This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टाविंशः सर्गः ॥१-२८॥
श्रीमत्-वाल्मीकिय-रामायणे बालकाण्डे अष्टाविंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bālakāṇḍe aṣṭāviṃśaḥ sargaḥ ..1..
प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः । गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ॥१-२८-१॥
प्रतिगृह्य ततस् अस्त्राणि प्रहृष्ट-वदनः शुचिः । गच्छन् एव च काकुत्स्थः विश्वामित्रम् अथ अब्रवीत् ॥१॥
pratigṛhya tatas astrāṇi prahṛṣṭa-vadanaḥ śuciḥ . gacchan eva ca kākutsthaḥ viśvāmitram atha abravīt ..1..
गृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरैरपि । अस्त्राणां त्वहमिच्छामि संहारान् मुनिपुङ्गव ॥१-२८-२॥
गृहीत-अस्त्रः अस्मि भगवन् दुराधर्षः सुरैः अपि । अस्त्राणाम् तु अहम् इच्छामि संहारात् मुनि-पुङ्गव ॥१॥
gṛhīta-astraḥ asmi bhagavan durādharṣaḥ suraiḥ api . astrāṇām tu aham icchāmi saṃhārāt muni-puṅgava ..1..
एवं ब्रुवति काकुत्स्थे विश्वामित्रो महातपाः । संहारान् व्याजहाराथ धृतिमान् सुव्रतः शुचिः ॥१-२८-३॥
एवम् ब्रुवति काकुत्स्थे विश्वामित्रः महा-तपाः । संहारान् व्याजहार अथ धृतिमान् सुव्रतः शुचिः ॥१॥
evam bruvati kākutsthe viśvāmitraḥ mahā-tapāḥ . saṃhārān vyājahāra atha dhṛtimān suvrataḥ śuciḥ ..1..
सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च । प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् ॥१-२८-४॥
सत्यवन्तम् सत्यकीर्तिम् धृष्टम् रभसम् एव च । प्रतिहार-तरम् नाम पराङ्मुखम् अवाङ्मुखम् ॥१॥
satyavantam satyakīrtim dhṛṣṭam rabhasam eva ca . pratihāra-taram nāma parāṅmukham avāṅmukham ..1..
लक्ष्यालक्ष्याविमौ चैव दृढनाभसुनाभकौ । दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ ॥१-२८-५॥
लक्ष्य-अलक्ष्यौ इमौ च एव दृढनाभ-सुनाभकौ । दशाक्ष-शतवक्त्रौ च दशशीर्ष-शतोदरौ ॥१॥
lakṣya-alakṣyau imau ca eva dṛḍhanābha-sunābhakau . daśākṣa-śatavaktrau ca daśaśīrṣa-śatodarau ..1..
पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ । ज्योतिषं शकुनं चैव नैरास्यविमलावुभौ ॥१-२८-६॥
पद्मनाभ-महानाभौ दुन्दुनाभ-सुनाभकौ । ज्योतिषम् शकुनम् च एव नैरास्य-विमलौ उभौ ॥१॥
padmanābha-mahānābhau dundunābha-sunābhakau . jyotiṣam śakunam ca eva nairāsya-vimalau ubhau ..1..
यौगन्धरविनिद्रौ च दैत्यप्रमथनौ तथा । शुचिबाहुर्महाबाहुर्निष्कलिर्विरुचस्तथा । सार्चिर्माली धृतिमाली वृत्तिमान् रुचिरस्तथा ॥१-२८-७॥
यौगन्धर-विनिद्रौ च दैत्य-प्रमथनौ तथा । शुचिबाहुः महाबाहुः निष्कलिः विरुचः तथा । स अर्चिर्माली धृतिमाली वृत्तिमान् रुचिरः तथा ॥१॥
yaugandhara-vinidrau ca daitya-pramathanau tathā . śucibāhuḥ mahābāhuḥ niṣkaliḥ virucaḥ tathā . sa arcirmālī dhṛtimālī vṛttimān ruciraḥ tathā ..1..
