This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकादशः सर्गः ॥१-११॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे एकादशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe ekādaśaḥ sargaḥ ..1..
भूय एव हि राजेन्द्र शृणु मे वचनं हितम् । यथा स देवप्रवरः कथयामास बुद्धिमान् ॥१-११-१॥
भूयस् एव हि राज-इन्द्र शृणु मे वचनम् हितम् । यथा स देव-प्रवरः कथयामास बुद्धिमान् ॥१॥
bhūyas eva hi rāja-indra śṛṇu me vacanam hitam . yathā sa deva-pravaraḥ kathayāmāsa buddhimān ..1..
इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः । नाम्ना दशरथो राजा श्रीमान् सत्यप्रतिश्रवः ॥१-११-२॥
इक्ष्वाकूणाम् कुले जातः भविष्यति सु धार्मिकः । नाम्ना दशरथः राजा श्रीमान् सत्य-प्रतिश्रवः ॥१॥
ikṣvākūṇām kule jātaḥ bhaviṣyati su dhārmikaḥ . nāmnā daśarathaḥ rājā śrīmān satya-pratiśravaḥ ..1..
अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति । कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥१-११-३॥
अङ्ग-राजेन सख्यम् च तस्य राज्ञः भविष्यति । कन्या च अस्य महाभागा शान्ता नाम भविष्यति ॥१॥
aṅga-rājena sakhyam ca tasya rājñaḥ bhaviṣyati . kanyā ca asya mahābhāgā śāntā nāma bhaviṣyati ..1..
पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः । तं स राजा दशरथो गमिष्यति महायशाः ॥१-११-४॥
पुत्रः तु अङ्गस्य राज्ञः तु रोमपादः इति श्रुतः । तम् स राजा दशरथः गमिष्यति महा-यशाः ॥१॥
putraḥ tu aṅgasya rājñaḥ tu romapādaḥ iti śrutaḥ . tam sa rājā daśarathaḥ gamiṣyati mahā-yaśāḥ ..1..
अनपत्योऽस्मि धर्मात्मञ्छान्ताभर्ता मम क्रतुम् । आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च ॥१-११-५॥
अनपत्यः अस्मि धर्म-आत्मन् शान्ता-भर्ता मम क्रतुम् । आहरेत त्वया आज्ञप्तः संतान-अर्थम् कुलस्य च ॥१॥
anapatyaḥ asmi dharma-ātman śāntā-bhartā mama kratum . āhareta tvayā ājñaptaḥ saṃtāna-artham kulasya ca ..1..
श्रुत्वा राज्ञोऽथ तद् वाक्यं मनसा स विचिन्त्य च । प्रदास्यते पुत्रवन्तं शान्ता भर्तारमात्मवान् ॥१-११-६॥
श्रुत्वा राज्ञः अथ तत् वाक्यम् मनसा स विचिन्त्य च । प्रदास्यते पुत्रवन्तम् शान्ता भर्तारम् आत्मवान् ॥१॥
śrutvā rājñaḥ atha tat vākyam manasā sa vicintya ca . pradāsyate putravantam śāntā bhartāram ātmavān ..1..
प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः । आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥१-११-७॥
प्रतिगृह्य च तम् विप्रम् स राजा विगत-ज्वरः । आहरिष्यति तम् यज्ञम् प्रहृष्टेन अन्तरात्मना ॥१॥
pratigṛhya ca tam vipram sa rājā vigata-jvaraḥ . āhariṣyati tam yajñam prahṛṣṭena antarātmanā ..1..
तं च राजा दशरथो यशस्कामः कृताञ्जलिः । ऋष्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥१-११-८॥
तम् च राजा दशरथः यशस्कामः कृत-अञ्जलिः । ऋष्यशृङ्गम् द्विजश्रेष्ठम् वरयिष्यति धर्म-विद् ॥१॥
tam ca rājā daśarathaḥ yaśaskāmaḥ kṛta-añjaliḥ . ṛṣyaśṛṅgam dvijaśreṣṭham varayiṣyati dharma-vid ..1..
यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः । लभते च स तं कामं द्विजमुख्याद् विशाम्पतिः ॥१-११-९॥
यज्ञ-अर्थम् प्रसव-अर्थम् च स्वर्ग-अर्थम् च नरेश्वरः । लभते च स तम् कामम् द्विजमुख्यात् विशाम् पतिः ॥१॥
yajña-artham prasava-artham ca svarga-artham ca nareśvaraḥ . labhate ca sa tam kāmam dvijamukhyāt viśām patiḥ ..1..
पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः । वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः ॥१-११-१०॥
पुत्राः च अस्य भविष्यन्ति चत्वारः अमित-विक्रमाः । वंश-प्रतिष्ठान-कराः सर्व-भूतेषु विश्रुताः ॥१॥
putrāḥ ca asya bhaviṣyanti catvāraḥ amita-vikramāḥ . vaṃśa-pratiṣṭhāna-karāḥ sarva-bhūteṣu viśrutāḥ ..1..
