This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वितीयः सर्गः ॥१-२॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे द्वितीयः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe dvitīyaḥ sargaḥ ..1..
नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः । पूजयामास धर्मात्मा सहशिष्यो महामुनिम् ॥१-२-१॥
नारदस्य तु तत् वाक्यम् श्रुत्वा वाक्य-विशारदः । पूजयामास धर्म-आत्मा सह शिष्यः महा-मुनिम् ॥१॥
nāradasya tu tat vākyam śrutvā vākya-viśāradaḥ . pūjayāmāsa dharma-ātmā saha śiṣyaḥ mahā-munim ..1..
यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा । आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसम् ॥१-२-२॥
यथावत् पूजितः तेन देवर्षिः नारदः तदा । आपृष्ट्वा एव अभ्यनुज्ञातः स जगाम विहायसम् ॥१॥
yathāvat pūjitaḥ tena devarṣiḥ nāradaḥ tadā . āpṛṣṭvā eva abhyanujñātaḥ sa jagāma vihāyasam ..1..
स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा । जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ॥१-२-३॥
स मुहूर्तम् गते तस्मिन् देव-लोकम् मुनिः तदा । जगाम तमसा-तीरम् जाह्नव्याः तु अविदूरतः ॥१॥
sa muhūrtam gate tasmin deva-lokam muniḥ tadā . jagāma tamasā-tīram jāhnavyāḥ tu avidūrataḥ ..1..
स तु तीरं समासाद्य तमसाया मुनिस्तदा । शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ॥१-२-४॥
स तु तीरम् समासाद्य तमसायाः मुनिः तदा । शिष्यम् आह स्थितम् पार्श्वे दृष्ट्वा तीर्थम् अकर्दमम् ॥१॥
sa tu tīram samāsādya tamasāyāḥ muniḥ tadā . śiṣyam āha sthitam pārśve dṛṣṭvā tīrtham akardamam ..1..
अकर्दममिदं तीर्थं भरद्वाज निशामय । रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥१-२-५॥
अकर्दमम् इदम् तीर्थम् भरद्वाज निशामय । रमणीयम् प्रसन्न-अम्बु सत्-मनुष्य-मनः यथा ॥१॥
akardamam idam tīrtham bharadvāja niśāmaya . ramaṇīyam prasanna-ambu sat-manuṣya-manaḥ yathā ..1..
न्यस्यतां कलशस्तात दीयतां वल्कलं मम । इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ॥१-२-६॥
न्यस्यताम् कलशः तात दीयताम् वल्कलम् मम । इदम् एव अवगाहिष्ये तमसा-तीर्थम् उत्तमम् ॥१॥
nyasyatām kalaśaḥ tāta dīyatām valkalam mama . idam eva avagāhiṣye tamasā-tīrtham uttamam ..1..
एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना । प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥१-२-७॥
एवम् उक्तः भरद्वाजः वाल्मीकेन महात्मना । प्रायच्छत मुनेः तस्य वल्कलम् नियतः गुरोः ॥१॥
evam uktaḥ bharadvājaḥ vālmīkena mahātmanā . prāyacchata muneḥ tasya valkalam niyataḥ guroḥ ..1..
स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः । विचचार ह पश्यंस्तत् सर्वतो विपुलं वनम् ॥१-२-८॥
स शिष्य-हस्तात् आदाय वल्कलम् नियत-इन्द्रियः । विचचार ह पश्यन् तत् सर्वतस् विपुलम् वनम् ॥१॥
sa śiṣya-hastāt ādāya valkalam niyata-indriyaḥ . vicacāra ha paśyan tat sarvatas vipulam vanam ..1..
तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् । ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम् ॥१-२-९॥
तस्य अभ्याशे तु मिथुनम् चरन्तम् अनपायिनम् । ददर्श भगवान् तत्र क्रौञ्चयोः चारु-निःस्वनम् ॥१॥
tasya abhyāśe tu mithunam carantam anapāyinam . dadarśa bhagavān tatra krauñcayoḥ cāru-niḥsvanam ..1..
