This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे दशमः सर्गः ॥१-१०॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे दशमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe daśamaḥ sargaḥ ..1..
सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदायथर्ष्यशृङ्गस्त्वानीतो येनोपायेन मन्त्रिभिःतन्मे निगदितं सर्वं शृणु मे मन्त्रिभिः सह ॥१-१०-१॥
सुमन्त्रः चोदितः राज्ञा प्रोवाच इदम् वचः तदा यथा ऋष्यशृङ्गः तु आनीतः येन उपायेन मन्त्रिभिः तत् मे निगदितम् सर्वम् शृणु मे मन्त्रिभिः सह ॥१॥
sumantraḥ coditaḥ rājñā provāca idam vacaḥ tadā yathā ṛṣyaśṛṅgaḥ tu ānītaḥ yena upāyena mantribhiḥ tat me nigaditam sarvam śṛṇu me mantribhiḥ saha ..1..
रोमपादमुवाचेदं सहामात्यः पुरोहितःउपायो निरपायोऽयमस्माभिरभिचिन्तितः ॥१-१०-२॥
रोमपादम् उवाच इदम् सह अमात्यः पुरोहितः उपायः निरपायः अयम् अस्माभिः अभिचिन्तितः ॥१॥
romapādam uvāca idam saha amātyaḥ purohitaḥ upāyaḥ nirapāyaḥ ayam asmābhiḥ abhicintitaḥ ..1..
ऋष्यशृङ्गो वनचरस्तपःस्वाध्यायसंयुतःअनभिज्ञस्तु नारीणां विषयाणां सुखस्य च ॥१-१०-३॥
ऋष्यशृङ्गः वन-चरः तपः-स्वाध्याय-संयुतः अनभिज्ञः तु नारीणाम् विषयाणाम् सुखस्य च ॥१॥
ṛṣyaśṛṅgaḥ vana-caraḥ tapaḥ-svādhyāya-saṃyutaḥ anabhijñaḥ tu nārīṇām viṣayāṇām sukhasya ca ..1..
इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥१-१०-४॥
इन्द्रिय-अर्थैः अभिमतैः नर-चित्त-प्रमाथिभिः पुरम् आनाययिष्यामः क्षिप्रम् च अध्यवसीयताम् ॥१॥
indriya-arthaiḥ abhimataiḥ nara-citta-pramāthibhiḥ puram ānāyayiṣyāmaḥ kṣipram ca adhyavasīyatām ..1..
गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलङ्कृताःप्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृताः ॥१-१०-५॥
गणिकाः तत्र गच्छन्तु रूपवत्यः सु अलङ्कृताः प्रलोभ्य विविध-उपायैः आनेष्यन्ति इह सत्कृताः ॥१॥
gaṇikāḥ tatra gacchantu rūpavatyaḥ su alaṅkṛtāḥ pralobhya vividha-upāyaiḥ āneṣyanti iha satkṛtāḥ ..1..
श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम्पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तथा ॥१-१०-६॥
श्रुत्वा तथा इति राजा च प्रत्युवाच पुरोहितम् पुरोहितः मन्त्रिणः च तथा चक्रुः च ते तथा ॥१॥
śrutvā tathā iti rājā ca pratyuvāca purohitam purohitaḥ mantriṇaḥ ca tathā cakruḥ ca te tathā ..1..
वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत्आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने ॥१-१०-७॥
वारमुख्याः तु तत् श्रुत्वा वनम् प्रविविशुः महता आश्रमस्य अविदूरे अस्मिन् यत्नम् कुर्वन्ति दर्शने ॥१॥
vāramukhyāḥ tu tat śrutvā vanam praviviśuḥ mahatā āśramasya avidūre asmin yatnam kurvanti darśane ..1..
ऋषेः पुत्रस्य धीरस्य नित्यमाश्रमवासिनःपितुः स नित्यसन्तुष्टो नातिचक्राम चाश्रमात् ॥१-१०-८॥
ऋषेः पुत्रस्य धीरस्य नित्यम् आश्रम-वासिनः पितुः स नित्य-सन्तुष्टः न अतिचक्राम च आश्रमात् ॥१॥
ṛṣeḥ putrasya dhīrasya nityam āśrama-vāsinaḥ pituḥ sa nitya-santuṣṭaḥ na aticakrāma ca āśramāt ..1..
