This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वाविंशः सर्गः ॥१-२२॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे द्वाविंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe dvāviṃśaḥ sargaḥ ..1..
तथा वसिष्ठे ब्रुवति राजा दशरथः स्वयम् । प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् ॥१-२२-१॥
तथा वसिष्ठे ब्रुवति राजा दशरथः स्वयम् । प्रहृष्ट-वदनः रामम् आजुहाव स लक्ष्मणम् ॥१॥
tathā vasiṣṭhe bruvati rājā daśarathaḥ svayam . prahṛṣṭa-vadanaḥ rāmam ājuhāva sa lakṣmaṇam ..1..
कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च । पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् ॥१-२२-२॥
कृत-स्वस्त्ययनम् मात्रा पित्रा दशरथेन च । पुरोधसा वसिष्ठेन मङ्गलैः अभिमन्त्रितम् ॥१॥
kṛta-svastyayanam mātrā pitrā daśarathena ca . purodhasā vasiṣṭhena maṅgalaiḥ abhimantritam ..1..
स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरस्तदा । ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ॥१-२२-३॥
स पुत्रम् मूर्ध्नि उपाघ्राय राजा दशरः तदा । ददौ कुशिक-पुत्राय सु प्रीतेन अन्तरात्मना ॥१॥
sa putram mūrdhni upāghrāya rājā daśaraḥ tadā . dadau kuśika-putrāya su prītena antarātmanā ..1..
ततो वायुः सुखस्पर्शो नीरजस्को ववौ तदा । विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् ॥१-२२-४॥
ततस् वायुः सुख-स्पर्शः नीरजस्कः ववौ तदा । विश्वामित्र-गतम् रामम् दृष्ट्वा राजीव-लोचनम् ॥१॥
tatas vāyuḥ sukha-sparśaḥ nīrajaskaḥ vavau tadā . viśvāmitra-gatam rāmam dṛṣṭvā rājīva-locanam ..1..
पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिस्वनैः । शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि ॥१-२२-५॥
पुष्प-वृष्टिः महती आसीत् देव-दुन्दुभि-निस्वनैः । शङ्ख-दुन्दुभि-निर्घोषः प्रयाते तु महात्मनि ॥१॥
puṣpa-vṛṣṭiḥ mahatī āsīt deva-dundubhi-nisvanaiḥ . śaṅkha-dundubhi-nirghoṣaḥ prayāte tu mahātmani ..1..
विश्वामित्रो ययावग्रे ततो रामो महायशाः । काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् ॥१-२२-६॥
विश्वामित्रः ययौ अग्रे ततस् रामः महा-यशाः । काकपक्ष-धरः धन्वी तम् च सौमित्रिः अन्वगात् ॥१॥
viśvāmitraḥ yayau agre tatas rāmaḥ mahā-yaśāḥ . kākapakṣa-dharaḥ dhanvī tam ca saumitriḥ anvagāt ..1..
कलापिनौ धनुष्पाणी शोभयानौ दिशो दश । विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ ॥१-२२-७॥
कलापिनौ धनुष्पाणी शोभ-यानौ दिशः दश । विश्वामित्रम् महात्मानम् त्रि-शीर्षौ इव पन्नगौ ॥१॥
kalāpinau dhanuṣpāṇī śobha-yānau diśaḥ daśa . viśvāmitram mahātmānam tri-śīrṣau iva pannagau ..1..
अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ । अनुयातौ श्रिया दीप्तौ शोभयेतावनिन्दितौ ॥१-२२-८॥
अनुजग्मतुः अक्षुद्रौ पितामहम् इव अश्विनौ । अनुयातौ श्रिया दीप्तौ शोभयेतौ अनिन्दितौ ॥१॥
anujagmatuḥ akṣudrau pitāmaham iva aśvinau . anuyātau śriyā dīptau śobhayetau aninditau ..1..
