This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवनवतितम: सर्गः ॥२-९९॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे नवनवतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe navanavatitamaḥ sargaḥ ..2..
निविष्टायां तु सेनायामुत्सुको भरतस्तदा। जगाम भ्रातरं द्रष्टुं शत्रुध्नमनुदर्शयन् ॥ २.९९.१ ॥
निविष्टायाम् तु सेनायाम् उत्सुकः भरतः तदा। जगाम भ्रातरम् द्रष्टुम् शत्रुध्नम् अनुदर्शयन् ॥ २।९९।१ ॥
niviṣṭāyām tu senāyām utsukaḥ bharataḥ tadā. jagāma bhrātaram draṣṭum śatrudhnam anudarśayan .. 2.99.1 ..
ऋषिं वसिष्ठं सन्दिश्य मातऽर्मे शीघ्रमानय। इति त्वरितमग्रे स जगाम गुरुवत्सल: ॥ २.९९.२ ॥
ऋषिम् वसिष्ठम् सन्दिश्य मातर् अर्मे शीघ्रम् आनय। इति त्वरितम् अग्रे स जगाम गुरु-वत्सलः ॥ २।९९।२ ॥
ṛṣim vasiṣṭham sandiśya mātar arme śīghram ānaya. iti tvaritam agre sa jagāma guru-vatsalaḥ .. 2.99.2 ..
सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत। रामदर्शनजस्तर्षो भरतस्येव तस्य च ॥ २.९९.३ ॥
सुमन्त्रः तु अपि शत्रुघ्नम् अदूरात् अन्वपद्यत। राम-दर्शन-जः तर्षः भरतस्य इव तस्य च ॥ २।९९।३ ॥
sumantraḥ tu api śatrughnam adūrāt anvapadyata. rāma-darśana-jaḥ tarṣaḥ bharatasya iva tasya ca .. 2.99.3 ..
गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम्। भ्रातु: पर्णकुटीं श्रीमानुटजं च ददर्श ह ॥ २.९९.४ ॥
गच्छन् एव अथ भरतः तापस-आलय-संस्थिताम्। भ्रातुः पर्ण-कुटीम् श्री-मानुट-जम् च ददर्श ह ॥ २।९९।४ ॥
gacchan eva atha bharataḥ tāpasa-ālaya-saṃsthitām. bhrātuḥ parṇa-kuṭīm śrī-mānuṭa-jam ca dadarśa ha .. 2.99.4 ..
शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा। काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च ॥ २.९९.५ ॥
शालायाः तु अग्रतस् तस्याः ददर्श भरतः तदा। काष्ठानि च अवभग्नानि पुष्पाणि उपचितानि च ॥ २।९९।५ ॥
śālāyāḥ tu agratas tasyāḥ dadarśa bharataḥ tadā. kāṣṭhāni ca avabhagnāni puṣpāṇi upacitāni ca .. 2.99.5 ..
सलक्ष्मणस्य रामस्य ददर्शाश्रममीयुष:। कृतं वृक्षेष्वभिज्ञानं कुशचीरै: क्वचित् क्वचित् ॥ २.९९.६ ॥
स लक्ष्मणस्य रामस्य ददर्श आश्रमम् ईयुषः। कृतम् वृक्षेषु अभिज्ञानम् कुश-चीरैः क्वचिद् क्वचिद् ॥ २।९९।६ ॥
sa lakṣmaṇasya rāmasya dadarśa āśramam īyuṣaḥ. kṛtam vṛkṣeṣu abhijñānam kuśa-cīraiḥ kvacid kvacid .. 2.99.6 ..
ददर्श च वने तस्मिन् महत: सञ्चयान् कृतान्। मृगाणां महिषाणां च कऺरीषै: शीतकारणात् ॥ २.९९.७ ॥
ददर्श च वने तस्मिन् महतः सञ्चयान् कृतान्। मृगाणाम् महिषाणाम् च क॰रीषैः शीत-कारणात् ॥ २।९९।७ ॥
dadarśa ca vane tasmin mahataḥ sañcayān kṛtān. mṛgāṇām mahiṣāṇām ca ka॰rīṣaiḥ śīta-kāraṇāt .. 2.99.7 ..
