This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिनवतितम: सर्गः ॥२-९३॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे त्रिनवतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe trinavatitamaḥ sargaḥ ..2..
तया महत्या यायिन्या ध्वजिन्या वनवासिन: । अर्द्दिता यूथपा मत्ता: सयूथा: सम्प्रदुद्रुवु: ॥ २.९३.१ ॥
तया महत्या यायिन्या ध्वजिन्या वन-वासिनः । अर्द्दिताः यूथपाः मत्ताः स यूथाः सम्प्रदुद्रुवुः ॥ २।९३।१ ॥
tayā mahatyā yāyinyā dhvajinyā vana-vāsinaḥ . ardditāḥ yūthapāḥ mattāḥ sa yūthāḥ sampradudruvuḥ .. 2.93.1 ..
ऋक्षा: पृषतसङ्घाश्च रुरवश्च समतन्त: । दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ॥ २.९३.२॥
ऋक्षाः पृषत-सङ्घाः च रुरवः च समतन्त । दृश्यन्ते वन-राजीषु गिरिषु अपि नदीषु च ॥ २।९३।२॥
ṛkṣāḥ pṛṣata-saṅghāḥ ca ruravaḥ ca samatanta . dṛśyante vana-rājīṣu giriṣu api nadīṣu ca .. 2.93.2..
स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मज: । वृतो महत्या नादिन्या सेनया चतुरङ्गया ॥ २.९३.३ ॥
स सम्प्रतस्थे धर्म-आत्मा प्रीतः दशरथ-आत्मजः । वृतः महत्या नादिन्या सेनया चतुरङ्गया ॥ २।९३।३ ॥
sa sampratasthe dharma-ātmā prītaḥ daśaratha-ātmajaḥ . vṛtaḥ mahatyā nādinyā senayā caturaṅgayā .. 2.93.3 ..
सागरौघनिभा सेना भरतस्य महात्मन: । महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुद: ॥ २.९३.४ ॥
सागर-ओघ-निभा सेना भरतस्य महात्मनः । महीम् सञ्छादयामास प्रावृषि द्याम् इव अम्बुदः ॥ २।९३।४ ॥
sāgara-ogha-nibhā senā bharatasya mahātmanaḥ . mahīm sañchādayāmāsa prāvṛṣi dyām iva ambudaḥ .. 2.93.4 ..
चिरकालमित्यनेन कदाचिल्लक्ष्यत इति गम्यते ॥ २.९३.५ ॥
चिर-कालम् इति अनेन कदाचिद् लक्ष्यते इति गम्यते ॥ २।९३।५ ॥
cira-kālam iti anena kadācid lakṣyate iti gamyate .. 2.93.5 ..
स यात्वा दूरमध्वानं सुपरिश्रान्तवाहन: । उवाच भरत: श्रीमान् वसिष्ठं मन्त्रिणां वरम् ॥ २.९३.६ ॥
स यात्वा दूरम् अध्वानम् सु परिश्रान्त-वाहनः । उवाच भरत श्रीमान् वसिष्ठम् मन्त्रिणाम् वरम् ॥ २।९३।६ ॥
sa yātvā dūram adhvānam su pariśrānta-vāhanaḥ . uvāca bharata śrīmān vasiṣṭham mantriṇām varam .. 2.93.6 ..
यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया । व्यक्तं प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत् ॥ २.९३.७ ॥
यादृशम् लक्ष्यते रूपम् यथा च एव श्रुतम् मया । व्यक्तम् प्राप्ताः स्म तम् देशम् भरद्वाजः यम् अब्रवीत् ॥ २।९३।७ ॥
yādṛśam lakṣyate rūpam yathā ca eva śrutam mayā . vyaktam prāptāḥ sma tam deśam bharadvājaḥ yam abravīt .. 2.93.7 ..
अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी । एतत् प्रकाशते दूरान्नीलमेघनिभं वनम् ॥ २.९३.८ ॥
अयम् गिरिः चित्रकूटः इयम् मन्दाकिनी नदी । एतत् प्रकाशते दूरात् नील-मेघ-निभम् वनम् ॥ २।९३।८ ॥
ayam giriḥ citrakūṭaḥ iyam mandākinī nadī . etat prakāśate dūrāt nīla-megha-nibham vanam .. 2.93.8 ..
गिरे: सानूनि रम्याणि चित्रकूटस्य सम्प्रति । वारणैरवमृद्यन्ते मामकै: पर्वतोपमै: ॥ २.९३.९ ॥
गिरे सानूनि रम्याणि चित्रकूटस्य सम्प्रति । वारणैः अवमृद्यन्ते मामकैः पर्वत-उपमैः ॥ २।९३।९ ॥
gire sānūni ramyāṇi citrakūṭasya samprati . vāraṇaiḥ avamṛdyante māmakaiḥ parvata-upamaiḥ .. 2.93.9 ..
