प्रकीर्णा मनुजै: प्रमर्दिता: ॥ २.९१.८३ ॥
tathaiva mattā madirotkaṭā narāstathaiva divyāgurucandanokṣitā: . tathaiva divyā vividhā: sraguttamā: pṛthak prakīrṇā manujai: pramarditā: .. 2.91.83 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकनवतितम: सर्ग: ॥ ९१ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe ekanavatitama: sarga: .. 91 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In