न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विनास्त्री वा पुमान्वा यच्चान्यत् सत्त्वं नगरराष्ट्रजम् ॥१-१०-९॥
न तेन जन्म-प्रभृति दृष्ट-पूर्वम् तपस्विना अ स्त्री वा पुमान् वा यत् च अन्यत् सत्त्वम् नगर-राष्ट्र-जम् ॥१॥
na tena janma-prabhṛti dṛṣṭa-pūrvam tapasvinā a strī vā pumān vā yat ca anyat sattvam nagara-rāṣṭra-jam ..1..
ततः कदाचित् तं देशमाजगाम यदृच्छयाविभाण्डकसुतस्तत्र ताश्चापश्यद् वराङ्गनाः ॥१-१०-१०॥
ततस् कदाचिद् तम् देशम् आजगाम यदृच्छया अ विभाण्डक-सुतः तत्र ताः च अपश्यत् वर-अङ्गनाः ॥१॥
tatas kadācid tam deśam ājagāma yadṛcchayā a vibhāṇḍaka-sutaḥ tatra tāḥ ca apaśyat vara-aṅganāḥ ..1..
ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरम्ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥१-१०-११॥
ताः चित्र-वेषाः प्रमदाः गायन्त्यः मधुर-स्वरम् ऋषि-पुत्रम् उपागम्य सर्वाः वचनम् अब्रुवन् ॥१॥
tāḥ citra-veṣāḥ pramadāḥ gāyantyaḥ madhura-svaram ṛṣi-putram upāgamya sarvāḥ vacanam abruvan ..1..
कस्त्वं किं वर्तसे ब्रह्मञ्ज्ञातुमिच्छामहे वयम्एकस्त्वं विजने घोरे वने चरसि शंस नः ॥१-१०-१२॥
कः त्वम् किम् वर्तसे ब्रह्मन् ज्ञातुम् इच्छामहे वयम् एकः त्वम् विजने घोरे वने चरसि शंस नः ॥१॥
kaḥ tvam kim vartase brahman jñātum icchāmahe vayam ekaḥ tvam vijane ghore vane carasi śaṃsa naḥ ..1..
अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियःहार्दात्तस्य मतिर्जाता आख्यातुं पितरं स्वकम् ॥१-१०-१३॥
अदृष्ट-रूपाः ताः तेन काम्य-रूपाः वने स्त्रियः हार्दात् तस्य मतिः जाता आख्यातुम् पितरम् स्वकम् ॥१॥
adṛṣṭa-rūpāḥ tāḥ tena kāmya-rūpāḥ vane striyaḥ hārdāt tasya matiḥ jātā ākhyātum pitaram svakam ..1..
पिता विभाण्डकोऽस्माकं तस्याहं सुत औरसःऋष्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि ॥१-१०-१४॥
पिता विभाण्डकः अस्माकम् तस्य अहम् सुत औरसः ऋष्यशृङ्गः इति ख्यातम् नाम कर्म च मे भुवि ॥१॥
pitā vibhāṇḍakaḥ asmākam tasya aham suta aurasaḥ ṛṣyaśṛṅgaḥ iti khyātam nāma karma ca me bhuvi ..1..
इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाःकरिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम् ॥१-१०-१५॥
इह आश्रमपदः अस्माकम् समीपे शुभ-दर्शनाः करिष्ये वः अत्र पूजाम् वै सर्वेषाम् विधि-पूर्वकम् ॥१॥
iha āśramapadaḥ asmākam samīpe śubha-darśanāḥ kariṣye vaḥ atra pūjām vai sarveṣām vidhi-pūrvakam ..1..
ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वैतदाश्रमपदं द्रष्टुं जग्मुः सर्वास्ततोऽङ्गनाः ॥१-१०-१६॥
ऋषि-पुत्र-वचः श्रुत्वा सर्वासाम् मतिः आस वै तत् आश्रम-पदम् द्रष्टुम् जग्मुः सर्वाः ततस् अङ्गनाः ॥१॥
ṛṣi-putra-vacaḥ śrutvā sarvāsām matiḥ āsa vai tat āśrama-padam draṣṭum jagmuḥ sarvāḥ tatas aṅganāḥ ..1..
