This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकनवतितम: सर्गः ॥२-९१॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकनवतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekanavatitamaḥ sargaḥ ..2..
दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रिय: । वैदेह्या: प्रियमाकांक्षन् स्वं च चित्तं विलोभयन् ॥ २.९४.१ ॥
दीर्घ-काल-उषितः तस्मिन् गिरौ गिरि-वन-प्रियः । वैदेह्याः प्रियम् आकांक्षन् स्वम् च चित्तम् विलोभयन् ॥ २।९४।१ ॥
dīrgha-kāla-uṣitaḥ tasmin girau giri-vana-priyaḥ . vaidehyāḥ priyam ākāṃkṣan svam ca cittam vilobhayan .. 2.94.1 ..
अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् । भार्य्याममरसङ्काश: शचीमिव पुरन्दर: ॥ २.९४.२ ॥
अथ दाशरथिः चित्रम् चित्रकूटम् अदर्शयत् । भार्य्याम् अमर-सङ्काशः शचीम् इव पुरन्दरः ॥ २।९४।२ ॥
atha dāśarathiḥ citram citrakūṭam adarśayat . bhāryyām amara-saṅkāśaḥ śacīm iva purandaraḥ .. 2.94.2 ..
न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभव: । मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥ २.९४.३ ॥
न राज्यात् भ्रंशनम् भद्रे न सुहृद्भिः विना भव । मनः मे बाधते दृष्ट्वा रमणीयम् इमम् गिरिम् ॥ २।९४।३ ॥
na rājyāt bhraṃśanam bhadre na suhṛdbhiḥ vinā bhava . manaḥ me bādhate dṛṣṭvā ramaṇīyam imam girim .. 2.94.3 ..
पश्येममचलं भद्रे नानाद्विजगणायुतम् । शिखरै: खमिवोद्विद्धैर्द्धातुमद्भिर्विभूषितम् ॥ २.९४.४ ॥
पश्य इमम् अचलम् भद्रे नाना द्विज-गण-आयुतम् । शिखरैः खम् इव उद्विद्धैः धातुमद्भिः विभूषितम् ॥ २।९४।४ ॥
paśya imam acalam bhadre nānā dvija-gaṇa-āyutam . śikharaiḥ kham iva udviddhaiḥ dhātumadbhiḥ vibhūṣitam .. 2.94.4 ..
केचिद्रजतसङ्काशा: केचित् क्षतजसन्निभा: । पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभा: ॥ २.९४.५ ॥
केचिद् रजत-सङ्काशाः केचिद् क्षतज-सन्निभाः । पीत-माञ्जिष्ठ-वर्णाः च केचिद् मणि-वर-प्रभाः ॥ २।९४।५ ॥
kecid rajata-saṅkāśāḥ kecid kṣataja-sannibhāḥ . pīta-māñjiṣṭha-varṇāḥ ca kecid maṇi-vara-prabhāḥ .. 2.94.5 ..
पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभा: । विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिता: ॥ २.९४.६ ॥
पुष्प-अर्क-केतक-आभाः च केचिद् ज्योतीरस-प्रभाः । विराजन्ते अचल-इन्द्रस्य देशाः धातु-विभूषिताः ॥ २।९४।६ ॥
puṣpa-arka-ketaka-ābhāḥ ca kecid jyotīrasa-prabhāḥ . virājante acala-indrasya deśāḥ dhātu-vibhūṣitāḥ .. 2.94.6 ..
नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृत: । अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुत: ॥ २.९४.७ ॥
नाना मृग-गण-द्वीपि-तरक्षु-ऋक्ष-गणैः वृतः । अदुष्टैः भाति अयम् शैलः बहु-पक्षि-समायुतः ॥ २।९४।७ ॥
nānā mṛga-gaṇa-dvīpi-tarakṣu-ṛkṣa-gaṇaiḥ vṛtaḥ . aduṣṭaiḥ bhāti ayam śailaḥ bahu-pakṣi-samāyutaḥ .. 2.94.7 ..