तदा कुशिकपुत्रं तु धनुष्पाणी स्वलंकृतौ । बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती ॥१-२२-९॥
तदा कुशिक-पुत्रम् तु धनुष्पाणी सु अलंकृतौ । बद्ध-गोधा-अङ्गुलि-त्राणौ खड्गवन्तौ महा-द्युती ॥१॥
tadā kuśika-putram tu dhanuṣpāṇī su alaṃkṛtau . baddha-godhā-aṅguli-trāṇau khaḍgavantau mahā-dyutī ..1..
कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ । अनुयातौ श्रिया दीप्तौ शोभयेतावनिन्दितौ ॥१-२२-१०॥
कुमारौ चारु-वपुषौ भ्रातरौ राम-लक्ष्मणौ । अनुयातौ श्रिया दीप्तौ शोभयेतौ अनिन्दितौ ॥१॥
kumārau cāru-vapuṣau bhrātarau rāma-lakṣmaṇau . anuyātau śriyā dīptau śobhayetau aninditau ..1..
स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी । अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे ॥१-२२-११॥
स्थाणुम् देवम् इव अचिन्त्यम् कुमारौ इव पावकी । अध्यर्ध-योजनम् गत्वा सरय्वाः दक्षिणे तटे ॥१॥
sthāṇum devam iva acintyam kumārau iva pāvakī . adhyardha-yojanam gatvā sarayvāḥ dakṣiṇe taṭe ..1..
रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत । गृहाण वत्स सलिलं मा भूत्कालस्य पर्ययः ॥१-२२-१२॥
राम इति मधुराम् वाणीम् विश्वामित्रः अभ्यभाषत । गृहाण वत्स सलिलम् मा भूत् कालस्य पर्ययः ॥१॥
rāma iti madhurām vāṇīm viśvāmitraḥ abhyabhāṣata . gṛhāṇa vatsa salilam mā bhūt kālasya paryayaḥ ..1..
मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा । न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ॥१-२२-१३॥
मन्त्र-ग्रामम् गृहाण त्वम् बलाम् अतिबलाम् तथा । न श्रमः न ज्वरः वा ते न रूपस्य विपर्ययः ॥१॥
mantra-grāmam gṛhāṇa tvam balām atibalām tathā . na śramaḥ na jvaraḥ vā te na rūpasya viparyayaḥ ..1..
न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैर्ऋताः । न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन ॥१-२२-१४॥
न च सुप्तम् प्रमत्तम् वा धर्षयिष्यन्ति नैरृताः । न बाह्वोः सदृशः वीर्ये पृथिव्याम् अस्ति कश्चन ॥१॥
na ca suptam pramattam vā dharṣayiṣyanti nairṛtāḥ . na bāhvoḥ sadṛśaḥ vīrye pṛthivyām asti kaścana ..1..
त्रिषु लोकेषु वा राम न भवेत्सदृशस्तव । बलामतिबलां चैव पठतस्तात राघव ॥१-२२-१५॥
त्रिषु लोकेषु वा राम न भवेत् सदृशः तव । बलाम् अतिबलाम् च एव पठतः तात राघव ॥१॥
triṣu lokeṣu vā rāma na bhavet sadṛśaḥ tava . balām atibalām ca eva paṭhataḥ tāta rāghava ..1..
न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये । नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ ॥१-२२-१६॥
न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धि-निश्चये । न उत्तरे प्रतिवक्तव्ये समः लोके तव अनघ ॥१॥
na saubhāgye na dākṣiṇye na jñāne buddhi-niścaye . na uttare prativaktavye samaḥ loke tava anagha ..1..
एतद्विद्याद्वये लब्धे न भवेत् सदृशस्तव । बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥१-२२-१७॥
एतद्-विद्या-द्वये लब्धे न भवेत् सदृशः तव । बला च अतिबला च एव सर्व-ज्ञानस्य मातरौ ॥१॥
etad-vidyā-dvaye labdhe na bhavet sadṛśaḥ tava . balā ca atibalā ca eva sarva-jñānasya mātarau ..1..
