This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयोविंशः सर्गः ॥१-२३॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे त्रयोविंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe trayoviṃśaḥ sargaḥ ..1..
प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः । अभ्यभाषत काकुत्स्थं शयानं पर्णसंस्तरे ॥१-२३-१॥
प्रभातायाम् तु शर्वर्याम् विश्वामित्रः महा-मुनिः । अभ्यभाषत काकुत्स्थम् शयानम् पर्ण-संस्तरे ॥१॥
prabhātāyām tu śarvaryām viśvāmitraḥ mahā-muniḥ . abhyabhāṣata kākutstham śayānam parṇa-saṃstare ..1..
कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥१-२३-२॥
कौसल्या सुप्रजाः राम पूर्वा संध्या प्रवर्तते । उत्तिष्ठ नर-शार्दूल कर्तव्यम् दैवम् आह्निकम् ॥१॥
kausalyā suprajāḥ rāma pūrvā saṃdhyā pravartate . uttiṣṭha nara-śārdūla kartavyam daivam āhnikam ..1..
तस्यर्षेः परमोदारं वचः श्रुत्वा नरोत्तमौ । स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् ॥१-२३-३॥
तस्य ऋषेः परम-उदारम् वचः श्रुत्वा नर-उत्तमौ । स्नात्वा कृत-उदकौ वीरौ जेपतुः परमम् जपम् ॥१॥
tasya ṛṣeḥ parama-udāram vacaḥ śrutvā nara-uttamau . snātvā kṛta-udakau vīrau jepatuḥ paramam japam ..1..
कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् । अभिवाद्यातिसंहृष्टौ गमनायाभितस्थतुः ॥१-२३-४॥
कृत-आह्निकौ महा-वीर्यौ विश्वामित्रम् तपोधनम् । अभिवाद्य अति संहृष्टौ गमनाय अभितस्थतुः ॥१॥
kṛta-āhnikau mahā-vīryau viśvāmitram tapodhanam . abhivādya ati saṃhṛṣṭau gamanāya abhitasthatuḥ ..1..
तौ प्रयान्तौ महावीर्यौ दिव्यां त्रिपथगां नदीम् । ददृशाते ततस्तत्र सरय्वाः संगमे शुभे ॥१-२३-५॥
तौ प्रयान्तौ महा-वीर्यौ दिव्याम् त्रिपथगाम् नदीम् । ददृशाते ततस् तत्र सरय्वाः संगमे शुभे ॥१॥
tau prayāntau mahā-vīryau divyām tripathagām nadīm . dadṛśāte tatas tatra sarayvāḥ saṃgame śubhe ..1..
तत्राश्रमपदं पुण्यमृषीणां भावितात्मनाम् । बहुवर्षसहस्राणि तप्यतां परमं तपः ॥१-२३-६॥
तत्र आश्रम-पदम् पुण्यम् ऋषीणाम् भावितात्मनाम् । बहु-वर्ष-सहस्राणि तप्यताम् परमम् तपः ॥१॥
tatra āśrama-padam puṇyam ṛṣīṇām bhāvitātmanām . bahu-varṣa-sahasrāṇi tapyatām paramam tapaḥ ..1..
तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम् । ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः ॥१-२३-७॥
तम् दृष्ट्वा परम-प्रीतौ राघवौ पुण्यम् आश्रमम् । ऊचतुः तम् महात्मानम् विश्वामित्रम् इदम् वचः ॥१॥
tam dṛṣṭvā parama-prītau rāghavau puṇyam āśramam . ūcatuḥ tam mahātmānam viśvāmitram idam vacaḥ ..1..
कस्यायमाश्रमः पुण्यः को न्वस्मिन्वसते पुमान् । भगवञ्श्रोतुमिच्छावः परं कौतूहलं हि नौ ॥१-२३-८॥
कस्य अयम् आश्रमः पुण्यः कः नु अस्मिन् वसते पुमान् । भगवन् श्रोतुम् इच्छावः परम् कौतूहलम् हि नौ ॥१॥
kasya ayam āśramaḥ puṇyaḥ kaḥ nu asmin vasate pumān . bhagavan śrotum icchāvaḥ param kautūhalam hi nau ..1..
तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः । अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः ॥१-२३-९॥
तयोः तत् वचनम् श्रुत्वा प्रहस्य मुनि-पुङ्गवः । अब्रवीत् श्रूयताम् राम यस्य अयम् पूर्वः आश्रमः ॥१॥
tayoḥ tat vacanam śrutvā prahasya muni-puṅgavaḥ . abravīt śrūyatām rāma yasya ayam pūrvaḥ āśramaḥ ..1..
कन्दर्पो मूर्तिमानासीत्काम इत्युच्यते बुधैः । तपस्यन्तमिह स्थाणुं नियमेन समाहितम् ॥१-२३-१०॥
कन्दर्पः मूर्तिमान् आसीत् कामः इति उच्यते बुधैः । तपस्यन्तम् इह स्थाणुम् नियमेन समाहितम् ॥१॥
kandarpaḥ mūrtimān āsīt kāmaḥ iti ucyate budhaiḥ . tapasyantam iha sthāṇum niyamena samāhitam ..1..
कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम् । धर्षयामास दुर्मेधा हुंकृतश्च महात्मना ॥१-२३-११॥
कृत-उद्वाहम् तु देवेशम् गच्छन्तम् स मरुत्-गणम् । धर्षयामास दुर्मेधाः हुंकृतः च महात्मना ॥१॥
kṛta-udvāham tu deveśam gacchantam sa marut-gaṇam . dharṣayāmāsa durmedhāḥ huṃkṛtaḥ ca mahātmanā ..1..