आम्रजम्ब्वसनैर्लोध्रै: प्रियालै: पनसैर्धवै: । अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभि: ॥ २.९४.८ ॥
आम्र-जम्बु-असनैः लोध्रैः प्रियालैः पनसैः धवैः । अङ्कोलैः भव्य-तिनिशैः बिल्व-तिन्दुक-वेणुभिः ॥ २।९४।८ ॥
āmra-jambu-asanaiḥ lodhraiḥ priyālaiḥ panasaiḥ dhavaiḥ . aṅkolaiḥ bhavya-tiniśaiḥ bilva-tinduka-veṇubhiḥ .. 2.94.8 ..
काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा । बदर्य्यामलकैर्नीपैर्वेत्रधन्वनबीजकै: ॥ २.९४.९ ॥
काश्मरी-अरिष्ट-वरुणैः मधूकैः तिलकैः तथा । बदरी-आमलकैः नीपैः वेत्र-धन्वन-बीजकैः ॥ २।९४।९ ॥
kāśmarī-ariṣṭa-varuṇaiḥ madhūkaiḥ tilakaiḥ tathā . badarī-āmalakaiḥ nīpaiḥ vetra-dhanvana-bījakaiḥ .. 2.94.9 ..
पुष्पवद्भि: फलोपेतैश्छायावद्भिर्मनोरमै: । एवमादिभिराकीर्ण: श्रियं पुष्यत्ययं गिरि: ॥ २.९४.१० ॥
पुष्पवद्भिः फल-उपेतैः छायावद्भिः मनोरमैः । एवमादिभिः आकीर्णः श्रियम् पुष्यति अयम् गिरिः ॥ २।९४।१० ॥
puṣpavadbhiḥ phala-upetaiḥ chāyāvadbhiḥ manoramaiḥ . evamādibhiḥ ākīrṇaḥ śriyam puṣyati ayam giriḥ .. 2.94.10 ..
शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् । किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विन: ॥ २.९४.११ ॥
शैल-प्रस्थेषु रम्येषु पश्य इमान् रोम-हर्षणान् । किन्नरान् द्वन्द्वशस् भद्रे रममाणान् मनस्विनः ॥ २।९४।११ ॥
śaila-prastheṣu ramyeṣu paśya imān roma-harṣaṇān . kinnarān dvandvaśas bhadre ramamāṇān manasvinaḥ .. 2.94.11 ..
शाखावसक्तान् खङ्गांश्च प्रवराण्यम्बराणि च । पश्च विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ॥ २.९४.१२ ॥
शाखा-अवसक्तान् खङ्गान् च प्रवराणि अम्बराणि च । पश्च विद्याधर-स्त्रीणाम् क्रीडा-उद्देशात् मनोरमान् ॥ २।९४।१२ ॥
śākhā-avasaktān khaṅgān ca pravarāṇi ambarāṇi ca . paśca vidyādhara-strīṇām krīḍā-uddeśāt manoramān .. 2.94.12 ..
जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित् । स्रवद्भिर्भात्ययं शैल: स्रवन्मद इव द्विप: ॥ २.९४.१३ ॥
जल-प्रपातैः उद्भेदैः निस्यन्दैः च क्वचिद् क्वचिद् । स्रवद्भिः भाति अयम् शैलः स्रवत्-मदः इव द्विपः ॥ २।९४।१३ ॥
jala-prapātaiḥ udbhedaiḥ nisyandaiḥ ca kvacid kvacid . sravadbhiḥ bhāti ayam śailaḥ sravat-madaḥ iva dvipaḥ .. 2.94.13 ..
गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् । घ्राणतर्प्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥ २.९४.१४ ॥
गुहा-समीरणः गन्धान् नाना पुष्प-भवान् वहन् । घ्राण-तर्प्पणम् अभ्येत्य कम् नरम् न प्रहर्षयेत् ॥ २।९४।१४ ॥
guhā-samīraṇaḥ gandhān nānā puṣpa-bhavān vahan . ghrāṇa-tarppaṇam abhyetya kam naram na praharṣayet .. 2.94.14 ..