गच्छन्नेव महाबाहुर्द्युतिमान् भरतस्तदा। शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वश: ॥ २.९९.८ ॥
गच्छन् एव महा-बाहुः द्युतिमान् भरतः तदा। शत्रुघ्नम् च अब्रवीत् हृष्टः तान् अमात्यान् च सर्वशस् ॥ २।९९।८ ॥
gacchan eva mahā-bāhuḥ dyutimān bharataḥ tadā. śatrughnam ca abravīt hṛṣṭaḥ tān amātyān ca sarvaśas .. 2.99.8 ..
मन्ये प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत्। नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमित: ॥ २.९९.९ ॥
मन्ये प्राप्ताः स्म तम् देशम् भरद्वाजः यम् अब्रवीत्। न अतिदूरे हि मन्ये अहम् नदीम् मन्दाकिनीम् इतस् ॥ २।९९।९ ॥
manye prāptāḥ sma tam deśam bharadvājaḥ yam abravīt. na atidūre hi manye aham nadīm mandākinīm itas .. 2.99.9 ..
उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम्। अभिज्ञानकृत: पन्था विकाले गन्तुमिच्छता ॥ २.९९.१० ॥
उच्चैस् बद्धानि चीराणि लक्ष्मणेन भवेत् अयम्। अभिज्ञान-कृतः पन्थाः विकाले गन्तुम् इच्छता ॥ २।९९।१० ॥
uccais baddhāni cīrāṇi lakṣmaṇena bhavet ayam. abhijñāna-kṛtaḥ panthāḥ vikāle gantum icchatā .. 2.99.10 ..
इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्। शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् ॥ २.९९.११ ॥
इदम् च उदात्त-दन्तानाम् कुञ्जराणाम् तरस्विनाम्। शैल-पार्श्वे परिक्रान्तम् अन्योन्यम् अभिगर्जताम् ॥ २।९९।११ ॥
idam ca udātta-dantānām kuñjarāṇām tarasvinām. śaila-pārśve parikrāntam anyonyam abhigarjatām .. 2.99.11 ..
यमेवाधातुमिच्छन्ति तापसा: सततं वने। तस्यासौ दृश्यते धूम: सङ्कुल: कृष्णवर्त्मन: ॥ २.९९.१२ ॥
यम् एव आधातुम् इच्छन्ति तापसाः सततम् वने। तस्य असौ दृश्यते धूमः सङ्कुलः कृष्णवर्त्मनः ॥ २।९९।१२ ॥
yam eva ādhātum icchanti tāpasāḥ satatam vane. tasya asau dṛśyate dhūmaḥ saṅkulaḥ kṛṣṇavartmanaḥ .. 2.99.12 ..
अत्राहं पुरुषव्याघ्रं गुरुसंस्कारकारिणम्। आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥ २.९९.१३ ॥
अत्र अहम् पुरुष-व्याघ्रम् गुरु-संस्कार-कारिणम्। आर्यम् द्रक्ष्यामि संहृष्टः महा-ऋषिम् इव राघवम् ॥ २।९९।१३ ॥
atra aham puruṣa-vyāghram guru-saṃskāra-kāriṇam. āryam drakṣyāmi saṃhṛṣṭaḥ mahā-ṛṣim iva rāghavam .. 2.99.13 ..
अथ गत्वा मुहूर्तं तु चित्रकूटं स राघव:। मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ॥ २.९९.१४ ॥
अथ गत्वा मुहूर्तम् तु चित्रकूटम् स राघवः। मन्दाकिनीम् अनुप्राप्तः तम् जनम् च इदम् अब्रवीत् ॥ २।९९।१४ ॥
atha gatvā muhūrtam tu citrakūṭam sa rāghavaḥ. mandākinīm anuprāptaḥ tam janam ca idam abravīt .. 2.99.14 ..
