This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकविंशः सर्गः ॥१-२१॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे एकविंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe ekaviṃśaḥ sargaḥ ..1..
तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् । समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥१-२१-१॥
तत् श्रुत्वा वचनम् तस्य स्नेह-पर्याकुल-अक्षरम् । स मन्युः कौशिकः वाक्यम् प्रत्युवाच महीपतिम् ॥१॥
tat śrutvā vacanam tasya sneha-paryākula-akṣaram . sa manyuḥ kauśikaḥ vākyam pratyuvāca mahīpatim ..1..
पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि । राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ॥१-२१-२॥
पूर्वम् अर्थम् प्रतिश्रुत्य प्रतिज्ञाम् हातुम् इच्छसि । राघवाणाम् अयुक्तः अयम् कुलस्य अस्य विपर्ययः ॥१॥
pūrvam artham pratiśrutya pratijñām hātum icchasi . rāghavāṇām ayuktaḥ ayam kulasya asya viparyayaḥ ..1..
यदीदं ते क्षमं राजन् गमिष्यामि यथागतम् । मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सुह्द्वृतः ॥१-२१-३॥
यदि इदम् ते क्षमम् राजन् गमिष्यामि यथागतम् । मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव ॥१॥
yadi idam te kṣamam rājan gamiṣyāmi yathāgatam . mithyāpratijñaḥ kākutstha sukhī bhava ..1..
तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः । चचाल वसुधा कृत्स्ना देवानां च भयं महत् ॥१-२१-४॥
तस्य रोष-परीतस्य विश्वामित्रस्य धीमतः । चचाल वसुधा कृत्स्ना देवानाम् च भयम् महत् ॥१॥
tasya roṣa-parītasya viśvāmitrasya dhīmataḥ . cacāla vasudhā kṛtsnā devānām ca bhayam mahat ..1..
त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः । नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥१-२१-५॥
त्रस्त-रूपम् तु विज्ञाय जगत् सर्वम् महान् ऋषिः । नृपतिम् सु व्रतः धीरः वसिष्ठः वाक्यम् अब्रवीत् ॥१॥
trasta-rūpam tu vijñāya jagat sarvam mahān ṛṣiḥ . nṛpatim su vrataḥ dhīraḥ vasiṣṭhaḥ vākyam abravīt ..1..
इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः । धृतिमान् सुव्रतः श्रीमान् न धर्मं हातुमर्हसि ॥१-२१-६॥
इक्ष्वाकूणाम् कुले जातः साक्षात् धर्मः इव अपरः । धृतिमान् सु व्रतः श्रीमान् न धर्मम् हातुम् अर्हसि ॥१॥
ikṣvākūṇām kule jātaḥ sākṣāt dharmaḥ iva aparaḥ . dhṛtimān su vrataḥ śrīmān na dharmam hātum arhasi ..1..
त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः । स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि ॥१-२१-७॥
त्रिषु लोकेषु विख्यातः धर्म-आत्मा इति राघवः । स्वधर्मम् प्रतिपद्यस्व न अधर्मम् वोढुम् अर्हसि ॥१॥
triṣu lokeṣu vikhyātaḥ dharma-ātmā iti rāghavaḥ . svadharmam pratipadyasva na adharmam voḍhum arhasi ..1..
प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतः । इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय ॥१-२१-८॥
प्रतिश्रुत्य करिष्य इति उक्तम् वाक्यम् अकुर्वतः । इष्टापूर्त-वधः भूयात् तस्मात् रामम् विसर्जय ॥१॥
pratiśrutya kariṣya iti uktam vākyam akurvataḥ . iṣṭāpūrta-vadhaḥ bhūyāt tasmāt rāmam visarjaya ..1..
कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः । गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥१-२१-९॥
कृतास्त्रम् अकृतास्त्रम् वा न एनम् शक्ष्यन्ति राक्षसाः । गुप्तम् कुशिक-पुत्रेण ज्वलनेन अमृतम् यथा ॥१॥
kṛtāstram akṛtāstram vā na enam śakṣyanti rākṣasāḥ . guptam kuśika-putreṇa jvalanena amṛtam yathā ..1..
एष विग्रहवान् धर्म एष वीर्यवतां वरः । एष विद्याधिको लोके तपसश्च परायणम् ॥१-२१-१०॥
एष विग्रहवान् धर्मः एष वीर्यवताम् वरः । एष विद्या-अधिकः लोके तपसः च परायणम् ॥१॥
eṣa vigrahavān dharmaḥ eṣa vīryavatām varaḥ . eṣa vidyā-adhikaḥ loke tapasaḥ ca parāyaṇam ..1..
एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे । नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन ॥१-२१-११॥
एषः अस्त्रान् विविधान् वेत्ति त्रैलोक्ये स चराचरे । न एनम् अन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन ॥१॥
eṣaḥ astrān vividhān vetti trailokye sa carācare . na enam anyaḥ pumān vetti na ca vetsyanti kecana ..1..
न देवा नर्षयः केचिन्नामरा न च राक्षसाः । गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥१-२१-१२॥
न देवाः न ऋषयः केचिद् न अमराः न च राक्षसाः । गन्धर्व-यक्ष-प्रवराः स किन्नर-महोरगाः ॥१॥
na devāḥ na ṛṣayaḥ kecid na amarāḥ na ca rākṣasāḥ . gandharva-yakṣa-pravarāḥ sa kinnara-mahoragāḥ ..1..
सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः । कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति ॥१-२१-१३॥
सर्व-अस्त्राणि कृशाश्वस्य पुत्राः परम-धार्मिकाः । कौशिकाय पुरा दत्ताः यदा राज्यम् प्रशासति ॥१॥
sarva-astrāṇi kṛśāśvasya putrāḥ parama-dhārmikāḥ . kauśikāya purā dattāḥ yadā rājyam praśāsati ..1..
तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः । नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः ॥१-२१-१४॥
ते अपि पुत्राः कृशाश्वस्य प्रजापति-सुता-सुताः । न एक-रूपाः महा-वीर्याः दीप्तिमन्तः जय-आवहाः ॥१॥
te api putrāḥ kṛśāśvasya prajāpati-sutā-sutāḥ . na eka-rūpāḥ mahā-vīryāḥ dīptimantaḥ jaya-āvahāḥ ..1..
जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे । ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम् ॥१-२१-१५॥
जया च सुप्रभा च एव दक्षकन्ये सुमध्यमे । ते सुवाते अस्त्र-शस्त्राणि शतम् परम-भास्वरम् ॥१॥
jayā ca suprabhā ca eva dakṣakanye sumadhyame . te suvāte astra-śastrāṇi śatam parama-bhāsvaram ..1..
पञ्चाशतं सुताँल्लेभे जया लब्धवरा वरान् । वधायासुरसैन्यानामप्रमेयानुरूपिणः ॥१-२१-१६॥
पञ्चाशतम् सुतान् लेभे जया लब्ध-वरा वरान् । वधाय असुर-सैन्यानाम् अप्रमेय-अनुरूपिणः ॥१॥
pañcāśatam sutān lebhe jayā labdha-varā varān . vadhāya asura-sainyānām aprameya-anurūpiṇaḥ ..1..
सुप्रभाजनयच्चापि पुत्रान् पञ्चाशतं पुनः । संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः ॥१-२१-१७॥
सुप्रभा जनयत् च अपि पुत्रान् पञ्चाशतम् पुनर् । संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः ॥१॥
suprabhā janayat ca api putrān pañcāśatam punar . saṃhārān nāma durdharṣān durākrāmān balīyasaḥ ..1..
तानि चास्त्राणि वेत्त्येष यथावत् कुशिकात्मजः । अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित् ॥१-२१-१८॥
तानि च अस्त्राणि वेत्ति एष यथावत् कुशिक-आत्मजः । अपूर्वाणाम् च जनने शक्तः भूयस् च धर्म-विद् ॥१॥
tāni ca astrāṇi vetti eṣa yathāvat kuśika-ātmajaḥ . apūrvāṇām ca janane śaktaḥ bhūyas ca dharma-vid ..1..
तेनास्य मुनिमुख्यस्य धर्मज्ञस्य महात्मनः । न किञ्चिदस्त्यविदितं भूतं भव्यम् च राघव ॥१-२१-१९॥
तेन अस्य मुनि-मुख्यस्य धर्म-ज्ञस्य महात्मनः । न किञ्चिद् अस्ति अविदितम् भूतम् भव्यम् च राघव ॥१॥
tena asya muni-mukhyasya dharma-jñasya mahātmanaḥ . na kiñcid asti aviditam bhūtam bhavyam ca rāghava ..1..
एवंवीर्यो महातेजा विश्वामित्रो महायशाः । न रामगमने राजन् संशयं गन्तुमर्हसि ॥१-२१-२०॥
एवंवीर्यः महा-तेजाः विश्वामित्रः महा-यशाः । न राम-गमने राजन् संशयम् गन्तुम् अर्हसि ॥१॥
evaṃvīryaḥ mahā-tejāḥ viśvāmitraḥ mahā-yaśāḥ . na rāma-gamane rājan saṃśayam gantum arhasi ..1..
तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः । तव पुत्रहितार्थाय त्वामुपेत्याभियाचते ॥१-२१-२१॥
तेषाम् निग्रहणे शक्तः स्वयम् च कुशिक-आत्मजः । तव पुत्र-हित-अर्थाय त्वाम् उपेत्य अभियाचते ॥१॥
teṣām nigrahaṇe śaktaḥ svayam ca kuśika-ātmajaḥ . tava putra-hita-arthāya tvām upetya abhiyācate ..1..
इति मुनिवचनात् प्रसन्नचित्तो रघुवृषभः च मुमोद पार्थिवाग्र्यः । गमनमभिरुरोच राघवस्य प्रथितयशाः कुशिकात्मजाय बुद्ध्या ॥१-२१-२२॥
इति मुनि-वचनात् प्रसन्न-चित्तः रघु-वृषभः च मुमोद पार्थिव-अग्र्यः । गमनम् अभिरुरोच राघवस्य प्रथित-यशाः कुशिक-आत्मजाय बुद्ध्या ॥१॥
iti muni-vacanāt prasanna-cittaḥ raghu-vṛṣabhaḥ ca mumoda pārthiva-agryaḥ . gamanam abhiruroca rāghavasya prathita-yaśāḥ kuśika-ātmajāya buddhyā ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदि्काव्ये बालकाण्डे एकविंशः सर्गः ॥१-२१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकविंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekaviṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In