This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्दशः सर्गः ॥१-१४॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे चतुर्दशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe caturdaśaḥ sargaḥ ..1..
अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे । सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥१-१४-१॥
अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे । सरय्वाः च उत्तरे तीरे राज्ञः यज्ञः अभ्यवर्तत ॥१॥
atha saṃvatsare pūrṇe tasmin prāpte turaṅgame . sarayvāḥ ca uttare tīre rājñaḥ yajñaḥ abhyavartata ..1..
ऋष्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः । अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥१-१४-२॥
ऋष्यशृङ्गम् पुरस्कृत्य कर्म चक्रुः द्विजर्षभाः । अश्वमेधे महा-यज्ञे राज्ञः अस्य सु महात्मनः ॥१॥
ṛṣyaśṛṅgam puraskṛtya karma cakruḥ dvijarṣabhāḥ . aśvamedhe mahā-yajñe rājñaḥ asya su mahātmanaḥ ..1..
कर्म कुर्वन्ति विधिवद् याजका वेदपारगाः । यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥१-१४-३॥
कर्म कुर्वन्ति विधिवत् याजकाः वेदपारगाः । यथाविधि यथान्यायम् परिक्रामन्ति शास्त्रतः ॥१॥
karma kurvanti vidhivat yājakāḥ vedapāragāḥ . yathāvidhi yathānyāyam parikrāmanti śāstrataḥ ..1..
प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः । चक्रुश्च विधिवत् सर्वमधिकं कर्म शास्त्रतः ॥१-१४-४॥
प्रवर्ग्यम् शास्त्रतः कृत्वा तथा एव उपसदम् द्विजाः । चक्रुः च विधिवत् सर्वम् अधिकम् कर्म शास्त्रतः ॥१॥
pravargyam śāstrataḥ kṛtvā tathā eva upasadam dvijāḥ . cakruḥ ca vidhivat sarvam adhikam karma śāstrataḥ ..1..
अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि । प्रातःसवनपूर्वाणि कर्माणि मुनिपुङ्गवाः ॥१-१४-५॥
अभिपूज्य ततस् हृष्टाः सर्वे चक्रुः यथाविधि । प्रातःसवन-पूर्वाणि कर्माणि मुनि-पुङ्गवाः ॥१॥
abhipūjya tatas hṛṣṭāḥ sarve cakruḥ yathāvidhi . prātaḥsavana-pūrvāṇi karmāṇi muni-puṅgavāḥ ..1..
ऐन्द्रश्च विधिवत् दत्तो राजा चाभिषुतोऽनघः । मध्यन्दिनं च सवनं प्रावर्तत यथाक्रमम् ॥१-१४-६॥
ऐन्द्रः च विधिवत् दत्तः राजा च अभिषुतः अनघः । मध्यन्दिनम् च सवनम् प्रावर्तत यथाक्रमम् ॥१॥
aindraḥ ca vidhivat dattaḥ rājā ca abhiṣutaḥ anaghaḥ . madhyandinam ca savanam prāvartata yathākramam ..1..
तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः । चक्रुस्ते शास्त्रतो दृष्ट्वा यथा ब्राह्मणपुङ्गवाः ॥१-१४-७॥
तृतीयसवनम् च एव राज्ञः अस्य सु महात्मनः । चक्रुः ते शास्त्रतः दृष्ट्वा यथा ब्राह्मण-पुङ्गवाः ॥१॥
tṛtīyasavanam ca eva rājñaḥ asya su mahātmanaḥ . cakruḥ te śāstrataḥ dṛṣṭvā yathā brāhmaṇa-puṅgavāḥ ..1..
आह्वायाञ्चक्रिरे तत्र शक्रादीन् विबुधोत्तमान् । ऋष्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसमन्वितैः ॥१-१४-८॥
आह्वायाञ्चक्रिरे तत्र शक्र-आदीन् विबुध-उत्तमान् । ऋष्य-शृङ्ग-आदयः मन्त्रैः शिक्षा-अक्षर-समन्वितैः ॥१॥
āhvāyāñcakrire tatra śakra-ādīn vibudha-uttamān . ṛṣya-śṛṅga-ādayaḥ mantraiḥ śikṣā-akṣara-samanvitaiḥ ..1..