जगत्यां पुरुषव्याघ्र आस्ते वीरासने रत:। जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ॥ २.९९.१५ ॥
जगत्याम् पुरुष-व्याघ्रः आस्ते वीरासने रतः। जन-इन्द्रः निर्जनम् प्राप्य धिक् मे जन्म स जीवितम् ॥ २।९९।१५ ॥
jagatyām puruṣa-vyāghraḥ āste vīrāsane rataḥ. jana-indraḥ nirjanam prāpya dhik me janma sa jīvitam .. 2.99.15 ..
मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युति:। सर्वान् कामान् परित्यज्य वने वसति राघव: ॥ २.९९.१६ ॥
मद्-कृते व्यसनम् प्राप्तः लोक-नाथः महा-द्युतिः। सर्वान् कामान् परित्यज्य वने वसति राघवः ॥ २।९९।१६ ॥
mad-kṛte vyasanam prāptaḥ loka-nāthaḥ mahā-dyutiḥ. sarvān kāmān parityajya vane vasati rāghavaḥ .. 2.99.16 ..
इति लोकसमाक्रुष्ट: पादेष्वद्य प्रसादयन्। रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ॥ २.९९.१७ ॥
इति लोक-समाक्रुष्टः पादेषु अद्य प्रसादयन्। रामस्य निपतिष्यामि सीतायाः लक्ष्मणस्य च ॥ २।९९।१७ ॥
iti loka-samākruṣṭaḥ pādeṣu adya prasādayan. rāmasya nipatiṣyāmi sītāyāḥ lakṣmaṇasya ca .. 2.99.17 ..
एवं स विलपंस्तस्मिन् वने दशरथात्मज:। ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ॥ २.९९.१८ ॥
एवम् स विलपन् तस्मिन् वने दशरथ-आत्मजः। ददर्श महतीम् पुण्याम् पर्ण-शालाम् मनोरमाम् ॥ २।९९।१८ ॥
evam sa vilapan tasmin vane daśaratha-ātmajaḥ. dadarśa mahatīm puṇyām parṇa-śālām manoramām .. 2.99.18 ..
सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम्। विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ॥ २.९९.१९ ॥
साल-ताल-अश्वकर्णानाम् पर्णैः बहुभिः आवृताम्। विशालाम् मृदुभिः तीर्णाम् कुशैः वेदिम् इव अध्वरे ॥ २।९९।१९ ॥
sāla-tāla-aśvakarṇānām parṇaiḥ bahubhiḥ āvṛtām. viśālām mṛdubhiḥ tīrṇām kuśaiḥ vedim iva adhvare .. 2.99.19 ..
शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनै:। रुक्मपृष्टष्ठैर्महासारै: शोभितां शत्रुबाधकै: ॥ २.९९.२० ॥
शक्रायुध-निकाशैः च कार्मुकैः भार-साधनैः। शोभिताम् शत्रु-बाधकैः ॥ २।९९।२० ॥
śakrāyudha-nikāśaiḥ ca kārmukaiḥ bhāra-sādhanaiḥ. śobhitām śatru-bādhakaiḥ .. 2.99.20 ..
अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतै: शरै:। शोभितां दीप्तवदनै: सर्प्पैर्भोगवतीमिव ॥ २.९९.२१ ॥
अर्क-रश्मि-प्रतीकाशैः घोरैः तूणी-गतैः शरैः। शोभिताम् दीप्त-वदनैः सर्प्पैः भोगवतीम् इव ॥ २।९९।२१ ॥
arka-raśmi-pratīkāśaiḥ ghoraiḥ tūṇī-gataiḥ śaraiḥ. śobhitām dīpta-vadanaiḥ sarppaiḥ bhogavatīm iva .. 2.99.21 ..
