This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे बालकाण्डे सप्तविंशः सर्गः ॥१-२७॥
श्रीमत्-वाल्मीकीय-रामायणे बाल-काण्डे सप्तविंशः सर्गः ॥१॥
śrīmat-vālmīkīya-rāmāyaṇe bāla-kāṇḍe saptaviṃśaḥ sargaḥ ..1..
अथ तां रजनीमुष्य विश्वामित्रो महायशाः । प्रहस्य राघवं वाक्यमुवाच मधुरस्वरम् ॥१-२७-१॥
अथ ताम् रजनीम् उष्य विश्वामित्रः महा-यशाः । प्रहस्य राघवम् वाक्यम् उवाच मधुर-स्वरम् ॥१॥
atha tām rajanīm uṣya viśvāmitraḥ mahā-yaśāḥ . prahasya rāghavam vākyam uvāca madhura-svaram ..1..
परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः । प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥१-२७-२॥
परितुष्टः अस्मि भद्रम् ते राज-पुत्र महा-यशः । प्रीत्या परमया युक्तः ददामि अस्त्राणि सर्वशस् ॥१॥
parituṣṭaḥ asmi bhadram te rāja-putra mahā-yaśaḥ . prītyā paramayā yuktaḥ dadāmi astrāṇi sarvaśas ..1..
देवासुरगणान् वापि सगन्धर्वोरगान् भुवि । यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥१-२७-३॥
देव-असुर-गणान् वा अपि स गन्धर्व-उरगान् भुवि । यैः अमित्रान् प्रसह्य आजौ वशीकृत्य जयिष्यसि ॥१॥
deva-asura-gaṇān vā api sa gandharva-uragān bhuvi . yaiḥ amitrān prasahya ājau vaśīkṛtya jayiṣyasi ..1..
तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः । दण्डचक्रं महद् दिव्यं तव दास्यामि राघव ॥१-२७-४॥
तानि दिव्यानि भद्रम् ते ददामि अस्त्राणि सर्वशस् । दण्डचक्रम् महत् दिव्यम् तव दास्यामि राघव ॥१॥
tāni divyāni bhadram te dadāmi astrāṇi sarvaśas . daṇḍacakram mahat divyam tava dāsyāmi rāghava ..1..
धर्मचक्रं ततो वीर कालचक्रं तथैव च । विष्णुचक्रं तथात्युग्रमैन्द्रं चक्रं तथैव च ॥१-२७-५॥
धर्मचक्रम् ततस् वीर कालचक्रम् तथा एव च । विष्णुचक्रम् तथा अति उग्रम् ऐन्द्रम् चक्रम् तथा एव च ॥१॥
dharmacakram tatas vīra kālacakram tathā eva ca . viṣṇucakram tathā ati ugram aindram cakram tathā eva ca ..1..
वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा । अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ॥१-२७-६॥
वज्रम् अस्त्रम् नर-श्रेष्ठ शैवम् शूलवरम् तथा । अस्त्रम् ब्रह्मशिरः च एव ऐषीकम् अपि राघव ॥१॥
vajram astram nara-śreṣṭha śaivam śūlavaram tathā . astram brahmaśiraḥ ca eva aiṣīkam api rāghava ..1..
ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् । गदे द्वे चैव काकुत्स्थ मोदकीशिखरी शुभे ॥१-२७-७॥
ददामि ते महा-बाहो ब्राह्मम् अस्त्रम् अनुत्तमम् । गदे द्वे च एव काकुत्स्थ मोदकी-शिखरी शुभे ॥१॥
dadāmi te mahā-bāho brāhmam astram anuttamam . gade dve ca eva kākutstha modakī-śikharī śubhe ..1..
प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज । धर्मपाशमहं राम कालपाशं तथैव च ॥१-२७-८॥
प्रदीप्ते नर-शार्दूल प्रयच्छामि नृप-आत्मज । धर्मपाशम् अहम् राम कालपाशम् तथा एव च ॥१॥
pradīpte nara-śārdūla prayacchāmi nṛpa-ātmaja . dharmapāśam aham rāma kālapāśam tathā eva ca ..1..
वारुणं पाशमस्त्रं च ददान्यहमनुत्तमम् । अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ॥१-२७-९॥
वारुणम् पाशम् अस्त्रम् च ददानि अहम् अनुत्तमम् । अशनी द्वे प्रयच्छामि शुष्क-आर्द्रे रघुनन्दन ॥१॥
vāruṇam pāśam astram ca dadāni aham anuttamam . aśanī dve prayacchāmi śuṣka-ārdre raghunandana ..1..
ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा । आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ॥१-२७-१०॥
ददामि च अस्त्रम् पैनाकम् अस्त्रम् नारायणम् तथा । आग्नेयम् अस्त्रम् दयितम् शिखरम् नाम नामतः ॥१॥
dadāmi ca astram painākam astram nārāyaṇam tathā . āgneyam astram dayitam śikharam nāma nāmataḥ ..1..
वायव्यं प्रथमं नाम ददामि तव चानघ । अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च ॥१-२७-११॥
वायव्यम् प्रथमम् नाम ददामि तव च अनघ । अस्त्रम् हयशिरः नाम क्रौञ्चम् अस्त्रम् तथा एव च ॥१॥
vāyavyam prathamam nāma dadāmi tava ca anagha . astram hayaśiraḥ nāma krauñcam astram tathā eva ca ..1..
शक्तिद्वयं च काकुत्स्थ ददामि तव राघव । कङ्कालं मुसलं घोरं कापालमथ किङ्किणीम् ॥१-२७-१२॥
शक्ति-द्वयम् च काकुत्स्थ ददामि तव राघव । कङ्कालम् मुसलम् घोरम् कापालम् अथ किङ्किणीम् ॥१॥
śakti-dvayam ca kākutstha dadāmi tava rāghava . kaṅkālam musalam ghoram kāpālam atha kiṅkiṇīm ..1..
वधार्थं रक्षसां यानि ददाम्येतानि सर्वशः । वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ॥१-२७-१३॥
वध-अर्थम् रक्षसाम् यानि ददामि एतानि सर्वशस् । वैद्याधरम् महा-अस्त्रम् च नन्दनम् नाम नामतः ॥१॥
vadha-artham rakṣasām yāni dadāmi etāni sarvaśas . vaidyādharam mahā-astram ca nandanam nāma nāmataḥ ..1..
असिरत्नं महाबाहो ददामि नृवरात्मज । गान्धर्वमस्त्रं दयितं मोहनं नाम नामतः ॥१-२७-१४॥
असि-रत्नम् महा-बाहो ददामि नृ-वर-आत्मज । गान्धर्वम् अस्त्रम् दयितम् मोहनम् नाम नामतः ॥१॥
asi-ratnam mahā-bāho dadāmi nṛ-vara-ātmaja . gāndharvam astram dayitam mohanam nāma nāmataḥ ..1..
प्रस्वापनं प्रशमनं दद्मि सौम्यं च राघव । वर्षणं शोषणं चैव संतापनविलापने ॥१-२७-१५॥
प्रस्वापनम् प्रशमनम् दद्मि सौम्यम् च राघव । वर्षणम् शोषणम् च एव संतापन-विलापने ॥१॥
prasvāpanam praśamanam dadmi saumyam ca rāghava . varṣaṇam śoṣaṇam ca eva saṃtāpana-vilāpane ..1..
मादनं चैव दुर्धर्षं कन्दर्पदयितं तथा । गान्धर्वमस्त्रं दयितं मानवं नाम नामतः ॥१-२७-१६॥
मादनम् च एव दुर्धर्षम् कन्दर्प-दयितम् तथा । गान्धर्वम् अस्त्रम् दयितम् मानवम् नाम नामतः ॥१॥
mādanam ca eva durdharṣam kandarpa-dayitam tathā . gāndharvam astram dayitam mānavam nāma nāmataḥ ..1..
पैशाचमस्त्रं दयितं मोहनं नाम नामतः । प्रतीच्छ नरशार्दूल राजपुत्र महायशः ॥१-२७-१७॥
पैशाचम् अस्त्रम् दयितम् मोहनम् नाम नामतः । प्रतीच्छ नर-शार्दूल राज-पुत्र महा-यशः ॥१॥
paiśācam astram dayitam mohanam nāma nāmataḥ . pratīccha nara-śārdūla rāja-putra mahā-yaśaḥ ..1..
तामसं नरशार्दूल सौमनं च महाबलम् । संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज ॥१-२७-१८॥
तामसम् नर-शार्दूल सौमनम् च महा-बलम् । संवर्तम् च एव दुर्धर्षम् मौसलम् च नृप-आत्मज ॥१॥
tāmasam nara-śārdūla saumanam ca mahā-balam . saṃvartam ca eva durdharṣam mausalam ca nṛpa-ātmaja ..1..
