This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वानवतितम: सर्गः ॥२-९२॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे द्वानवतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe dvānavatitamaḥ sargaḥ ..2..
ततस्तां रजनीं व्युष्य भरत: सपरिच्छद: । कृतातिथ्यो भरद्वाजं कामादभिजगाम ऺह ॥ २.९२.१ ॥
ततस् ताम् रजनीम् व्युष्य भरतः स परिच्छदः । कृत-आतिथ्यः भरद्वाजम् कामात् अभिजगाम ह ॥ २।९२।१ ॥
tatas tām rajanīm vyuṣya bharataḥ sa paricchadaḥ . kṛta-ātithyaḥ bharadvājam kāmāt abhijagāma ha .. 2.92.1 ..
तमृषि: पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् । हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत ॥ २.९२.२ ॥
तम् ऋषिः पुरुष-व्याघ्रम् प्राञ्जलिम् प्रेक्ष्य च आगतम् । हुत-अग्निहोत्रः भरतम् भरद्वाजः अभ्यभाषत ॥ २।९२।२ ॥
tam ṛṣiḥ puruṣa-vyāghram prāñjalim prekṣya ca āgatam . huta-agnihotraḥ bharatam bharadvājaḥ abhyabhāṣata .. 2.92.2 ..
कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता । समग्रस्ते जन: कच्चिदातिथ्ये शंस मे ऽनघ ॥ २.९२.३ ॥
कच्चित् अत्र सुखा रात्रिः तव अस्मद्-विषये गता । समग्रः ते जनः कच्चित् आतिथ्ये शंस मे अनघ ॥ २।९२।३ ॥
kaccit atra sukhā rātriḥ tava asmad-viṣaye gatā . samagraḥ te janaḥ kaccit ātithye śaṃsa me anagha .. 2.92.3 ..
तमुवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च । आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ॥ २.९२.४ ॥
तम् उवाच अञ्जलिम् कृत्वा भरतः अभिप्रणम्य च । आश्रमात् अभिनिष्क्रान्तम् ऋषिम् उत्तम-तेजसम् ॥ २।९२।४ ॥
tam uvāca añjalim kṛtvā bharataḥ abhipraṇamya ca . āśramāt abhiniṣkrāntam ṛṣim uttama-tejasam .. 2.92.4 ..
सुखोषितो ऽस्मि भगवन् समग्रबलवाहन: । तर्पित: सर्वकामैश्च सामात्यो बलवत्त्वया ॥ २.९२.५ ॥
सुख-उषितः अस्मि भगवन् समग्र-बल-वाहन । तर्पितः सर्व-कामैः च स अमात्यः बलवत् त्वया ॥ २।९२।५ ॥
sukha-uṣitaḥ asmi bhagavan samagra-bala-vāhana . tarpitaḥ sarva-kāmaiḥ ca sa amātyaḥ balavat tvayā .. 2.92.5 ..
अपेतक्लमसन्तापा: सुभिक्षा: सुप्रतिश्रया: । अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिता: ॥ २.९२.६ ॥
अपेत-क्लम-सन्तापाः सुभिक्षाः सु प्रतिश्रयाः । अपि प्रेष्यान् उपादाय सर्वे स्म सु सुख-उषिताः ॥ २।९२।६ ॥
apeta-klama-santāpāḥ subhikṣāḥ su pratiśrayāḥ . api preṣyān upādāya sarve sma su sukha-uṣitāḥ .. 2.92.6 ..
आमन्त्रये ऽहं भगवन् कामं त्वामृषिसत्तम । समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ॥ २.९२.७ ॥
आमन्त्रये अहम् भगवन् कामम् त्वाम् ऋषि-सत्तम । समीपम् प्रस्थितम् भ्रातुः मैत्रेण ईक्षस्व चक्षुषा ॥ २।९२।७ ॥
āmantraye aham bhagavan kāmam tvām ṛṣi-sattama . samīpam prasthitam bhrātuḥ maitreṇa īkṣasva cakṣuṣā .. 2.92.7 ..
आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मन: । आचक्ष्व कतमो मार्ग: कियानिति च शंस मे ॥ २.९२.८ ॥
आश्रमम् तस्य धर्म-ज्ञ धार्मिकस्य महात्मनः । आचक्ष्व कतमः मार्गः कियान् इति च शंस मे ॥ २।९२।८ ॥
āśramam tasya dharma-jña dhārmikasya mahātmanaḥ . ācakṣva katamaḥ mārgaḥ kiyān iti ca śaṃsa me .. 2.92.8 ..
इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् । प्रत्युवाच महातेजा भरद्वाजो महातपा: ॥ २.९२.९ ॥
इति पृष्टः तु भरतम् भ्रातृ-दर्शन-लालसम् । प्रत्युवाच महा-तेजाः भरद्वाजः महा-तपाः ॥ २।९२।९ ॥
iti pṛṣṭaḥ tu bharatam bhrātṛ-darśana-lālasam . pratyuvāca mahā-tejāḥ bharadvājaḥ mahā-tapāḥ .. 2.92.9 ..
भरतार्द्धतृतीयेषु योजनेष्वजने वने । चित्रकूटो गिरिस्तत्र रम्यनिर्दरकानन: ॥ २.९२.१० ॥
भरत अर्द्ध-तृतीयेषु योजनेषु अजने वने । चित्रकूटः गिरिः तत्र रम्य-निर्दर-कानन ॥ २।९२।१० ॥
bharata arddha-tṛtīyeṣu yojaneṣu ajane vane . citrakūṭaḥ giriḥ tatra ramya-nirdara-kānana .. 2.92.10 ..
उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी । पुष्ऺिपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ॥ २.९२.११ ॥
उत्तरम् पार्श्वम् आसाद्य तस्य मन्दाकिनी नदी । रम्य-पुष्पित-कानना ॥ २।९२।११ ॥
uttaram pārśvam āsādya tasya mandākinī nadī . ramya-puṣpita-kānanā .. 2.92.11 ..
अनन्तरं तत्सरितश्चित्रकूटश्च पर्वत: । तयो: पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ॥ २.९२.१२ ॥
अनन्तरम् तद्-सरितः चित्रकूटः च पर्वतः । तयोः पर्ण-कुटी तात तत्र तौ वसतः ध्रुवम् ॥ २।९२।१२ ॥
anantaram tad-saritaḥ citrakūṭaḥ ca parvataḥ . tayoḥ parṇa-kuṭī tāta tatra tau vasataḥ dhruvam .. 2.92.12 ..
दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा । गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते । वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ॥ २.९२.१३ ॥
दक्षिणेन एव मार्गेण सव्य-दक्षिणम् एव वा । गज-वाजि-रथ-आकीर्णाम् वाहिनीम् वाहिनीपते । वाहयस्व महाभाग ततस् द्रक्ष्यसि राघवम् ॥ २।९२।१३ ॥
dakṣiṇena eva mārgeṇa savya-dakṣiṇam eva vā . gaja-vāji-ratha-ākīrṇām vāhinīm vāhinīpate . vāhayasva mahābhāga tatas drakṣyasi rāghavam .. 2.92.13 ..
प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषित: । हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ॥ २.९२.१४ ॥
प्रयाणम् इति तत् श्रुत्वा राजराजस्य योषितः । हित्वा यानानि यान-अर्हाः ब्राह्मणम् पर्यवारयन् ॥ २।९२।१४ ॥
prayāṇam iti tat śrutvā rājarājasya yoṣitaḥ . hitvā yānāni yāna-arhāḥ brāhmaṇam paryavārayan .. 2.92.14 ..
वेपमाना कृशा ऺदीना सह देव्या सुमित्रया । कौसल्या तत्र जग्राह कराभ्यां चरणौ मुने: ॥ २.९२.१५ ॥
वेपमाना कृशा अ दीना सह देव्या सुमित्रया । कौसल्या तत्र जग्राह कराभ्याम् चरणौ मुने ॥ २।९२।१५ ॥
vepamānā kṛśā a dīnā saha devyā sumitrayā . kausalyā tatra jagrāha karābhyām caraṇau mune .. 2.92.15 ..
असमृद्धेन कामेन सर्वलोकस्य गर्हिता । कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ॥ २.९२.१६ ॥
असमृद्धेन कामेन सर्व-लोकस्य गर्हिता । कैकेयी तस्य जग्राह चरणौ स व्यपत्रपा ॥ २।९२।१६ ॥
asamṛddhena kāmena sarva-lokasya garhitā . kaikeyī tasya jagrāha caraṇau sa vyapatrapā .. 2.92.16 ..
तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् । अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ॥ २.९२.१७ ॥
तम् प्रदक्षिणम् आगम्य भगवन्तम् महा-मुनिम् । अदूरात् भरतस्य एव तस्थौ दीन-मनाः तदा ॥ २।९२।१७ ॥
tam pradakṣiṇam āgamya bhagavantam mahā-munim . adūrāt bharatasya eva tasthau dīna-manāḥ tadā .. 2.92.17 ..
तत: पप्रच्छ भरतं भरद्वाजो दृढव्रत: । विशेषं ज्ञातुमिच्छामि मातऽणां तव राघव ॥ २.९२.१८ ॥
ततस् पप्रच्छ भरतम् भरद्वाजः दृढ-व्रतः । विशेषम् ज्ञातुम् इच्छामि तव राघव ॥ २।९२।१८ ॥
tatas papraccha bharatam bharadvājaḥ dṛḍha-vrataḥ . viśeṣam jñātum icchāmi tava rāghava .. 2.92.18 ..
एवमुक्तस्तु भरतो भरद्वाजेन धार्मिक: । उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविद: ॥ २.९२.१९ ॥
एवम् उक्तः तु भरतः भरद्वाजेन धार्मिकः । उवाच प्राञ्जलिः भूत्वा वाक्यम् वचन-कोविदः ॥ २।९२।१९ ॥
evam uktaḥ tu bharataḥ bharadvājena dhārmikaḥ . uvāca prāñjaliḥ bhūtvā vākyam vacana-kovidaḥ .. 2.92.19 ..
यामिमां भगवन् दीनां शोकानशनकर्शिताम् । पितुर्हि महिषीं देवीं देवतामिव पश्यसि ॥ २.९२.२० ॥
याम् इमाम् भगवन् दीनाम् शोक-अनशन-कर्शिताम् । पितुः हि महिषीम् देवीम् देवताम् इव पश्यसि ॥ २।९२।२० ॥
yām imām bhagavan dīnām śoka-anaśana-karśitām . pituḥ hi mahiṣīm devīm devatām iva paśyasi .. 2.92.20 ..
एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् । कौसल्या सुषुवे रामं धातारमदितिर्यथा ॥ २.९२.२१ ॥
एषा तम् पुरुष-व्याघ्रम् सिंह-विक्रान्त-गामिनम् । कौसल्या सुषुवे रामम् धातारम् अदितिः यथा ॥ २।९२।२१ ॥
eṣā tam puruṣa-vyāghram siṃha-vikrānta-gāminam . kausalyā suṣuve rāmam dhātāram aditiḥ yathā .. 2.92.21 ..
अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मना: । कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ॥ २.९२.२२ ॥
अस्य अवाम-भुजम् श्लिष्टा या एषा तिष्ठति दुर्मनाः । कर्णिकारस्य शाखा इव शीर्ण-पुष्पा वन-अन्तरे ॥ २।९२।२२ ॥
asya avāma-bhujam śliṣṭā yā eṣā tiṣṭhati durmanāḥ . karṇikārasya śākhā iva śīrṇa-puṣpā vana-antare .. 2.92.22 ..
एतस्यास्तु सुतौ देव्या: कुमारौ देववर्णिनौ । उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ॥ २.९२.२३ ॥
एतस्याः तु सुतौ देव्याः कुमारौ देव-वर्णिनौ । उभौ लक्ष्मण-शत्रुघ्नौ वीरौ सत्य-पराक्रमौ ॥ २।९२।२३ ॥
etasyāḥ tu sutau devyāḥ kumārau deva-varṇinau . ubhau lakṣmaṇa-śatrughnau vīrau satya-parākramau .. 2.92.23 ..
यस्या: कृते नरव्याघ्रौ जीवनाशमितो गतौ । राजपुत्रविहीनश्च स्वर्गं दशरथो गत: ॥ २.९२.२४ ॥
यस्याः कृते नर-व्याघ्रौ जीव-नाशम् इतस् गतौ । राज-पुत्र-विहीनः च स्वर्गम् दशरथः गत ॥ २।९२।२४ ॥
yasyāḥ kṛte nara-vyāghrau jīva-nāśam itas gatau . rāja-putra-vihīnaḥ ca svargam daśarathaḥ gata .. 2.92.24 ..