महारजतवासोभ्यामसिभ्यां च विराजिताम्। रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥ २.९९.२२ ॥
महारजत-वासोभ्याम् असिभ्याम् च विराजिताम्। रुक्म-बिन्दु-विचित्राभ्याम् चर्मभ्याम् च अपि शोभिताम् ॥ २।९९।२२ ॥
mahārajata-vāsobhyām asibhyām ca virājitām. rukma-bindu-vicitrābhyām carmabhyām ca api śobhitām .. 2.99.22 ..
गोधाङ्गुलित्रैरासक्तैश्चित्रै: काञ्चनभूषितै:। अरिसङ्घैरनाधृष्यां मृगै: सिंहगुहामिव ॥ २.९९.२३ ॥
गोधा-अङ्गुलित्रैः आसक्तैः चित्रैः काञ्चन-भूषितैः। अरि-सङ्घैः अनाधृष्याम् मृगैः सिंह-गुहाम् इव ॥ २।९९।२३ ॥
godhā-aṅgulitraiḥ āsaktaiḥ citraiḥ kāñcana-bhūṣitaiḥ. ari-saṅghaiḥ anādhṛṣyām mṛgaiḥ siṃha-guhām iva .. 2.99.23 ..
प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम्। ददर्श भरतस्तत्र पुण्यां रामनिवेशने ॥ २.९९.२४ ॥
प्राच्-उदक्-प्रवणाम् वेदिम् विशालाम् दीप्त-पावकाम्। ददर्श भरतः तत्र पुण्याम् राम-निवेशने ॥ २।९९।२४ ॥
prāc-udak-pravaṇām vedim viśālām dīpta-pāvakām. dadarśa bharataḥ tatra puṇyām rāma-niveśane .. 2.99.24 ..
निरीक्ष्य स मुहूर्त्तं तु ददर्श भरतो गुरम्। उटजे राममासीनं जटामण्डलधारिणम् ॥ २.९९.२५ ॥
निरीक्ष्य स मुहूर्त्तम् तु ददर्श भरतः गुरम्। उटजे रामम् आसीनम् जटा-मण्डल-धारिणम् ॥ २।९९।२५ ॥
nirīkṣya sa muhūrttam tu dadarśa bharataḥ guram. uṭaje rāmam āsīnam jaṭā-maṇḍala-dhāriṇam .. 2.99.25 ..
तं तु कृष्णाजिनधरं चीरवल्कलवाससम्। ददर्श राममासीनमभित: पावकोपमम् ॥ २.९९.२६ ॥
तम् तु कृष्ण-अजिन-धरम् चीर-वल्कल-वाससम्। ददर्श रामम् आसीनम् अभितस् पावक-उपमम् ॥ २।९९।२६ ॥
tam tu kṛṣṇa-ajina-dharam cīra-valkala-vāsasam. dadarśa rāmam āsīnam abhitas pāvaka-upamam .. 2.99.26 ..
सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्। पृथिव्या: सागरान्ताया भर्त्तारं धर्मचारिणम् ॥ २.९९.२७ ॥
सिंह-स्कन्धम् महा-बाहुम् पुण्डरीक-निभ-ईक्षणम्। पृथिव्याः सागर-अन्तायाः भर्त्तारम् धर्म-चारिणम् ॥ २।९९।२७ ॥
siṃha-skandham mahā-bāhum puṇḍarīka-nibha-īkṣaṇam. pṛthivyāḥ sāgara-antāyāḥ bharttāram dharma-cāriṇam .. 2.99.27 ..
उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम्। स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ॥ २.९९.२८ ॥
उपविष्टम् महा-बाहुम् ब्रह्माणम् इव शाश्वतम्। स्थण्डिले दर्भ-संस्तीर्णे सीतया लक्ष्मणेन च ॥ २।९९।२८ ॥
upaviṣṭam mahā-bāhum brahmāṇam iva śāśvatam. sthaṇḍile darbha-saṃstīrṇe sītayā lakṣmaṇena ca .. 2.99.28 ..