गीतिभिर्मधुरैः स्निग्धैर्मन्त्राह्वानैर्यथार्हतः । होतारो ददुरावाह्य हविर्भागान् दिवौकसाम् ॥१-१४-९॥
गीतिभिः मधुरैः स्निग्धैः मन्त्र-आह्वानैः यथार्हतः । होतारः ददुः आवाह्य हविः-भागान् दिवौकसाम् ॥१॥
gītibhiḥ madhuraiḥ snigdhaiḥ mantra-āhvānaiḥ yathārhataḥ . hotāraḥ daduḥ āvāhya haviḥ-bhāgān divaukasām ..1..
न चाहुतमभूत् तत्र स्खलितं वा न किञ्चन । दृश्यते ब्रह्मवत् सर्वं क्षेमयुक्तं हि चक्रिरे ॥१-१४-१०॥
न च अहुतम् अभूत् तत्र स्खलितम् वा न किञ्चन । दृश्यते ब्रह्मवत् सर्वम् क्षेम-युक्तम् हि चक्रिरे ॥१॥
na ca ahutam abhūt tatra skhalitam vā na kiñcana . dṛśyate brahmavat sarvam kṣema-yuktam hi cakrire ..1..
न तेष्वहःसु श्रान्तो वा क्षुधितो वा न दृश्यते । नाविद्वान् ब्राह्मणः कश्चिन्नाशतानुचरस्तथा ॥१-१४-११॥
न तेषु अहःसु श्रान्तः वा क्षुधितः वा न दृश्यते । न अ विद्वान् ब्राह्मणः कश्चिद् न अ शत-अनुचरः तथा ॥१॥
na teṣu ahaḥsu śrāntaḥ vā kṣudhitaḥ vā na dṛśyate . na a vidvān brāhmaṇaḥ kaścid na a śata-anucaraḥ tathā ..1..
ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते । तापसा भुञ्जते चापि श्रमणाश्चैव भुञ्जते ॥१-१४-१२॥
ब्राह्मणाः भुञ्जते नित्यम् नाथवन्तः च भुञ्जते । तापसाः भुञ्जते च अपि श्रमणाः च एव भुञ्जते ॥१॥
brāhmaṇāḥ bhuñjate nityam nāthavantaḥ ca bhuñjate . tāpasāḥ bhuñjate ca api śramaṇāḥ ca eva bhuñjate ..1..
वृद्धाश्च व्याधिताश्चैव स्त्रीबालाश्च तथैव च । अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥१-१४-१३॥
वृद्धाः च व्याधिताः च एव स्त्री-बालाः च तथा एव च । अनिशम् भुञ्जमानानाम् न तृप्तिः उपलभ्यते ॥१॥
vṛddhāḥ ca vyādhitāḥ ca eva strī-bālāḥ ca tathā eva ca . aniśam bhuñjamānānām na tṛptiḥ upalabhyate ..1..
दीयतां दीयतामन्नं वासांसि विविधानि च । इति संचोदितास्तत्र तथा चक्रुरनेकशः ॥१-१४-१४॥
दीयताम् दीयताम् अन्नम् वासांसि विविधानि च । इति संचोदिताः तत्र तथा चक्रुः अनेकशस् ॥१॥
dīyatām dīyatām annam vāsāṃsi vividhāni ca . iti saṃcoditāḥ tatra tathā cakruḥ anekaśas ..1..
अन्नकूटाश्च दृश्यन्ते बहवः पर्वतोपमाः । दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा ॥१-१४-१५॥
अन्न-कूटाः च दृश्यन्ते बहवः पर्वत-उपमाः । दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा ॥१॥
anna-kūṭāḥ ca dṛśyante bahavaḥ parvata-upamāḥ . divase divase tatra siddhasya vidhivat tadā ..1..
नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा । अन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः ॥१-१४-१६॥
नाना देशात् अनुप्राप्ताः पुरुषाः स्त्री-गणाः तथा । अन्न-पानैः सु विहिताः तस्मिन् यज्ञे महात्मनः ॥१॥
nānā deśāt anuprāptāḥ puruṣāḥ strī-gaṇāḥ tathā . anna-pānaiḥ su vihitāḥ tasmin yajñe mahātmanaḥ ..1..
अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः । अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः ॥१-१४-१७॥
अन्नम् हि विधिवत् स्वादु प्रशंसन्ति द्विजर्षभाः । अहो तृप्ताः स्म भद्रम् ते इति शुश्राव राघवः ॥१॥
annam hi vidhivat svādu praśaṃsanti dvijarṣabhāḥ . aho tṛptāḥ sma bhadram te iti śuśrāva rāghavaḥ ..1..
स्वलंकृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् । उपासन्ते च तानन्ये सुमृष्टमणिकुण्डलाः ॥१-१४-१८॥
सु अलंकृताः च पुरुषाः ब्राह्मणान् पर्यवेषयन् । उपासन्ते च तान् अन्ये सु मृष्ट-मणि-कुण्डलाः ॥१॥
su alaṃkṛtāḥ ca puruṣāḥ brāhmaṇān paryaveṣayan . upāsante ca tān anye su mṛṣṭa-maṇi-kuṇḍalāḥ ..1..
कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि । प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया ॥१-१४-१९॥
कर्मान्तरे तदा विप्राः हेतुवादान् बहून् अपि । प्राहुः सु वाग्मिनः धीराः परस्पर-जिगीषया ॥१॥
karmāntare tadā viprāḥ hetuvādān bahūn api . prāhuḥ su vāgminaḥ dhīrāḥ paraspara-jigīṣayā ..1..
दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः । सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥१-१४-२०॥
दिवसे दिवसे तत्र संस्तरे कुशलाः द्विजाः । सर्व-कर्माणि चक्रुः ते यथाशास्त्रम् प्रचोदिताः ॥१॥
divase divase tatra saṃstare kuśalāḥ dvijāḥ . sarva-karmāṇi cakruḥ te yathāśāstram pracoditāḥ ..1..
नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः । सदस्यास्तस्य वै राज्ञो नावादकुशलो द्विजः ॥१-१४-२१॥
न अ षष्-अङ्ग-विद् अत्र आसीत् न अ व्रतः न अ बहु-श्रुतः । सदस्याः तस्य वै राज्ञः न अ वाद-कुशलः द्विजः ॥१॥
na a ṣaṣ-aṅga-vid atra āsīt na a vrataḥ na a bahu-śrutaḥ . sadasyāḥ tasya vai rājñaḥ na a vāda-kuśalaḥ dvijaḥ ..1..
प्राप्ते यूपोच्छ्रये तस्मिन् षड् बैल्वाः खादिरास्तथा । तावन्तो बिल्वसहिताः पर्णिनश्च तथा परे ॥१-१४-२२॥
प्राप्ते यूपोच्छ्रये तस्मिन् षट् बैल्वाः खादिराः तथा । तावन्तः बिल्व-सहिताः पर्णिनः च तथा परे ॥१॥
prāpte yūpocchraye tasmin ṣaṭ bailvāḥ khādirāḥ tathā . tāvantaḥ bilva-sahitāḥ parṇinaḥ ca tathā pare ..1..
श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा । द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥१-१४-२३॥
श्लेष्मातक-मयः दिष्टः देवदारु-मयः तथा । द्वौ एव तत्र विहितौ बाहु-व्यस्त-परिग्रहौ ॥१॥
śleṣmātaka-mayaḥ diṣṭaḥ devadāru-mayaḥ tathā . dvau eva tatra vihitau bāhu-vyasta-parigrahau ..1..
कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः । शोभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन् ॥१-१४-२४॥
कारिताः सर्वे एव एते शास्त्र-ज्ञैः यज्ञ-कोविदैः । शोभा-अर्थम् तस्य यज्ञस्य काञ्चन-अलंकृताः भवन् ॥१॥
kāritāḥ sarve eva ete śāstra-jñaiḥ yajña-kovidaiḥ . śobhā-artham tasya yajñasya kāñcana-alaṃkṛtāḥ bhavan ..1..
एकविंशतियूपास्ते एकविंशत्यरत्नयः । वासोभिरेकविंशद्भिरेकैकं समलंकृताः ॥१-१४-२५॥
एकविंशति-यूपाः ते एकविंशति-अरत्नयः । वासोभिः एकविंशद्भिः एकैकम् समलंकृताः ॥१॥
ekaviṃśati-yūpāḥ te ekaviṃśati-aratnayaḥ . vāsobhiḥ ekaviṃśadbhiḥ ekaikam samalaṃkṛtāḥ ..1..
विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः । अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥१-१४-२६॥
विन्यस्ताः विधिवत् सर्वे शिल्पिभिः सु कृताः दृढाः । अष्टाश्रयः सर्वे एव श्लक्ष्ण-रूप-समन्विताः ॥१॥
vinyastāḥ vidhivat sarve śilpibhiḥ su kṛtāḥ dṛḍhāḥ . aṣṭāśrayaḥ sarve eva ślakṣṇa-rūpa-samanvitāḥ ..1..
आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः । सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥१-१४-२७॥
आच्छादिताः ते वासोभिः पुष्पैः गन्धैः च पूजिताः । सप्तर्षयः दीप्तिमन्तः विराजन्ते यथा दिवि ॥१॥
ācchāditāḥ te vāsobhiḥ puṣpaiḥ gandhaiḥ ca pūjitāḥ . saptarṣayaḥ dīptimantaḥ virājante yathā divi ..1..
इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः । चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि ॥१-१४-२८॥
इष्टकाः च यथान्यायम् कारिताः च प्रमाणतः । चितः अग्निः ब्राह्मणैः तत्र कुशलैः शुल्ब-कर्मणि ॥१॥
iṣṭakāḥ ca yathānyāyam kāritāḥ ca pramāṇataḥ . citaḥ agniḥ brāhmaṇaiḥ tatra kuśalaiḥ śulba-karmaṇi ..1..
स चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः । गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥१-१४-२९॥
स चित्यः राज-सिंहस्य संचितः कुशलैः द्विजैः । गरुडः रुक्म-पक्षः वै त्रिगुणः अष्टादश-आत्मकः ॥१॥
sa cityaḥ rāja-siṃhasya saṃcitaḥ kuśalaiḥ dvijaiḥ . garuḍaḥ rukma-pakṣaḥ vai triguṇaḥ aṣṭādaśa-ātmakaḥ ..1..
नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् । उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥१-१४-३०॥
नियुक्ताः तत्र पशवः तत् तत् उद्दिश्य दैवतम् । उरगाः पक्षिणः च एव यथाशास्त्रम् प्रचोदिताः ॥१॥
niyuktāḥ tatra paśavaḥ tat tat uddiśya daivatam . uragāḥ pakṣiṇaḥ ca eva yathāśāstram pracoditāḥ ..1..
शामित्रे तु हयस्तत्र तथा जलचराश्च ये । ऋषिभिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥१-१४-३१॥
शामित्रे तु हयः तत्र तथा जलचराः च ये । ऋषिभिः सर्वम् एव एतत् नियुक्तम् शास्त्रतः तदा ॥१॥
śāmitre tu hayaḥ tatra tathā jalacarāḥ ca ye . ṛṣibhiḥ sarvam eva etat niyuktam śāstrataḥ tadā ..1..
पशूनां त्रिशतं तत्र यूपेषु नियतं तदा । अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य ह ॥१-१४-३२॥
पशूनाम् त्रि-शतम् तत्र यूपेषु नियतम् तदा । अश्व-रत्न-उत्तमम् तत्र राज्ञः दशरथस्य ह ॥१॥
paśūnām tri-śatam tatra yūpeṣu niyatam tadā . aśva-ratna-uttamam tatra rājñaḥ daśarathasya ha ..1..
कौसल्या तं हयं तत्र परिचर्य समन्ततः । कृपाणैर्विससारैनं त्रिभिः परमया मुदा ॥१-१४-३३॥
कौसल्या तम् हयम् तत्र परिचर्य समन्ततः । कृपाणैः विससार एनम् त्रिभिः परमया मुदा ॥१॥
kausalyā tam hayam tatra paricarya samantataḥ . kṛpāṇaiḥ visasāra enam tribhiḥ paramayā mudā ..1..
पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा । अवसद् रजनीमेकां कौसल्या धर्मकाम्यया ॥१-१४-३४॥
पतत्रिणा तदा सार्धम् सु स्थितेन च चेतसा । अवसत् रजनीम् एकाम् कौसल्या धर्म-काम्यया ॥१॥
patatriṇā tadā sārdham su sthitena ca cetasā . avasat rajanīm ekām kausalyā dharma-kāmyayā ..1..
