This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चविंशः सर्गः ॥१-२५॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे पञ्चविंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe pañcaviṃśaḥ sargaḥ ..1..
अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम्। श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ॥१-२५-१॥
अथ तस्य अप्रमेयस्य मुनेः वचनम् उत्तमम्। श्रुत्वा पुरुष-शार्दूलः प्रत्युवाच शुभाम् गिरम् ॥१॥
atha tasya aprameyasya muneḥ vacanam uttamam. śrutvā puruṣa-śārdūlaḥ pratyuvāca śubhām giram ..1..
अल्पवीर्या यदा यक्षी श्रूयते मुनिपुङ्गव । कथं नागसहस्रस्य धारयत्यबला बलम् ॥१-२५-२॥
अल्प-वीर्या यदा यक्षी श्रूयते मुनि-पुङ्गव । कथम् नाग-सहस्रस्य धारयति अबला बलम् ॥१॥
alpa-vīryā yadā yakṣī śrūyate muni-puṅgava . katham nāga-sahasrasya dhārayati abalā balam ..1..
इत्युक्तं वचनं श्रुत्वा राघवस्यामितौजसः । हर्षयञ्श्लक्ष्णया वाचा सलक्ष्मणमरिन्दमम् ॥१-२५-३॥
इति उक्तम् वचनम् श्रुत्वा राघवस्य अमित-ओजसः । हर्षयन् श्लक्ष्णया वाचा स लक्ष्मणम् अरिन्दमम् ॥१॥
iti uktam vacanam śrutvā rāghavasya amita-ojasaḥ . harṣayan ślakṣṇayā vācā sa lakṣmaṇam arindamam ..1..
विश्वामित्रोऽब्रवीद् वाक्यं शृणु येन बलोत्कटा । वरदानकृतं वीर्यं धारयत्यबला बलम् ॥१-२५-४॥
विश्वामित्रः अब्रवीत् वाक्यम् शृणु येन बल-उत्कटा । वर-दान-कृतम् वीर्यम् धारयति अबला बलम् ॥१॥
viśvāmitraḥ abravīt vākyam śṛṇu yena bala-utkaṭā . vara-dāna-kṛtam vīryam dhārayati abalā balam ..1..
पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् । अनपत्यः शुभाचारः स च तेपे महत्तपः ॥१-२५-५॥
पूर्वम् आसीत् महा-यक्षः सुकेतुः नाम वीर्यवान् । अनपत्यः शुभ-आचारः स च तेपे महत् तपः ॥१॥
pūrvam āsīt mahā-yakṣaḥ suketuḥ nāma vīryavān . anapatyaḥ śubha-ācāraḥ sa ca tepe mahat tapaḥ ..1..
पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा । कन्यारत्नं ददौ राम ताटकां नाम नामतः ॥१-२५-६॥
पितामहः तु सु प्रीतः तस्य यक्षपतेः तदा । कन्या-रत्नम् ददौ राम ताटकाम् नाम नामतः ॥१॥
pitāmahaḥ tu su prītaḥ tasya yakṣapateḥ tadā . kanyā-ratnam dadau rāma tāṭakām nāma nāmataḥ ..1..
ददौ नागसहस्रस्य बलं चास्याः पितामहः । न त्वेव पुत्रं यक्षाय ददौ चासौ महायशाः ॥१-२५-७॥
ददौ नाग-सहस्रस्य बलम् च अस्याः पितामहः । न तु एव पुत्रम् यक्षाय ददौ च असौ महा-यशाः ॥१॥
dadau nāga-sahasrasya balam ca asyāḥ pitāmahaḥ . na tu eva putram yakṣāya dadau ca asau mahā-yaśāḥ ..1..
तां तु बालां विवर्धन्तीं रूपयौवनशालिनीम् । जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् ॥१-२५-८॥
ताम् तु बालाम् विवर्धन्तीम् रूप-यौवन-शालिनीम् । जम्भ-पुत्राय सुन्दाय ददौ भार्याम् यशस्विनीम् ॥१॥
tām tu bālām vivardhantīm rūpa-yauvana-śālinīm . jambha-putrāya sundāya dadau bhāryām yaśasvinīm ..1..
कस्यचित्त्वथ कालस्य यक्षी पुत्रं व्यजायत । मारीचं नाम दुर्धर्षं यः शापाद् राक्षसोऽभवत् ॥१-२५-९॥
कस्यचिद् तु अथ कालस्य यक्षी पुत्रम् व्यजायत । मारीचम् नाम दुर्धर्षम् यः शापात् राक्षसः अभवत् ॥१॥
kasyacid tu atha kālasya yakṣī putram vyajāyata . mārīcam nāma durdharṣam yaḥ śāpāt rākṣasaḥ abhavat ..1..
सुन्दे तु निहते राम अगस्त्यमृषिसत्तमम् । ताटका सहपुत्रेण प्रधर्षयितुमिच्छति ॥१-२५-१०॥
सुन्दे तु निहते राम अगस्त्यम् ऋषि-सत्तमम् । ताटका सह पुत्रेण प्रधर्षयितुम् इच्छति ॥१॥
sunde tu nihate rāma agastyam ṛṣi-sattamam . tāṭakā saha putreṇa pradharṣayitum icchati ..1..
भक्षार्थं जातसंरम्भा गर्जन्ती साभ्यधावत । आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः ॥१-२५-११॥
भक्ष-अर्थम् जात-संरम्भा गर्जन्ती सा अभ्यधावत । आपतन्तीम् तु ताम् दृष्ट्वा अगस्त्यः भगवान् ऋषिः ॥१॥
bhakṣa-artham jāta-saṃrambhā garjantī sā abhyadhāvata . āpatantīm tu tām dṛṣṭvā agastyaḥ bhagavān ṛṣiḥ ..1..