तं दृष्ट्वा भरत: श्रीमान् दु:खशोकपरिप्लुत:। अभ्यधावत धर्मात्मा भरत: कैकयीसुत: ॥ २.९९.२९ ॥
तम् दृष्ट्वा भरतः श्रीमान् दुःख-शोक-परिप्लुतः। अभ्यधावत धर्म-आत्मा भरतः कैकयी-सुतः ॥ २।९९।२९ ॥
tam dṛṣṭvā bharataḥ śrīmān duḥkha-śoka-pariplutaḥ. abhyadhāvata dharma-ātmā bharataḥ kaikayī-sutaḥ .. 2.99.29 ..
दृष्ट्वैव विललापार्त्तो बाष्पसन्दिग्धया गिरा। अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् ॥ २.९९.३० ॥
दृष्ट्वा एव विललाप आर्त्तः बाष्प-सन्दिग्धया गिरा। अशक्नुवन् धारयितुम् धैर्यात् वचनम् अब्रवीत् ॥ २।९९।३० ॥
dṛṣṭvā eva vilalāpa ārttaḥ bāṣpa-sandigdhayā girā. aśaknuvan dhārayitum dhairyāt vacanam abravīt .. 2.99.30 ..
य: संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम्। वन्यैर्मृगैरुपासीन: सोऽयमास्ते ममाग्रज: ॥ २.९९.३१ ॥
यः संसदि प्रकृतिभिः भवेत् युक्तः उपासितुम्। वन्यैः मृगैः उपासीनः सः अयम् आस्ते मम अग्रजः ॥ २।९९।३१ ॥
yaḥ saṃsadi prakṛtibhiḥ bhavet yuktaḥ upāsitum. vanyaiḥ mṛgaiḥ upāsīnaḥ saḥ ayam āste mama agrajaḥ .. 2.99.31 ..
वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचित:। मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ॥ २.९९.३२ ॥
वासोभिः बहु-साहस्रैः यः महात्मा पुरा उचित। मृग-अजिने सः अयम् इह प्रवस्ते धर्मम् आचरन् ॥ २।९९।३२ ॥
vāsobhiḥ bahu-sāhasraiḥ yaḥ mahātmā purā ucita. mṛga-ajine saḥ ayam iha pravaste dharmam ācaran .. 2.99.32 ..
अधारयद्यो विविधाश्चित्रा: सुमनसस्तदा सोऽयं जटाभारमिमं वहते राघव: कथम् ॥ २.९९.३३ ॥
अधारयत् यः विविधाः चित्राः सुमनसः तदा सः अयम् जटा-भारम् इमम् वहते राघवः कथम् ॥ २।९९।३३ ॥
adhārayat yaḥ vividhāḥ citrāḥ sumanasaḥ tadā saḥ ayam jaṭā-bhāram imam vahate rāghavaḥ katham .. 2.99.33 ..
यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो धर्मस्य सञ्चय:। शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ॥ २.९९.३४ ॥
यस्य यज्ञैः यथा उद्दिष्टैः युक्तः धर्मस्य सञ्चयः। शरीर-क्लेश-सम्भूतम् स धर्मम् परिमार्गते ॥ २।९९।३४ ॥
yasya yajñaiḥ yathā uddiṣṭaiḥ yuktaḥ dharmasya sañcayaḥ. śarīra-kleśa-sambhūtam sa dharmam parimārgate .. 2.99.34 ..
चन्दनेन महार्हेण यस्याङ्गमुपसेवितम्। मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ॥ २.९९.३५ ॥
चन्दनेन महार्हेण यस्य अङ्गम् उपसेवितम्। मलेन तस्य अङ्गम् इदम् कथम् आर्यस्य सेव्यते ॥ २।९९।३५ ॥
candanena mahārheṇa yasya aṅgam upasevitam. malena tasya aṅgam idam katham āryasya sevyate .. 2.99.35 ..
मन्निमित्तमिदं दु:खं प्राप्तो राम: सुखोचित:। धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ॥ २.९९.३६ ॥
मद्-निमित्तम् इदम् दुःखम् प्राप्तः रामः सुख-उचितः। धिक् जीवितम् नृशंसस्य मम लोक-विगर्हितम् ॥ २।९९।३६ ॥
mad-nimittam idam duḥkham prāptaḥ rāmaḥ sukha-ucitaḥ. dhik jīvitam nṛśaṃsasya mama loka-vigarhitam .. 2.99.36 ..