होताध्वर्युस्तथोद्गाता हस्तेन समयोजयन् । महिष्या परिवृत्त्याथ वावातामपरां तथा ॥१-१४-३५॥
होता अध्वर्युः तथा उद्गाता हस्तेन समयोजयन् । महिष्या परिवृत्त्या अथ वावाताम् अपराम् तथा ॥१॥
hotā adhvaryuḥ tathā udgātā hastena samayojayan . mahiṣyā parivṛttyā atha vāvātām aparām tathā ..1..
पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः । ऋत्विक्परमसम्पन्नः श्रपयामास शास्त्रतः ॥१-१४-३६॥
पतत्रिणः तस्य वपाम् उद्धृत्य नियत-इन्द्रियः । ऋत्विज्-परम-सम्पन्नः श्रपयामास शास्त्रतः ॥१॥
patatriṇaḥ tasya vapām uddhṛtya niyata-indriyaḥ . ṛtvij-parama-sampannaḥ śrapayāmāsa śāstrataḥ ..1..
धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः । यथाकालं यथान्यायं निर्णुदन् पापमात्मनः ॥१-१४-३७॥
धूम-गन्धम् वपायाः तु जिघ्रति स्म नराधिपः । यथाकालम् यथान्यायम् निर्णुदन् पापम् आत्मनः ॥१॥
dhūma-gandham vapāyāḥ tu jighrati sma narādhipaḥ . yathākālam yathānyāyam nirṇudan pāpam ātmanaḥ ..1..
हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः । अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्त्विजः ॥१-१४-३८॥
हयस्य यानि च अङ्गानि तानि सर्वाणि ब्राह्मणाः । अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडश-ऋत्विजः ॥१॥
hayasya yāni ca aṅgāni tāni sarvāṇi brāhmaṇāḥ . agnau prāsyanti vidhivat samastāḥ ṣoḍaśa-ṛtvijaḥ ..1..
प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः । अश्वमेधस्य चैकस्य वैतसो भाग इष्यते ॥१-१४-३९॥
प्लक्ष-शाखासु यज्ञानाम् अन्येषाम् क्रियते हविः । अश्वमेधस्य च एकस्य वैतसः भागः इष्यते ॥१॥
plakṣa-śākhāsu yajñānām anyeṣām kriyate haviḥ . aśvamedhasya ca ekasya vaitasaḥ bhāgaḥ iṣyate ..1..
त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः । चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ॥१-१४-४०॥
त्रि-अहः अश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः । चतुष्टोमम् अहर् तस्य प्रथमम् परिकल्पितम् ॥१॥
tri-ahaḥ aśvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ . catuṣṭomam ahar tasya prathamam parikalpitam ..1..
उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम् । कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥१-१४-४१॥
उक्थ्यम् द्वितीयम् संख्यातम् अतिरात्रम् तथा उत्तरम् । कारिताः तत्र बहवः विहिताः शास्त्र-दर्शनात् ॥१॥
ukthyam dvitīyam saṃkhyātam atirātram tathā uttaram . kāritāḥ tatra bahavaḥ vihitāḥ śāstra-darśanāt ..1..
ज्योतिष्टोमायुषी चैवमतिरात्रौ च निर्मितौ । अभिजिद्विश्वजिच्चैवमाप्तोर्यामौ महाक्रतुः ॥१-१४-४२॥
ज्योतिष्टोम-आयुषी च एवम् अतिरात्रौ च निर्मितौ । अभिजित् विश्वजित् च एवम् आप्तोर्यामौ महा-क्रतुः ॥१॥
jyotiṣṭoma-āyuṣī ca evam atirātrau ca nirmitau . abhijit viśvajit ca evam āptoryāmau mahā-kratuḥ ..1..
प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः । अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥१-१४-४३॥
प्राचीम् होत्रे ददौ राजा दिशम् स्व-कुल-वर्धनः । अध्वर्यवे प्रतीचीम् तु ब्रह्मणे दक्षिणाम् दिशम् ॥१॥
prācīm hotre dadau rājā diśam sva-kula-vardhanaḥ . adhvaryave pratīcīm tu brahmaṇe dakṣiṇām diśam ..1..
उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता । अश्वमेधे महायज्ञे स्वयम्भूविहिते पुरा ॥१-१४-४४॥
उद्गात्रे तु तथा उदीचीम् दक्षिणा एषा विनिर्मिता । अश्वमेधे महा-यज्ञे स्वयम्भू-विहिते पुरा ॥१॥
udgātre tu tathā udīcīm dakṣiṇā eṣā vinirmitā . aśvamedhe mahā-yajñe svayambhū-vihite purā ..1..