पित्र्यः सौमनसश्चैव विधूतमकरावुभौ । परवीरं रतिं चैव धनधान्यौ च राघव ॥१-२८-८॥
पित्र्यः सौमनसः च एव विधूत-मकरौ उभौ । पर-वीरम् रतिम् च एव धन-धान्यौ च राघव ॥१॥
pitryaḥ saumanasaḥ ca eva vidhūta-makarau ubhau . para-vīram ratim ca eva dhana-dhānyau ca rāghava ..1..
कामरूपं कामरुचिं मोहमावरणं तथा । जृम्भकं सर्वनाभं च पन्थनवरुणौ तथा ॥१-२८-९॥
कामरूपम् काम-रुचिम् मोहम् आवरणम् तथा । जृम्भकम् सर्वनाभम् च पन्थन-वरुणौ तथा ॥१॥
kāmarūpam kāma-rucim moham āvaraṇam tathā . jṛmbhakam sarvanābham ca panthana-varuṇau tathā ..1..
कृशाश्वतनयान् राम भास्वरान् कामरूपिणः । प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव ॥१-२८-१०॥
कृशाश्व-तनयान् राम भास्वरान् कामरूपिणः । प्रतीच्छ मम भद्रम् ते पात्र-भूतः असि राघव ॥१॥
kṛśāśva-tanayān rāma bhāsvarān kāmarūpiṇaḥ . pratīccha mama bhadram te pātra-bhūtaḥ asi rāghava ..1..
बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना । दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः ॥१-२८-११॥
बाढम् इति एव काकुत्स्थः प्रहृष्टेन अन्तरात्मना । दिव्य-भास्वर-देहाः च मूर्तिमन्तः सुख-प्रदाः ॥१॥
bāḍham iti eva kākutsthaḥ prahṛṣṭena antarātmanā . divya-bhāsvara-dehāḥ ca mūrtimantaḥ sukha-pradāḥ ..1..
केचिदङ्गारसदृशाः केचिद् धूमोपमास्तथा । चन्द्रार्कसदृशाः केचित् प्रह्वाञ्जलिपुटास्तथा ॥१-२८-१२॥
केचिद् अङ्गार-सदृशाः केचिद् धूम-उपमाः तथा । चन्द्र-अर्क-सदृशाः केचिद् प्रह्व-अञ्जलि-पुटाः तथा ॥१॥
kecid aṅgāra-sadṛśāḥ kecid dhūma-upamāḥ tathā . candra-arka-sadṛśāḥ kecid prahva-añjali-puṭāḥ tathā ..1..
रामं प्राञ्जलयो भूत्वाब्रुवन् मधुरभाषिणः । इमे स्म नरशार्दूल शाधि किं करवाम ते ॥१-२८-१३॥
रामम् प्राञ्जलयः भूत्वा अब्रुवन् मधुर-भाषिणः । इमे स्म नर-शार्दूल शाधि किम् करवाम ते ॥१॥
rāmam prāñjalayaḥ bhūtvā abruvan madhura-bhāṣiṇaḥ . ime sma nara-śārdūla śādhi kim karavāma te ..1..
गम्यतामिति तानाह यथेष्टं रघुनन्दनः । मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ ॥१-२८-१४॥
गम्यताम् इति तान् आह यथेष्टम् रघुनन्दनः । मानसाः कार्य-कालेषु साहाय्यम् मे करिष्यथ ॥१॥
gamyatām iti tān āha yatheṣṭam raghunandanaḥ . mānasāḥ kārya-kāleṣu sāhāyyam me kariṣyatha ..1..
अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम् । एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम् ॥१-२८-१५॥
अथ ते रामम् आमन्त्र्य कृत्वा च अपि प्रदक्षिणम् । एवम् अस्तु इति काकुत्स्थम् उक्त्वा जग्मुः यथागतम् ॥१॥
atha te rāmam āmantrya kṛtvā ca api pradakṣiṇam . evam astu iti kākutstham uktvā jagmuḥ yathāgatam ..1..