यदीह शरदो ऽनेकास्त्वया सार्द्धमनिन्दिते । लक्ष्मणेन च वत्स्यामि न मां शोक: प्रधक्ष्यति ॥ २.९४.१५ ॥
यदि इह शरदः अनेकाः त्वया सार्द्धम् अनिन्दिते । लक्ष्मणेन च वत्स्यामि न माम् शोकः प्रधक्ष्यति ॥ २।९४।१५ ॥
yadi iha śaradaḥ anekāḥ tvayā sārddham anindite . lakṣmaṇena ca vatsyāmi na mām śokaḥ pradhakṣyati .. 2.94.15 ..
बहुपुष्पफले रम्ये नानाद्विजगणायुते । विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि ॥ २.९४.१६ ॥
बहु-पुष्प-फले रम्ये नाना द्विज-गण-आयुते । विचित्र-शिखरे हि अस्मिन् रतवान् अस्मि भामिनि ॥ २।९४।१६ ॥
bahu-puṣpa-phale ramye nānā dvija-gaṇa-āyute . vicitra-śikhare hi asmin ratavān asmi bhāmini .. 2.94.16 ..
अनेन वनवासेन मया प्राप्तं फलद्वयम् । पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥ २.९४.१७ ॥
अनेन वन-वासेन मया प्राप्तम् फल-द्वयम् । पितुः च अनृण-ता धर्मे भरतस्य प्रियम् तथा ॥ २।९४।१७ ॥
anena vana-vāsena mayā prāptam phala-dvayam . pituḥ ca anṛṇa-tā dharme bharatasya priyam tathā .. 2.94.17 ..
वैदेहि रमसे कच्चिच्चित्रकूटे मया सह । पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् ॥ २.९४.१८ ॥
वैदेहि रमसे कच्चित् चित्रकूटे मया सह । पश्यन्ती विविधान् भावान् मनः-वाच्-काय-संयतान् ॥ २।९४।१८ ॥
vaidehi ramase kaccit citrakūṭe mayā saha . paśyantī vividhān bhāvān manaḥ-vāc-kāya-saṃyatān .. 2.94.18 ..
इदमेवामृतं प्राहू राज्ञि राजर्षय: परे । वनवासं भवार्थाय प्रेत्य मे प्रपितामहा: ॥ २.९४.१९ ॥
इदम् एव अमृतम् प्राहुः राज्ञि राजर्षयः परे । वन-वासम् भव-अर्थाय प्रेत्य मे प्रपितामहाः ॥ २।९४।१९ ॥
idam eva amṛtam prāhuḥ rājñi rājarṣayaḥ pare . vana-vāsam bhava-arthāya pretya me prapitāmahāḥ .. 2.94.19 ..
शिला: शैलस्य शोभन्ते विशाला: शतशो ऽभित: । बहुला बहुलैर्वर्णैर्नीलपीतसितारुणै: ॥ २.९४.२० ॥
शिलाः शैलस्य शोभन्ते विशालाः शतशस् अभितस् । बहुलाः बहुलैः वर्णैः नील-पीत-सित-अरुणैः ॥ २।९४।२० ॥
śilāḥ śailasya śobhante viśālāḥ śataśas abhitas . bahulāḥ bahulaiḥ varṇaiḥ nīla-pīta-sita-aruṇaiḥ .. 2.94.20 ..
निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव । ओषध्य: स्वप्रभालक्ष्या भ्राजमाना: सहस्रश: ॥ २.९४.२१ ॥
निशि भान्ति अचल-इन्द्रस्य हुताशन-शिखाः इव । ओषध्यः स्व-प्रभा-लक्ष्याः भ्राजमानाः सहस्रशस् ॥ २।९४।२१ ॥
niśi bhānti acala-indrasya hutāśana-śikhāḥ iva . oṣadhyaḥ sva-prabhā-lakṣyāḥ bhrājamānāḥ sahasraśas .. 2.94.21 ..