गतानां तु ततः पूजामृषिपुत्रश्चकार हइदमर्घ्यमिदं पाद्यमिदं मूलं फलं च नः ॥१-१०-१७॥
गतानाम् तु ततस् पूजाम् ऋषि-पुत्रः चकार ह एदम् अर्घ्यम् इदम् पाद्यम् इदम् मूलम् फलम् च नः ॥१॥
gatānām tu tatas pūjām ṛṣi-putraḥ cakāra ha edam arghyam idam pādyam idam mūlam phalam ca naḥ ..1..
प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाःऋषेर्भीताश्च शीघ्रं तु गमनाय मतिं दधुः ॥१-१०-१८॥
प्रतिगृह्य तु ताम् पूजाम् सर्वाः एव समुत्सुकाः ऋषेः भीताः च शीघ्रम् तु गमनाय मतिम् ॥१॥
pratigṛhya tu tām pūjām sarvāḥ eva samutsukāḥ ṛṣeḥ bhītāḥ ca śīghram tu gamanāya matim ..1..
अस्माकमपि मुख्यानि फलानीमानि हे द्विजगृहाण विप्र भद्रं ते भक्षयस्व च मा चिरम् ॥१-१०-१९॥
अस्माकम् अपि मुख्यानि फलानि इमानि हे द्विज-गृहाण विप्र भद्रम् ते भक्षयस्व च मा चिरम् ॥१॥
asmākam api mukhyāni phalāni imāni he dvija-gṛhāṇa vipra bhadram te bhakṣayasva ca mā ciram ..1..
ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताःमोदकान् प्रददुस्तस्मै भक्ष्यांश्च विविधाञ्छुभान् ॥१-१०-२०॥
ततस् ताः तम् समालिङ्ग्य सर्वाः हर्ष-समन्विताः मोदकान् प्रददुः तस्मै भक्ष्यान् च विविधान् शुभान् ॥१॥
tatas tāḥ tam samāliṅgya sarvāḥ harṣa-samanvitāḥ modakān pradaduḥ tasmai bhakṣyān ca vividhān śubhān ..1..
तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यतेअनास्वादितपूर्वाणि वने नित्यनिवासिनाम् ॥१-१०-२१॥
तानि च आस्वाद्य तेजस्वी फलानि इति स्म मन्यते अन् आस्वादित-पूर्वाणि वने नित्य-निवासिनाम् ॥१॥
tāni ca āsvādya tejasvī phalāni iti sma manyate an āsvādita-pūrvāṇi vane nitya-nivāsinām ..1..
आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य चगच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः ॥१-१०-२२॥
आपृच्छ्य च तदा विप्रम् व्रत-चर्याम् निवेद्य च गच्छन्ति स्म अपदेशात् ताः भीताः तस्य पितुः स्त्रियः ॥१॥
āpṛcchya ca tadā vipram vrata-caryām nivedya ca gacchanti sma apadeśāt tāḥ bhītāḥ tasya pituḥ striyaḥ ..1..
गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजःअस्वस्थहृदयश्चासीद् दुःखाच्च परिवर्तते ॥१-१०-२३॥
गतासु तासु सर्वासु काश्यपस्य आत्मजः द्विजः अस्वस्थ-हृदयः च आसीत् दुःखात् च परिवर्तते ॥१॥
gatāsu tāsu sarvāsu kāśyapasya ātmajaḥ dvijaḥ asvastha-hṛdayaḥ ca āsīt duḥkhāt ca parivartate ..1..
ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान्विभाण्डकसुतः श्रीमान् मनसाचिन्तयन्मुहुः ॥१-१०-२४॥
ततस् अपरेद्युस् तम् देशम् आजगाम स वीर्यवान् विभाण्डक-सुतः श्रीमान् मनसा अचिन्तयत् मुहुर् ॥१॥
tatas aparedyus tam deśam ājagāma sa vīryavān vibhāṇḍaka-sutaḥ śrīmān manasā acintayat muhur ..1..
मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलङ्कृताःदृष्ट्वैव च ततो विप्रमायान्तं हृष्टमानसाः ॥१-१०-२५॥
मनोज्ञाः यत्र ताः दृष्टाः वारमुख्याः सु अलङ्कृताः दृष्ट्वा एव च ततस् विप्रम् आयान्तम् हृष्ट-मानसाः ॥१॥
manojñāḥ yatra tāḥ dṛṣṭāḥ vāramukhyāḥ su alaṅkṛtāḥ dṛṣṭvā eva ca tatas vipram āyāntam hṛṣṭa-mānasāḥ ..1..
उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचःएह्याश्रमपदं सौम्य अस्माकमिति चाब्रुवन् ॥१-१०-२६॥
उपसृत्य ततस् सर्वाः ताः तम् ऊचुः इदम् वचः एहि आश्रम-पदम् सौम्य अस्माकम् इति च ब्रुवन् ॥१॥
upasṛtya tatas sarvāḥ tāḥ tam ūcuḥ idam vacaḥ ehi āśrama-padam saumya asmākam iti ca bruvan ..1..
चित्राण्यत्र बहूनि स्युर्मूलानि च फलानि चतत्राप्येष विशेषेण विधिर्हि भविता ध्रुवम् ॥१-१०-२७॥
चित्राणि अत्र बहूनि स्युः मूलानि च फलानि चतत्र अपि एष विशेषेण विधिः हि भविता ध्रुवम् ॥१॥
citrāṇi atra bahūni syuḥ mūlāni ca phalāni catatra api eṣa viśeṣeṇa vidhiḥ hi bhavitā dhruvam ..1..
श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम्गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः ॥१-१०-२८॥
श्रुत्वा तु वचनम् तासाम् सर्वासाम् हृदयङ्गमम् गमनाय मतिम् चक्रे तम् च निन्युः तदा स्त्रियः ॥१॥
śrutvā tu vacanam tāsām sarvāsām hṛdayaṅgamam gamanāya matim cakre tam ca ninyuḥ tadā striyaḥ ..1..
तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनिववर्ष सहसा देवो जगत् प्रह्लादयंस्तदा ॥१-१०-२९॥
तत्र च आनीयमाने तु विप्रे तस्मिन् महात्मनि ववर्ष सहसा देवः जगत् प्रह्लादयन् तदा ॥१॥
tatra ca ānīyamāne tu vipre tasmin mahātmani vavarṣa sahasā devaḥ jagat prahlādayan tadā ..1..
वर्षेणैवागतं विप्रं तापसं स नराधिपःप्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥१-१०-३०॥
वर्षेण एव आगतम् विप्रम् तापसम् स नराधिपः प्रत्युद्गम्य मुनिम् प्रह्वः शिरसा च महीम् गतः ॥१॥
varṣeṇa eva āgatam vipram tāpasam sa narādhipaḥ pratyudgamya munim prahvaḥ śirasā ca mahīm gataḥ ..1..
अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितःवव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत् ॥१-१०-३१॥
अर्घ्यम् च प्रददौ तस्मै न्यायतः सु समाहितः वव्रे प्रसादम् विप्र-इन्द्रान् मा विप्रम् मन्युः आविशेत् ॥१॥
arghyam ca pradadau tasmai nyāyataḥ su samāhitaḥ vavre prasādam vipra-indrān mā vipram manyuḥ āviśet ..1..
अन्तःपुरं प्रवेश्यास्मै कन्यां दत्त्वा यथाविधिशान्तां शान्तेन मनसा राजा हर्षमवाप सः ॥१-१०-३२॥
अन्तःपुरम् प्रवेश्य अस्मै कन्याम् दत्त्वा यथाविधि शान्ताम् शान्तेन मनसा राजा हर्षम् अवाप सः ॥१॥
antaḥpuram praveśya asmai kanyām dattvā yathāvidhi śāntām śāntena manasā rājā harṣam avāpa saḥ ..1..
एवं स न्यवसत् तत्र सर्वकामैः सुपूजितःऋष्यशृङ्गो महातेजाः शान्तया सह भार्यया ॥१-१०-३३॥
एवम् स न्यवसत् तत्र सर्व-कामैः सु पूजितः ऋष्यशृङ्गः महा-तेजाः शान्तया सह भार्यया ॥१॥
evam sa nyavasat tatra sarva-kāmaiḥ su pūjitaḥ ṛṣyaśṛṅgaḥ mahā-tejāḥ śāntayā saha bhāryayā ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे दशमः सर्गः ॥१-१०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे दशमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe daśamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In