इत्येवं विलपन् दीन: प्रस्विन्नमुखपङ्कज:। पादावप्राप्य रामस्य पपात भरतो रुदन् ॥ २.९९.३७ ॥
इति एवम् विलपन् दीनः प्रस्विन्न-मुख-पङ्कजः। पादौ अ प्राप्य रामस्य पपात भरतः रुदन् ॥ २।९९।३७ ॥
iti evam vilapan dīnaḥ prasvinna-mukha-paṅkajaḥ. pādau a prāpya rāmasya papāta bharataḥ rudan .. 2.99.37 ..
दु:खाभितप्तो भरतो राजपुत्रो महाबल:। उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किञ्चन ॥ २.९९.३८ ॥
दु:ख-अभितप्तः भरतः राज-पुत्रः महा-बलः। उक्त्वा आर्य इति सकृत् दीनम् पुनर् ना उवाच किञ्चन ॥ २।९९।३८ ॥
du:kha-abhitaptaḥ bharataḥ rāja-putraḥ mahā-balaḥ. uktvā ārya iti sakṛt dīnam punar nā uvāca kiñcana .. 2.99.38 ..
बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम्। आर्येत्येवाथ संक्रुश्य व्याहर्त्तुं नाशकत्तदा ॥ २.९९.३९ ॥
बाष्प-अपिहित-कण्ठः च प्रेक्ष्य रामम् यशस्विनम्। आर्य इति एव अथ संक्रुश्य व्याहर्त्तुम् न अशकत् तदा ॥ २।९९।३९ ॥
bāṣpa-apihita-kaṇṭhaḥ ca prekṣya rāmam yaśasvinam. ārya iti eva atha saṃkruśya vyāharttum na aśakat tadā .. 2.99.39 ..
शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन्। तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्त्तयत् ॥ २.९९.४० ॥
शत्रुघ्नः च अपि रामस्य ववन्दे चरणौ रुदन्। तौ उभौ स समालिङ्ग्य रामः च अश्रूणि अवर्त्तयत् ॥ २।९९।४० ॥
śatrughnaḥ ca api rāmasya vavande caraṇau rudan. tau ubhau sa samāliṅgya rāmaḥ ca aśrūṇi avarttayat .. 2.99.40 ..
तत: सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये। दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ॥ २.९९.४१ ॥
ततस् सुमन्त्रेण गुहेन च एव समीयतुः राज-सुतौ अरण्ये। दिवाकरः च एव निशाकरः च यथा अम्बरे शुक्र-बृहस्पतिभ्याम् ॥ २।९९।४१ ॥
tatas sumantreṇa guhena ca eva samīyatuḥ rāja-sutau araṇye. divākaraḥ ca eva niśākaraḥ ca yathā ambare śukra-bṛhaspatibhyām .. 2.99.41 ..
तान् पार्थिवान् वारणयूथपाभान् समागतांस्तत्र महत्यरण्ये। वनौकसस्तेऽपि समीक्ष्य सर्वेप्यश्रूण्यमुञ्चन् प्रविहाय हर्षम् ॥ २.९९.४२ ॥
तान् पार्थिवान् वारण-यूथप-आभान् समागतान् तत्र महति अरण्ये। वनौकसः ते अपि समीक्ष्य सर्वे पि अश्रूणि अमुञ्चन् प्रविहाय हर्षम् ॥ २।९९।४२ ॥
tān pārthivān vāraṇa-yūthapa-ābhān samāgatān tatra mahati araṇye. vanaukasaḥ te api samīkṣya sarve pi aśrūṇi amuñcan pravihāya harṣam .. 2.99.42 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनशततम: सर्ग: ॥ ९९ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे एकोनशततमः सर्गः ॥ ९९ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe ekonaśatatamaḥ sargaḥ .. 99 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In