केचित् क्षयनिभा देशा: केचिदुद्यानसन्निभा: । केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ॥ २.९४.२२ ॥
केचिद् क्षय-निभाः देशाः केचिद् उद्यान-सन्निभाः । केचिद् एक-शिलाः भान्ति पर्वतस्य अस्य भामिनि ॥ २।९४।२२ ॥
kecid kṣaya-nibhāḥ deśāḥ kecid udyāna-sannibhāḥ . kecid eka-śilāḥ bhānti parvatasya asya bhāmini .. 2.94.22 ..
भित्त्वेव वसुधां भाति चित्रकूट: समुत्थित: । चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वत: शुभ: ॥ २.९४.२३ ॥
भित्त्वा इव वसुधाम् भाति चित्रकूटः समुत्थितः । चित्रकूटस्य कूटः असौ दृश्यते सर्वतस् शुभः ॥ २।९४।२३ ॥
bhittvā iva vasudhām bhāti citrakūṭaḥ samutthitaḥ . citrakūṭasya kūṭaḥ asau dṛśyate sarvatas śubhaḥ .. 2.94.23 ..
कुष्ठपुन्नागस्ऺथगरभूर्जपत्रोत्तरच्छदान् । कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ॥ २.९४.२४ ॥
कुष्ठ-पुन्नाग-स्ऺथगर-भूर्ज-पत्त्र-उत्तरच्छदान् । कामिनाम् सु आस्तरान् पश्य कुशेशय-दल-आयुतान् ॥ २।९४।२४ ॥
kuṣṭha-punnāga-s_öthagara-bhūrja-pattra-uttaracchadān . kāminām su āstarān paśya kuśeśaya-dala-āyutān .. 2.94.24 ..
मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रज: । कामिभिर्वनिते पश्य फलानि विविधानि च ॥ २.९४.२५ ॥
मृदिताः च अपविद्धाः च दृश्यन्ते कमल-स्रजः । कामिभिः वनिते पश्य फलानि विविधानि च ॥ २।९४।२५ ॥
mṛditāḥ ca apaviddhāḥ ca dṛśyante kamala-srajaḥ . kāmibhiḥ vanite paśya phalāni vividhāni ca .. 2.94.25 ..
वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून् । पर्वतश्चित्रकूटो ऽसौ बहुमूलफलोदक: ॥ २.९४.२६ ॥
वस्वौक-साराम् नलिनीम् अत्येति इव उत्तरान् कुरून् । पर्वतः चित्रकूटः असौ बहु-मूलफल-उदकः ॥ २।९४।२६ ॥
vasvauka-sārām nalinīm atyeti iva uttarān kurūn . parvataḥ citrakūṭaḥ asau bahu-mūlaphala-udakaḥ .. 2.94.26 ..
इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च । रतिं प्रपत्स्ये कुलधर्मवर्द्धनीं सतां पथि स्वैर्नियमै: परै: स्थित: ॥ २.९४.२७ ॥
इमम् तु कालम् वनिते विजह्रिवान् त्वया च सीते सह लक्ष्मणेन च । रतिम् प्रपत्स्ये कुल-धर्म-वर्द्धनीम् सताम् पथि स्वैः नियमैः परैः स्थित ॥ २।९४।२७ ॥
imam tu kālam vanite vijahrivān tvayā ca sīte saha lakṣmaṇena ca . ratim prapatsye kula-dharma-varddhanīm satām pathi svaiḥ niyamaiḥ paraiḥ sthita .. 2.94.27 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्नवतितम: सर्ग: ॥ ९४ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे चतुर्नवतितमः सर्गः ॥ ९४ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe caturnavatitamaḥ sargaḥ .. 94 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In