This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनत्रिंशः सर्गः ॥१-२९॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे एकोनत्रिंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe ekonatriṃśaḥ sargaḥ ..1..
अथ तस्याप्रमेयस्य वचनं परिपृच्छतः । विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ॥१-२९-२५॥
अथ तस्य अप्रमेयस्य वचनम् परिपृच्छतः । विश्वामित्रः महा-तेजाः व्याख्यातुम् उपचक्रमे ॥१॥
atha tasya aprameyasya vacanam paripṛcchataḥ . viśvāmitraḥ mahā-tejāḥ vyākhyātum upacakrame ..1..
इह राम महाबाहो विष्णुर्देवनमस्कृतः । वर्षाणि सुबहूनीह तथा युगशतानि च ॥१-२९-२॥
इह राम महा-बाहो विष्णुः देव-नमस्कृतः । वर्षाणि सु बहूनि इह तथा युग-शतानि च ॥१॥
iha rāma mahā-bāho viṣṇuḥ deva-namaskṛtaḥ . varṣāṇi su bahūni iha tathā yuga-śatāni ca ..1..
तपश्चरणयोगार्थमुवास सुमहातपाः । एष पूर्वाश्रमो राम वामनस्य महात्मनः ॥१-२९-२५॥
तपः-चरण-योग-अर्थम् उवास सु महा-तपाः । एष पूर्व-आश्रमः राम वामनस्य महात्मनः ॥१॥
tapaḥ-caraṇa-yoga-artham uvāsa su mahā-tapāḥ . eṣa pūrva-āśramaḥ rāma vāmanasya mahātmanaḥ ..1..
सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः । एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः ॥१-२९-२५॥
सिद्धाश्रमः इति ख्यातः सिद्धः हि अत्र महा-तपाः । एतस्मिन् एव काले तु राजा वैरोचनिः बलिः ॥१॥
siddhāśramaḥ iti khyātaḥ siddhaḥ hi atra mahā-tapāḥ . etasmin eva kāle tu rājā vairocaniḥ baliḥ ..1..
निर्जित्य दैवतगणान् सेन्द्रान् सहमरुद्गणान् । कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः ॥१-२९-२५॥
निर्जित्य दैवत-गणान् स इन्द्रान् सह मरुत्-गणान् । कारयामास तत् राज्यम् त्रिषु लोकेषु विश्रुतः ॥१॥
nirjitya daivata-gaṇān sa indrān saha marut-gaṇān . kārayāmāsa tat rājyam triṣu lokeṣu viśrutaḥ ..1..
यज्ञं चकार सुमहानसुरेन्द्रो महाबलः । बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः । समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे ॥१-२९-२५॥
यज्ञम् चकार सु महान् असुर-इन्द्रः महा-बलः । बलेः तु यजमानस्य देवाः स अग्नि-पुरोगमाः । समागम्य स्वयम् च एव विष्णुम् ऊचुः इह आश्रमे ॥१॥
yajñam cakāra su mahān asura-indraḥ mahā-balaḥ . baleḥ tu yajamānasya devāḥ sa agni-purogamāḥ . samāgamya svayam ca eva viṣṇum ūcuḥ iha āśrame ..1..
बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम् । असमाप्तव्रते तस्मिन् स्वकार्यमभिपद्यताम् ॥१-२९-२५॥
बलिः वैरोचनिः विष्णो यजते यज्ञम् उत्तमम् । अ समाप्त-व्रते तस्मिन् स्व-कार्यम् अभिपद्यताम् ॥१॥
baliḥ vairocaniḥ viṣṇo yajate yajñam uttamam . a samāpta-vrate tasmin sva-kāryam abhipadyatām ..1..
ये चैनमभिवर्तन्ते याचितार इतस्ततः । यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति ॥१-२९-२५॥
ये च एनम् अभिवर्तन्ते याचितारः इतस् ततस् । यत् च यत्र यथावत् च सर्वम् तेभ्यः प्रयच्छति ॥१॥
ye ca enam abhivartante yācitāraḥ itas tatas . yat ca yatra yathāvat ca sarvam tebhyaḥ prayacchati ..1..