मुञ्चन्ति कुसुमान्येते नगा: पर्वतसानुषु । नीला इवातपापाये तोयं तोयधरा घना: ॥ २.९३.१० ॥
मुञ्चन्ति कुसुमानि एते नगाः पर्वत-सानुषु । नीलाः इव आतप-अपाये तोयम् तोयधराः घनाः ॥ २।९३।१० ॥
muñcanti kusumāni ete nagāḥ parvata-sānuṣu . nīlāḥ iva ātapa-apāye toyam toyadharāḥ ghanāḥ .. 2.93.10 ..
किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् । मृगै: समन्तादाकीर्णं मकरैरिव सागरम् ॥ २.९३.११ ॥
किन्नर-आचरितम् देशम् पश्य शत्रुघ्न पर्वतम् । मृगैः समन्तात् आकीर्णम् मकरैः इव सागरम् ॥ २।९३।११ ॥
kinnara-ācaritam deśam paśya śatrughna parvatam . mṛgaiḥ samantāt ākīrṇam makaraiḥ iva sāgaram .. 2.93.11 ..
एते मृगगणा भान्ति शीघ्रवेगा: प्रचोदिता: । वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ॥ २.९३.१२ ॥
एते मृग-गणाः भान्ति शीघ्र-वेगाः प्रचोदिताः । वायु-प्रविद्धा शरदि मेघ-राजिः इव अम्बरे ॥ २।९३।१२ ॥
ete mṛga-gaṇāḥ bhānti śīghra-vegāḥ pracoditāḥ . vāyu-praviddhā śaradi megha-rājiḥ iva ambare .. 2.93.12 ..
कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी । मेघप्रकाशै: फलकैर्दाक्षिणात्या यथा नरा: ॥ २.९३.१३ ॥
कुर्वन्ति कुसुम-आपीडान् शिरस्सु सुरभीन् अमी । मेघ-प्रकाशैः फलकैः दाक्षिणात्याः यथा नराः ॥ २।९३।१३ ॥
kurvanti kusuma-āpīḍān śirassu surabhīn amī . megha-prakāśaiḥ phalakaiḥ dākṣiṇātyāḥ yathā narāḥ .. 2.93.13 ..
निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् । अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ॥ २.९३.१४ ॥
निष्कूजम् इव भूत्वा इदम् वनम् घोर-प्रदर्शनम् । अयोध्या इव जन-आकीर्णा सम्प्रति प्रतिभाति मा ॥ २।९३।१४ ॥
niṣkūjam iva bhūtvā idam vanam ghora-pradarśanam . ayodhyā iva jana-ākīrṇā samprati pratibhāti mā .. 2.93.14 ..
खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति । तं वहत्यनिल: शीघ्रं कुर्वन्निव मम प्रियम् ॥ २.९३.१५ ॥
खुरैः उदीरितः रेणुः दिवम् प्रच्छाद्य तिष्ठति । तम् वहति अनिलः शीघ्रम् कुर्वन् इव मम प्रियम् ॥ २।९३।१५ ॥
khuraiḥ udīritaḥ reṇuḥ divam pracchādya tiṣṭhati . tam vahati anilaḥ śīghram kurvan iva mama priyam .. 2.93.15 ..
स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान् । एतान् सम्पतत: शीघ्रं पश्य शत्रुघ्न कानने ॥ २.९३.१६ ॥
स्यन्दनान् तुरग-उपेतान् सूत-मुख्यैः अधिष्ठितान् । एतान् सम्पतत शीघ्रम् पश्य शत्रुघ्न कानने ॥ २।९३।१६ ॥
syandanān turaga-upetān sūta-mukhyaiḥ adhiṣṭhitān . etān sampatata śīghram paśya śatrughna kānane .. 2.93.16 ..
एतान् वित्रासितान् पश्य बर्हिण: प्रियदर्शनान् । एतमाविशत: शीघ्रमधिवासं पतत्ऺित्रण: ॥ २.९३.१७ ॥
एतान् वित्रासितान् पश्य बर्हिणः प्रिय-दर्शनान् । एतम् आविशत शीघ्रम् अधिवासम् पतत् मित्रणः ॥ २।९३।१७ ॥
etān vitrāsitān paśya barhiṇaḥ priya-darśanān . etam āviśata śīghram adhivāsam patat mitraṇaḥ .. 2.93.17 ..
अतिमात्रमयं देशो मनोज्ञ: प्रतिभाति मा । तापसानां निवासो ऽयं व्यक्तं स्वर्गपथो यथा ॥ २.९३.१८ ॥
अतिमात्रम् अयम् देशः मनोज्ञः प्रतिभाति मा । तापसानाम् निवासः अयम् व्यक्तम् स्वर्ग-पथः यथा ॥ २।९३।१८ ॥
atimātram ayam deśaḥ manojñaḥ pratibhāti mā . tāpasānām nivāsaḥ ayam vyaktam svarga-pathaḥ yathā .. 2.93.18 ..
