This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वादशः सर्गः ॥१-१२॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे द्वादशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe dvādaśaḥ sargaḥ ..1..
ततः काले बहुतिथे कस्मिंश्चित् सुमनोहरे । वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥१-१२-१॥
ततस् काले बहुतिथे कस्मिंश्चिद् सु मनोहरे । वसन्ते समनुप्राप्ते राज्ञः यष्टुम् मनः अभवत् ॥१॥
tatas kāle bahutithe kasmiṃścid su manohare . vasante samanuprāpte rājñaḥ yaṣṭum manaḥ abhavat ..1..
ततः प्रणम्य शिरसा तं विप्रं देववर्णिनम् । यज्ञाय वरयामास संतानार्थं कुलस्य च ॥१-१२-२॥
ततस् प्रणम्य शिरसा तम् विप्रम् देववर्णिनम् । यज्ञाय वरयामास संतान-अर्थम् कुलस्य च ॥१॥
tatas praṇamya śirasā tam vipram devavarṇinam . yajñāya varayāmāsa saṃtāna-artham kulasya ca ..1..
तथेति च स राजानमुवाच वसुधाधिपम् । सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥१-१२-३॥
तथा इति च स राजानम् उवाच वसुधाधिपम् । सम्भाराः सम्भ्रियन्ताम् ते तुरगः च विमुच्यताम् ॥१॥
tathā iti ca sa rājānam uvāca vasudhādhipam . sambhārāḥ sambhriyantām te turagaḥ ca vimucyatām ..1..
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । ततोऽब्रवीनृपो वाक्यं ब्राह्मणान् वेदपारगान् ॥१-१२-४॥
सरय्वाः च उत्तरे तीरे यज्ञ-भूमिः विधीयताम् । ततस् अब्रवीत् नृपः वाक्यम् ब्राह्मणान् वेदपारगान् ॥१॥
sarayvāḥ ca uttare tīre yajña-bhūmiḥ vidhīyatām . tatas abravīt nṛpaḥ vākyam brāhmaṇān vedapāragān ..1..
सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः । सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ॥१-१२-५॥
सुमन्त्र आवाहय क्षिप्रम् ऋत्विजः ब्रह्म-वादिनः । सुयज्ञम् वामदेवम् च जाबालिम् अथ काश्यपम् ॥१॥
sumantra āvāhaya kṣipram ṛtvijaḥ brahma-vādinaḥ . suyajñam vāmadevam ca jābālim atha kāśyapam ..1..
पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः । ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ॥१-१२-६॥
पुरोहितम् वसिष्ठम् च ये च अन्ये द्विजसत्तमाः । ततस् सुमन्त्रः त्वरितम् गत्वा त्वरित-विक्रमः ॥१॥
purohitam vasiṣṭham ca ye ca anye dvijasattamāḥ . tatas sumantraḥ tvaritam gatvā tvarita-vikramaḥ ..1..
समानयत् स तान् सर्वान् समस्तान् वेदपारगान् । तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ॥१-१२-७॥
समानयत् स तान् सर्वान् समस्तान् वेदपारगान् । तान् पूजयित्वा धर्म-आत्मा राजा दशरथः तदा ॥१॥
samānayat sa tān sarvān samastān vedapāragān . tān pūjayitvā dharma-ātmā rājā daśarathaḥ tadā ..1..
धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् । मम तातप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ॥१-१२-८॥
धर्म-अर्थ-सहितम् युक्तम् श्लक्ष्णम् वचनम् अब्रवीत् । मम तातप्यमानस्य पुत्र-अर्थम् न अस्ति वै सुखम् ॥१॥
dharma-artha-sahitam yuktam ślakṣṇam vacanam abravīt . mama tātapyamānasya putra-artham na asti vai sukham ..1..
पुत्रार्थं हयमेधेन यक्ष्यामीति मतिर्मम । तदहं यष्टुमिच्छामि हयमेधेन कर्मणा ॥१-१२-९॥
पुत्र-अर्थम् हयमेधेन यक्ष्यामि इति मतिः मम । तत् अहम् यष्टुम् इच्छामि हयमेधेन कर्मणा ॥१॥
putra-artham hayamedhena yakṣyāmi iti matiḥ mama . tat aham yaṣṭum icchāmi hayamedhena karmaṇā ..1..
ऋषिपुत्रप्रभावेण कामान् प्राप्स्यामि चाप्यहम् । ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ॥१-१२-१०॥
ऋषि-पुत्र-प्रभावेण कामान् प्राप्स्यामि च अपि अहम् । ततस् साधु इति तत् वाक्यम् ब्राह्मणाः प्रत्यपूजयन् ॥१॥
ṛṣi-putra-prabhāveṇa kāmān prāpsyāmi ca api aham . tatas sādhu iti tat vākyam brāhmaṇāḥ pratyapūjayan ..1..
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् । ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा ॥१-१२-११॥
वसिष्ठ-प्रमुखाः सर्वे पार्थिवस्य मुखात् च्युतम् । ऋष्यशृङ्ग-पुरोगाः च प्रत्यूचुः नृपतिम् तदा ॥१॥
vasiṣṭha-pramukhāḥ sarve pārthivasya mukhāt cyutam . ṛṣyaśṛṅga-purogāḥ ca pratyūcuḥ nṛpatim tadā ..1..