क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः । ऋत्विग्भ्यो हि ददौ राजा धरां तां कुलवर्धनः ॥१-१४-४५॥
क्रतुम् समाप्य तु तदा न्यायतः पुरुष-ऋषभः । ऋत्विग्भ्यः हि ददौ राजा धराम् ताम् कुल-वर्धनः ॥१॥
kratum samāpya tu tadā nyāyataḥ puruṣa-ṛṣabhaḥ . ṛtvigbhyaḥ hi dadau rājā dharām tām kula-vardhanaḥ ..1..
एवम् दत्त्वा प्रहृष्टोऽभूच्छ्रीमाननिक्ष्वाकुनन्दनः । ऋत्विजस्त्वब्रुवन् सर्वे राजानं गतकिल्बिषम् ॥१-१४-४६॥
एवम् दत्त्वा प्रहृष्टः अभूत् श्रीमान् अन् इक्ष्वाकु-नन्दनः । ऋत्विजः तु अब्रुवन् सर्वे राजानम् गत-किल्बिषम् ॥१॥
evam dattvā prahṛṣṭaḥ abhūt śrīmān an ikṣvāku-nandanaḥ . ṛtvijaḥ tu abruvan sarve rājānam gata-kilbiṣam ..1..
भवानेव महीं कृत्स्नामेको रक्षितुमर्हति । न भूम्या कार्यमस्माकं नहि शक्ताः स्म पालने ॥१-१४-४७॥
भवान् एव महीम् कृत्स्नाम् एकः रक्षितुम् अर्हति । न भूम्या कार्यम् अस्माकम् नहि शक्ताः स्म पालने ॥१॥
bhavān eva mahīm kṛtsnām ekaḥ rakṣitum arhati . na bhūmyā kāryam asmākam nahi śaktāḥ sma pālane ..1..
रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप । निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ॥१-१४-४८॥
रताः स्वाध्याय-करणे वयम् नित्यम् हि भूमिप । निष्क्रयम् किञ्चिद् एव इह प्रयच्छतु भवान् इति ॥१॥
ratāḥ svādhyāya-karaṇe vayam nityam hi bhūmipa . niṣkrayam kiñcid eva iha prayacchatu bhavān iti ..1..
मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् । तत् प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ॥१-१४-४९॥
मणि-रत्नम् सुवर्णम् वा गावः यत् वा समुद्यतम् । तत् प्रयच्छ नर-श्रेष्ठ धरण्याः न प्रयोजनम् ॥१॥
maṇi-ratnam suvarṇam vā gāvaḥ yat vā samudyatam . tat prayaccha nara-śreṣṭha dharaṇyāḥ na prayojanam ..1..
एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः । गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ॥१-१४-५०॥
एवम् उक्तः नरपतिः ब्राह्मणैः वेदपारगैः । गवाम् शत-सहस्राणि दश तेभ्यः ददौ नृपः ॥१॥
evam uktaḥ narapatiḥ brāhmaṇaiḥ vedapāragaiḥ . gavām śata-sahasrāṇi daśa tebhyaḥ dadau nṛpaḥ ..1..
दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् । ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु ॥१-१४-५१॥
दश-कोटिम् सुवर्णस्य रजतस्य चतुर्गुणम् । ऋत्विजः तु ततस् सर्वे प्रददुः सहिताः वसु ॥१॥
daśa-koṭim suvarṇasya rajatasya caturguṇam . ṛtvijaḥ tu tatas sarve pradaduḥ sahitāḥ vasu ..1..
ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते । ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ॥१-१४-५२॥
ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते । ततस् ते न्यायतः कृत्वा प्रविभागम् द्विजोत्तमाः ॥१॥
ṛṣyaśṛṅgāya munaye vasiṣṭhāya ca dhīmate . tatas te nyāyataḥ kṛtvā pravibhāgam dvijottamāḥ ..1..
सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम् । ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः ॥१-१४-५३॥
सु प्रीत-मनसः सर्वे प्रत्यूचुः मुदिताः भृशम् । ततस् प्रसर्पकेभ्यः तु हिरण्यम् सु समाहितः ॥१॥
su prīta-manasaḥ sarve pratyūcuḥ muditāḥ bhṛśam . tatas prasarpakebhyaḥ tu hiraṇyam su samāhitaḥ ..1..
