This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनविंशः सर्गः ॥१-१९॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे एकोनविंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe ekonaviṃśaḥ sargaḥ ..1..
तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् । हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥१-१९-१॥
तत् श्रुत्वा राज-सिंहस्य वाक्यम् अद्भुत-विस्तरम् । हृष्ट-रोमा महा-तेजाः विश्वामित्रः अभ्यभाषत ॥१॥
tat śrutvā rāja-siṃhasya vākyam adbhuta-vistaram . hṛṣṭa-romā mahā-tejāḥ viśvāmitraḥ abhyabhāṣata ..1..
सदृशं राजशार्दूल तवैवं भुवि नान्यतः । महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः ॥१-१९-२॥
सदृशम् राज-शार्दूल तव एवम् भुवि न अन्यतस् । महा-वंश-प्रसूतस्य वसिष्ठ-व्यपदेशिनः ॥१॥
sadṛśam rāja-śārdūla tava evam bhuvi na anyatas . mahā-vaṃśa-prasūtasya vasiṣṭha-vyapadeśinaḥ ..1..
यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् । कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः ॥१-१९-३॥
यत् तु मे हृद्-गतम् वाक्यम् तस्य कार्यस्य निश्चयम् । कुरुष्व राज-शार्दूल भव सत्य-प्रतिश्रवः ॥१॥
yat tu me hṛd-gatam vākyam tasya kāryasya niścayam . kuruṣva rāja-śārdūla bhava satya-pratiśravaḥ ..1..
अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभ । तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ ॥१-१९-४॥
अहम् नियमम् आतिष्ठे सिद्धि-अर्थम् पुरुष-ऋषभ । तस्य विघ्न-करौ द्वौ तु राक्षसौ कामरूपिणौ ॥१॥
aham niyamam ātiṣṭhe siddhi-artham puruṣa-ṛṣabha . tasya vighna-karau dvau tu rākṣasau kāmarūpiṇau ..1..
व्रते तु बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ । मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ॥१-१९-५॥
व्रते तु बहुशस् चीर्णे समाप्त्याम् राक्षसौ इमौ । मारीचः च सुबाहुः च वीर्यवन्तौ सु शिक्षितौ ॥१॥
vrate tu bahuśas cīrṇe samāptyām rākṣasau imau . mārīcaḥ ca subāhuḥ ca vīryavantau su śikṣitau ..1..
तौ मांसरुधिरौघेण वेदिं तामभ्यवर्षताम् । अवधूते तथाभूते तस्मिन् नियमनिश्चये ॥१-१९-६॥
तौ मांस-रुधिर-ओघेण वेदिम् ताम् अभ्यवर्षताम् । अवधूते तथाभूते तस्मिन् नियम-निश्चये ॥१॥
tau māṃsa-rudhira-ogheṇa vedim tām abhyavarṣatām . avadhūte tathābhūte tasmin niyama-niścaye ..1..
कृतश्रमो निरुत्साहस्तस्माद् देशादपाक्रमे । न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव ॥१-१९-७॥
कृत-श्रमः निरुत्साहः तस्मात् देशात् अपाक्रमे । न च मे क्रोधम् उत्स्रष्टुम् बुद्धिः भवति पार्थिव ॥१॥
kṛta-śramaḥ nirutsāhaḥ tasmāt deśāt apākrame . na ca me krodham utsraṣṭum buddhiḥ bhavati pārthiva ..1..
तथाभूता हि सा चर्या न शापस्तत्र मुच्यते । स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम् ॥१-१९-८॥
तथाभूता हि सा चर्या न शापः तत्र मुच्यते । स्व-पुत्रम् राज-शार्दूल रामम् सत्य-पराक्रमम् ॥१॥
tathābhūtā hi sā caryā na śāpaḥ tatra mucyate . sva-putram rāja-śārdūla rāmam satya-parākramam ..1..
काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि । शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ॥१-१९-९॥
काकपक्ष-धरम् शूरम् ज्येष्ठम् मे दातुम् अर्हसि । शक्तः हि एष मया गुप्तः दिव्येन स्वेन तेजसा ॥१॥
kākapakṣa-dharam śūram jyeṣṭham me dātum arhasi . śaktaḥ hi eṣa mayā guptaḥ divyena svena tejasā ..1..
राक्षसा ये विकर्तारस्तेषामपि विनाशने । श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः ॥१-१९-१०॥
राक्षसाः ये विकर्तारः तेषाम् अपि विनाशने । श्रेयः च अस्मै प्रदास्यामि बहुरूपम् न संशयः ॥१॥
rākṣasāḥ ye vikartāraḥ teṣām api vināśane . śreyaḥ ca asmai pradāsyāmi bahurūpam na saṃśayaḥ ..1..
त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति । न च तौ राममासाद्य शक्तौ स्थातुं कथञ्चन ॥१-१९-११॥
त्रयाणाम् अपि लोकानाम् येन ख्यातिम् गमिष्यति । न च तौ रामम् आसाद्य शक्तौ स्थातुम् कथञ्चन ॥१॥
trayāṇām api lokānām yena khyātim gamiṣyati . na ca tau rāmam āsādya śaktau sthātum kathañcana ..1..