मृगा मृगीभि: सहिता बहव: पृषता वने । मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिता: ॥ २.९३.१९ ॥
मृगाः मृगीभिः सहिताः बहवः पृषताः वने । मनोज्ञ-रूपाः लक्ष्यन्ते कुसुमैः इव चित्रिता ॥ २।९३।१९ ॥
mṛgāḥ mṛgībhiḥ sahitāḥ bahavaḥ pṛṣatāḥ vane . manojña-rūpāḥ lakṣyante kusumaiḥ iva citritā .. 2.93.19 ..
साधुसैन्या: प्रतिष्ठन्तां विचिन्वन्तु च कानने । यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥ २.९३.२० ॥
साधु-सैन्याः प्रतिष्ठन्ताम् विचिन्वन्तु च कानने । यथा तौ पुरुष-व्याघ्रौ दृश्येते राम-लक्ष्मणौ ॥ २।९३।२० ॥
sādhu-sainyāḥ pratiṣṭhantām vicinvantu ca kānane . yathā tau puruṣa-vyāghrau dṛśyete rāma-lakṣmaṇau .. 2.93.20 ..
भरतस्य वच: श्रुत्वा पुरुषा: शस्त्रपाणय: । विविशुस्तद्वनं शूरा धूमं च ददृशुस्तत: ॥ २.९३.२१ ॥
भरतस्य वचः श्रुत्वा पुरुषाः शस्त्र-पाणयः । विविशुः तत् वनम् शूराः धूमम् च ददृशुः ततस् ॥ २।९३।२१ ॥
bharatasya vacaḥ śrutvā puruṣāḥ śastra-pāṇayaḥ . viviśuḥ tat vanam śūrāḥ dhūmam ca dadṛśuḥ tatas .. 2.93.21 ..
ते समालोक्य धूमाग्रमूचुर्भरतमागता: । नामनुष्ये भवत्याग्निर्व्यक्तमत्रैव राघवौ ॥ २.९३.२२ ॥
ते समालोक्य धूम-अग्रम् ऊचुः भरतम् आगताः । न अमनुष्ये भवत्या अग्निः व्यक्तम् अत्र एव राघवौ ॥ २।९३।२२ ॥
te samālokya dhūma-agram ūcuḥ bharatam āgatāḥ . na amanuṣye bhavatyā agniḥ vyaktam atra eva rāghavau .. 2.93.22 ..
अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ । मन्ये रामोपमा: सन्ति व्यक्तमत्र तपस्विन: ॥ २.९३.२३ ॥
अथ ना अत्र नर-व्याघ्रौ राज-पुत्रौ परन्तपौ । मन्ये राम-उपमाः सन्ति व्यक्तम् अत्र तपस्विनः ॥ २।९३।२३ ॥
atha nā atra nara-vyāghrau rāja-putrau parantapau . manye rāma-upamāḥ santi vyaktam atra tapasvinaḥ .. 2.93.23 ..
तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् । सैन्यानुवाच सर्वांस्तानमित्रबलमर्दन: ॥ २.९३.२४ ॥
तत् श्रुत्वा भरतः तेषाम् वचनम् साधु-सम्मतम् । सैन्यान् उवाच सर्वान् तान् अमित्र-बल-मर्दनः ॥ २।९३।२४ ॥
tat śrutvā bharataḥ teṣām vacanam sādhu-sammatam . sainyān uvāca sarvān tān amitra-bala-mardanaḥ .. 2.93.24 ..
यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रत: । अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ॥ २.९३.२५ ॥
यत्ताः भवन्तः तिष्ठन्तु न इतस् गन्तव्यम् अग्रतः । अहम् एव गमिष्यामि सुमन्त्रः गुरुः एव च ॥ २।९३।२५ ॥
yattāḥ bhavantaḥ tiṣṭhantu na itas gantavyam agrataḥ . aham eva gamiṣyāmi sumantraḥ guruḥ eva ca .. 2.93.25 ..
एवमुक्तास्तत: सर्वे तत्र तस्थु: समन्तत: । भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ॥ २.९३.२६ ॥
एवम् उक्ताः ततस् सर्वे तत्र तस्थुः समन्ततः । भरतः यत्र धूम-अग्रम् तत्र दृष्टिम् समादधात् ॥ २।९३।२६ ॥
evam uktāḥ tatas sarve tatra tasthuḥ samantataḥ . bharataḥ yatra dhūma-agram tatra dṛṣṭim samādadhāt .. 2.93.26 ..
व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रत: । बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ॥ २.९३.२७ ॥
व्यवस्थिता या भरतेन सा चमूः निरीक्षमाणा अपि च धूमम् अग्रतः । बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमम् तदा ॥ २।९३।२७ ॥
vyavasthitā yā bharatena sā camūḥ nirīkṣamāṇā api ca dhūmam agrataḥ . babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamam tadā .. 2.93.27 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिनवतितम: सर्ग: ॥ ९३ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे त्रिनवतितमः सर्गः ॥ ९३ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe trinavatitamaḥ sargaḥ .. 93 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In