This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षोडशः सर्गः ॥१-१६॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे षोडशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe ṣoḍaśaḥ sargaḥ ..1..
ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः । जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् ॥१-१६-१॥
ततस् नारायणः विष्णुः नियुक्तः सुर-सत्तमैः । जानन् अपि सुरान् एवम् श्लक्ष्णम् वचनम् अब्रवीत् ॥१॥
tatas nārāyaṇaḥ viṣṇuḥ niyuktaḥ sura-sattamaiḥ . jānan api surān evam ślakṣṇam vacanam abravīt ..1..
उपायः को वधे तस्य राक्षसाधिपतेः सुराः । यमहं तं समास्थाय निहन्यामृषिकण्टकम् ॥१-१६-२॥
उपायः कः वधे तस्य राक्षस-अधिपतेः सुराः । यम् अहम् तम् समास्थाय निहन्याम् ऋषि-कण्टकम् ॥१॥
upāyaḥ kaḥ vadhe tasya rākṣasa-adhipateḥ surāḥ . yam aham tam samāsthāya nihanyām ṛṣi-kaṇṭakam ..1..
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् । मानुषं रूपमास्थाय रावणं जहि संयुगे ॥१-१६-३॥
एवम् उक्ताः सुराः सर्वे प्रत्यूचुः विष्णुम् अव्ययम् । मानुषम् रूपम् आस्थाय रावणम् जहि संयुगे ॥१॥
evam uktāḥ surāḥ sarve pratyūcuḥ viṣṇum avyayam . mānuṣam rūpam āsthāya rāvaṇam jahi saṃyuge ..1..
स हि तेपे तपस्तीव्रं दीर्घकालमरिन्दमः । येन तुष्टोऽभवद् ब्रह्मा लोककृल्लोकपूर्वजः ॥१-१६-४॥
स हि तेपे तपः तीव्रम् दीर्घ-कालम् अरिन्दमः । येन तुष्टः अभवत् ब्रह्मा लोककृत् लोक-पूर्वजः ॥१॥
sa hi tepe tapaḥ tīvram dīrgha-kālam arindamaḥ . yena tuṣṭaḥ abhavat brahmā lokakṛt loka-pūrvajaḥ ..1..
संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः । नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् ॥१-१६-५॥
संतुष्टः प्रददौ तस्मै राक्षसाय वरम् प्रभुः । नानाविधेभ्यः भूतेभ्यः भयम् न अन्यत्र मानुषात् ॥१॥
saṃtuṣṭaḥ pradadau tasmai rākṣasāya varam prabhuḥ . nānāvidhebhyaḥ bhūtebhyaḥ bhayam na anyatra mānuṣāt ..1..
अवज्ञाताः पुरा तेन वरदाने हि मानवाः । एवं पितामहात् तस्मात् वरदानेन गर्वितः ॥१-१६-६॥
अवज्ञाताः पुरा तेन वर-दाने हि मानवाः । एवम् पितामहात् तस्मात् वर-दानेन गर्वितः ॥१॥
avajñātāḥ purā tena vara-dāne hi mānavāḥ . evam pitāmahāt tasmāt vara-dānena garvitaḥ ..1..
उत्सादयति लोकांस्त्रीन् स्त्रियश्चाप्युपकर्षति । तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परंतप ॥१-१६-७॥
उत्सादयति लोकान् त्रीन् स्त्रियः च अपि उपकर्षति । तस्मात् तस्य वधः दृष्टः मानुषेभ्यः परंतप ॥१॥
utsādayati lokān trīn striyaḥ ca api upakarṣati . tasmāt tasya vadhaḥ dṛṣṭaḥ mānuṣebhyaḥ paraṃtapa ..1..
इत्येतद् वचनं श्रुत्वा सुराणां विष्णुरात्मवान् । पितरं रोचयामास तदा दशरथं नृपम् ॥१-१६-८॥
इति एतत् वचनम् श्रुत्वा सुराणाम् विष्णुः आत्मवान् । पितरम् रोचयामास तदा दशरथम् नृपम् ॥१॥
iti etat vacanam śrutvā surāṇām viṣṇuḥ ātmavān . pitaram rocayāmāsa tadā daśaratham nṛpam ..1..
