This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टानवतितम: सर्गः ॥२-९८॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे अष्टानवतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe aṣṭānavatitamaḥ sargaḥ ..2..
निवेश्य सेनां तु विभु: पद्भ्यां पादवतां वर:। अभिगन्तुं स काकुत्स्थमियेष गुरुवर्त्तकम् ॥ २.९८.१ ॥
निवेश्य सेनाम् तु विभुः पद्भ्याम् पादवताम् वरः। अभिगन्तुम् स काकुत्स्थम् इयेष गुरु-वर्त्तकम् ॥ २।९८।१ ॥
niveśya senām tu vibhuḥ padbhyām pādavatām varaḥ. abhigantum sa kākutstham iyeṣa guru-varttakam .. 2.98.1 ..
निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत्। भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ॥ २.९८.२ ॥
निविष्ट-मात्रे सैन्ये तु यथोद्देशम् विनीत-वत्। भरतः भ्रातरम् वाक्यम् शत्रुघ्नम् इदम् अब्रवीत् ॥ २।९८।२ ॥
niviṣṭa-mātre sainye tu yathoddeśam vinīta-vat. bharataḥ bhrātaram vākyam śatrughnam idam abravīt .. 2.98.2 ..
क्षिप्रं वनमिदं सौम्य नरसङ्घै: समन्तत:। लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि ॥ २.९८.३ ॥
क्षिप्रम् वनम् इदम् सौम्य नर-सङ्घैः समन्ततः। लुब्धैः च सहितैः एभिः त्वम् अन्वेषितुम् अर्हसि ॥ २।९८।३ ॥
kṣipram vanam idam saumya nara-saṅghaiḥ samantataḥ. lubdhaiḥ ca sahitaiḥ ebhiḥ tvam anveṣitum arhasi .. 2.98.3 ..
गुहो ज्ञातिसहस्रेण शरचापासिधारिणा। समन्वेषतु काकुत्स्थावस्मिन् परिवृत: स्वयम् ॥ २.९८.४ ॥
गुहः ज्ञाति-सहस्रेण शर-चाप-असि-धारिणा। समन्वेषतु काकुत्स्थौ अस्मिन् परिवृतः स्वयम् ॥ २।९८।४ ॥
guhaḥ jñāti-sahasreṇa śara-cāpa-asi-dhāriṇā. samanveṣatu kākutsthau asmin parivṛtaḥ svayam .. 2.98.4 ..
अमात्यै: सह पौरैश्च गुरुभिश्च द्विजातिभि:। वनं सर्वं चरिष्यामि पद्भ्यां परिवृत: स्वयम् ॥ २.९८.५ ॥
अमात्यैः सह पौरैः च गुरुभिः च द्विजातिभिः। वनम् सर्वम् चरिष्यामि पद्भ्याम् परिवृतः स्वयम् ॥ २।९८।५ ॥
amātyaiḥ saha pauraiḥ ca gurubhiḥ ca dvijātibhiḥ. vanam sarvam cariṣyāmi padbhyām parivṛtaḥ svayam .. 2.98.5 ..
यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्। वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति ॥ २.९८.६ ॥
यावत् न रामम् द्रक्ष्यामि लक्ष्मणम् वा महा-बलम्। वैदेहीम् वा महाभागाम् न मे शान्तिः भविष्यति ॥ २।९८।६ ॥
yāvat na rāmam drakṣyāmi lakṣmaṇam vā mahā-balam. vaidehīm vā mahābhāgām na me śāntiḥ bhaviṣyati .. 2.98.6 ..
यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम्। भ्रातु: पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ॥ २.९८.७ ॥
यावत् न चन्द्र-सङ्काशम् द्रक्ष्यामि शुभम् आननम्। भ्रातु पद्म-पलाश-अक्षम् न मे शान्तिः भविष्यति ॥ २।९८।७ ॥
yāvat na candra-saṅkāśam drakṣyāmi śubham ānanam. bhrātu padma-palāśa-akṣam na me śāntiḥ bhaviṣyati .. 2.98.7 ..
यावन्न चरणौ भ्रातु: पार्थिवव्यञ्जनान्वितौ। शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ॥ २.९८.८ ॥
यावत् न चरणौ पार्थिव-व्यञ्जन-अन्वितौ। शिरसा धारयिष्यामि न मे शान्तिः भविष्यति ॥ २।९८।८ ॥
yāvat na caraṇau pārthiva-vyañjana-anvitau. śirasā dhārayiṣyāmi na me śāntiḥ bhaviṣyati .. 2.98.8 ..
यावन्न राज्ये राज्यार्ह: पितृपैतामहे स्थित:। अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्ऺयति ॥ २.९८.९ ॥
यावत् न राज्ये राज्य-अर्हः पितृपैतामहे स्थितः। अभिषेक-जल-क्लिन्नः न मे शान्तिः भविष्यति ॥ २।९८।९ ॥
yāvat na rājye rājya-arhaḥ pitṛpaitāmahe sthitaḥ. abhiṣeka-jala-klinnaḥ na me śāntiḥ bhaviṣyati .. 2.98.9 ..