एवं स देवप्रवरः पूर्वं कथितवान् कथाम् । सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥१-११-११॥
एवम् स देव-प्रवरः पूर्वम् कथितवान् कथाम् । सनत्कुमारः भगवान् पुरा देव-युगे प्रभुः ॥१॥
evam sa deva-pravaraḥ pūrvam kathitavān kathām . sanatkumāraḥ bhagavān purā deva-yuge prabhuḥ ..1..
स त्वं पुरुषशार्दूल समानय सुसत्कृतम् । स्वयमेव महाराज गत्वा सबलवाहनः ॥१-११-१२॥
स त्वम् पुरुष-शार्दूल समानय सु सत्कृतम् । स्वयम् एव महा-राज गत्वा स बल-वाहनः ॥१॥
sa tvam puruṣa-śārdūla samānaya su satkṛtam . svayam eva mahā-rāja gatvā sa bala-vāhanaḥ ..1..
सुमन्त्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् । अनुमान्य वसिष्ठं च सूतवाक्यं निशाम्य च ॥१-११-१३॥
सुमन्त्रस्य वचः श्रुत्वा हृष्टः दशरथः अभवत् । अनुमान्य वसिष्ठम् च सूत-वाक्यम् निशाम्य च ॥१॥
sumantrasya vacaḥ śrutvā hṛṣṭaḥ daśarathaḥ abhavat . anumānya vasiṣṭham ca sūta-vākyam niśāmya ca ..1..
सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः । वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः ॥१-११-१४॥
स अन्तःपुरः सह अमात्यः प्रययौ यत्र स द्विजः । वनानि सरितः च एव व्यतिक्रम्य शनैस् शनैस् ॥१॥
sa antaḥpuraḥ saha amātyaḥ prayayau yatra sa dvijaḥ . vanāni saritaḥ ca eva vyatikramya śanais śanais ..1..
अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः । आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ॥१-११-१५॥
अभिचक्राम तम् देशम् यत्र वै मुनि-पुङ्गवः । आसाद्य तम् द्विजश्रेष्ठम् रोमपाद-समीप-गम् ॥१॥
abhicakrāma tam deśam yatra vai muni-puṅgavaḥ . āsādya tam dvijaśreṣṭham romapāda-samīpa-gam ..1..
ऋषिपुत्रं ददर्शाथो दीप्यमानमिवानलम् । ततो राजा यथायोग्यं पूजां चक्रे विशेषतः ॥१-११-१६॥
ऋषि-पुत्रम् ददर्श अथो दीप्यमानम् इव अनलम् । ततस् राजा यथायोग्यम् पूजाम् चक्रे विशेषतः ॥१॥
ṛṣi-putram dadarśa atho dīpyamānam iva analam . tatas rājā yathāyogyam pūjām cakre viśeṣataḥ ..1..
सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना । रोमपादेन चाख्यातमृषिपुत्राय धीमते ॥१-११-१७॥
सखि-त्वात् तस्य वै राज्ञः प्रहृष्टेन अन्तरात्मना । रोमपादेन च आख्यातम् ऋषि-पुत्राय धीमते ॥१॥
sakhi-tvāt tasya vai rājñaḥ prahṛṣṭena antarātmanā . romapādena ca ākhyātam ṛṣi-putrāya dhīmate ..1..
सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् । एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ॥१-११-१८॥
सख्यम् सम्बन्धकम् च एव तदा तम् प्रत्यपूजयत् । एवम् सु सत्कृतः तेन सह उषित्वा नर-ऋषभः ॥१॥
sakhyam sambandhakam ca eva tadā tam pratyapūjayat . evam su satkṛtaḥ tena saha uṣitvā nara-ṛṣabhaḥ ..1..
सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् । शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते ॥१-११-१९॥
सप्त-अष्ट-दिवसान् राजा राजानम् इदम् अब्रवीत् । शान्ता तव सुता राजन् सह भर्त्रा विशाम् पते ॥१॥
sapta-aṣṭa-divasān rājā rājānam idam abravīt . śāntā tava sutā rājan saha bhartrā viśām pate ..1..
मदीयं नगरं यातु कार्यं हि महदुद्यतम् । तथेति राजा संश्रुत्य गमनं तस्य धीमतः ॥१-११-२०॥
मदीयम् नगरम् यातु कार्यम् हि महत् उद्यतम् । तथा इति राजा संश्रुत्य गमनम् तस्य धीमतः ॥१॥
madīyam nagaram yātu kāryam hi mahat udyatam . tathā iti rājā saṃśrutya gamanam tasya dhīmataḥ ..1..
उवाच वचनं विप्रं गच्छ त्वं सह भार्यया । ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ॥१-११-२१॥
उवाच वचनम् विप्रम् गच्छ त्वम् सह भार्यया । ऋषि-पुत्रः प्रतिश्रुत्य तथा इति आह नृपम् तदा ॥१॥
uvāca vacanam vipram gaccha tvam saha bhāryayā . ṛṣi-putraḥ pratiśrutya tathā iti āha nṛpam tadā ..1..
