This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे तृतीयः सर्गः ॥१-३॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे तृतीयः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe tṛtīyaḥ sargaḥ ..1..
श्रुत्वा वस्तु समग्रं तद्धर्मार्थसहितं हितम् । व्यक्तमन्वेषते भूयो यद् वृत्तं तस्य धीमतः ॥१-३-१॥
श्रुत्वा वस्तु समग्रम् तत् धर्म-अर्थ-सहितम् हितम् । व्यक्तम् अन्वेषते भूयस् यत् वृत्तम् तस्य धीमतः ॥१॥
śrutvā vastu samagram tat dharma-artha-sahitam hitam . vyaktam anveṣate bhūyas yat vṛttam tasya dhīmataḥ ..1..
उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः । प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ॥१-३-२॥
उपस्पृश्य उदकम् सम्यक् मुनिः स्थित्वा कृताञ्जलिः । प्राचीनाग्रेषु दर्भेषु धर्मेण अन्वेषते गतिम् ॥१॥
upaspṛśya udakam samyak muniḥ sthitvā kṛtāñjaliḥ . prācīnāgreṣu darbheṣu dharmeṇa anveṣate gatim ..1..
रामलक्ष्मणसीताभी राज्ञा दशरथेन च । सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः ॥१-३-३॥
राम-लक्ष्मण-सीताभिः राज्ञा दशरथेन च । स भार्येण स राष्ट्रेण यत् प्राप्तम् तत्र तत्त्वतः ॥१॥
rāma-lakṣmaṇa-sītābhiḥ rājñā daśarathena ca . sa bhāryeṇa sa rāṣṭreṇa yat prāptam tatra tattvataḥ ..1..
हसितं भाषितं चैव गतिर्यावच्च चेष्टितम् । तत् सर्वं धर्मवीर्येण यथावत् संप्रपश्यति ॥१-३-४॥
हसितम् भाषितम् च एव गतिः यावत् च चेष्टितम् । तत् सर्वम् धर्म-वीर्येण यथावत् संप्रपश्यति ॥१॥
hasitam bhāṣitam ca eva gatiḥ yāvat ca ceṣṭitam . tat sarvam dharma-vīryeṇa yathāvat saṃprapaśyati ..1..
स्त्रीतृतीयेन च तथा यत् प्राप्तं चरता वने । सत्यसन्धेन रामेण तत् सर्वं चान्ववैक्षत ॥१-३-५॥
स्त्री-तृतीयेन च तथा यत् प्राप्तम् चरता वने । सत्य-सन्धेन रामेण तत् सर्वम् च अन्ववैक्षत ॥१॥
strī-tṛtīyena ca tathā yat prāptam caratā vane . satya-sandhena rāmeṇa tat sarvam ca anvavaikṣata ..1..
ततः पश्यति धर्मात्मा तत् सर्वं योगमास्थितः । पुरा यत् तत्र निर्वृत्तं पाणावामलकं यथा ॥१-३-६॥
ततस् पश्यति धर्म-आत्मा तत् सर्वम् योगम् आस्थितः । पुरा यत् तत्र निर्वृत्तम् पाणौ आमलकम् यथा ॥१॥
tatas paśyati dharma-ātmā tat sarvam yogam āsthitaḥ . purā yat tatra nirvṛttam pāṇau āmalakam yathā ..1..
तत् सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महामतिः । अभिरामस्य रामस्य तत् सर्वं कर्तुमुद्यतः ॥१-३-७॥
तत् सर्वम् तत्त्वतः दृष्ट्वा धर्मेण स महामतिः । अभिरामस्य रामस्य तत् सर्वम् कर्तुम् उद्यतः ॥१॥
tat sarvam tattvataḥ dṛṣṭvā dharmeṇa sa mahāmatiḥ . abhirāmasya rāmasya tat sarvam kartum udyataḥ ..1..
कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् । समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ॥१-३-८॥
काम-अर्थ-गुण-संयुक्तम् धर्म-अर्थ-गुण-विस्तरम् । समुद्रम् इव रत्न-आढ्यम् सर्व-श्रुति-मनोहरम् ॥१॥
kāma-artha-guṇa-saṃyuktam dharma-artha-guṇa-vistaram . samudram iva ratna-āḍhyam sarva-śruti-manoharam ..1..
स यथा कथितं पूर्वं नारदेन महात्मना । रघुवंशस्य चरितं चकार भगवान् मुनिः ॥१-३-९॥
स यथा कथितम् पूर्वम् नारदेन महात्मना । रघु-वंशस्य चरितम् चकार भगवान् मुनिः ॥१॥
sa yathā kathitam pūrvam nāradena mahātmanā . raghu-vaṃśasya caritam cakāra bhagavān muniḥ ..1..
जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् । लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥१-३-१०॥
जन्म रामस्य सु महत् वीर्यम् सर्व-अनुकूल-ताम् । लोकस्य प्रिय-ताम् क्षान्तिम् सौम्य-ताम् सत्य-शील-ताम् ॥१॥
janma rāmasya su mahat vīryam sarva-anukūla-tām . lokasya priya-tām kṣāntim saumya-tām satya-śīla-tām ..1..
नाना चित्राः कथाश्चान्या विश्वामित्रसहायने । जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥१-३-११॥
नाना चित्राः कथाः च अन्याः विश्वामित्र-सहायने । जानक्याः च विवाहम् च धनुषः च विभेदनम् ॥१॥
nānā citrāḥ kathāḥ ca anyāḥ viśvāmitra-sahāyane . jānakyāḥ ca vivāham ca dhanuṣaḥ ca vibhedanam ..1..
रामरामविवादं च गुणान् दाशरथेस्तथा । तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥१-३-१२॥
राम-राम-विवादम् च गुणान् दाशरथेः तथा । तथा अभिषेकम् रामस्य कैकेय्याः दुष्ट-भावताम् ॥१॥
rāma-rāma-vivādam ca guṇān dāśaratheḥ tathā . tathā abhiṣekam rāmasya kaikeyyāḥ duṣṭa-bhāvatām ..1..
विघातं चाभिषेकस्य रामस्य च विवासनम् । राज्ञः शोकं विलापं च परलोकस्य चाश्रयम् ॥१-३-१३॥
विघातम् च अभिषेकस्य रामस्य च विवासनम् । राज्ञः शोकम् विलापम् च पर-लोकस्य च आश्रयम् ॥१॥
vighātam ca abhiṣekasya rāmasya ca vivāsanam . rājñaḥ śokam vilāpam ca para-lokasya ca āśrayam ..1..
प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् । निषादाधिपसंवादं सूतोपावर्तनं तथा ॥१-३-१४॥
प्रकृतीनाम् विषादम् च प्रकृतीनाम् विसर्जनम् । निषाद-अधिप-संवादम् सूत-उपावर्तनम् तथा ॥१॥
prakṛtīnām viṣādam ca prakṛtīnām visarjanam . niṣāda-adhipa-saṃvādam sūta-upāvartanam tathā ..1..
गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम् । भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥१-३-१५॥
गङ्गायाः च अपि संतारम् भरद्वाजस्य दर्शनम् । भरद्वाज-अभ्यनुज्ञानात् चित्रकूटस्य दर्शनम् ॥१॥
gaṅgāyāḥ ca api saṃtāram bharadvājasya darśanam . bharadvāja-abhyanujñānāt citrakūṭasya darśanam ..1..
वास्तुकर्म निवेशं च भरतागमनं तथा । प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥१-३-१६॥
वास्तु-कर्म निवेशम् च भरत-आगमनम् तथा । प्रसादनम् च रामस्य पितुः च सलिलक्रियाम् ॥१॥
vāstu-karma niveśam ca bharata-āgamanam tathā . prasādanam ca rāmasya pituḥ ca salilakriyām ..1..
पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् । दण्डकारण्यगमनं विराधस्य वधं तथा ॥१-३-१७॥
पादुका-अग्र्य-अभिषेकम् च नन्दिग्राम-निवासनम् । दण्डक-अरण्य-गमनम् विराधस्य वधम् तथा ॥१॥
pādukā-agrya-abhiṣekam ca nandigrāma-nivāsanam . daṇḍaka-araṇya-gamanam virādhasya vadham tathā ..1..
दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम्अनसूयासमाख्यां च अङ्गरागस्य चार्पणम् ॥१-३-१८॥
दर्शनम् शरभङ्गस्य सुतीक्ष्णेन समागमम् अनसूया-समाख्याम् च अङ्गरागस्य च अर्पणम् ॥१॥
darśanam śarabhaṅgasya sutīkṣṇena samāgamam anasūyā-samākhyām ca aṅgarāgasya ca arpaṇam ..1..
दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा । शूर्पणख्याश्च संवादं विरूपकरणं तथा ॥१-३-१९॥
दर्शनम् च अपि अगस्त्यस्य धनुषः ग्रहणम् तथा । शूर्पणख्याः च संवादम् विरूप-करणम् तथा ॥१॥
darśanam ca api agastyasya dhanuṣaḥ grahaṇam tathā . śūrpaṇakhyāḥ ca saṃvādam virūpa-karaṇam tathā ..1..