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् । सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥१-१२-१२॥
सम्भाराः सम्भ्रियन्ताम् ते तुरगः च विमुच्यताम् । सरय्वाः च उत्तरे तीरे यज्ञ-भूमिः विधीयताम् ॥१॥
sambhārāḥ sambhriyantām te turagaḥ ca vimucyatām . sarayvāḥ ca uttare tīre yajña-bhūmiḥ vidhīyatām ..1..
सर्वथा प्राप्यसे पुत्रांश्चतुरोऽमितविक्रमान् । यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥१-१२-१३॥
सर्वथा प्राप्यसे पुत्रान् चतुरः अमित-विक्रमान् । यस्य ते धार्मिकी बुद्धिः इयम् पुत्र-अर्थम् आगता ॥१॥
sarvathā prāpyase putrān caturaḥ amita-vikramān . yasya te dhārmikī buddhiḥ iyam putra-artham āgatā ..1..
ततः प्रीतोऽभवद् राजा श्रुत्वा तु द्विजभाषितम् । अमात्यानब्रवीद् राजा हर्षेणेदं शुभाक्षरम् ॥१-१२-१४॥
ततस् प्रीतः अभवत् राजा श्रुत्वा तु द्विज-भाषितम् । अमात्यान् अब्रवीत् राजा हर्षेण इदम् शुभ-अक्षरम् ॥१॥
tatas prītaḥ abhavat rājā śrutvā tu dvija-bhāṣitam . amātyān abravīt rājā harṣeṇa idam śubha-akṣaram ..1..
गुरूणां वचनाच्छीघ्रं सम्भाराः सम्भ्रियन्तु मे । समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ॥१-१२-१५॥
गुरूणाम् वचनात् शीघ्रम् सम्भाराः सम्भ्रियन्तु मे । समर्थ-अधिष्ठितः च अश्वः स उपाध्यायः विमुच्यताम् ॥१॥
gurūṇām vacanāt śīghram sambhārāḥ sambhriyantu me . samartha-adhiṣṭhitaḥ ca aśvaḥ sa upādhyāyaḥ vimucyatām ..1..
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥१-१२-१६॥
सरय्वाः च उत्तरे तीरे यज्ञ-भूमिः विधीयताम् । शान्तयः च अभिवर्धन्ताम् यथाकल्पम् यथाविधि ॥१॥
sarayvāḥ ca uttare tīre yajña-bhūmiḥ vidhīyatām . śāntayaḥ ca abhivardhantām yathākalpam yathāvidhi ..1..
शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता । नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ॥१-१२-१७॥
शक्यः कर्तुम् अयम् यज्ञः सर्वेण अपि महीक्षिता । न अपराधः भवेत् कष्टः यदि अस्मिन् क्रतु-सत्तमे ॥१॥
śakyaḥ kartum ayam yajñaḥ sarveṇa api mahīkṣitā . na aparādhaḥ bhavet kaṣṭaḥ yadi asmin kratu-sattame ..1..
छिद्रं हि मृगयन्त्येते विद्वांसो ब्रह्मराक्षसाः । विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ॥१-१२-१८॥
छिद्रम् हि मृगयन्ति एते विद्वांसः ब्रह्मराक्षसाः । विधि-हीनस्य यज्ञस्य सद्यस् कर्ता विनश्यति ॥१॥
chidram hi mṛgayanti ete vidvāṃsaḥ brahmarākṣasāḥ . vidhi-hīnasya yajñasya sadyas kartā vinaśyati ..1..
तद् यथा विधिपूर्वं मे क्रतुरेष समाप्यते । तथा विधानं क्रियतां समर्थाः करणेष्विह ॥१-१२-१९॥
तत् यथा विधि-पूर्वम् मे क्रतुः एष समाप्यते । तथा विधानम् क्रियताम् समर्थाः करणेषु इह ॥१॥
tat yathā vidhi-pūrvam me kratuḥ eṣa samāpyate . tathā vidhānam kriyatām samarthāḥ karaṇeṣu iha ..1..
तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् । पार्थिवेन्द्रस्य तद् वाक्यं यथाज्ञप्तमकुर्वत ॥१-१२-२०॥
तथा इति च ततस् सर्वे मन्त्रिणः प्रत्यपूजयन् । पार्थिव-इन्द्रस्य तत् वाक्यम् यथा आज्ञप्तम् अकुर्वत ॥१॥
tathā iti ca tatas sarve mantriṇaḥ pratyapūjayan . pārthiva-indrasya tat vākyam yathā ājñaptam akurvata ..1..
ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम् । अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥१-१२-२१॥
ततस् द्विजाः ते धर्म-ज्ञम् अस्तुवन् पार्थिव-ऋषभम् । अनुज्ञाताः ततस् सर्वे पुनर् जग्मुः यथागतम् ॥१॥
tatas dvijāḥ te dharma-jñam astuvan pārthiva-ṛṣabham . anujñātāḥ tatas sarve punar jagmuḥ yathāgatam ..1..
गतेषु तेषु विप्रेषु मन्त्रिणस्तान् नराधिपः । विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ॥१-१२-२२॥
गतेषु तेषु विप्रेषु मन्त्रिणः तान् नराधिपः । विसर्जयित्वा स्वम् वेश्म प्रविवेश महामतिः ॥१॥
gateṣu teṣu vipreṣu mantriṇaḥ tān narādhipaḥ . visarjayitvā svam veśma praviveśa mahāmatiḥ ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वादशः सर्गः ॥१-१२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वादशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe dvādaśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In