अवध्यातश्च रुद्रेण चक्षुषा रघुनन्दन । व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः ॥१-२३-१२॥
अवध्यातः च रुद्रेण चक्षुषा रघुनन्दन । व्यशीर्यन्त शरीरात् स्वात् सर्व-गात्राणि दुर्मतेः ॥१॥
avadhyātaḥ ca rudreṇa cakṣuṣā raghunandana . vyaśīryanta śarīrāt svāt sarva-gātrāṇi durmateḥ ..1..
तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना । अशरीरः कृतः कामः क्रोधाद् देवेश्वरेण ह ॥१-२३-१३॥
तस्य गात्रम् हतम् तत्र निर्दग्धस्य महात्मना । अशरीरः कृतः कामः क्रोधात् देवेश्वरेण ह ॥१॥
tasya gātram hatam tatra nirdagdhasya mahātmanā . aśarīraḥ kṛtaḥ kāmaḥ krodhāt deveśvareṇa ha ..1..
अनङ्ग इति विख्यातस्तदा प्रभृति राघव । स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह ॥१-२३-१४॥
अनङ्गः इति विख्यातः तदा प्रभृति राघव । स च अङ्ग-विषयः श्रीमान् यत्र अङ्गम् स मुमोच ह ॥१॥
anaṅgaḥ iti vikhyātaḥ tadā prabhṛti rāghava . sa ca aṅga-viṣayaḥ śrīmān yatra aṅgam sa mumoca ha ..1..
तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा । शिष्या धर्मपरा वीर तेषां पापं न विद्यते ॥१-२३-१५॥
तस्य अयम् आश्रमः पुण्यः तस्य इमे मुनयः पुरा । शिष्याः धर्म-पराः वीर तेषाम् पापम् न विद्यते ॥१॥
tasya ayam āśramaḥ puṇyaḥ tasya ime munayaḥ purā . śiṣyāḥ dharma-parāḥ vīra teṣām pāpam na vidyate ..1..
इहाद्य रजनीं राम वसेम शुभदर्शन । पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम् ॥१-२३-१६॥
इह अद्य रजनीम् राम वसेम शुभ-दर्शन । पुण्ययोः सरितोः मध्ये श्वस् तरिष्यामहे वयम् ॥१॥
iha adya rajanīm rāma vasema śubha-darśana . puṇyayoḥ saritoḥ madhye śvas tariṣyāmahe vayam ..1..
अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम् । इह वासः परोऽस्माकं सुखं वस्त्यामहे निशाम् ॥१-२३-१७॥
अभिगच्छामहे सर्वे शुचयः पुण्यम् आश्रमम् । इह वासः परस् अस्माकम् सुखम् निशाम् ॥१॥
abhigacchāmahe sarve śucayaḥ puṇyam āśramam . iha vāsaḥ paras asmākam sukham niśām ..1..
स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम । तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा ॥१-२३-१८॥
स्नाताः च कृत-जप्याः च हुत-हव्याः नरोत्तम । तेषाम् संवदताम् तत्र तपः-दीर्घेण चक्षुषा ॥१॥
snātāḥ ca kṛta-japyāḥ ca huta-havyāḥ narottama . teṣām saṃvadatām tatra tapaḥ-dīrgheṇa cakṣuṣā ..1..
विज्ञाय परमप्रीता मुनयो हर्षमागमन् । अर्घ्यं पाद्यं तथाऽऽतिथ्यं निवेद्य कुशिकात्मजे ॥१-२३-१९॥
विज्ञाय परम-प्रीताः मुनयः हर्षम् आगमन् । अर्घ्यम् पाद्यम् तथा आतिथ्यम् निवेद्य कुशिक-आत्मजे ॥१॥
vijñāya parama-prītāḥ munayaḥ harṣam āgaman . arghyam pādyam tathā ātithyam nivedya kuśika-ātmaje ..1..
रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् । सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् ॥१-२३-२०॥
राम-लक्ष्मणयोः पश्चात् अकुर्वन् अतिथि-क्रियाम् । सत्कारम् समनुप्राप्य कथाभिः अभिरञ्जयन् ॥१॥
rāma-lakṣmaṇayoḥ paścāt akurvan atithi-kriyām . satkāram samanuprāpya kathābhiḥ abhirañjayan ..1..
यथार्हमजपन् संध्यामृषयस्ते समाहिताः । तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह ॥१-२३-२१॥
यथार्हम् अजपन् संध्याम् ऋषयः ते समाहिताः । तत्र वासिभिः आनीताः मुनिभिः सुव्रतैः सह ॥१॥
yathārham ajapan saṃdhyām ṛṣayaḥ te samāhitāḥ . tatra vāsibhiḥ ānītāḥ munibhiḥ suvrataiḥ saha ..1..
न्यवसन् सुसुखं तत्र कामाश्रमपदे तथा । कथाभिरभिरामभिरभिरमौ नृपात्मजौ । रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥१-२३-२२॥
न्यवसन् सु सुखम् तत्र काम-आश्रम-पदे तथा । कथाभिः अभिरामभिः अभिरमौ नृप-आत्मजौ । रमयामास धर्म-आत्मा कौशिकः मुनि-पुङ्गवः ॥१॥
nyavasan su sukham tatra kāma-āśrama-pade tathā . kathābhiḥ abhirāmabhiḥ abhiramau nṛpa-ātmajau . ramayāmāsa dharma-ātmā kauśikaḥ muni-puṅgavaḥ ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोविंशः सर्गः ॥१-२३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोविंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe trayoviṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In