This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे बालकाण्डे प्रथमः सर्गः ॥१-१॥
श्रीमत्-वाल्मीकीय-रामायणे बाल-काण्डे प्रथमः सर्गः ॥१॥
śrīmat-vālmīkīya-rāmāyaṇe bāla-kāṇḍe prathamaḥ sargaḥ ..1..
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥१-१-१॥
तपः-स्वाध्याय-निरतम् तपस्वी वाच्-विदाम् वरम् । नारदम् परिपप्रच्छ वाल्मीकिः मुनि-पुङ्गवम् ॥१॥
tapaḥ-svādhyāya-niratam tapasvī vāc-vidām varam . nāradam paripapraccha vālmīkiḥ muni-puṅgavam ..1..
को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् । धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥१-१-२॥
कः नु अस्मिन् साम्प्रतम् लोके गुणवान् कः च वीर्यवान् । धर्म-ज्ञः च कृतज्ञः च सत्य-वाक्यः दृढ-व्रतः ॥१॥
kaḥ nu asmin sāmpratam loke guṇavān kaḥ ca vīryavān . dharma-jñaḥ ca kṛtajñaḥ ca satya-vākyaḥ dṛḍha-vrataḥ ..1..
चारित्रेण च को युक्तः सर्वभूतेषु को हितः । विद्वान्कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥१-१-३॥
चारित्रेण च कः युक्तः सर्व-भूतेषु कः हितः । विद्वान् कः कः समर्थः च कः च एक-प्रिय-दर्शनः ॥१॥
cāritreṇa ca kaḥ yuktaḥ sarva-bhūteṣu kaḥ hitaḥ . vidvān kaḥ kaḥ samarthaḥ ca kaḥ ca eka-priya-darśanaḥ ..1..
आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयकः । कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥१-१-४॥
आत्मवान् कः जित-क्रोधः द्युतिमान् कः अनसूयकः । कस्य बिभ्यति देवाः च जात-रोषस्य संयुगे ॥१॥
ātmavān kaḥ jita-krodhaḥ dyutimān kaḥ anasūyakaḥ . kasya bibhyati devāḥ ca jāta-roṣasya saṃyuge ..1..
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे । महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥१-१-५॥
एतत् इच्छामि अहम् श्रोतुम् परम् कौतूहलम् हि मे । महा-ऋषे त्वम् समर्थः असि ज्ञातुम् एवंविधम् नरम् ॥१॥
etat icchāmi aham śrotum param kautūhalam hi me . mahā-ṛṣe tvam samarthaḥ asi jñātum evaṃvidham naram ..1..
श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः । श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥१-१-६॥
श्रुत्वा च एतत् त्रिलोक-ज्ञः वाल्मीकेः नारदः वचः । श्रूयताम् इति च आमन्त्र्य प्रहृष्टः वाक्यम् अब्रवीत् ॥१॥
śrutvā ca etat triloka-jñaḥ vālmīkeḥ nāradaḥ vacaḥ . śrūyatām iti ca āmantrya prahṛṣṭaḥ vākyam abravīt ..1..
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः । मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥१-१-७॥
बहवः दुर्लभाः च एव ये त्वया कीर्तिताः गुणाः । मुने वक्ष्यामि अहम् बुद्ध्वा तैः युक्तः श्रूयताम् नरः ॥१॥
bahavaḥ durlabhāḥ ca eva ye tvayā kīrtitāḥ guṇāḥ . mune vakṣyāmi aham buddhvā taiḥ yuktaḥ śrūyatām naraḥ ..1..
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः । नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ॥१-१-८॥
इक्ष्वाकु-वंश-प्रभवः रामः नाम जनैः श्रुतः । नियत-आत्मा महा-वीर्यः द्युतिमान् धृतिमान् वशी ॥१॥
ikṣvāku-vaṃśa-prabhavaḥ rāmaḥ nāma janaiḥ śrutaḥ . niyata-ātmā mahā-vīryaḥ dyutimān dhṛtimān vaśī ..1..
बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्छ्त्रुनिबर्हणः । विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥१-१-९॥
बुद्धिमान् नीतिमान् वाग्मी श्रीमान् श्त्रु-निबर्हणः । विपुल-अंसः महा-बाहुः कम्बु-ग्रीवः महा-हनुः ॥१॥
buddhimān nītimān vāgmī śrīmān śtru-nibarhaṇaḥ . vipula-aṃsaḥ mahā-bāhuḥ kambu-grīvaḥ mahā-hanuḥ ..1..
महोरस्को महेष्वासो गूढजत्रुररिन्दमः । आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥१-१-१०॥
महा-उरस्कः महा-इष्वासः गूढ-जत्रुः अरिन्दमः । आजानु बाहुः सु शिराः सु ललाटः सु विक्रमः ॥१॥
mahā-uraskaḥ mahā-iṣvāsaḥ gūḍha-jatruḥ arindamaḥ . ājānu bāhuḥ su śirāḥ su lalāṭaḥ su vikramaḥ ..1..
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् । पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः ॥१-१-११॥
समः सम-विभक्त-अङ्गः स्निग्ध-वर्णः प्रतापवान् । पीन-वक्षाः विशाल-अक्षः लक्ष्मीवान् शुभ-लक्षणः ॥१॥
samaḥ sama-vibhakta-aṅgaḥ snigdha-varṇaḥ pratāpavān . pīna-vakṣāḥ viśāla-akṣaḥ lakṣmīvān śubha-lakṣaṇaḥ ..1..
धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः । यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ॥१-१-१२॥
धर्म-ज्ञः सत्य-सन्धः च प्रजानाम् च हिते रतः । यशस्वी ज्ञान-सम्पन्नः शुचिः वश्यः समाधिमान् ॥१॥
dharma-jñaḥ satya-sandhaḥ ca prajānām ca hite rataḥ . yaśasvī jñāna-sampannaḥ śuciḥ vaśyaḥ samādhimān ..1..