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया । तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ॥१-११-२२॥
स नृपेण अभ्यनुज्ञातः प्रययौ सह भार्यया । तौ अन्योन्य-अञ्जलिम् कृत्वा स्नेहात् संश्लिष्य च उरसा ॥१॥
sa nṛpeṇa abhyanujñātaḥ prayayau saha bhāryayā . tau anyonya-añjalim kṛtvā snehāt saṃśliṣya ca urasā ..1..
ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् । ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ॥१-११-२३॥
ननन्दतुः दशरथः रोमपादः च वीर्यवान् । ततस् सुहृदम् आपृच्छ्य प्रस्थितः रघुनन्दनः ॥१॥
nanandatuḥ daśarathaḥ romapādaḥ ca vīryavān . tatas suhṛdam āpṛcchya prasthitaḥ raghunandanaḥ ..1..
पौरेषु प्रेषयामास दूतान् वै शीघ्रगामिनः । क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम् ॥१-११-२४॥
पौरेषु प्रेषयामास दूतान् वै शीघ्र-गामिनः । क्रियताम् नगरम् सर्वम् क्षिप्रम् एव सु अलंकृतम् ॥१॥
paureṣu preṣayāmāsa dūtān vai śīghra-gāminaḥ . kriyatām nagaram sarvam kṣipram eva su alaṃkṛtam ..1..
धूपितं सिक्तसम्मृष्टं पताकाभिरलंकृतम् । ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ॥१-११-२५॥
धूपितम् सिक्त-सम्मृष्टम् पताकाभिः अलंकृतम् । ततस् प्रहृष्टाः पौराः ते श्रुत्वा राजानम् आगतम् ॥१॥
dhūpitam sikta-sammṛṣṭam patākābhiḥ alaṃkṛtam . tatas prahṛṣṭāḥ paurāḥ te śrutvā rājānam āgatam ..1..
तथा चक्रुश्च तत् सर्वं राज्ञा यत् प्रेषितं तदा । ततः स्वलंकृतं राजा नगरं प्रविवेश ह ॥१-११-२६॥
तथा चक्रुः च तत् सर्वम् राज्ञा यत् प्रेषितम् तदा । ततस् सु अलंकृतम् राजा नगरम् प्रविवेश ह ॥१॥
tathā cakruḥ ca tat sarvam rājñā yat preṣitam tadā . tatas su alaṃkṛtam rājā nagaram praviveśa ha ..1..
शङ्खदुन्दुभिनिर्ह्रादैः पुरस्कृत्वा द्विजर्षभम् । ततः प्रमुदिताः सर्वे दृष्ट्वा वै नागरा द्विजम् ॥१-११-२७॥
शङ्ख-दुन्दुभि-निर्ह्रादैः पुरस्कृत्वा द्विजर्षभम् । ततस् प्रमुदिताः सर्वे दृष्ट्वा वै नागराः द्विजम् ॥१॥
śaṅkha-dundubhi-nirhrādaiḥ puraskṛtvā dvijarṣabham . tatas pramuditāḥ sarve dṛṣṭvā vai nāgarāḥ dvijam ..1..
प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा । यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् ॥१-११-२८॥
प्रवेश्यमानम् सत्कृत्य नरेन्द्रेण इन्द्र-कर्मणा । यथा दिवि सुर-इन्द्रेण सहस्राक्षेण काश्यपम् ॥१॥
praveśyamānam satkṛtya narendreṇa indra-karmaṇā . yathā divi sura-indreṇa sahasrākṣeṇa kāśyapam ..1..
अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा तु शास्त्रतः । कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥१-११-२९॥
अन्तःपुरम् प्रवेश्य एनम् पूजाम् कृत्वा तु शास्त्रतः । कृतकृत्यम् तदा आत्मानम् मेने तस्य उपवाहनात् ॥१॥
antaḥpuram praveśya enam pūjām kṛtvā tu śāstrataḥ . kṛtakṛtyam tadā ātmānam mene tasya upavāhanāt ..1..
अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम् । सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन् ॥१-११-३०॥
अन्तःपुराणि सर्वाणि शान्ताम् दृष्ट्वा तथागताम् । सह भर्त्रा विशाल-अक्षीम् प्रीति-आनन्दम् उपागमन् ॥१॥
antaḥpurāṇi sarvāṇi śāntām dṛṣṭvā tathāgatām . saha bhartrā viśāla-akṣīm prīti-ānandam upāgaman ..1..
पूज्यमाना तु ताभिः सा राज्ञा चैव विशेषतः । उवास तत्र सुखिता कञ्चित् कालं सहद्विजा ॥१-११-३१॥
पूज्यमाना तु ताभिः सा राज्ञा च एव विशेषतः । उवास तत्र सुखिता कञ्चिद् कालम् सह द्विजा ॥१॥
pūjyamānā tu tābhiḥ sā rājñā ca eva viśeṣataḥ . uvāsa tatra sukhitā kañcid kālam saha dvijā ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकादशः सर्गः ॥१-११॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकादशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekādaśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In