क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् । ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम् ॥ २.९२.२५ ॥
क्रोध-नाम-कृत-प्रज्ञाम् दृप्ताम् सुभग-मानिनीम् । ऐश्वर्य-कामाम् कैकेयीम् अनार्य्याम् आर्य-रूपिणीम् ॥ २।९२।२५ ॥
krodha-nāma-kṛta-prajñām dṛptām subhaga-māninīm . aiśvarya-kāmām kaikeyīm anāryyām ārya-rūpiṇīm .. 2.92.25 ..
ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् । यतो मूलं हि पश्यामि व्यसनं महदात्मन: ॥ २.९२.२६ ॥
मम एताम् मातरम् विद्धि नृशंसाम् पाप-निश्चयाम् । यतस् मूलम् हि पश्यामि व्यसनम् महत् आत्मनः ॥ २।९२।२६ ॥
mama etām mātaram viddhi nṛśaṃsām pāpa-niścayām . yatas mūlam hi paśyāmi vyasanam mahat ātmanaḥ .. 2.92.26 ..
इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा । स निशश्वास ताम्राक्षो नाग: क्रुद्ध इव श्वसन् ॥ २.९२.२७ ॥
इति उक्त्वा नर-शार्दूलः बाष्प-गद्गदया गिरा । स निशश्वास ताम्र-अक्षः नागः क्रुद्धः इव श्वसन् ॥ २।९२।२७ ॥
iti uktvā nara-śārdūlaḥ bāṣpa-gadgadayā girā . sa niśaśvāsa tāmra-akṣaḥ nāgaḥ kruddhaḥ iva śvasan .. 2.92.27 ..
भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा । प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ॥ २.९२.२८ ॥
भरद्वाजः महा-ऋषिः तम् ब्रुवन्तम् भरतम् तथा । प्रत्युवाच महा-बुद्धिः इदम् वचनम् अर्थवत् ॥ २।९२।२८ ॥
bharadvājaḥ mahā-ṛṣiḥ tam bruvantam bharatam tathā . pratyuvāca mahā-buddhiḥ idam vacanam arthavat .. 2.92.28 ..
न दोषेणावगन्तव्या कैकेयी भरत त्वया । रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ॥ २.९२.२९ ॥
न दोषेण अवगन्तव्या कैकेयी भरत त्वया । राम-प्रव्राजनम् हि एतत् सुख-उदर्कम् भविष्यति ॥ २।९२।२९ ॥
na doṣeṇa avagantavyā kaikeyī bharata tvayā . rāma-pravrājanam hi etat sukha-udarkam bhaviṣyati .. 2.92.29 ..
देवानां दानवानां च ऋषीणां भावितात्मनाम् । हितमेव भविष्यद्धि रामप्रव्राजनादिह ॥ २.९२.३० ॥
देवानाम् दानवानाम् च ऋषीणाम् भावितात्मनाम् । हितम् एव भविष्यत् हि राम-प्रव्राजनात् इह ॥ २।९२।३० ॥
devānām dānavānām ca ṛṣīṇām bhāvitātmanām . hitam eva bhaviṣyat hi rāma-pravrājanāt iha .. 2.92.30 ..
अभिवाद्य तु संसिद्ध: कृत्वा चैनं प्रदक्षिणम् । आमन्त्र्य भरत: सेन्यं युज्यतामित्यचोदयत् ॥ २.९२.३१ ॥
अभिवाद्य तु संसिद्धः कृत्वा च एनम् प्रदक्षिणम् । आमन्त्र्य भरतः सेन्यम् युज्यताम् इति अचोदयत् ॥ २।९२।३१ ॥
abhivādya tu saṃsiddhaḥ kṛtvā ca enam pradakṣiṇam . āmantrya bharataḥ senyam yujyatām iti acodayat .. 2.92.31 ..
ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान् । अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जन: ॥ २.९२.३२ ॥
ततस् वाजि-रथान् युक्त्वा दिव्यान् हेम-परिष्कृतान् । अध्यारोहत् प्रयाण-अर्थी बहून् बहुविधः जनः ॥ २।९२।३२ ॥
tatas vāji-rathān yuktvā divyān hema-pariṣkṛtān . adhyārohat prayāṇa-arthī bahūn bahuvidhaḥ janaḥ .. 2.92.32 ..