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः । रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता॥१-१-१३॥
प्रजापति-समः श्रीमान् धाता रिपु-निषूदनः । रक्षिता जीव-लोकस्य धर्मस्य परिरक्षिता॥१॥
prajāpati-samaḥ śrīmān dhātā ripu-niṣūdanaḥ . rakṣitā jīva-lokasya dharmasya parirakṣitā..1..
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता । वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥१-१-१४॥
रक्षिता स्वस्य धर्मस्य स्व-जनस्य च रक्षिता । वेद-वेदाङ्ग-तत्त्व-ज्ञः धनुर्वेदे च निष्ठितः ॥१॥
rakṣitā svasya dharmasya sva-janasya ca rakṣitā . veda-vedāṅga-tattva-jñaḥ dhanurvede ca niṣṭhitaḥ ..1..
सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान् प्रतिभानवान् । सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥१-१-१५॥
सर्व-शास्त्र-अर्थ-तत्त्व-ज्ञः स्मृतिमान् प्रतिभानवान् । सर्व-लोक-प्रियः साधुः अदीन-आत्मा विचक्षणः ॥१॥
sarva-śāstra-artha-tattva-jñaḥ smṛtimān pratibhānavān . sarva-loka-priyaḥ sādhuḥ adīna-ātmā vicakṣaṇaḥ ..1..
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः । आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः ॥१-१-१६॥
सर्वदा अभिगतः सद्भिः समुद्रः इव सिन्धुभिः । आर्यः सर्व-समः च एव सदा एव प्रिय-दर्शनः ॥१॥
sarvadā abhigataḥ sadbhiḥ samudraḥ iva sindhubhiḥ . āryaḥ sarva-samaḥ ca eva sadā eva priya-darśanaḥ ..1..
स च सर्व गुणोपेतः कौसल्यानन्दवर्धनः । समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥१-१-१७॥
स च सर्व-गुण-उपेतः कौसल्या-आनन्द-वर्धनः । समुद्रः इव गाम्भीर्ये धैर्येण हिमवान् इव ॥१॥
sa ca sarva-guṇa-upetaḥ kausalyā-ānanda-vardhanaḥ . samudraḥ iva gāmbhīrye dhairyeṇa himavān iva ..1..
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः । कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥१-१-१८॥
विष्णुना सदृशः वीर्ये सोम-वत् प्रिय-दर्शनः । कालाग्नि-सदृशः क्रोधे क्षमया पृथिवी-समः ॥१॥
viṣṇunā sadṛśaḥ vīrye soma-vat priya-darśanaḥ . kālāgni-sadṛśaḥ krodhe kṣamayā pṛthivī-samaḥ ..1..
धनदेन समस्त्यागे सत्ये धर्म इवापरः । तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ॥१-१-१९॥
धनदेन समः त्यागे सत्ये धर्मः इव अपरः । तम् एवम् गुण-सम्पन्नम् रामम् सत्य-पराक्रमम् ॥१॥
dhanadena samaḥ tyāge satye dharmaḥ iva aparaḥ . tam evam guṇa-sampannam rāmam satya-parākramam ..1..
ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् । प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥१-१-२०॥
ज्येष्ठम् ज्येष्ठ-गुणैः युक्तम् प्रियम् दशरथः सुतम् । प्रकृतीनाम् हितैः युक्तम् प्रकृति-प्रिय-काम्यया ॥१॥
jyeṣṭham jyeṣṭha-guṇaiḥ yuktam priyam daśarathaḥ sutam . prakṛtīnām hitaiḥ yuktam prakṛti-priya-kāmyayā ..1..
यौवराज्येन संयोक्तुम् ऐच्छत्प्रीत्या महीपतिः । तस्याभिषेकसम्भारान् दृष्ट्वा भार्याथ कैकयी ॥१-१-२१॥
यौवराज्येन संयोक्तुम् ऐच्छत् प्रीत्या महीपतिः । तस्य अभिषेक-सम्भारान् दृष्ट्वा भार्या अथ कैकयी ॥१॥
yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ . tasya abhiṣeka-sambhārān dṛṣṭvā bhāryā atha kaikayī ..1..
पूर्वं दत्तवरा देवी वरमेनमयाचत । विवासनञ्च रामस्य भरतस्याभिषेचनम् ॥१-१-२२॥
पूर्वम् दत्त-वरा देवी वरम् एनम् अयाचत । विवासनञ्च च रामस्य भरतस्य अभिषेचनम् ॥१॥
pūrvam datta-varā devī varam enam ayācata . vivāsanañca ca rāmasya bharatasya abhiṣecanam ..1..
स सत्यवचनाद्राजा धर्मपाशेन संयतः । विवासयामास सुतं रामं दशरथः प्रियम् ॥१-१-२३॥
स सत्य-वचनात् राजा धर्म-पाशेन संयतः । विवासयामास सुतम् रामम् दशरथः प्रियम् ॥१॥
sa satya-vacanāt rājā dharma-pāśena saṃyataḥ . vivāsayāmāsa sutam rāmam daśarathaḥ priyam ..1..
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् । पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥१-१-२४॥
स जगाम वनम् वीरः प्रतिज्ञाम् अनुपालयन् । पितुः वचन-निर्देशात् कैकेय्याः प्रिय-कारणात् ॥१॥
sa jagāma vanam vīraḥ pratijñām anupālayan . pituḥ vacana-nirdeśāt kaikeyyāḥ priya-kāraṇāt ..1..
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह । स्नेहाद् विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥१-१-२५॥
तम् व्रजन्तम् प्रियः भ्राता लक्ष्मणः अनुजगाम ह । स्नेहात् विनय-सम्पन्नः सुमित्रा-आनन्द-वर्धनः ॥१॥
tam vrajantam priyaḥ bhrātā lakṣmaṇaḥ anujagāma ha . snehāt vinaya-sampannaḥ sumitrā-ānanda-vardhanaḥ ..1..
भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् । रामस्य दयिता भार्या नित्यं प्राणसमा हिता ॥१-१-२६॥
भ्रातरम् दयितः भ्रातुः सौभ्रात्रम् अनुदर्शयन् । रामस्य दयिता भार्या नित्यम् प्राण-समा हिता ॥१॥
bhrātaram dayitaḥ bhrātuḥ saubhrātram anudarśayan . rāmasya dayitā bhāryā nityam prāṇa-samā hitā ..1..
जनकस्य कुले जाता देवमायेव निर्मिता । सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ॥१-१-२७॥
जनकस्य कुले जाता देव-माया इव निर्मिता । सर्व-लक्षण-सम्पन्ना नारीणाम् उत्तमा वधूः ॥१॥
janakasya kule jātā deva-māyā iva nirmitā . sarva-lakṣaṇa-sampannā nārīṇām uttamā vadhūḥ ..1..
सीताप्यनुगता रामं शशिनं रोहिणी यथा । पौरैरनुगतो दूरं पित्रा दशरथेन च ॥१-१-२८॥
सीता अपि अनुगता रामम् शशिनम् रोहिणी यथा । पौरैः अनुगतः दूरम् पित्रा दशरथेन च ॥१॥
sītā api anugatā rāmam śaśinam rohiṇī yathā . pauraiḥ anugataḥ dūram pitrā daśarathena ca ..1..
शृङ्गवीरपुरे सूतं गङ्गाकूले व्यसर्जयत् । गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥१-१-२९॥
शृङ्गवीर-पुरे सूतम् गङ्गा-कूले व्यसर्जयत् । गुहम् आसाद्य धर्म-आत्मा निषाद-अधिपतिम् प्रियम् ॥१॥
śṛṅgavīra-pure sūtam gaṅgā-kūle vyasarjayat . guham āsādya dharma-ātmā niṣāda-adhipatim priyam ..1..
गुहेन सहितो रामो लक्ष्मणेन च सीतया । ते वनेन वनङ्गत्वा नदीस्तीर्त्वा बहूदकाः ॥१-१-३०॥
गुहेन सहितः रामः लक्ष्मणेन च सीतया । ते वनेन नदीः तीर्त्वा बहु-उदकाः ॥१॥
guhena sahitaḥ rāmaḥ lakṣmaṇena ca sītayā . te vanena nadīḥ tīrtvā bahu-udakāḥ ..1..
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् । रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥१-१-३१॥
चित्रकूटम् अनुप्राप्य भरद्वाजस्य शासनात् । रम्यम् आवसथम् कृत्वा रममाणाः वने त्रयः ॥१॥
citrakūṭam anuprāpya bharadvājasya śāsanāt . ramyam āvasatham kṛtvā ramamāṇāḥ vane trayaḥ ..1..
देवगन्धर्वसंकाशाः तत्र ते न्यवसन् सुखम् । चित्रकूटङ्गते रामे पुत्रशोकातुरस्तथा ॥१-१-३२॥
देव-गन्धर्व-संकाशाः तत्र ते न्यवसन् सुखम् । रामे पुत्र-शोक-आतुरः तथा ॥१॥
deva-gandharva-saṃkāśāḥ tatra te nyavasan sukham . rāme putra-śoka-āturaḥ tathā ..1..
राजा दशरथस्स्वर्गं जगाम विलपन् सुतम् । गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ॥१-१-३३॥
राजा दशरथः स्वर्गम् जगाम विलपन् सुतम् । गते तु तस्मिन् भरतः वसिष्ठ-प्रमुखैः द्विजैः ॥१॥
rājā daśarathaḥ svargam jagāma vilapan sutam . gate tu tasmin bharataḥ vasiṣṭha-pramukhaiḥ dvijaiḥ ..1..
नियुज्यमानो राज्याय नैच्छत् राज्यं महाबलः । स जगाम वनं वीरो रामपादप्रसादकः ॥१-१-३४॥
नियुज्यमानः राज्याय न ऐच्छत् राज्यम् महा-बलः । स जगाम वनम् वीरः राम-पाद-प्रसादकः ॥१॥
niyujyamānaḥ rājyāya na aicchat rājyam mahā-balaḥ . sa jagāma vanam vīraḥ rāma-pāda-prasādakaḥ ..1..
गत्वा तु स महात्मानं रामं सत्यपराक्रमम् । अयाचद्भ्रातरं रामम् आर्यभावपुरस्कृतः ॥१-१-३५॥
गत्वा तु स महात्मानम् रामम् सत्य-पराक्रमम् । अयाचत् भ्रातरम् रामम् आर्य-भाव-पुरस्कृतः ॥१॥
gatvā tu sa mahātmānam rāmam satya-parākramam . ayācat bhrātaram rāmam ārya-bhāva-puraskṛtaḥ ..1..
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् । रामोऽपि परमोदारः सुमुखस्सुमहायशाः ॥१-१-३६॥
त्वम् एव राजा धर्म-ज्ञः इति रामम् वचः अब्रवीत् । रामः अपि परम-उदारः सुमुखः सु महा-यशाः ॥१॥
tvam eva rājā dharma-jñaḥ iti rāmam vacaḥ abravīt . rāmaḥ api parama-udāraḥ sumukhaḥ su mahā-yaśāḥ ..1..
न चैच्छत् पितुरादेशात् राज्यं रामो महाबलः । पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ॥१-१-३७॥
न च ऐच्छत् पितुः आदेशात् राज्यम् रामः महा-बलः । पादुके च अस्य राज्याय न्यासम् दत्त्वा पुनर् पुनर् ॥१॥
na ca aicchat pituḥ ādeśāt rājyam rāmaḥ mahā-balaḥ . pāduke ca asya rājyāya nyāsam dattvā punar punar ..1..