क्षुत्पिपासे न ते राम भविष्येते नरोत्तम । बलामतिबलां चैव पठस्तात राघव ॥१-२२-१८॥
क्षुध्-पिपासे न ते राम भविष्येते नर-उत्तम । बलाम् अतिबलाम् च एव पठः तात राघव ॥१॥
kṣudh-pipāse na te rāma bhaviṣyete nara-uttama . balām atibalām ca eva paṭhaḥ tāta rāghava ..1..
गृहाण सर्वलोकस्य गुप्तये रघुनन्दन । विद्याद्वयमधीयाने यशश्चाथ भवेद् भुवि । पितामहसुते ह्येते विद्ये तेजःसमन्विते ॥१-२२-१९॥
गृहाण सर्व-लोकस्य गुप्तये रघुनन्दन । विद्या-द्वयम् अधीयाने यशः च अथ भवेत् भुवि । पितामह-सुते हि एते विद्ये तेजः-समन्विते ॥१॥
gṛhāṇa sarva-lokasya guptaye raghunandana . vidyā-dvayam adhīyāne yaśaḥ ca atha bhavet bhuvi . pitāmaha-sute hi ete vidye tejaḥ-samanvite ..1..
प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि पार्थिव । कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः ॥१-२२-२०॥
प्रदातुम् तव काकुत्स्थ सदृशः त्वम् हि पार्थिव । कामम् बहु-गुणाः सर्वे त्वयि एते न अत्र संशयः ॥१॥
pradātum tava kākutstha sadṛśaḥ tvam hi pārthiva . kāmam bahu-guṇāḥ sarve tvayi ete na atra saṃśayaḥ ..1..
तपसा संभृते चैते बहुरूपे भविष्यतः । ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः ॥१-२२-२१॥
तपसा संभृते च एते बहु-रूपे भविष्यतः । ततस् रामः जलम् स्पृष्ट्वा प्रहृष्ट-वदनः शुचिः ॥१॥
tapasā saṃbhṛte ca ete bahu-rūpe bhaviṣyataḥ . tatas rāmaḥ jalam spṛṣṭvā prahṛṣṭa-vadanaḥ śuciḥ ..1..
प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः । विद्यासमुदितो रामः शुशुभे भूरिविक्रमः ॥१-२२-२२॥
प्रतिजग्राह ते विद्ये महा-ऋषेः भावितात्मनः । विद्या-समुदितः रामः शुशुभे भूरि-विक्रमः ॥१॥
pratijagrāha te vidye mahā-ṛṣeḥ bhāvitātmanaḥ . vidyā-samuditaḥ rāmaḥ śuśubhe bhūri-vikramaḥ ..1..
सहस्ररश्मिर्भगवाञ्शरदीव दिवाकरः । गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे । ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः ॥१-२२-२३॥
सहस्ररश्मिः भगवान् शरदि इव दिवाकरः । गुरु-कार्याणि सर्वाणि नियुज्य कुशिक-आत्मजे । ऊषुः ताम् रजनीम् तत्र सरय्वाम् सु सुखम् त्रयः ॥१॥
sahasraraśmiḥ bhagavān śaradi iva divākaraḥ . guru-kāryāṇi sarvāṇi niyujya kuśika-ātmaje . ūṣuḥ tām rajanīm tatra sarayvām su sukham trayaḥ ..1..
दशरथनृपसूनुसत्तमाभ्यां तृणशयनेऽनुचिते तदोषिताभ्याम् । कुशिकसुतवचोऽनुलालिताभ्याम् सुखमिव सा विबभौ विभावरी च ॥१-२२-२४॥
दशरथ-नृप-सूनु-सत्तमाभ्याम् तृण-शयने अनुचिते तद्-उषिताभ्याम् । कुशिक-सुत-वचः-अनुलालिताभ्याम् सुखम् इव सा विबभौ विभावरी च ॥१॥
daśaratha-nṛpa-sūnu-sattamābhyām tṛṇa-śayane anucite tad-uṣitābhyām . kuśika-suta-vacaḥ-anulālitābhyām sukham iva sā vibabhau vibhāvarī ca ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वाविंशः सर्गः ॥१-२२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वाविंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe dvāviṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In