स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् । गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् ॥१-२८-१६॥
स च तान् राघवः ज्ञात्वा विश्वामित्रम् महा-मुनिम् । गच्छन् एव अथ मधुरम् श्लक्ष्णम् वचनम् अब्रवीत् ॥१॥
sa ca tān rāghavaḥ jñātvā viśvāmitram mahā-munim . gacchan eva atha madhuram ślakṣṇam vacanam abravīt ..1..
किमेतन्मेघसंकाशं पर्वतस्याविदूरतः । वृक्षखण्डमितो भाति परं कौतूहलं हि मे ॥१-२८-१७॥
किम् एतत् मेघ-संकाशम् पर्वतस्य अविदूरतः । वृक्ष-खण्ड-मितः भाति परम् कौतूहलम् हि मे ॥१॥
kim etat megha-saṃkāśam parvatasya avidūrataḥ . vṛkṣa-khaṇḍa-mitaḥ bhāti param kautūhalam hi me ..1..
दर्शनीयं मृगाकीर्णं मनोहरमतीव च । नानाप्रकारैः शकुनैर्वल्गुभाषैरलङ्कृतम् ॥१-२८-१८॥
दर्शनीयम् मृग-आकीर्णम् मनोहरम् अतीव च । नाना प्रकारैः शकुनैः वल्गु-भाषैः अलङ्कृतम् ॥१॥
darśanīyam mṛga-ākīrṇam manoharam atīva ca . nānā prakāraiḥ śakunaiḥ valgu-bhāṣaiḥ alaṅkṛtam ..1..
निःसृताःस्मो मुनिश्रेष्ठ कान्ताराद् रोमहर्षणात् । अनया त्ववगच्छामि देशस्य सुखवत्तया ॥१-२८-१९॥
निःसृताःस्मः मुनि-श्रेष्ठ कान्तारात् रोमहर्षणात् । अनया तु अवगच्छामि देशस्य सुखवत्-तया ॥१॥
niḥsṛtāḥsmaḥ muni-śreṣṭha kāntārāt romaharṣaṇāt . anayā tu avagacchāmi deśasya sukhavat-tayā ..1..
सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम् । संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः ॥१-२८-२०॥
सर्वम् मे शंस भगवन् कस्य आश्रम-पदम् तु इदम् । संप्राप्ताः यत्र ते पापाः ब्रह्म-घ्नाः दुष्ट-चारिणः ॥१॥
sarvam me śaṃsa bhagavan kasya āśrama-padam tu idam . saṃprāptāḥ yatra te pāpāḥ brahma-ghnāḥ duṣṭa-cāriṇaḥ ..1..
तव यज्ञस्य विघ्नाय दुरात्मानो महामुने । भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी ॥१-२८-२१॥
तव यज्ञस्य विघ्नाय दुरात्मानः महा-मुने । भगवन् तस्य कः देशः सा यत्र तव याज्ञिकी ॥१॥
tava yajñasya vighnāya durātmānaḥ mahā-mune . bhagavan tasya kaḥ deśaḥ sā yatra tava yājñikī ..1..
रक्षितव्या क्रिया ब्रह्मन् मया वध्याश्च राक्षसाः । एतत् सर्वं मुनिश्रेष्ठ श्रोतुमिच्छाम्यहं प्रभो ॥१-२८-२१॥
रक्षितव्या क्रिया ब्रह्मन् मया वध्याः च राक्षसाः । एतत् सर्वम् मुनि-श्रेष्ठ श्रोतुम् इच्छामि अहम् प्रभो ॥१॥
rakṣitavyā kriyā brahman mayā vadhyāḥ ca rākṣasāḥ . etat sarvam muni-śreṣṭha śrotum icchāmi aham prabho ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In