स त्वं सुरहितार्थाय मायायोगमुपाश्रितः । वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम् ॥१-२९-२५॥
स त्वम् सुर-हित-अर्थाय माया-योगम् उपाश्रितः । वामन-त्वम् गतः विष्णो कुरु कल्याणम् उत्तमम् ॥१॥
sa tvam sura-hita-arthāya māyā-yogam upāśritaḥ . vāmana-tvam gataḥ viṣṇo kuru kalyāṇam uttamam ..1..
एतस्मिन्नन्तरे राम कश्यपोग्निसमप्रभः । अदित्या सहितो राम दीप्यमान इवौजसा ॥१-२९-१०॥
एतस्मिन् अन्तरे राम कश्यप-अग्नि-सम-प्रभः । अदित्या सहितः राम दीप्यमानः इव ओजसा ॥१॥
etasmin antare rāma kaśyapa-agni-sama-prabhaḥ . adityā sahitaḥ rāma dīpyamānaḥ iva ojasā ..1..
देवीसहायो भगवान् दिव्यं वर्षसहस्रकम् । व्रतं समाप्य वरदं तुष्टाव मधुसूदनम् ॥१-२९-११॥
देवी-सहायः भगवान् दिव्यम् वर्ष-सहस्रकम् । व्रतम् समाप्य वर-दम् तुष्टाव मधुसूदनम् ॥१॥
devī-sahāyaḥ bhagavān divyam varṣa-sahasrakam . vratam samāpya vara-dam tuṣṭāva madhusūdanam ..1..
तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम् । तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम् ॥१-२९-१२॥
तपः-मयम् तपः-राशिम् तपः-मूर्तिम् तप-आत्मकम् । तपसा त्वाम् सु तप्तेन पश्यामि पुरुषोत्तमम् ॥१॥
tapaḥ-mayam tapaḥ-rāśim tapaḥ-mūrtim tapa-ātmakam . tapasā tvām su taptena paśyāmi puruṣottamam ..1..
शरीरे तव पश्यामि जगत् सर्वमिदं प्रभो । त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः ॥१-२९-१३॥
शरीरे तव पश्यामि जगत् सर्वम् इदम् प्रभो । त्वम् अनादिः अनिर्देश्यः त्वाम् अहम् शरणम् गतः ॥१॥
śarīre tava paśyāmi jagat sarvam idam prabho . tvam anādiḥ anirdeśyaḥ tvām aham śaraṇam gataḥ ..1..
तमुवाच हरिः प्रीतः कश्यपं गतकल्मषम् । वरं वरय भद्रं ते वरार्होऽसि मतो मम ॥१-२९-१४॥
तम् उवाच हरिः प्रीतः कश्यपम् गत-कल्मषम् । वरम् वरय भद्रम् ते वर-अर्हः असि मतः मम ॥१॥
tam uvāca hariḥ prītaḥ kaśyapam gata-kalmaṣam . varam varaya bhadram te vara-arhaḥ asi mataḥ mama ..1..
तच्छ्रुत्वा वचनं तस्य मारीचः कश्यपोऽब्रवीत् । अदित्या देवतानां च मम चैवानुयाचितम् ॥१-२९-१५॥
तत् श्रुत्वा वचनम् तस्य मारीचः कश्यपः अब्रवीत् । अदित्याः देवतानाम् च मम च एव अनुयाचितम् ॥१॥
tat śrutvā vacanam tasya mārīcaḥ kaśyapaḥ abravīt . adityāḥ devatānām ca mama ca eva anuyācitam ..1..
वरं वरद सुप्रीतो दातुमर्हसि सुव्रत । पुत्रत्वं गच्छ भगवन्नदित्या मम चानघ ॥१-२९-१६॥
वरम् वर-द सु प्रीतः दातुम् अर्हसि सुव्रत । पुत्र-त्वम् गच्छ भगवन् अदित्याः मम च अनघ ॥१॥
varam vara-da su prītaḥ dātum arhasi suvrata . putra-tvam gaccha bhagavan adityāḥ mama ca anagha ..1..
भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन । शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि ॥१-२९-१७॥
भ्राता भव यवीयान् त्वम् शक्रस्य असुरसूदन । शोक-आर्तानाम् तु देवानाम् साहाय्यम् कर्तुम् अर्हसि ॥१॥
bhrātā bhava yavīyān tvam śakrasya asurasūdana . śoka-ārtānām tu devānām sāhāyyam kartum arhasi ..1..
अयं सिद्धाश्रमो नाम प्रसादात् ते भविष्यति । सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नितः ॥१-२९-१८॥
अयम् सिद्धाश्रमः नाम प्रसादात् ते भविष्यति । सिद्धे कर्मणि देवेशः उत्तिष्ठ भगवन् इतस् ॥१॥
ayam siddhāśramaḥ nāma prasādāt te bhaviṣyati . siddhe karmaṇi deveśaḥ uttiṣṭha bhagavan itas ..1..
अथ विष्णुर्महातेजा अदित्यां समजायत । वामनं रूपमास्थाय वैरोचनिमुपागमत् ॥१-२९-१९॥
अथ विष्णुः महा-तेजाः अदित्याम् समजायत । वामनम् रूपम् आस्थाय वैरोचनिम् उपागमत् ॥१॥
atha viṣṇuḥ mahā-tejāḥ adityām samajāyata . vāmanam rūpam āsthāya vairocanim upāgamat ..1..
त्रीन् पदानथ भिक्षित्वा प्रतिगृह्य च मेदिनीम् । आक्रम्य लोकाँल्लोकार्थी सर्वलोकहिते रतः ॥१-२९-२०॥
त्रीन् पदान् अथ भिक्षित्वा प्रतिगृह्य च मेदिनीम् । आक्रम्य लोकान् लोक-अर्थी सर्व-लोक-हिते रतः ॥१॥
trīn padān atha bhikṣitvā pratigṛhya ca medinīm . ākramya lokān loka-arthī sarva-loka-hite rataḥ ..1..
महेन्द्राय पुनः प्रादान्नियम्य बलिमोजसा । त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुनः ॥१-२९-२१॥
महा-इन्द्राय पुनर् प्रादात् नियम्य बलिम् ओजसा । त्रैलोक्यम् स महा-तेजाः चक्रे शक्र-वशम् पुनर् ॥१॥
mahā-indrāya punar prādāt niyamya balim ojasā . trailokyam sa mahā-tejāḥ cakre śakra-vaśam punar ..1..
तेनैव पूर्वमाक्रान्त आश्रमः श्रमनाशनः । मयापि भक्त्या तस्यैव वामनस्योपभुज्यते ॥१-२९-२२॥
तेन एव पूर्वम् आक्रान्तः आश्रमः श्रम-नाशनः । मया अपि भक्त्या तस्य एव वामनस्य उपभुज्यते ॥१॥
tena eva pūrvam ākrāntaḥ āśramaḥ śrama-nāśanaḥ . mayā api bhaktyā tasya eva vāmanasya upabhujyate ..1..
एनमाश्रममायान्ति राक्षसा विघ्नकारिणः । अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः ॥१-२९-२३॥
एनम् आश्रमम् आयान्ति राक्षसाः विघ्न-कारिणः । अत्र ते पुरुष-व्याघ्र हन्तव्याः दुष्ट-चारिणः ॥१॥
enam āśramam āyānti rākṣasāḥ vighna-kāriṇaḥ . atra te puruṣa-vyāghra hantavyāḥ duṣṭa-cāriṇaḥ ..1..
अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम् । तदाश्रमपदं तात तवाप्येतद् यथा मम ॥१-२९-२४॥
अद्य गच्छामहे राम सिद्धाश्रमम् अनुत्तमम् । तद्-आश्रम-पदम् तात तव अपि एतत् यथा मम ॥१॥
adya gacchāmahe rāma siddhāśramam anuttamam . tad-āśrama-padam tāta tava api etat yathā mama ..1..