जाम्बूनदं कोटिसंख्यं ब्राह्मणेभ्यो ददौ तदा । दरिद्राय द्विजायथ हस्ताभरणमुत्तमम् ॥१-१४-५४॥
जाम्बूनदम् कोटि-संख्यम् ब्राह्मणेभ्यः ददौ तदा । दरिद्राय हस्त-आभरणम् उत्तमम् ॥१॥
jāmbūnadam koṭi-saṃkhyam brāhmaṇebhyaḥ dadau tadā . daridrāya hasta-ābharaṇam uttamam ..1..
कस्मैचित् याचमानाय ददौ राघवनन्दनः । ततः प्रीतेषु विधिवत् द्विजेषु द्विजवत्सलः ॥१-१४-५५॥
कस्मैचिद् याचमानाय ददौ राघवनन्दनः । ततस् प्रीतेषु विधिवत् द्विजेषु द्विजवत्सलः ॥१॥
kasmaicid yācamānāya dadau rāghavanandanaḥ . tatas prīteṣu vidhivat dvijeṣu dvijavatsalaḥ ..1..
प्रणाममकरोत् तेषां हर्षव्याकुलितेन्द्रियः । तस्याशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः ॥१-१४-५६॥
प्रणामम् अकरोत् तेषाम् हर्ष-व्याकुलित-इन्द्रियः । तस्य आशिषः अथ विविधाः ब्राह्मणैः समुदाहृताः ॥१॥
praṇāmam akarot teṣām harṣa-vyākulita-indriyaḥ . tasya āśiṣaḥ atha vividhāḥ brāhmaṇaiḥ samudāhṛtāḥ ..1..
उदारस्य नृवीरस्य धरण्यां पतितस्य च । ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ॥१-१४-५७॥
उदारस्य नृ-वीरस्य धरण्याम् पतितस्य च । ततस् प्रीत-मनाः राजा प्राप्य यज्ञम् अनुत्तमम् ॥१॥
udārasya nṛ-vīrasya dharaṇyām patitasya ca . tatas prīta-manāḥ rājā prāpya yajñam anuttamam ..1..
पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः । ततोऽब्रवीदृशष्यशृङ्गं राजा दशरथस्तदा ॥१-१४-५८॥
पाप-अपहम् स्वर्नयनम् दुस्तरम् पार्थिव-ऋषभैः । ततस् अब्रवीत् ऋशष्यशृङ्गम् राजा दशरथः तदा ॥१॥
pāpa-apaham svarnayanam dustaram pārthiva-ṛṣabhaiḥ . tatas abravīt ṛśaṣyaśṛṅgam rājā daśarathaḥ tadā ..1..
कुलस्य वर्धनं तत् तु कर्तुमर्हसि सुव्रततथेति च स राजानमुवाच द्विजसत्तमःभविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥१-१४-५९॥
कुलस्य वर्धनम् तत् तु कर्तुम् अर्हसि सुव्रत-तथा इति च स राजानम् उवाच द्विजसत्तमः भविष्यन्ति सुताः राजन् चत्वारः ते कुल-उद्वहाः ॥१॥
kulasya vardhanam tat tu kartum arhasi suvrata-tathā iti ca sa rājānam uvāca dvijasattamaḥ bhaviṣyanti sutāḥ rājan catvāraḥ te kula-udvahāḥ ..1..
स तस्य वाक्यं मधुरं निशम्य प्रणम्य तस्मै प्रयतो नृपेन्द्रः । जगाम हर्षं परमं महात्मा तमृष्यशृङ्गं पुनरप्युवाच ॥१-१४-६०॥
स तस्य वाक्यम् मधुरम् निशम्य प्रणम्य तस्मै प्रयतः नृप-इन्द्रः । जगाम हर्षम् परमम् महात्मा तम् ऋष्यशृङ्गम् पुनर् अपि उवाच ॥१॥
sa tasya vākyam madhuram niśamya praṇamya tasmai prayataḥ nṛpa-indraḥ . jagāma harṣam paramam mahātmā tam ṛṣyaśṛṅgam punar api uvāca ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्दशः सर्गः ॥१-१४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्दशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe caturdaśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In