निवर्तयामास ततो भरतं भरताग्रजः । स काममनवाप्यैव रामपादावुपस्पृशन् ॥१-१-३८॥
निवर्तयामास ततस् भरतम् भरताग्रजः । स कामम् अन् अवाप्य एव राम-पादौ उपस्पृशन् ॥१॥
nivartayāmāsa tatas bharatam bharatāgrajaḥ . sa kāmam an avāpya eva rāma-pādau upaspṛśan ..1..
नन्दिग्रामेऽकरोद् राज्यं रामागमनकाङ्क्षया । गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ॥१-१-३९॥
नन्दिग्रामे अकरोत् राज्यम् राम-आगमन-काङ्क्षया । गते तु भरते श्रीमान् सत्य-सन्धः जित-इन्द्रियः ॥१॥
nandigrāme akarot rājyam rāma-āgamana-kāṅkṣayā . gate tu bharate śrīmān satya-sandhaḥ jita-indriyaḥ ..1..
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च । तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥१-१-४०॥
रामः तु पुनर् आलक्ष्य नागरस्य जनस्य च । तत्र आगमनम् एकाग्रः दण्डकान् प्रविवेश ह ॥१॥
rāmaḥ tu punar ālakṣya nāgarasya janasya ca . tatra āgamanam ekāgraḥ daṇḍakān praviveśa ha ..1..
प्रविश्य तु महारण्यं रामो राजीवलोचनः । विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥१-१-४१॥
प्रविश्य तु महा-अरण्यम् रामः राजीव-लोचनः । विराधम् राक्षसम् हत्वा शरभङ्गम् ददर्श ह ॥१॥
praviśya tu mahā-araṇyam rāmaḥ rājīva-locanaḥ . virādham rākṣasam hatvā śarabhaṅgam dadarśa ha ..1..
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा । अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ॥१-१-४२॥
सुतीक्ष्णम् च अपि अगस्त्यम् च अगस्त्य-भ्रातरम् तथा । अगस्त्य-वचनात् च एव जग्राह ऐन्द्रम् शरासनम् ॥१॥
sutīkṣṇam ca api agastyam ca agastya-bhrātaram tathā . agastya-vacanāt ca eva jagrāha aindram śarāsanam ..1..
खड्गञ्च परम प्रीतस्तूणी चाक्षयसायकौ । वसतस्तस्य रामस्य वने वनचरैः सह ॥१-१-४३॥
खड्गम् च प्रीतः तूणी च अक्षय-सायकौ । वसतः तस्य रामस्य वने वन-चरैः सह ॥१॥
khaḍgam ca prītaḥ tūṇī ca akṣaya-sāyakau . vasataḥ tasya rāmasya vane vana-caraiḥ saha ..1..
ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम् । स तेषां प्रतिशुश्राव राक्षसानां तदा वने ॥१-१-४४॥
ऋषयः अभ्यागमन् सर्वे वधाय असुर-रक्षसाम् । स तेषाम् प्रतिशुश्राव राक्षसानाम् तदा वने ॥१॥
ṛṣayaḥ abhyāgaman sarve vadhāya asura-rakṣasām . sa teṣām pratiśuśrāva rākṣasānām tadā vane ..1..
प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् । ऋषीणामग्निकल्पानां दण्डकारण्यवासीनाम् ॥१-१-४५॥
प्रतिज्ञातः च रामेण वधः संयति रक्षसाम् । ऋषीणाम् अग्नि-कल्पानाम् दण्डक-अरण्य-वासीनाम् ॥१॥
pratijñātaḥ ca rāmeṇa vadhaḥ saṃyati rakṣasām . ṛṣīṇām agni-kalpānām daṇḍaka-araṇya-vāsīnām ..1..
तेन तत्रैव वसता जनस्थाननिवासिनी । विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥१-१-४६॥
तेन तत्र एव वसता जनस्थान-निवासिनी । विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥१॥
tena tatra eva vasatā janasthāna-nivāsinī . virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī ..1..
ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् । खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ॥१-१-४७॥
ततस् शूर्पणखा-वाक्यात् उद्युक्तान् सर्व-राक्षसान् । खरम् त्रिशिरसम् च एव दूषणम् च एव राक्षसम् ॥१॥
tatas śūrpaṇakhā-vākyāt udyuktān sarva-rākṣasān . kharam triśirasam ca eva dūṣaṇam ca eva rākṣasam ..1..
निजघान रणे रामस्तेषां चैव पदानुगान् । वने तस्मिन् निवसता जनस्थाननिवासिनाम् ॥१-१-४८॥
निजघान रणे रामः तेषाम् च एव पदानुगान् । वने तस्मिन् निवसता जनस्थान-निवासिनाम् ॥१॥
nijaghāna raṇe rāmaḥ teṣām ca eva padānugān . vane tasmin nivasatā janasthāna-nivāsinām ..1..
रक्षसां निहतान्यासन् सहस्राणि चतुर्दश । ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ॥१-१-४९॥
रक्षसाम् निहतानि आसन् सहस्राणि चतुर्दश । ततस् ज्ञाति-वधम् श्रुत्वा रावणः क्रोध-मूर्छितः ॥१॥
rakṣasām nihatāni āsan sahasrāṇi caturdaśa . tatas jñāti-vadham śrutvā rāvaṇaḥ krodha-mūrchitaḥ ..1..
सहायं वरयामास मारीचं नाम राक्षसम् । वार्यमाणः सुबहुशो मारीचेन स रावणः ॥१-१-५०॥
सहायम् वरयामास मारीचम् नाम राक्षसम् । वार्यमाणः सु बहुशस् मारीचेन स रावणः ॥१॥
sahāyam varayāmāsa mārīcam nāma rākṣasam . vāryamāṇaḥ su bahuśas mārīcena sa rāvaṇaḥ ..1..