स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः । अयजत् पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः ॥१-१६-९॥
स च अपि अपुत्रः नृपतिः तस्मिन् काले महा-द्युतिः । अयजत् पुत्रियाम् इष्टिम् पुत्र-ईप्सुः अरि-सूदनः ॥१॥
sa ca api aputraḥ nṛpatiḥ tasmin kāle mahā-dyutiḥ . ayajat putriyām iṣṭim putra-īpsuḥ ari-sūdanaḥ ..1..
स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम् । अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः ॥१-१६-१०॥
स कृत्वा निश्चयम् विष्णुः आमन्त्र्य च पितामहम् । अन्तर्धानम् गतः देवैः पूज्यमानः महा-ऋषिभिः ॥१॥
sa kṛtvā niścayam viṣṇuḥ āmantrya ca pitāmaham . antardhānam gataḥ devaiḥ pūjyamānaḥ mahā-ṛṣibhiḥ ..1..
ततो वै यजमानस्य पावकादतुलप्रभम् । प्रादुर्भूतं महद् भूतं महावीर्यं महाबलम् ॥१-१६-११॥
ततस् वै यजमानस्य पावकात् अतुल-प्रभम् । प्रादुर्भूतम् महत् भूतम् महा-वीर्यम् महा-बलम् ॥१॥
tatas vai yajamānasya pāvakāt atula-prabham . prādurbhūtam mahat bhūtam mahā-vīryam mahā-balam ..1..
कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम् । स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् ॥१-१६-१२॥
कृष्णम् रक्त-अम्बर-धरम् रक्त-आस्यम् दुन्दुभि-स्वनम् । स्निग्ध-हर्यक्ष-तनुज-श्मश्रु-प्रवर-मूर्धजम् ॥१॥
kṛṣṇam rakta-ambara-dharam rakta-āsyam dundubhi-svanam . snigdha-haryakṣa-tanuja-śmaśru-pravara-mūrdhajam ..1..
शुभलक्षणसम्पन्नं दिव्याभरणभूषितम् । शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥१-१६-१३॥
शुभ-लक्षण-सम्पन्नम् दिव्य-आभरण-भूषितम् । शैल-शृङ्ग-समुत्सेधम् दृप्त-शार्दूल-विक्रमम् ॥१॥
śubha-lakṣaṇa-sampannam divya-ābharaṇa-bhūṣitam . śaila-śṛṅga-samutsedham dṛpta-śārdūla-vikramam ..1..
दिवाकरसमाकारं दीप्तानलशिखोपमम् । तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् ॥१-१६-१४॥
दिवाकर-सम-आकारम् दीप्त-अनल-शिखा-उपमम् । तप्त-जाम्बूनद-मयीम् राजत-अन्त-परिच्छदाम् ॥१॥
divākara-sama-ākāram dīpta-anala-śikhā-upamam . tapta-jāmbūnada-mayīm rājata-anta-paricchadām ..1..
दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम् । प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥१-१६-१५॥
दिव्य-पायस-सम्पूर्णाम् पात्रीम् पत्नीम् इव प्रियाम् । प्रगृह्य विपुलाम् दोर्भ्याम् स्वयम् माया-मयीम् इव ॥१॥
divya-pāyasa-sampūrṇām pātrīm patnīm iva priyām . pragṛhya vipulām dorbhyām svayam māyā-mayīm iva ..1..
समवेक्ष्याब्रवीद् वाक्यमिदं दशरथं नृपम् । प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥१-१६-१६॥
समवेक्ष्य अब्रवीत् वाक्यम् इदम् दशरथम् नृपम् । प्राजापत्यम् नरम् विद्धि माम् इह अभ्यागतम् नृप ॥१॥
samavekṣya abravīt vākyam idam daśaratham nṛpam . prājāpatyam naram viddhi mām iha abhyāgatam nṛpa ..1..
ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः । भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते ॥१-१६-१७॥
ततस् परम् तदा राजा प्रत्युवाच कृताञ्जलिः । भगवन् स्वागतम् ते अस्तु किम् अहम् करवाणि ते ॥१॥
tatas param tadā rājā pratyuvāca kṛtāñjaliḥ . bhagavan svāgatam te astu kim aham karavāṇi te ..1..
अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् । राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥१-१६-१८॥
अथ उ पुनर् इदम् वाक्यम् प्राजापत्यः नरः अब्रवीत् । राजन् अर्चयता देवान् अद्य प्राप्तम् इदम् त्वया ॥१॥
atha u punar idam vākyam prājāpatyaḥ naraḥ abravīt . rājan arcayatā devān adya prāptam idam tvayā ..1..
इदं तु नरशार्दूल पायसं देवनिर्मितम् । प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् ॥१-१६-१९॥
इदम् तु नर-शार्दूल पायसम् देव-निर्मितम् । प्रजा-करम् गृहाण त्वम् धन्यम् आरोग्य-वर्धनम् ॥१॥
idam tu nara-śārdūla pāyasam deva-nirmitam . prajā-karam gṛhāṇa tvam dhanyam ārogya-vardhanam ..1..
भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै । तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप ॥१-१६-२०॥
भार्याणाम् अनुरूपाणाम् अश्नीत इति प्रयच्छ वै । तासु त्वम् लप्स्यसे पुत्रान् यद्-अर्थम् यजसे नृप ॥१॥
bhāryāṇām anurūpāṇām aśnīta iti prayaccha vai . tāsu tvam lapsyase putrān yad-artham yajase nṛpa ..1..
तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् । पात्रीं देवान्नसम्पूर्णां देवदत्तां हिरण्मयीम् ॥१-१६-२१॥
तथा इति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् । पात्रीम् देव-अन्न-सम्पूर्णाम् देव-दत्ताम् हिरण्मयीम् ॥१॥
tathā iti nṛpatiḥ prītaḥ śirasā pratigṛhya tām . pātrīm deva-anna-sampūrṇām deva-dattām hiraṇmayīm ..1..
अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् । मुदा परमया युक्तश्चकाराभिप्रदक्षिणम् ॥१-१६-२२॥
अभिवाद्य च तत् भूतम् अद्भुतम् प्रिय-दर्शनम् । मुदा परमया युक्तः चकार अभिप्रदक्षिणम् ॥१॥
abhivādya ca tat bhūtam adbhutam priya-darśanam . mudā paramayā yuktaḥ cakāra abhipradakṣiṇam ..1..
ततो दशरथः प्राप्य पायसं देवनिर्मितम् । बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥१-१६-२३॥
ततस् दशरथः प्राप्य पायसम् देव-निर्मितम् । बभूव परम-प्रीतः प्राप्य वित्तम् इव अधनः ॥१॥
tatas daśarathaḥ prāpya pāyasam deva-nirmitam . babhūva parama-prītaḥ prāpya vittam iva adhanaḥ ..1..
ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् । संवर्तयित्वा तत् कर्म तत्रैवान्तरधीयत ॥१-१६-२४॥
ततस् तत् अद्भुत-प्रख्यम् भूतम् परम-भास्वरम् । संवर्तयित्वा तत् कर्म तत्र एव अन्तरधीयत ॥१॥
tatas tat adbhuta-prakhyam bhūtam parama-bhāsvaram . saṃvartayitvā tat karma tatra eva antaradhīyata ..1..
हर्षरश्मिभिरुद्द्योतं तस्यान्तःपुरमाबभौ । शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः ॥१-१६-२५॥
हर्ष-रश्मिभिः उद्द्योतम् तस्य अन्तःपुरम् आबभौ । शारदस्य अभिरामस्य चन्द्रस्य इव नभः-ॐऽशुभिः ॥१॥
harṣa-raśmibhiḥ uddyotam tasya antaḥpuram ābabhau . śāradasya abhirāmasya candrasya iva nabhaḥ-oṃ'śubhiḥ ..1..
सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् । पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥१-१६-२६॥
सः अन्तःपुरम् प्रविश्य एव कौसल्याम् इदम् अब्रवीत् । पायसम् प्रतिगृह्णीष्व पुत्रीयम् तु इदम् आत्मनः ॥१॥
saḥ antaḥpuram praviśya eva kausalyām idam abravīt . pāyasam pratigṛhṇīṣva putrīyam tu idam ātmanaḥ ..1..
कौसल्यायै नरपतिः पायसार्धं ददौ तदा । अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ॥१-१६-२७॥
कौसल्यायै नरपतिः पायस-अर्धम् ददौ तदा । अर्धात् अर्धम् ददौ च अपि सुमित्रायै नराधिपः ॥१॥
kausalyāyai narapatiḥ pāyasa-ardham dadau tadā . ardhāt ardham dadau ca api sumitrāyai narādhipaḥ ..1..
कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् । प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ॥१-१६-२८॥
कैकेय्यै च अवशिष्ट-अर्धम् ददौ पुत्र-अर्थ-कारणात् । प्रददौ च अवशिष्ट-अर्धम् पायसस्य अमृत-उपमम् ॥१॥
kaikeyyai ca avaśiṣṭa-ardham dadau putra-artha-kāraṇāt . pradadau ca avaśiṣṭa-ardham pāyasasya amṛta-upamam ..1..
अनुचिन्त्य सुमित्रायै पुनरेव महामतिः । एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥१-१६-२९॥
अनुचिन्त्य सुमित्रायै पुनर् एव महामतिः । एवम् तासाम् ददौ राजा भार्याणाम् पायसम् पृथक् ॥१॥
anucintya sumitrāyai punar eva mahāmatiḥ . evam tāsām dadau rājā bhāryāṇām pāyasam pṛthak ..1..
ताश्चैवं पायसं प्राप्य नरेन्द्रस्योत्तमस्त्रियः । सम्मानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥१-१६-३०॥
ताः च एवम् पायसम् प्राप्य नरेन्द्रस्य उत्तम-स्त्रियः । सम्मानम् मेनिरे सर्वाः प्रहर्ष-उदित-चेतसः ॥१॥
tāḥ ca evam pāyasam prāpya narendrasya uttama-striyaḥ . sammānam menire sarvāḥ praharṣa-udita-cetasaḥ ..1..
ततस्तु ताः प्राश्य तमुत्तमस्त्रियो महीपतेरुत्तमपायसं पृथक् । हुताशनादित्यसमानतेजसो- ऽचिरेण गर्भान् प्रतिपेदिरे तदा ॥१-१६-३१॥
ततस् तु ताः प्राश्य तम् उत्तम-स्त्रियः महीपतेः उत्तम-पायसम् पृथक् । हुताशन-आदित्य-समान-तेजसः अचिरेण गर्भान् प्रतिपेदिरे तदा ॥१॥
tatas tu tāḥ prāśya tam uttama-striyaḥ mahīpateḥ uttama-pāyasam pṛthak . hutāśana-āditya-samāna-tejasaḥ acireṇa garbhān pratipedire tadā ..1..
ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियः प्ररूढगर्भाः प्रतिलब्धमानसः । बभूव हृष्टस्त्रिदिवे यथा हरिः सुरेन्द्रसिद्धर्षिगणाभिपूजितः ॥१-१६-३२॥
ततस् तु राजा प्रतिवीक्ष्य ताः स्त्रियः प्ररूढ-गर्भाः प्रतिलब्ध-मानसः । बभूव हृष्टः त्रिदिवे यथा हरिः सुर-इन्द्र-सिद्ध-ऋषि-गण-अभिपूजितः ॥१॥
tatas tu rājā prativīkṣya tāḥ striyaḥ prarūḍha-garbhāḥ pratilabdha-mānasaḥ . babhūva hṛṣṭaḥ tridive yathā hariḥ sura-indra-siddha-ṛṣi-gaṇa-abhipūjitaḥ ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षोडशः सर्गः ॥१-१६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षोडशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣoḍaśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In