सिद्धार्थ: खलु सौमित्रिर्यश्चन्द्रविमलोपमम्। मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ॥ २.९८.१० ॥
सिद्धार्थ खलु सौमित्रिः यः चन्द्र-विमल-उपमम्। मुखम् पश्यति रामस्य राजीव-अक्षम् महा-द्युति ॥ २।९८।१० ॥
siddhārtha khalu saumitriḥ yaḥ candra-vimala-upamam. mukham paśyati rāmasya rājīva-akṣam mahā-dyuti .. 2.98.10 ..
कृतकत्या महाभागा वैदेही जनकात्मजा। भर्तारं सागरान्ताया: पृथिव्या याऽनुगच्छति ॥ २.९८.११ ॥
कृत-कत्या महाभागा वैदेही जनकात्मजा। भर्तारम् सागर-अन्तायाः पृथिव्याः या अनुगच्छति ॥ २।९८।११ ॥
kṛta-katyā mahābhāgā vaidehī janakātmajā. bhartāram sāgara-antāyāḥ pṛthivyāḥ yā anugacchati .. 2.98.11 ..
सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरि:। यस्मिन् वसति काकुत्स्थ: कुबेर इव नन्दने ॥ २.९८.१२ ॥
सुभगः चित्रकूटः असौ गिरि-राज-उपमः गिरिः। यस्मिन् वसति काकुत्स्थ कुबेरः इव नन्दने ॥ २।९८।१२ ॥
subhagaḥ citrakūṭaḥ asau giri-rāja-upamaḥ giriḥ. yasmin vasati kākutstha kuberaḥ iva nandane .. 2.98.12 ..
कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्। यदध्यास्ते महातेजा राम: शस्त्रभृतां वर: ॥ २.९८.१३ ॥
कृत-कार्यम् इदम् दुर्गम् वनम् व्याल-निषेवितम्। यत् अध्यास्ते महा-तेजाः रामः शस्त्रभृताम् वरः ॥ २।९८।१३ ॥
kṛta-kāryam idam durgam vanam vyāla-niṣevitam. yat adhyāste mahā-tejāḥ rāmaḥ śastrabhṛtām varaḥ .. 2.98.13 ..
एवमुक्त्वा महातेजा भरत: पुरुषर्षभ:। पद्भ्यामेव महाबाहु: प्रविवेश महद्वनम् ॥ २.९८.१४ ॥
एवम् उक्त्वा महा-तेजाः भरतः पुरुष-ऋषभः। पद्भ्याम् एव महा-बाहु प्रविवेश महत् वनम् ॥ २।९८।१४ ॥
evam uktvā mahā-tejāḥ bharataḥ puruṣa-ṛṣabhaḥ. padbhyām eva mahā-bāhu praviveśa mahat vanam .. 2.98.14 ..
स तानि द्रुमजालानि जातानि गिरिसानुषु। पुष्पिताग्राणि मध्येन जगाम वदतां वर: ॥ २.९८.१५ ॥
स तानि द्रुम-जालानि जातानि गिरि-सानुषु। पुष्पित-अग्राणि मध्येन जगाम वदताम् वरः ॥ २।९८।१५ ॥
sa tāni druma-jālāni jātāni giri-sānuṣu. puṣpita-agrāṇi madhyena jagāma vadatām varaḥ .. 2.98.15 ..
समीपत्वात्तन्मूलदर्शनमिति न पुनरुक्ति: ॥ २.९८.१६ ॥
समीप-त्वात् तद्-मूल-दर्शनम् इति न पुनरुक्तिः ॥ २।९८।१६ ॥
samīpa-tvāt tad-mūla-darśanam iti na punaruktiḥ .. 2.98.16 ..
तं दृष्ट्वा भरत: श्रीमान् मुमोह सहबान्धव:। अत्र राम इति ज्ञात्वा गत: पारमिवाम्भस: ॥ २.९८.१७ ॥
तम् दृष्ट्वा भरतः श्रीमान् मुमोह सहबान्धवः। अत्र रामः इति ज्ञात्वा गतः पारम् इव अम्भसः ॥ २।९८।१७ ॥
tam dṛṣṭvā bharataḥ śrīmān mumoha sahabāndhavaḥ. atra rāmaḥ iti jñātvā gataḥ pāram iva ambhasaḥ .. 2.98.17 ..
स चित्रकूटे तु गिरौ निशम्य रामाश्रमं पुण्यजनोपपन्नम्। गुहेन सार्द्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा ॥ २.९८.१८ ॥
स चित्रकूटे तु गिरौ निशम्य राम-आश्रमम् पुण्य-जन-उपपन्नम्। गुहेन सार्द्धम् त्वरितः जगाम पुनर् निवेश्य एव चमूम् महात्मा ॥ २।९८।१८ ॥
sa citrakūṭe tu girau niśamya rāma-āśramam puṇya-jana-upapannam. guhena sārddham tvaritaḥ jagāma punar niveśya eva camūm mahātmā .. 2.98.18 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टनवतितम: सर्ग: ॥ ९८ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे अष्टनवतितमः सर्गः ॥ ९८ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe aṣṭanavatitamaḥ sargaḥ .. 98 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In