न विरोधो बलवता क्षमो रावण तेन ते । अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥१-१-५१॥
न विरोधः बलवता क्षमः रावण तेन ते । अन् आदृत्य तु तद्-वाक्यम् रावणः काल-चोदितः ॥१॥
na virodhaḥ balavatā kṣamaḥ rāvaṇa tena te . an ādṛtya tu tad-vākyam rāvaṇaḥ kāla-coditaḥ ..1..
जगाम सहमारीचस्तस्याश्रमपदं तदा । तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥१-१-५२॥
जगाम सह मारीचः तस्य आश्रम-पदम् तदा । तेन मायाविना दूरम् अपवाह्य नृप-आत्मजौ ॥१॥
jagāma saha mārīcaḥ tasya āśrama-padam tadā . tena māyāvinā dūram apavāhya nṛpa-ātmajau ..1..
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् । गृध्रञ्च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥१-१-५३॥
जहार भार्याम् रामस्य गृध्रम् हत्वा जटायुषम् । गृध्रन् च निहतम् दृष्ट्वा हृताम् श्रुत्वा च मैथिलीम् ॥१॥
jahāra bhāryām rāmasya gṛdhram hatvā jaṭāyuṣam . gṛdhran ca nihatam dṛṣṭvā hṛtām śrutvā ca maithilīm ..1..
राघवः शोकसंतप्तो विललापाकुलेन्द्रियः । ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥१-१-५४॥
राघवः शोक-संतप्तः विललाप आकुल-इन्द्रियः । ततस् तेन एव शोकेन गृध्रम् दग्ध्वा जटायुषम् ॥१॥
rāghavaḥ śoka-saṃtaptaḥ vilalāpa ākula-indriyaḥ . tatas tena eva śokena gṛdhram dagdhvā jaṭāyuṣam ..1..
मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह । कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥१-१-५५॥
मार्गमाणः वने सीताम् राक्षसम् सन्ददर्श ह । कबन्धम् नाम रूपेण विकृतम् घोर-दर्शनम् ॥१॥
mārgamāṇaḥ vane sītām rākṣasam sandadarśa ha . kabandham nāma rūpeṇa vikṛtam ghora-darśanam ..1..
तन्निहत्य महाबाहुर्ददाह स्वर्गतश्च सः । स चास्य कथयामास शबरीं धर्मचारिणीम् ॥१-१-५६॥
तत् निहत्य महा-बाहुः ददाह स्वर्गतः च सः । स च अस्य कथयामास शबरीम् धर्मचारिणीम् ॥१॥
tat nihatya mahā-bāhuḥ dadāha svargataḥ ca saḥ . sa ca asya kathayāmāsa śabarīm dharmacāriṇīm ..1..
श्रमणां धर्मनिपुणामभिगच्छेति राघव । सोऽभ्य गच्छन्महातेजाः शबरीं शत्रुसूदनः ॥१-१-५७॥
श्रमणाम् धर्म-निपुणाम् अभिगच्छ इति राघव । सः गच्छत् महा-तेजाः शबरीम् शत्रु-सूदनः ॥१॥
śramaṇām dharma-nipuṇām abhigaccha iti rāghava . saḥ gacchat mahā-tejāḥ śabarīm śatru-sūdanaḥ ..1..
शबर्या पूजितः सम्यग् रामो दशरथात्मजः । पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥१-१-५८॥
शबर्या पूजितः सम्यक् रामः दशरथ-आत्मजः । पम्पा-तीरे हनुमता सङ्गतः वानरेण ह ॥१॥
śabaryā pūjitaḥ samyak rāmaḥ daśaratha-ātmajaḥ . pampā-tīre hanumatā saṅgataḥ vānareṇa ha ..1..
हनुमद्वचनाच्चैव सुग्रीवेण समागतः । सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥१-१-५९॥
हनुमत्-वचनात् च एव सुग्रीवेण समागतः । सुग्रीवाय च तत् सर्वम् शंसत्-रामः महा-बलः ॥१॥
hanumat-vacanāt ca eva sugrīveṇa samāgataḥ . sugrīvāya ca tat sarvam śaṃsat-rāmaḥ mahā-balaḥ ..1..
आदितस्तद् यथावृत्तं सीतायाश्च विशेषतः । सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ॥१-१-६०॥
आदितस् तत् यथावृत्तम् सीतायाः च विशेषतः । सुग्रीवः च अपि तत् सर्वम् श्रुत्वा रामस्य वानरः ॥१॥
āditas tat yathāvṛttam sītāyāḥ ca viśeṣataḥ . sugrīvaḥ ca api tat sarvam śrutvā rāmasya vānaraḥ ..1..
चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् । ततो वानरराजेन वैरानुकथनं प्रति ॥१-१-६१॥
चकार सख्यम् रामेण प्रीतः च एव अग्नि-साक्षिकम् । ततस् वानर-राजेन वैर-अनुकथनम् प्रति ॥१॥
cakāra sakhyam rāmeṇa prītaḥ ca eva agni-sākṣikam . tatas vānara-rājena vaira-anukathanam prati ..1..
रामायावेदितं सर्वं प्रणयात् दुःखितेन च । प्रतिज्ञातञ्च रामेण तदा वालिवधं प्रति ॥१-१-६२॥
रामाय आवेदितम् सर्वम् प्रणयात् दुःखितेन च । प्रतिज्ञातञ्च च रामेण तदा वालि-वधम् प्रति ॥१॥
rāmāya āveditam sarvam praṇayāt duḥkhitena ca . pratijñātañca ca rāmeṇa tadā vāli-vadham prati ..1..
वालिनश्च बलं तत्र कथयामास वानरः । सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥१-१-६३॥
वालिनः च बलम् तत्र कथयामास वानरः । सुग्रीवः शङ्कितः च आसीत् नित्यम् वीर्येण राघवे ॥१॥
vālinaḥ ca balam tatra kathayāmāsa vānaraḥ . sugrīvaḥ śaṅkitaḥ ca āsīt nityam vīryeṇa rāghave ..1..
राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् । दर्शयामास सुग्रीवः महापर्वतसन्निभम् ॥१-१-६४॥
राघव-प्रत्यय-अर्थम् तु दुन्दुभेः कायम् उत्तमम् । दर्शयामास सुग्रीवः महा-पर्वत-सन्निभम् ॥१॥
rāghava-pratyaya-artham tu dundubheḥ kāyam uttamam . darśayāmāsa sugrīvaḥ mahā-parvata-sannibham ..1..
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्ति महाबलः । पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥१-१-६५॥
उत्स्मयित्वा महा-बाहुः प्रेक्ष्य च अस्ति महा-बलः । पादाङ्गुष्ठेन चिक्षेप संपूर्णम् दश-योजनम् ॥१॥
utsmayitvā mahā-bāhuḥ prekṣya ca asti mahā-balaḥ . pādāṅguṣṭhena cikṣepa saṃpūrṇam daśa-yojanam ..1..
बिभेद च पुनस्सालान् सप्तैकेन महेषुणा । गिरिं रसातलञ्चैव जनयन् प्रत्ययं तथा ॥१-१-६६॥
बिभेद च पुनर् सालान् सप्त एकेन महा-इषुणा । गिरिम् रसातलम् च एव जनयन् प्रत्ययम् तथा ॥१॥
bibheda ca punar sālān sapta ekena mahā-iṣuṇā . girim rasātalam ca eva janayan pratyayam tathā ..1..
ततः प्रीतमनास्तेन विश्वस्तस्स महाकपिः । किष्किन्धां रामसहितो जगाम च गुहां तदा ॥१-१-६७॥
ततस् प्रीत-मनाः तेन विश्वस्तः स महा-कपिः । किष्किन्धाम् राम-सहितः जगाम च गुहाम् तदा ॥१॥
tatas prīta-manāḥ tena viśvastaḥ sa mahā-kapiḥ . kiṣkindhām rāma-sahitaḥ jagāma ca guhām tadā ..1..
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः । तेन नादेन महता निर्जगाम हरीश्वरः ॥१-१-६८॥
ततस् अगर्जत् हरिवरः सुग्रीवः हेम-पिङ्गलः । तेन नादेन महता निर्जगाम हरि-ईश्वरः ॥१॥
tatas agarjat harivaraḥ sugrīvaḥ hema-piṅgalaḥ . tena nādena mahatā nirjagāma hari-īśvaraḥ ..1..
अनुमान्य तदा तारां सुग्रीवेण समागतः । निजघान च तत्रैनं शरेणैकेन राघवः ॥१-१-६९॥
अनुमान्य तदा ताराम् सुग्रीवेण समागतः । निजघान च तत्र एनम् शरेण एकेन राघवः ॥१॥
anumānya tadā tārām sugrīveṇa samāgataḥ . nijaghāna ca tatra enam śareṇa ekena rāghavaḥ ..1..
ततः सुग्रीववचनात् हत्वा वालिनमाहवे । सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥१-१-७०॥
ततस् सुग्रीव-वचनात् हत्वा वालिनम् आहवे । सुग्रीवम् एव तद्-राज्ये राघवः प्रत्यपादयत् ॥१॥
tatas sugrīva-vacanāt hatvā vālinam āhave . sugrīvam eva tad-rājye rāghavaḥ pratyapādayat ..1..
स च सर्वान् समानीय वानरान् वानरर्षभः । दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥१-१-७१॥
स च सर्वान् समानीय वानरान् वानर-ऋषभः । दिशः प्रस्थापयामास दिदृक्षुः जनकात्मजाम् ॥१॥
sa ca sarvān samānīya vānarān vānara-ṛṣabhaḥ . diśaḥ prasthāpayāmāsa didṛkṣuḥ janakātmajām ..1..
ततो गृध्रस्य वचनात् संपातेर्हनुमान् बली । शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥१-१-७२॥
ततस् गृध्रस्य वचनात् संपातेः हनुमान् बली । शत-योजन-विस्तीर्णम् पुप्लुवे लवणार्णवम् ॥१॥
tatas gṛdhrasya vacanāt saṃpāteḥ hanumān balī . śata-yojana-vistīrṇam pupluve lavaṇārṇavam ..1..
तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् । ददर्श सीतां ध्यायन्तीम् अशोकवनिकां गताम् ॥१-१-७३॥
तत्र लङ्काम् समासाद्य पुरीम् रावण-पालिताम् । ददर्श सीताम् ध्यायन्तीम् अशोक-वनिकाम् गताम् ॥१॥
tatra laṅkām samāsādya purīm rāvaṇa-pālitām . dadarśa sītām dhyāyantīm aśoka-vanikām gatām ..1..
निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च । समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥१-१-७४॥
निवेदयित्वा अभिज्ञानम् प्रवृत्तिम् विनिवेद्य च । समाश्वास्य च वैदेहीम् मर्दयामास तोरणम् ॥१॥
nivedayitvā abhijñānam pravṛttim vinivedya ca . samāśvāsya ca vaidehīm mardayāmāsa toraṇam ..1..
पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि । शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥१-१-७५॥
पञ्च सेना-अग्रगान् हत्वा सप्त मन्त्रि-सुतान् अपि । शूरम् अक्षम् च निष्पिष्य ग्रहणम् समुपागमत् ॥१॥
pañca senā-agragān hatvā sapta mantri-sutān api . śūram akṣam ca niṣpiṣya grahaṇam samupāgamat ..1..
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद् वरात् । मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ॥१-१-७६॥
अस्त्रेण उन्मुक्तम् आत्मानम् ज्ञात्वा पैतामहात् वरात् । मर्षयन् राक्षसान् वीरः यन्त्रिणः तान् यदृच्छया ॥१॥
astreṇa unmuktam ātmānam jñātvā paitāmahāt varāt . marṣayan rākṣasān vīraḥ yantriṇaḥ tān yadṛcchayā ..1..