तस्मात् तु मिथुनादेकं पुमांसं पापनिश्चयः । जघान वैरनिलयो निषादस्तस्य पश्यतः ॥१-२-१०॥
तस्मात् तु मिथुनात् एकम् पुमांसम् पाप-निश्चयः । जघान वैर-निलयः निषादः तस्य पश्यतः ॥१॥
tasmāt tu mithunāt ekam pumāṃsam pāpa-niścayaḥ . jaghāna vaira-nilayaḥ niṣādaḥ tasya paśyataḥ ..1..
तं शोणितपरीताङ्गं चेष्टमानं महीतले । भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ॥१-२-११॥
तम् शोणित-परीत-अङ्गम् चेष्टमानम् मही-तले । भार्या तु निहतम् दृष्ट्वा रुराव करुणाम् गिरम् ॥१॥
tam śoṇita-parīta-aṅgam ceṣṭamānam mahī-tale . bhāryā tu nihatam dṛṣṭvā rurāva karuṇām giram ..1..
वियुक्ता पतिना तेन द्विजेन सहचारिणा । ताम्रशीर्षेण मत्तेन पत्त्रिणा सहितेन वै ॥१-२-१२॥
वियुक्ता पतिना तेन द्विजेन सहचारिणा । ताम्र-शीर्षेण मत्तेन पत्त्रिणा सहितेन वै ॥१॥
viyuktā patinā tena dvijena sahacāriṇā . tāmra-śīrṣeṇa mattena pattriṇā sahitena vai ..1..
तथाविधं द्विजं दृष्ट्वा निषादेन निपातितम् । ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥१-२-१३॥
तथाविधम् द्विजम् दृष्ट्वा निषादेन निपातितम् । ऋषेः धर्म-आत्मनः तस्य कारुण्यम् समपद्यत ॥१॥
tathāvidham dvijam dṛṣṭvā niṣādena nipātitam . ṛṣeḥ dharma-ātmanaḥ tasya kāruṇyam samapadyata ..1..
ततः करुणवेदित्वादधर्मोऽयमिति द्विजः । निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् ॥१-२-१४॥
ततस् करुणवेदि-त्वात् अधर्मः अयम् इति द्विजः । निशाम्य रुदतीम् क्रौञ्चीम् इदम् वचनम् अब्रवीत् ॥१॥
tatas karuṇavedi-tvāt adharmaḥ ayam iti dvijaḥ . niśāmya rudatīm krauñcīm idam vacanam abravīt ..1..
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥१-२-१५॥
मा निषाद प्रतिष्ठाम् त्वम् अगमः शाश्वतीः समाः । यत् क्रौञ्च-मिथुनात् एकम् अवधीः काम-मोहितम् ॥१॥
mā niṣāda pratiṣṭhām tvam agamaḥ śāśvatīḥ samāḥ . yat krauñca-mithunāt ekam avadhīḥ kāma-mohitam ..1..
तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः । शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥१-२-१६॥
तस्य एवम् ब्रुवतः चिन्ता बभूव हृदि वीक्षतः । शोक-आर्तेन अस्य शकुनेः किम् इदम् व्याहृतम् मया ॥१॥
tasya evam bruvataḥ cintā babhūva hṛdi vīkṣataḥ . śoka-ārtena asya śakuneḥ kim idam vyāhṛtam mayā ..1..
चिन्तयन् स महाप्राज्ञश्चकार मतिमान्मतिम् । शिष्यं चैवाब्रवीद् वाक्यमिदं स मुनिपुङ्गवः ॥१-२-१७॥
चिन्तयन् स महा-प्राज्ञः चकार मतिमान् मतिम् । शिष्यम् च एव अब्रवीत् वाक्यम् इदम् स मुनि-पुङ्गवः ॥१॥
cintayan sa mahā-prājñaḥ cakāra matimān matim . śiṣyam ca eva abravīt vākyam idam sa muni-puṅgavaḥ ..1..
पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः । शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥१-२-१८॥
पाद-बद्धः अक्षर-समः तन्त्री-लय-समन्वितः । शोक-आर्तस्य प्रवृत्तः मे श्लोकः भवतु ना अन्यथा ॥१॥
pāda-baddhaḥ akṣara-samaḥ tantrī-laya-samanvitaḥ . śoka-ārtasya pravṛttaḥ me ślokaḥ bhavatu nā anyathā ..1..
शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् । प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः ॥१-२-१९॥
शिष्यः तु तस्य ब्रुवतः मुनेः वाक्यम् अनुत्तमम् । प्रतिजग्राह संहृष्टः तस्य तुष्टः अभवत् गुरुः ॥१॥
śiṣyaḥ tu tasya bruvataḥ muneḥ vākyam anuttamam . pratijagrāha saṃhṛṣṭaḥ tasya tuṣṭaḥ abhavat guruḥ ..1..
सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि । तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ॥१-२-२०॥
सः अभिषेकम् ततस् कृत्वा तीर्थे तस्मिन् यथाविधि । तम् एव चिन्तयन् अर्थम् उपावर्तत वै मुनिः ॥१॥
saḥ abhiṣekam tatas kṛtvā tīrthe tasmin yathāvidhi . tam eva cintayan artham upāvartata vai muniḥ ..1..
भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः । कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ॥१-२-२१॥
भरद्वाजः ततस् शिष्यः विनीतः श्रुतवान् गुरोः । कलशम् पूर्णम् आदाय पृष्ठतस् अनुजगाम ह ॥१॥
bharadvājaḥ tatas śiṣyaḥ vinītaḥ śrutavān guroḥ . kalaśam pūrṇam ādāya pṛṣṭhatas anujagāma ha ..1..
स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् । उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ॥१-२-२२॥
स प्रविश्य आश्रम-पदम् शिष्येण सह धर्म-विद् । उपविष्टः कथाः च अन्याः चकार ध्यानम् आस्थितः ॥१॥
sa praviśya āśrama-padam śiṣyeṇa saha dharma-vid . upaviṣṭaḥ kathāḥ ca anyāḥ cakāra dhyānam āsthitaḥ ..1..
आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुः । चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ॥१-२-२३॥
आजगाम ततस् ब्रह्मा लोककर्ता स्वयम् प्रभुः । चतुर्मुखः महा-तेजाः द्रष्टुम् तम् मुनि-पुङ्गवम् ॥१॥
ājagāma tatas brahmā lokakartā svayam prabhuḥ . caturmukhaḥ mahā-tejāḥ draṣṭum tam muni-puṅgavam ..1..
वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः । प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥१-२-२४॥
वाल्मीकिः अथ तम् दृष्ट्वा सहसा उत्थाय वाग्यतः । प्राञ्जलिः प्रयतः भूत्वा तस्थौ परम-विस्मितः ॥१॥
vālmīkiḥ atha tam dṛṣṭvā sahasā utthāya vāgyataḥ . prāñjaliḥ prayataḥ bhūtvā tasthau parama-vismitaḥ ..1..
पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः । प्रणम्य विधिवच्चैनं पृष्ट्वा चैव निरामयम् ॥१-२-२५॥
पूजयामास तम् देवम् पाद्य-अर्घ्य-आसन-वन्दनैः । प्रणम्य विधिवत् च एनम् पृष्ट्वा च एव निरामयम् ॥१॥
pūjayāmāsa tam devam pādya-arghya-āsana-vandanaiḥ . praṇamya vidhivat ca enam pṛṣṭvā ca eva nirāmayam ..1..
अथोपविश्य भगवानासने परमार्चिते । वाल्मीकये च ऋषये संदिदेशासनं ततः ॥१-२-२६॥
अथ उपविश्य भगवान् आसने परम-अर्चिते । वाल्मीकये च ऋषये संदिदेश आसनम् ततस् ॥१॥
atha upaviśya bhagavān āsane parama-arcite . vālmīkaye ca ṛṣaye saṃdideśa āsanam tatas ..1..
ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने । उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे । ॥१-२-२७॥
ब्रह्मणा समनुज्ञातः सः अपि उपाविशत् आसने । उपविष्टे तदा तस्मिन् साक्षात् लोकपितामहे । ॥१॥
brahmaṇā samanujñātaḥ saḥ api upāviśat āsane . upaviṣṭe tadā tasmin sākṣāt lokapitāmahe . ..1..
तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः । पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना । ॥१-२-२८॥
तद्-गतेन एव मनसा वाल्मीकिः ध्यानम् आस्थितः । पाप-आत्मना कृतम् कष्टम् वैर-ग्रहण-बुद्धिना । ॥१॥
tad-gatena eva manasā vālmīkiḥ dhyānam āsthitaḥ . pāpa-ātmanā kṛtam kaṣṭam vaira-grahaṇa-buddhinā . ..1..
यत् तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् । शोचन्नेव पुनः क्रौञ्चीमुपश्लोकमिमं जगौ ॥१-२-२९॥
यत् तादृशम् चारु-रवम् क्रौञ्चम् हन्यात् अकारणात् । शोचन् एव पुनर् क्रौञ्चीम् उपश्लोकम् इमम् जगौ ॥१॥
yat tādṛśam cāru-ravam krauñcam hanyāt akāraṇāt . śocan eva punar krauñcīm upaślokam imam jagau ..1..
पुनरन्तर्गतमना भूत्वा शोकपरायणः । तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुङ्गवम् ॥१-२-३०॥
पुनर् अन्तर्गत-मनाः भूत्वा शोक-परायणः । तम् उवाच ततस् ब्रह्मा प्रहसन् मुनि-पुङ्गवम् ॥१॥
punar antargata-manāḥ bhūtvā śoka-parāyaṇaḥ . tam uvāca tatas brahmā prahasan muni-puṅgavam ..1..
श्लोक एवास्त्वयं बद्धो नात्र कार्या विचारणा । मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ॥१-२-३१॥
श्लोकः एव अस्तु अयम् बद्धः न अत्र कार्या विचारणा । मद्-छन्दात् एव ते ब्रह्मन् प्रवृत्ता इयम् सरस्वती ॥१॥
ślokaḥ eva astu ayam baddhaḥ na atra kāryā vicāraṇā . mad-chandāt eva te brahman pravṛttā iyam sarasvatī ..1..
रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम । धर्मात्मनो भगवतो लोके रामस्य धीमतः ॥१-२-३२॥
रामस्य चरितम् कृत्स्नम् कुरु त्वम् ऋषि-सत्तम । धर्म-आत्मनः भगवतः लोके रामस्य धीमतः ॥१॥
rāmasya caritam kṛtsnam kuru tvam ṛṣi-sattama . dharma-ātmanaḥ bhagavataḥ loke rāmasya dhīmataḥ ..1..
वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् । रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः ॥१-२-३३॥
वृत्तम् कथय धीरस्य यथा ते नारदात् श्रुतम् । रहस्यम् च प्रकाशम् च यत् वृत्तम् तस्य धीमतः ॥१॥
vṛttam kathaya dhīrasya yathā te nāradāt śrutam . rahasyam ca prakāśam ca yat vṛttam tasya dhīmataḥ ..1..
रामस्य सहसौमित्रे राक्षसानां च सर्वशः । वैदेह्याश्चैव यद् वृत्तं प्रकाशं यदि वा रहः ॥१-२-३४॥
रामस्य सहसौमित्रे राक्षसानाम् च सर्वशस् । वैदेह्याः च एव यत् वृत्तम् प्रकाशम् यदि वा रहः ॥१॥
rāmasya sahasaumitre rākṣasānām ca sarvaśas . vaidehyāḥ ca eva yat vṛttam prakāśam yadi vā rahaḥ ..1..
तच्चाप्यविदितं सर्वं विदितं ते भविष्यति । न ते वागनृता काव्ये काचिदत्र भविष्यति ॥१-२-३५॥
तत् च अपि अविदितम् सर्वम् विदितम् ते भविष्यति । न ते वाच् अनृता काव्ये काचिद् अत्र भविष्यति ॥१॥
tat ca api aviditam sarvam viditam te bhaviṣyati . na te vāc anṛtā kāvye kācid atra bhaviṣyati ..1..
कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् । यावत् स्थास्यन्ति गिरयः सरितश्च महीतले ॥१-२-३६॥
कुरु राम-कथाम् पुण्याम् श्लोक-बद्धाम् मनोरमाम् । यावत् स्थास्यन्ति गिरयः सरितः च मही-तले ॥१॥
kuru rāma-kathām puṇyām śloka-baddhām manoramām . yāvat sthāsyanti girayaḥ saritaḥ ca mahī-tale ..1..