न च तौ राघवादन्यो हन्तुमुत्सहते पुमान् । वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ ॥१-१९-१२॥
न च तौ राघवात् अन्यः हन्तुम् उत्सहते पुमान् । वीर्य-उत्सिक्तौ हि तौ पापौ काल-पाश-वशम् गतौ ॥१॥
na ca tau rāghavāt anyaḥ hantum utsahate pumān . vīrya-utsiktau hi tau pāpau kāla-pāśa-vaśam gatau ..1..
रामस्य राजशार्दूल न पर्याप्तौ महात्मनः । न च पुत्रगतं स्नेहं कर्तुमर्हसि पार्थिव ॥१-१९-१३॥
रामस्य राज-शार्दूल न पर्याप्तौ महात्मनः । न च पुत्र-गतम् स्नेहम् कर्तुम् अर्हसि पार्थिव ॥१॥
rāmasya rāja-śārdūla na paryāptau mahātmanaḥ . na ca putra-gatam sneham kartum arhasi pārthiva ..1..
अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ । अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् ॥१-१९-१४॥
अहम् ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ । अहम् वेद्मि महात्मानम् रामम् सत्य-पराक्रमम् ॥१॥
aham te pratijānāmi hatau tau viddhi rākṣasau . aham vedmi mahātmānam rāmam satya-parākramam ..1..
वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः । यदि ते धर्मलाभं च यशश्च परमं भुवि ॥१-१९-१५॥
वसिष्ठः अपि महा-तेजाः ये च इमे तपसि स्थिताः । यदि ते धर्म-लाभम् च यशः च परमम् भुवि ॥१॥
vasiṣṭhaḥ api mahā-tejāḥ ye ca ime tapasi sthitāḥ . yadi te dharma-lābham ca yaśaḥ ca paramam bhuvi ..1..
स्थिरमिच्छसि राजेन्द्र रामं मे दातुमर्हसि । यद्यभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः ॥१-१९-१६॥
स्थिरम् इच्छसि राज-इन्द्र रामम् मे दातुम् अर्हसि । यदि अभ्यनुज्ञाम् काकुत्स्थ ददते तव मन्त्रिणः ॥१॥
sthiram icchasi rāja-indra rāmam me dātum arhasi . yadi abhyanujñām kākutstha dadate tava mantriṇaḥ ..1..
वसिष्ठप्रमुखाः सर्वे ततो रामं विसर्जय । अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि ॥१-१९-१७॥
वसिष्ठ-प्रमुखाः सर्वे ततस् रामम् विसर्जय । अभिप्रेतम् असंसक्तम् आत्मजम् दातुम् अर्हसि ॥१॥
vasiṣṭha-pramukhāḥ sarve tatas rāmam visarjaya . abhipretam asaṃsaktam ātmajam dātum arhasi ..1..
दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् । नात्येति कालो यज्ञस्य यथायं मम राघव ॥१-१९-१८॥
दश-रात्रम् हि यज्ञस्य रामम् राजीव-लोचनम् । न अत्येति कालः यज्ञस्य यथा यम् मम राघव ॥१॥
daśa-rātram hi yajñasya rāmam rājīva-locanam . na atyeti kālaḥ yajñasya yathā yam mama rāghava ..1..
तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः । इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ॥१-१९-१९॥
तथा कुरुष्व भद्रम् ते मा च शोके मनः कृथाः । इति एवम् उक्त्वा धर्म-आत्मा धर्म-अर्थ-सहितम् वचः ॥१॥
tathā kuruṣva bhadram te mā ca śoke manaḥ kṛthāḥ . iti evam uktvā dharma-ātmā dharma-artha-sahitam vacaḥ ..1..
विरराम महातेजा विश्वामित्रो महामतिः । स तन्निशम्य राजेन्द्रो विश्वामित्रवचः शुभम् ॥१-१९-२०॥
विरराम महा-तेजाः विश्वामित्रः महामतिः । स तत् निशम्य राज-इन्द्रः विश्वामित्र-वचः शुभम् ॥१॥
virarāma mahā-tejāḥ viśvāmitraḥ mahāmatiḥ . sa tat niśamya rāja-indraḥ viśvāmitra-vacaḥ śubham ..1..
शोकेन महताविष्टश्चचाल च मुमोह च । लब्धसंज्ञस्तदोत्थाय व्यषीदत भयान्वितः ॥१-१९-२१॥
शोकेन महता आविष्टः चचाल च मुमोह च । लब्ध-संज्ञः तदा उत्थाय व्यषीदत भय-अन्वितः ॥१॥
śokena mahatā āviṣṭaḥ cacāla ca mumoha ca . labdha-saṃjñaḥ tadā utthāya vyaṣīdata bhaya-anvitaḥ ..1..
इति हृदयमनोविदारणं मुनिवचनं तदतीव शुश्रुवान् । नरपतिरभवन्महान् महात्मा व्यथितमनाः प्रचचाल चासनात् ॥१-१९-२२॥
इति हृदय-मनः-विदारणम् मुनि-वचनम् तत् अतीव शुश्रुवान् । नरपतिः अभवत् महान् महात्मा व्यथित-मनाः प्रचचाल च आसनात् ॥१॥
iti hṛdaya-manaḥ-vidāraṇam muni-vacanam tat atīva śuśruvān . narapatiḥ abhavat mahān mahātmā vyathita-manāḥ pracacāla ca āsanāt ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनविंशः सर्गः ॥१-१९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनविंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekonaviṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In