ततो दग्ध्वा पुरीं लङ्काम् ऋते सीताञ्च मैथिलीम् । रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥१-१-७७॥
ततस् दग्ध्वा पुरीम् लङ्काम् ऋते सीताम् च मैथिलीम् । रामाय प्रियम् आख्यातुम् पुनर् आयात् महा-कपिः ॥१॥
tatas dagdhvā purīm laṅkām ṛte sītām ca maithilīm . rāmāya priyam ākhyātum punar āyāt mahā-kapiḥ ..1..
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् । न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥१-१-७८॥
सः अभिगम्य महात्मानम् कृत्वा रामम् प्रदक्षिणम् । न्यवेदयत् अमेय-आत्मा दृष्टा सीता इति तत्त्वतः ॥१॥
saḥ abhigamya mahātmānam kṛtvā rāmam pradakṣiṇam . nyavedayat ameya-ātmā dṛṣṭā sītā iti tattvataḥ ..1..
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः । समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥१-१-७९॥
ततस् सुग्रीव-सहितः गत्वा तीरम् महा-उदधेः । समुद्रम् क्षोभयामास शरैः आदित्य-सन्निभैः ॥१॥
tatas sugrīva-sahitaḥ gatvā tīram mahā-udadheḥ . samudram kṣobhayāmāsa śaraiḥ āditya-sannibhaiḥ ..1..
दर्शयामास चात्मानं समुद्रः सरितां पतिः । समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥१-१-८०॥
दर्शयामास च आत्मानम् समुद्रः सरिताम् पतिः । समुद्र-वचनात् च एव नलम् सेतुम् अकारयत् ॥१॥
darśayāmāsa ca ātmānam samudraḥ saritām patiḥ . samudra-vacanāt ca eva nalam setum akārayat ..1..
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे । रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ॥१-१-८१॥
तेन गत्वा पुरीम् लङ्काम् हत्वा रावणम् आहवे । रामः सीताम् अनुप्राप्य पराम् व्रीडाम् उपागमत् ॥१॥
tena gatvā purīm laṅkām hatvā rāvaṇam āhave . rāmaḥ sītām anuprāpya parām vrīḍām upāgamat ..1..
तामुवाच ततो रामः परुषं जनसंसदि । अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥१-१-८२॥
ताम् उवाच ततस् रामः परुषम् जन-संसदि । अमृष्यमाणा सा सीता विवेश ज्वलनम् सती ॥१॥
tām uvāca tatas rāmaḥ paruṣam jana-saṃsadi . amṛṣyamāṇā sā sītā viveśa jvalanam satī ..1..
ततोऽग्निवचनात् सीतां ज्ञात्वा विगतकल्मषाम् । कर्मणा तेन महता त्रैलोक्यं सचराचरम् ॥१-१-८३॥
ततस् अग्नि-वचनात् सीताम् ज्ञात्वा विगत-कल्मषाम् । कर्मणा तेन महता त्रैलोक्यम् स चराचरम् ॥१॥
tatas agni-vacanāt sītām jñātvā vigata-kalmaṣām . karmaṇā tena mahatā trailokyam sa carācaram ..1..
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥बभौ रामः सम्प्रहृष्टः पूजितः सर्वदेवतैः ॥१-१-८४॥
स देवर्षि-गणम् तुष्टम् राघवस्य महात्मनः ॥बभौ रामः सम्प्रहृष्टः पूजितः सर्व-देवतैः ॥१॥
sa devarṣi-gaṇam tuṣṭam rāghavasya mahātmanaḥ ..babhau rāmaḥ samprahṛṣṭaḥ pūjitaḥ sarva-devataiḥ ..1..
अभ्यषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् । कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥१-१-८५॥
अभ्यषिच्य च लङ्कायाम् राक्षस-इन्द्रम् विभीषणम् । कृतकृत्यः तदा रामः विज्वरः प्रमुमोद ह ॥१॥
abhyaṣicya ca laṅkāyām rākṣasa-indram vibhīṣaṇam . kṛtakṛtyaḥ tadā rāmaḥ vijvaraḥ pramumoda ha ..1..
देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् । अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥१-१-८६॥
देवताभ्यः वरम् प्राप्य समुत्थाप्य च वानरान् । अयोध्याम् प्रस्थितः रामः पुष्पकेण सुहृद्-वृतः ॥१॥
devatābhyaḥ varam prāpya samutthāpya ca vānarān . ayodhyām prasthitaḥ rāmaḥ puṣpakeṇa suhṛd-vṛtaḥ ..1..
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः । भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत् ॥१-१-८७॥
भरद्वाज-आश्रमम् गत्वा रामः सत्य-पराक्रमः । भरतस्य अन्तिके रामः हनूमन्तम् व्यसर्जयत् ॥१॥
bharadvāja-āśramam gatvā rāmaḥ satya-parākramaḥ . bharatasya antike rāmaḥ hanūmantam vyasarjayat ..1..
पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा । पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा ॥१-१-८८॥
पुनर् आख्यायिकाम् जल्पन् सुग्रीव-सहितः तदा । पुष्पकम् तत् समारुह्य नन्दिग्रामम् ययौ तदा ॥१॥
punar ākhyāyikām jalpan sugrīva-sahitaḥ tadā . puṣpakam tat samāruhya nandigrāmam yayau tadā ..1..
नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः । रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥१-१-८९॥
नन्दिग्रामे जटाम् हित्वा भ्रातृभिः सहितः अनघः । रामः सीताम् अनुप्राप्य राज्यम् पुनर् अवाप्तवान् ॥१॥
nandigrāme jaṭām hitvā bhrātṛbhiḥ sahitaḥ anaghaḥ . rāmaḥ sītām anuprāpya rājyam punar avāptavān ..1..