इत्युक्त्वा परमप्रीतो गृह्य रामं सलक्ष्मणम् । प्रविशन्नाश्रमपदं व्यरोचत महामुनिः । शशीव गतनीहारः पुनर्वसुसमन्वितः ॥१-२९-२५॥
इति उक्त्वा परम-प्रीतः गृह्य रामम् स लक्ष्मणम् । प्रविशन् आश्रम-पदम् व्यरोचत महा-मुनिः । शशी इव गत-नीहारः पुनर्वसु-समन्वितः ॥१॥
iti uktvā parama-prītaḥ gṛhya rāmam sa lakṣmaṇam . praviśan āśrama-padam vyarocata mahā-muniḥ . śaśī iva gata-nīhāraḥ punarvasu-samanvitaḥ ..1..
तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः । उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन् ॥१-२९-२६॥
तम् दृष्ट्वा मुनयः सर्वे सिद्धाश्रम-निवासिनः । उत्पत्य उत्पत्य सहसा विश्वामित्रम् अपूजयन् ॥१॥
tam dṛṣṭvā munayaḥ sarve siddhāśrama-nivāsinaḥ . utpatya utpatya sahasā viśvāmitram apūjayan ..1..
यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते । तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् ॥१-२९-२७॥
यथार्हम् चक्रिरे पूजाम् विश्वामित्राय धीमते । तथा एव राज-पुत्राभ्याम् अकुर्वन् अतिथि-क्रियाम् ॥१॥
yathārham cakrire pūjām viśvāmitrāya dhīmate . tathā eva rāja-putrābhyām akurvan atithi-kriyām ..1..
मुहूर्तमथ विश्रान्तौ राजपुत्रावरिंदमौ । प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ ॥१-२९-२८॥
मुहूर्तम् अथ विश्रान्तौ राज-पुत्रौ अरिंदमौ । प्राञ्जली मुनि-शार्दूलम् ऊचतुः रघुनन्दनौ ॥१॥
muhūrtam atha viśrāntau rāja-putrau ariṃdamau . prāñjalī muni-śārdūlam ūcatuḥ raghunandanau ..1..
अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुङ्गव । सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव ॥१-२९-२९॥
अद्या एव दीक्षाम् प्रविश भद्रम् ते मुनि-पुङ्गव । सिद्धाश्रमः अयम् सिद्धः स्यात् सत्यम् अस्तु वचः तव ॥१॥
adyā eva dīkṣām praviśa bhadram te muni-puṅgava . siddhāśramaḥ ayam siddhaḥ syāt satyam astu vacaḥ tava ..1..
एवमुक्तो महातेजा विश्वामित्रो महानृषिः । प्रविवेश तदा दीक्षां नियतो नियतेन्द्रियः ॥१-२९-३०॥
एवम् उक्तः महा-तेजाः विश्वामित्रः महान् ऋषिः । प्रविवेश तदा दीक्षाम् नियतः नियत-इन्द्रियः ॥१॥
evam uktaḥ mahā-tejāḥ viśvāmitraḥ mahān ṛṣiḥ . praviveśa tadā dīkṣām niyataḥ niyata-indriyaḥ ..1..
कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ । प्रभातकाले चोत्थाय पूर्वां संध्यामुपास्य च ॥१-२९-३१॥
कुमारौ अपि ताम् रात्रिम् उषित्वा सु समाहितौ । प्रभात-काले च उत्थाय पूर्वाम् संध्याम् उपास्य च ॥१॥
kumārau api tām rātrim uṣitvā su samāhitau . prabhāta-kāle ca utthāya pūrvām saṃdhyām upāsya ca ..1..
प्रशुची परमं जाप्यं समाप्य नियमेन च । हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम् ॥१-२९-३२॥
प्रशुची परमम् जाप्यम् समाप्य नियमेन च । हुत-अग्निहोत्रम् आसीनम् विश्वामित्रम् अवन्दताम् ॥१॥
praśucī paramam jāpyam samāpya niyamena ca . huta-agnihotram āsīnam viśvāmitram avandatām ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनत्रिंशः सर्गः ॥१-२९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनत्रिंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekonatriṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In