सत्यमस्त्रं महाबाहो तथा मायामयं परम् । सौरं तेजःप्रभं नाम परतेजोऽपकर्षणम् ॥१-२७-१९॥
सत्यम् अस्त्रम् महा-बाहो तथा माया-मयम् परम् । सौरम् तेजःप्रभम् नाम पर-तेजः-अपकर्षणम् ॥१॥
satyam astram mahā-bāho tathā māyā-mayam param . sauram tejaḥprabham nāma para-tejaḥ-apakarṣaṇam ..1..
सोमास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुदारुणम् । दारुणं च भगस्यापि शीतेषुमथ मानवम् ॥१-२७-२०॥
सोम-अस्त्रम् शिशिरम् नाम त्वाष्ट्रम् अस्त्रम् सु दारुणम् । दारुणम् च भगस्य अपि शीतेषुम् अथ मानवम् ॥१॥
soma-astram śiśiram nāma tvāṣṭram astram su dāruṇam . dāruṇam ca bhagasya api śīteṣum atha mānavam ..1..
एतान् राम महाबाहो कामरूपान् महाबलान् । गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ॥१-२७-२१॥
एतान् राम महा-बाहो कामरूपान् महा-बलान् । गृहाण परम-उदारान् क्षिप्रम् एव नृप-आत्मज ॥१॥
etān rāma mahā-bāho kāmarūpān mahā-balān . gṛhāṇa parama-udārān kṣipram eva nṛpa-ātmaja ..1..
स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा । ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् ॥१-२७-२२॥
स्थितः तु प्राच्-मुखः भूत्वा शुचिः मुनि-वरः तदा । ददौ रामाय सु प्रीतः मन्त्र-ग्रामम् अनुत्तमम् ॥१॥
sthitaḥ tu prāc-mukhaḥ bhūtvā śuciḥ muni-varaḥ tadā . dadau rāmāya su prītaḥ mantra-grāmam anuttamam ..1..
सर्वसंग्रहणं येषां दैवतैरपि दुर्लभम् । तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥१-२७-२३॥
सर्व-संग्रहणम् येषाम् दैवतैः अपि दुर्लभम् । तानि अस्त्राणि तदा विप्रः राघवाय न्यवेदयत् ॥१॥
sarva-saṃgrahaṇam yeṣām daivataiḥ api durlabham . tāni astrāṇi tadā vipraḥ rāghavāya nyavedayat ..1..
जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः । उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ॥१-२७-२४॥
जपतः तु मुनेः तस्य विश्वामित्रस्य धीमतः । उपतस्थुः महार्हाणि सर्वाणि अस्त्राणि राघवम् ॥१॥
japataḥ tu muneḥ tasya viśvāmitrasya dhīmataḥ . upatasthuḥ mahārhāṇi sarvāṇi astrāṇi rāghavam ..1..
ऊचुश्च मुदिता रामं सर्वे प्राञ्जलयस्तदा । इमे च परमोदार किंकरास्तव राघव ॥१-२७-२५॥
ऊचुः च मुदिताः रामम् सर्वे प्राञ्जलयः तदा । इमे च परम-उदार किंकराः तव राघव ॥१॥
ūcuḥ ca muditāḥ rāmam sarve prāñjalayaḥ tadā . ime ca parama-udāra kiṃkarāḥ tava rāghava ..1..
यद्यदिच्छसि भद्रं ते तत्सर्वं करवाम वै । ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः ॥१-२७-२६॥
यत् यत् इच्छसि भद्रम् ते तत् सर्वम् करवाम वै । ततस् रामः प्रसन्न-आत्मा तैः इति उक्तः महा-बलैः ॥१॥
yat yat icchasi bhadram te tat sarvam karavāma vai . tatas rāmaḥ prasanna-ātmā taiḥ iti uktaḥ mahā-balaiḥ ..1..
प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना । मनसा मे भविष्यध्वमिति तान्यभ्यचोदयत् ॥१-२७-२७॥
प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना । मनसा मे भविष्यध्वम् इति तानि अभ्यचोदयत् ॥१॥
pratigṛhya ca kākutsthaḥ samālabhya ca pāṇinā . manasā me bhaviṣyadhvam iti tāni abhyacodayat ..1..
ततः प्रीतमना रामो विश्वामित्रं महामुनिम्। अभिवाद्य महातेजा गमनायोपचक्रमे ॥१-२७-२८॥
ततस् प्रीत-मनाः रामः विश्वामित्रम् महा-मुनिम्। अभिवाद्य महा-तेजाः गमनाय उपचक्रमे ॥१॥
tatas prīta-manāḥ rāmaḥ viśvāmitram mahā-munim. abhivādya mahā-tejāḥ gamanāya upacakrame ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तविंशः सर्गः ॥१-२७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तविंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptaviṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In