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः । निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥१-१-९०॥
प्रहृष्ट-मुदितः लोकः तुष्टः पुष्टः सु धार्मिकः । निरामयः हि अरोगः च दुर्भिक्ष-भय-वर्जितः ॥१॥
prahṛṣṭa-muditaḥ lokaḥ tuṣṭaḥ puṣṭaḥ su dhārmikaḥ . nirāmayaḥ hi arogaḥ ca durbhikṣa-bhaya-varjitaḥ ..1..
न पुत्रमरणं केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् । नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥१-१-९१॥
न पुत्र-मरणम् केचिद् द्रक्ष्यन्ति पुरुषाः क्वचिद् । नार्यः च अविधवाः नित्यम् भविष्यन्ति पतिव्रताः ॥१॥
na putra-maraṇam kecid drakṣyanti puruṣāḥ kvacid . nāryaḥ ca avidhavāḥ nityam bhaviṣyanti pativratāḥ ..1..
न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः । न वातजं भयं किञ्चित् नापि ज्वरकृतं तथा ॥१-१-९२॥
न च अग्नि-जम् भयम् किञ्चिद् न अप्सु मज्जन्ति जन्तवः । न वात-जम् भयम् किञ्चिद् ना अपि ज्वर-कृतम् तथा ॥१॥
na ca agni-jam bhayam kiñcid na apsu majjanti jantavaḥ . na vāta-jam bhayam kiñcid nā api jvara-kṛtam tathā ..1..
न चापि क्षुद्भयं तत्र न तस्करभयं तथा । नगराणि च राष्ट्राणि धनधान्ययुतानि च ॥१-१-९३॥
न च अपि क्षुध्-भयम् तत्र न तस्कर-भयम् तथा । नगराणि च राष्ट्राणि धन-धान्य-युतानि च ॥१॥
na ca api kṣudh-bhayam tatra na taskara-bhayam tathā . nagarāṇi ca rāṣṭrāṇi dhana-dhānya-yutāni ca ..1..
नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा । अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ॥१-१-९४॥
नित्यम् प्रमुदिताः सर्वे यथा कृत-युगे तथा । अश्वमेध-शतैः इष्ट्वा तथा बहु-सुवर्णकैः ॥१॥
nityam pramuditāḥ sarve yathā kṛta-yuge tathā . aśvamedha-śataiḥ iṣṭvā tathā bahu-suvarṇakaiḥ ..1..
गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् । असंख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः ॥१-१-९५॥
गवाम् कोटि-अयुतम् दत्त्वा विद्वद्भ्यः विधि-पूर्वकम् । असंख्येयम् धनम् दत्त्वा ब्राह्मणेभ्यः महा-यशाः ॥१॥
gavām koṭi-ayutam dattvā vidvadbhyaḥ vidhi-pūrvakam . asaṃkhyeyam dhanam dattvā brāhmaṇebhyaḥ mahā-yaśāḥ ..1..
राजवंशान् शतगुणान् स्थापयिष्यति राघवः । चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥१-१-९६॥
राज-वंशान् शतगुणान् स्थापयिष्यति राघवः । चातुर्वर्ण्यम् च लोके अस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥१॥
rāja-vaṃśān śataguṇān sthāpayiṣyati rāghavaḥ . cāturvarṇyam ca loke asmin sve sve dharme niyokṣyati ..1..
दशवर्षसहस्राणि दशवर्षशतानि च । रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥१-१-९७॥
दश-वर्ष-सहस्राणि दश-वर्ष-शतानि च । रामः राज्यम् उपासित्वा ब्रह्म-लोकम् प्रयास्यति ॥१॥
daśa-varṣa-sahasrāṇi daśa-varṣa-śatāni ca . rāmaḥ rājyam upāsitvā brahma-lokam prayāsyati ..1..
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् । यः पठेद् रामचरितं सर्वपापैः प्रमुच्यते ॥१-१-९८॥
इदम् पवित्रम् पाप-घ्नम् पुण्यम् वेदैः च सम्मितम् । यः पठेत् राम-चरितम् सर्व-पापैः प्रमुच्यते ॥१॥
idam pavitram pāpa-ghnam puṇyam vedaiḥ ca sammitam . yaḥ paṭhet rāma-caritam sarva-pāpaiḥ pramucyate ..1..
एतदाख्यानमायुष्यं पठन् रामायणं नरः । सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥१-१-९९॥
एतत् आख्यानम् आयुष्यम् पठन् रामायणम् नरः । स पुत्र-पौत्रः स गणः प्रेत्य स्वर्गे महीयते ॥१॥
etat ākhyānam āyuṣyam paṭhan rāmāyaṇam naraḥ . sa putra-pautraḥ sa gaṇaḥ pretya svarge mahīyate ..1..
पठन् द्विजो वागृषभत्वमीयात् । स्यात् क्षत्रियो भूमिपतित्वमीयात् ॥वणिक् जनः पण्यफलत्वमीयात् । जनश्च शूद्रोऽपि महत्त्वमीयात् ॥१-१-१००॥
पठन् द्विजः वागृषभ-त्वम् ईयात् । स्यात् क्षत्रियः भूमिपति-त्वम् ईयात् ॥वणिज् जनः पण्यफलत्वम् ईयात् । जनः च शूद्रः अपि महत्-त्वम् ईयात् ॥१॥
paṭhan dvijaḥ vāgṛṣabha-tvam īyāt . syāt kṣatriyaḥ bhūmipati-tvam īyāt ..vaṇij janaḥ paṇyaphalatvam īyāt . janaḥ ca śūdraḥ api mahat-tvam īyāt ..1..
इति श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे प्रथमः सर्गः ॥१-१॥
इति श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे प्रथमः सर्गः ॥१॥
iti śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe prathamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In