गजकन्या गजाश्चैव हेमकक्ष्या: पताकिन: । जीमूता इव घर्मान्ते सघोषा: सम्प्रतस्थिरे ॥ २.९२.३३ ॥
गजकन्याः गजाः च एव हेम-कक्ष्याः पताकिनः । जीमूताः इव घर्म-अन्ते स घोषाः सम्प्रतस्थिरे ॥ २।९२।३३ ॥
gajakanyāḥ gajāḥ ca eva hema-kakṣyāḥ patākinaḥ . jīmūtāḥ iva gharma-ante sa ghoṣāḥ sampratasthire .. 2.92.33 ..
विविधान्यपि यानानि महान्ति च लघूनि च । प्रययु: सुमहार्हाणि पादैरेव पदातय: ॥ २.९२.३४ ॥
विविधानि अपि यानानि महान्ति च लघूनि च । प्रययुः सु महार्हाणि पादैः एव पदातयः ॥ २।९२।३४ ॥
vividhāni api yānāni mahānti ca laghūni ca . prayayuḥ su mahārhāṇi pādaiḥ eva padātayaḥ .. 2.92.34 ..
अथ यानप्रवेकैस्तु कौसल्याप्रमुखा: स्त्रिय: । रामदर्शनकांक्षिण्य: प्रययुर्मुदितास्तदा ॥ २.९२.३५ ॥
अथ यान-प्रवेकैः तु कौसल्या-प्रमुखाः स्त्रियः । राम-दर्शन-कांक्षिण्यः प्रययुः मुदिताः तदा ॥ २।९२।३५ ॥
atha yāna-pravekaiḥ tu kausalyā-pramukhāḥ striyaḥ . rāma-darśana-kāṃkṣiṇyaḥ prayayuḥ muditāḥ tadā .. 2.92.35 ..
चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् । आस्थाय प्रययौ श्रीमान् भरत: सपरिच्छद: ॥ २.९२.३६ ॥
चन्द्र-अर्क-तरुण-आभासाम् नियुक्ताम् शिबिकाम् शुभाम् । आस्थाय प्रययौ श्रीमान् भरतः स परिच्छदः ॥ २।९२।३६ ॥
candra-arka-taruṇa-ābhāsām niyuktām śibikām śubhām . āsthāya prayayau śrīmān bharataḥ sa paricchadaḥ .. 2.92.36 ..
सा प्रयाता महासेना गजवाजिरथाकुला । दक्षिणां दिशमावृत्य महामेघ इवोत्थित: ॥ २.९२.३७ ॥
सा प्रयाता महा-सेना गज-वाजि-रथ-आकुला । दक्षिणाम् दिशम् आवृत्य महा-मेघः इव उत्थितः ॥ २।९२।३७ ॥
sā prayātā mahā-senā gaja-vāji-ratha-ākulā . dakṣiṇām diśam āvṛtya mahā-meghaḥ iva utthitaḥ .. 2.92.37 ..
वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभि: । गङ्गाया: परवेलायां गिरिष्वपि नदीषु च ॥ २.९२.३८ ॥
वनानि तु व्यतिक्रम्य जुष्टानि मृग-पक्षिभिः । गङ्गायाः पर-वेलायाम् गिरिषु अपि नदीषु च ॥ २।९२।३८ ॥
vanāni tu vyatikramya juṣṭāni mṛga-pakṣibhiḥ . gaṅgāyāḥ para-velāyām giriṣu api nadīṣu ca .. 2.92.38 ..
सा सम्प्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् । महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ॥ २.९२.३९ ॥
सा सम्प्रहृष्ट-द्विज-वाजि-योधा वित्रासयन्ती मृग-पक्षि-सङ्घान् । महत् वनम् तत् प्रतिगाहमाना रराज सेना भरतस्य तत्र ॥ २।९२।३९ ॥
sā samprahṛṣṭa-dvija-vāji-yodhā vitrāsayantī mṛga-pakṣi-saṅghān . mahat vanam tat pratigāhamānā rarāja senā bharatasya tatra .. 2.92.39 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विनवतितम: सर्ग: ॥ ९२ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे द्विनवतितमः सर्गः ॥ ९२ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe dvinavatitamaḥ sargaḥ .. 92 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In