तावद् रामायणकथा लोकेषु प्रचरिष्यति । यावद् रामस्य च कथा त्वत्कृता प्रचरिष्यति ॥१-२-३७॥
तावत् रामायण-कथा लोकेषु प्रचरिष्यति । यावत् रामस्य च कथा त्वद्-कृता प्रचरिष्यति ॥१॥
tāvat rāmāyaṇa-kathā lokeṣu pracariṣyati . yāvat rāmasya ca kathā tvad-kṛtā pracariṣyati ..1..
तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि । इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत । ततः सशिष्यो भगवान् र्मुनिर्विस्मयमाययौ ॥१-२-३८॥
तावत् ऊर्ध्वम् अधस् च त्वम् मत् लोकेषु निवत्स्यसि । इति उक्त्वा भगवान् ब्रह्मा तत्र एव अन्तरधीयत । ततस् स शिष्यः भगवान् र्मुनिः विस्मयम् आययौ ॥१॥
tāvat ūrdhvam adhas ca tvam mat lokeṣu nivatsyasi . iti uktvā bhagavān brahmā tatra eva antaradhīyata . tatas sa śiṣyaḥ bhagavān rmuniḥ vismayam āyayau ..1..
तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः । मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ॥१-२-३९॥
तस्य शिष्याः ततस् सर्वे जगुः श्लोकम् इमम् पुनर् । मुहुर् मुहुर् प्रीयमाणाः प्राहुः च भृश-विस्मिताः ॥१॥
tasya śiṣyāḥ tatas sarve jaguḥ ślokam imam punar . muhur muhur prīyamāṇāḥ prāhuḥ ca bhṛśa-vismitāḥ ..1..
समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा । सोऽनुव्याहरणाद् भूयः शोकः श्लोकत्वमागतः ॥१-२-४०॥
सम-अक्षरैः चतुर्भिः यः पादैः गीतः महा-ऋषिणा । सः अनुव्याहरणात् भूयस् शोकः श्लोक-त्वम् आगतः ॥१॥
sama-akṣaraiḥ caturbhiḥ yaḥ pādaiḥ gītaḥ mahā-ṛṣiṇā . saḥ anuvyāharaṇāt bhūyas śokaḥ śloka-tvam āgataḥ ..1..
तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः । कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ॥१-२-४१॥
तस्य बुद्धिः इयम् जाता वाल्मीकेः भावितात्मनः । कृत्स्नम् रामायणम् काव्यम् ईदृशैः करवाणि अहम् ॥१॥
tasya buddhiḥ iyam jātā vālmīkeḥ bhāvitātmanaḥ . kṛtsnam rāmāyaṇam kāvyam īdṛśaiḥ karavāṇi aham ..1..
उदारवृत्तार्थपदैर्मनोरमै- स्तदास्य रामस्य चकार कीर्तिमान् । समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारदर्शनः ॥१-२-४२॥
उदार-वृत्त-अर्थ-पदैः मनोरमैः तदा अस्य रामस्य चकार कीर्तिमान् । सम-अक्षरैः श्लोक-शतैः यशस्विनः यशस्करम् काव्यम् उदार-दर्शनः ॥१॥
udāra-vṛtta-artha-padaiḥ manoramaiḥ tadā asya rāmasya cakāra kīrtimān . sama-akṣaraiḥ śloka-śataiḥ yaśasvinaḥ yaśaskaram kāvyam udāra-darśanaḥ ..1..
तदुपगतसमाससंधियोगं सममधुरोपनतार्थवाक्यबद्धम् । रघुवरकरितं मुनिप्रणीतं दशशिरसश्क वधं निशामयध्वम् ॥१-२-४३॥
तद्-उपगत-समास-संधि-योगम् सम-मधुर-उपनत-अर्थ-वाक्य-बद्धम् । रघु-वर-करितम् मुनि-प्रणीतम् वधम् निशामयध्वम् ॥१॥
tad-upagata-samāsa-saṃdhi-yogam sama-madhura-upanata-artha-vākya-baddham . raghu-vara-karitam muni-praṇītam vadham niśāmayadhvam ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वितीयः सर्गः ॥१-२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वितीयः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe dvitīyaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In