वधं खरत्रिशिरसोरुत्थानं रावणस्य च । मारीचस्य वधं चैव वैदेह्या हरणं तथा ॥१-३-२०॥
वधम् खर-त्रिशिरसोः उत्थानम् रावणस्य च । मारीचस्य वधम् च एव वैदेह्याः हरणम् तथा ॥१॥
vadham khara-triśirasoḥ utthānam rāvaṇasya ca . mārīcasya vadham ca eva vaidehyāḥ haraṇam tathā ..1..
राघवस्य विलापं च गृध्रराजनिबर्हणम् । कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ॥१-३-२१॥
राघवस्य विलापम् च गृध्र-राज-निबर्हणम् । कबन्ध-दर्शनम् च एव पम्पायाः च अपि दर्शनम् ॥१॥
rāghavasya vilāpam ca gṛdhra-rāja-nibarhaṇam . kabandha-darśanam ca eva pampāyāḥ ca api darśanam ..1..
शबरीदर्शनं चैव फलमूलाशनं तथा । प्रलापं चैव पम्पायां हनूमद्दर्शनं तथा ॥१-३-२२॥
शबरी-दर्शनम् च एव फल-मूल-अशनम् तथा । प्रलापम् च एव पम्पायाम् हनूमत्-दर्शनम् तथा ॥१॥
śabarī-darśanam ca eva phala-mūla-aśanam tathā . pralāpam ca eva pampāyām hanūmat-darśanam tathā ..1..
ऋष्यमूकस्य गमनं सुग्रीवेण समागमम् । प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥१-३-२३॥
ऋष्यमूकस्य गमनम् सुग्रीवेण समागमम् । प्रत्यय-उत्पादनम् सख्यम् वालि-सुग्रीव-विग्रहम् ॥१॥
ṛṣyamūkasya gamanam sugrīveṇa samāgamam . pratyaya-utpādanam sakhyam vāli-sugrīva-vigraham ..1..
वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् । ताराविलापं समयं वर्षरात्रनिवासनम् ॥१-३-२४॥
वालि-प्रमथनम् च एव सुग्रीव-प्रतिपादनम् । तारा-विलापम् समयम् वर्ष-रात्र-निवासनम् ॥१॥
vāli-pramathanam ca eva sugrīva-pratipādanam . tārā-vilāpam samayam varṣa-rātra-nivāsanam ..1..
कोपं राघवसिंहस्य बलानामुपसंग्रहम् । दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥१-३-२५॥
कोपम् राघव-सिंहस्य बलानाम् उपसंग्रहम् । दिशः प्रस्थापनम् च एव पृथिव्याः च निवेदनम् ॥१॥
kopam rāghava-siṃhasya balānām upasaṃgraham . diśaḥ prasthāpanam ca eva pṛthivyāḥ ca nivedanam ..1..
अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् । प्रायोपवेशनं चैव संपातेश्चापि दर्शनम् ॥१-३-२६॥
अङ्गुलीयक-दानम् च ऋक्षस्य बिल-दर्शनम् । प्राय-उपवेशनम् च एव संपातेः च अपि दर्शनम् ॥१॥
aṅgulīyaka-dānam ca ṛkṣasya bila-darśanam . prāya-upaveśanam ca eva saṃpāteḥ ca api darśanam ..1..
पर्वतारोहणं चैव सागरस्यापि लङ्घनम् । समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥१-३-२७॥
पर्वत-आरोहणम् च एव सागरस्य अपि लङ्घनम् । समुद्र-वचनात् च एव मैनाकस्य च दर्शनम् ॥१॥
parvata-ārohaṇam ca eva sāgarasya api laṅghanam . samudra-vacanāt ca eva mainākasya ca darśanam ..1..
राक्षसीतर्जनं चैव च्छायाग्राहस्य दर्शनम् । सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ॥१-३-२८॥
राक्षसी-तर्जनम् च एव छाया-ग्राहस्य दर्शनम् । सिंहिकायाः च निधनम् लङ्का-मलय-दर्शनम् ॥१॥
rākṣasī-tarjanam ca eva chāyā-grāhasya darśanam . siṃhikāyāḥ ca nidhanam laṅkā-malaya-darśanam ..1..
रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम् । आपानभूमिगमनमवरोधस्य दर्शनम् ॥१-३-२९॥
रात्रौ लङ्का-प्रवेशम् च एकस्य अपि विचिन्तनम् । आपानभूमि-गमनम् अवरोधस्य दर्शनम् ॥१॥
rātrau laṅkā-praveśam ca ekasya api vicintanam . āpānabhūmi-gamanam avarodhasya darśanam ..1..
दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् । अशोकवनिकायानं सीतायाश्चापि दर्शनम् ॥१-३-३०॥
दर्शनम् रावणस्य अपि पुष्पकस्य च दर्शनम् । अशोक-वनिका-यानम् सीतायाः च अपि दर्शनम् ॥१॥
darśanam rāvaṇasya api puṣpakasya ca darśanam . aśoka-vanikā-yānam sītāyāḥ ca api darśanam ..1..
अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम् । राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ॥१-३-३१॥
अभिज्ञान-प्रदानम् च सीतायाः च अपि भाषणम् । राक्षसी-तर्जनम् च एव त्रिजटा-स्वप्न-दर्शनम् ॥१॥
abhijñāna-pradānam ca sītāyāḥ ca api bhāṣaṇam . rākṣasī-tarjanam ca eva trijaṭā-svapna-darśanam ..1..
मणिप्रदानं सीताया वृक्षभङ्गं तथैव च । राक्षसीविद्रवं चैव किंकराणां निबर्हणम् ॥१-३-३२॥
मणि-प्रदानम् सीतायाः वृक्षभङ्गम् तथा एव च । राक्षसी-विद्रवम् च एव किंकराणाम् निबर्हणम् ॥१॥
maṇi-pradānam sītāyāḥ vṛkṣabhaṅgam tathā eva ca . rākṣasī-vidravam ca eva kiṃkarāṇām nibarhaṇam ..1..
ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् । प्रतिप्लवनमेवाथ मधूनां हरणं तथा ॥१-३-३३॥
ग्रहणम् वायुसूनोः च लङ्का-दाह-अभिगर्जनम् । प्रतिप्लवनम् एव अथ मधूनाम् हरणम् तथा ॥१॥
grahaṇam vāyusūnoḥ ca laṅkā-dāha-abhigarjanam . pratiplavanam eva atha madhūnām haraṇam tathā ..1..
राघवाश्वासनं चैव मणिनिर्यातनं तथा । संगमं च समुद्रेण नलसेतोश्च बन्धनम् ॥१-३-३४॥
राघव-आश्वासनम् च एव मणि-निर्यातनम् तथा । संगमम् च समुद्रेण नलसेतोः च बन्धनम् ॥१॥
rāghava-āśvāsanam ca eva maṇi-niryātanam tathā . saṃgamam ca samudreṇa nalasetoḥ ca bandhanam ..1..
प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् । विभीषणेन संसर्गं वधोपायनिवेदनम् ॥१-३-३५॥
प्रतारम् च समुद्रस्य रात्रौ लङ्का-अवरोधनम् । विभीषणेन संसर्गम् वध-उपाय-निवेदनम् ॥१॥
pratāram ca samudrasya rātrau laṅkā-avarodhanam . vibhīṣaṇena saṃsargam vadha-upāya-nivedanam ..1..
कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् । रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥१-३-३६॥
कुम्भकर्णस्य निधनम् मेघनाद-निबर्हणम् । रावणस्य विनाशम् च सीता-अवाप्तिम् अरेः पुरे ॥१॥
kumbhakarṇasya nidhanam meghanāda-nibarhaṇam . rāvaṇasya vināśam ca sītā-avāptim areḥ pure ..1..
बिभीषणाभिषेकं च पुष्पकस्य च दर्शनम् । अयोध्यायाश्च गमनं भरद्वाजसमागमम् ॥१-३-३७॥
बिभीषण-अभिषेकम् च पुष्पकस्य च दर्शनम् । अयोध्यायाः च गमनम् भरद्वाज-समागमम् ॥१॥
bibhīṣaṇa-abhiṣekam ca puṣpakasya ca darśanam . ayodhyāyāḥ ca gamanam bharadvāja-samāgamam ..1..
प्रेषणं वायुपुत्रस्य भरतेन समागमम् । रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् । स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥१-३-३८॥
प्रेषणम् वायुपुत्रस्य भरतेन समागमम् । राम-अभिषेक-अभ्युदयम् सर्व-सैन्य-विसर्जनम् । स्व-राष्ट्र-रञ्जनम् च एव वैदेह्याः च विसर्जनम् ॥१॥
preṣaṇam vāyuputrasya bharatena samāgamam . rāma-abhiṣeka-abhyudayam sarva-sainya-visarjanam . sva-rāṣṭra-rañjanam ca eva vaidehyāḥ ca visarjanam ..1..
अनागतं च यत् किंचिद् रामस्य वसुधातले । तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥१-३-३९॥
अनागतम् च यत् किंचिद् रामस्य वसुधा-तले । तत् चकार उत्तरे काव्ये वाल्मीकिः भगवान् ऋषिः ॥१॥
anāgatam ca yat kiṃcid rāmasya vasudhā-tale . tat cakāra uttare kāvye vālmīkiḥ bhagavān ṛṣiḥ ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे तृतीयः सर्गः ॥१-३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे तृतीयः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe tṛtīyaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In