राक्षसत्वं भजस्वेति मारीचं व्याजहार सः । अगस्त्यः परमामर्षस्ताटकामपि शप्तवान् ॥१-२५-१२॥
राक्षस-त्वम् भजस्व इति मारीचम् व्याजहार सः । अगस्त्यः परम-अमर्षः ताटकाम् अपि शप्तवान् ॥१॥
rākṣasa-tvam bhajasva iti mārīcam vyājahāra saḥ . agastyaḥ parama-amarṣaḥ tāṭakām api śaptavān ..1..
पुरुषादी महायक्षी विकृता विकृतानना । इदं रूपम् विहायाशु दारुणं रूपमस्तु ते ॥१-२५-१३॥
। इदम् रूपम् विहाय आशु दारुणम् रूपम् अस्तु ते ॥१॥
. idam rūpam vihāya āśu dāruṇam rūpam astu te ..1..
सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता । देशमुत्सादयत्येनमगस्त्याचरितं शुभम् ॥१-२५-१४॥
सा एषा शाप-कृत-अमर्षा ताटका क्रोध-मूर्छिता । देशम् उत्सादयति एनम् अगस्त्य-आचरितम् शुभम् ॥१॥
sā eṣā śāpa-kṛta-amarṣā tāṭakā krodha-mūrchitā . deśam utsādayati enam agastya-ācaritam śubham ..1..
एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् । गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ॥१-२५-१५॥
एनाम् राघव दुर्वृत्ताम् यक्षीम् परम-दारुणाम् । गो-ब्राह्मण-हित-अर्थाय जहि दुष्ट-पराक्रमाम् ॥१॥
enām rāghava durvṛttām yakṣīm parama-dāruṇām . go-brāhmaṇa-hita-arthāya jahi duṣṭa-parākramām ..1..
नह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान् । निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ॥१-२५-१६॥
न हि एनाम् शाप-संसृष्टाम् कश्चिद् उत्सहते पुमान् । निहन्तुम् त्रिषु लोकेषु त्वाम् ऋते रघुनन्दन ॥१॥
na hi enām śāpa-saṃsṛṣṭām kaścid utsahate pumān . nihantum triṣu lokeṣu tvām ṛte raghunandana ..1..
नहि ते स्त्रीवधकृते घृणा कार्या नरोत्तम । चातुर्वर्ण्यहितार्थं कर्तव्यं राजसूनुना ॥१-२५-१७॥
नहि ते स्त्री-वध-कृते घृणा कार्या नर-उत्तम । चातुर्वर्ण्य-हित-अर्थम् कर्तव्यम् राज-सूनुना ॥१॥
nahi te strī-vadha-kṛte ghṛṇā kāryā nara-uttama . cāturvarṇya-hita-artham kartavyam rāja-sūnunā ..1..
नृशंसमनृशंसं वा प्रजारक्षणकारणात् । पातकं वा सदोषं वा कर्तव्यं रक्षता सदा ॥१-२५-१८॥
नृशंसम् अ नृशंसम् वा प्रजा-रक्षण-कारणात् । पातकम् वा स दोषम् वा कर्तव्यम् रक्षता सदा ॥१॥
nṛśaṃsam a nṛśaṃsam vā prajā-rakṣaṇa-kāraṇāt . pātakam vā sa doṣam vā kartavyam rakṣatā sadā ..1..
राज्यभारनियुक्तानामेष धर्मः सनातनः । अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्यां न विद्यते ॥१-२५-१९॥
राज्य-भार-नियुक्तानाम् एष धर्मः सनातनः । अधर्म्याम् जहि काकुत्स्थ धर्मः हि अस्याम् न विद्यते ॥१॥
rājya-bhāra-niyuktānām eṣa dharmaḥ sanātanaḥ . adharmyām jahi kākutstha dharmaḥ hi asyām na vidyate ..1..
श्रूयते हि पुरा शक्रो विरोचनसुतां नृप । पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ॥१-२५-२०॥
श्रूयते हि पुरा शक्रः विरोचन-सुताम् नृप । पृथिवीम् हन्तुम् इच्छन्तीम् मन्थराम् अभ्यसूदयत् ॥१॥
śrūyate hi purā śakraḥ virocana-sutām nṛpa . pṛthivīm hantum icchantīm mantharām abhyasūdayat ..1..
विष्णुना च पुरा राम भृगुपत्नी पतिव्रता । अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता ॥१-२५-२१॥
विष्णुना च पुरा राम भृगु-पत्नी पतिव्रता । अन् इन्द्रम् लोकम् इच्छन्ती काव्य-माता निषूदिता ॥१॥
viṣṇunā ca purā rāma bhṛgu-patnī pativratā . an indram lokam icchantī kāvya-mātā niṣūditā ..1..
एतैश्चान्यैश्च बहुभी राजपुत्रैर्महात्मभिः । अधर्मसहिता नार्यो हताः पुरुषसत्तमैः । तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप ॥१-२५-२२॥
एतैः च अन्यैः च बहुभिः राज-पुत्रैः महात्मभिः । अधर्म-सहिताः नार्यः हताः पुरुष-सत्तमैः । तस्मात् एनाम् घृणाम् त्यक्त्वा जहि मद्-शासनात् नृप ॥१॥
etaiḥ ca anyaiḥ ca bahubhiḥ rāja-putraiḥ mahātmabhiḥ . adharma-sahitāḥ nāryaḥ hatāḥ puruṣa-sattamaiḥ . tasmāt enām ghṛṇām tyaktvā jahi mad-śāsanāt nṛpa ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चविंशः सर्गः ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चविंशः सर्गः ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcaviṃśaḥ sargaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In