This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकत्रिंशः सर्गः ॥१-३१॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे एकत्रिंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe ekatriṃśaḥ sargaḥ ..1..
अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ । ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ॥१-३१-१॥
अथ ताम् रजनीम् तत्र कृतार्थौ राम-लक्षणौ । ऊषतुः मुदितौ वीरौ प्रहृष्टेन अन्तरात्मना ॥१॥
atha tām rajanīm tatra kṛtārthau rāma-lakṣaṇau . ūṣatuḥ muditau vīrau prahṛṣṭena antarātmanā ..1..
प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ । विश्वामित्रमृषींश्चान्यान्सहितावभिजग्मतुः ॥१-३१-२॥
प्रभातायाम् तु शर्वर्याम् कृत-पौर्वाह्णिक-क्रियौ । विश्वामित्रम् ऋषीन् च अन्यान् सहितौ अभिजग्मतुः ॥१॥
prabhātāyām tu śarvaryām kṛta-paurvāhṇika-kriyau . viśvāmitram ṛṣīn ca anyān sahitau abhijagmatuḥ ..1..
अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् । ऊचतुर्परमोदारं वाक्यं मधुरभाषिणौ ॥१-३१-३॥
अभिवाद्य मुनि-श्रेष्ठम् ज्वलन्तम् इव पावकम् । ऊचतुः परम-उदारम् वाक्यम् मधुर-भाषिणौ ॥१॥
abhivādya muni-śreṣṭham jvalantam iva pāvakam . ūcatuḥ parama-udāram vākyam madhura-bhāṣiṇau ..1..
इमौ स्म मुनिशार्दूल किङ्करौ समुपागतौ । आज्ञापय मुनिश्रेष्ठ शासनं करवाव किम् ॥१-३१-४॥
इमौ स्म मुनि-शार्दूल किङ्करौ समुपागतौ । आज्ञापय मुनि-श्रेष्ठ शासनम् करवाव किम् ॥१॥
imau sma muni-śārdūla kiṅkarau samupāgatau . ājñāpaya muni-śreṣṭha śāsanam karavāva kim ..1..
एवमुक्ते तयोर्वाक्ये सर्व एव महर्षयः । विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ॥१-३१-५॥
एवम् उक्ते तयोः वाक्ये सर्वे एव महा-ऋषयः । विश्वामित्रम् पुरस्कृत्य रामम् वचनम् अब्रुवन् ॥१॥
evam ukte tayoḥ vākye sarve eva mahā-ṛṣayaḥ . viśvāmitram puraskṛtya rāmam vacanam abruvan ..1..
मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति । यज्ञः परमधर्मिष्ठस्तत्र यास्यामहे वयम् ॥१-३१-६॥
मैथिलस्य नर-श्रेष्ठ जनकस्य भविष्यति । यज्ञः परम-धर्मिष्ठः तत्र यास्यामहे वयम् ॥१॥
maithilasya nara-śreṣṭha janakasya bhaviṣyati . yajñaḥ parama-dharmiṣṭhaḥ tatra yāsyāmahe vayam ..1..
त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि । अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुमर्हसि ॥१-३१-७॥
त्वम् च एव नर-शार्दूल सह अस्माभिः गमिष्यसि । अद्भुतम् च तत्र त्वम् द्रष्टुम् अर्हसि ॥१॥
tvam ca eva nara-śārdūla saha asmābhiḥ gamiṣyasi . adbhutam ca tatra tvam draṣṭum arhasi ..1..
तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः । अप्रमेयबलं घोरं मखे परमभास्वरम् ॥१-३१-८॥
तत् हि पूर्वम् नर-श्रेष्ठ दत्तम् सदसि दैवतैः । अप्रमेय-बलम् घोरम् मखे परम-भास्वरम् ॥१॥
tat hi pūrvam nara-śreṣṭha dattam sadasi daivataiḥ . aprameya-balam ghoram makhe parama-bhāsvaram ..1..
नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः । कर्तुमारोपणं शक्ता न कथञ्चन मानुषाः ॥१-३१-९॥
न अस्य देवाः न गन्धर्वाः न असुराः न च राक्षसाः । कर्तुम् आरोपणम् शक्ताः न कथञ्चन मानुषाः ॥१॥
na asya devāḥ na gandharvāḥ na asurāḥ na ca rākṣasāḥ . kartum āropaṇam śaktāḥ na kathañcana mānuṣāḥ ..1..
धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः । न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥१-३१-१०॥
धनुषः तस्य वीर्यम् हि जिज्ञासन्तः महीक्षितः । न शेकुः आरोपयितुम् राज-पुत्राः महा-बलाः ॥१॥
dhanuṣaḥ tasya vīryam hi jijñāsantaḥ mahīkṣitaḥ . na śekuḥ āropayitum rāja-putrāḥ mahā-balāḥ ..1..
तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः । तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं च परमाद्भुतम् ॥१-३१-११॥
तत् धनुः नर-शार्दूल मैथिलस्य महात्मनः । तत्र द्रक्ष्यसि काकुत्स्थ यज्ञम् च परम-अद्भुतम् ॥१॥
tat dhanuḥ nara-śārdūla maithilasya mahātmanaḥ . tatra drakṣyasi kākutstha yajñam ca parama-adbhutam ..1..
तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः । याचितं नरशार्दूल सुनाभं सर्वदैवतैः ॥१-३१-१२॥
तत् हि यज्ञ-फलम् तेन मैथिलेन उत्तमम् धनुः । याचितम् नर-शार्दूल सुनाभम् सर्व-दैवतैः ॥१॥
tat hi yajña-phalam tena maithilena uttamam dhanuḥ . yācitam nara-śārdūla sunābham sarva-daivataiḥ ..1..
आयागभूतं नृपतेस्तस्य वेश्मनि राघव । अर्चितं विविधैर्गन्धैर्धूपैश्चागुरुगन्धिभिः ॥१-३१-१३
आयाग-भूतम् नृपतेः तस्य वेश्मनि राघव । अर्चितम् विविधैः गन्धैः धूपैः च अगुरु-गन्धिभिः ॥१
āyāga-bhūtam nṛpateḥ tasya veśmani rāghava . arcitam vividhaiḥ gandhaiḥ dhūpaiḥ ca aguru-gandhibhiḥ ..1
एवमुक्त्वा मुनिवरः प्रस्थानमकरोत् तदा । सर्षिसङ्घः सकाकुत्स्थ आमन्त्र्य वनदेताः ॥१-३१-१४॥
एवम् उक्त्वा मुनि-वरः प्रस्थानम् अकरोत् तदा । स ऋषि-सङ्घः स काकुत्स्थः आमन्त्र्य वन-देताः ॥१॥
evam uktvā muni-varaḥ prasthānam akarot tadā . sa ṛṣi-saṅghaḥ sa kākutsthaḥ āmantrya vana-detāḥ ..1..
स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम् । उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् ॥१-३१-१५॥
स्वस्ति वः अस्तु गमिष्यामि सिद्धः सिद्धाश्रमात् अहम् । उत्तरे जाह्नवी-तीरे हिमवन्तम् शिलोच्चयम् ॥१॥
svasti vaḥ astu gamiṣyāmi siddhaḥ siddhāśramāt aham . uttare jāhnavī-tīre himavantam śiloccayam ..1..
इत्युक्त्वा मुनिशार्दूलः कौशिकः स तपोधनः । उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥१-३१-१६॥
इति उक्त्वा मुनि-शार्दूलः कौशिकः स तपोधनः । उत्तराम् दिशम् उद्दिश्य प्रस्थातुम् उपचक्रमे ॥१॥
iti uktvā muni-śārdūlaḥ kauśikaḥ sa tapodhanaḥ . uttarām diśam uddiśya prasthātum upacakrame ..1..
तं व्रजन्तं मुनिवरमन्वगादनुसारिणाम् । शकटीशतमात्रं तु प्रयाणे ब्रह्मवादिनाम् ॥१-३१-१७॥
तम् व्रजन्तम् मुनि-वरम् अन्वगात् अनुसारिणाम् । शकटी-शत-मात्रम् तु प्रयाणे ब्रह्म-वादिनाम् ॥१॥
tam vrajantam muni-varam anvagāt anusāriṇām . śakaṭī-śata-mātram tu prayāṇe brahma-vādinām ..1..
मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः । अनुजग्मुर्महात्मानं विश्वामित्रं तपोधनम् ॥१-३१-१८॥
मृग-पक्षि-गणाः च एव सिद्धाश्रम-निवासिनः । अनुजग्मुः महात्मानम् विश्वामित्रम् तपोधनम् ॥१॥
mṛga-pakṣi-gaṇāḥ ca eva siddhāśrama-nivāsinaḥ . anujagmuḥ mahātmānam viśvāmitram tapodhanam ..1..
निवर्तयामास ततः स ऋषि सन्घः स पक्षिणः । ते गत्वा दूरम् अध्वानम् लम्बमाने दिवाकरे ॥१-३१-१९॥
निवर्तयामास ततस् स ऋषि-सन्घः स पक्षिणः । ते गत्वा दूरम् अध्वानम् लम्बमाने दिवाकरे ॥१॥
nivartayāmāsa tatas sa ṛṣi-sanghaḥ sa pakṣiṇaḥ . te gatvā dūram adhvānam lambamāne divākare ..1..
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे । वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः ॥१-३१-१९॥
ते गत्वा दूरम् अध्वानम् लम्बमाने दिवाकरे । वासम् चक्रुः मुनि-गणाः शोणा-कूले समाहिताः ॥१॥
te gatvā dūram adhvānam lambamāne divākare . vāsam cakruḥ muni-gaṇāḥ śoṇā-kūle samāhitāḥ ..1..
तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः । विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ॥१-३१-२०॥
ते अस्तम् गते दिनकरे स्नात्वा हुत-हुताशनाः । विश्वामित्रम् पुरस्कृत्य निषेदुः अमित-ओजसः ॥१॥
te astam gate dinakare snātvā huta-hutāśanāḥ . viśvāmitram puraskṛtya niṣeduḥ amita-ojasaḥ ..1..
रामोऽपि सहसौमित्रिर्मुनींस्तानभिपूज्य च । अग्रतो निषसादाथ विश्वामित्रस्य धीमतः ॥१-३१-२१॥
रामः अपि सहसौमित्रिः मुनीन् तान् अभिपूज्य च । अग्रतस् निषसाद अथ विश्वामित्रस्य धीमतः ॥१॥
rāmaḥ api sahasaumitriḥ munīn tān abhipūjya ca . agratas niṣasāda atha viśvāmitrasya dhīmataḥ ..1..
अथ रामो महातेजा विश्वामित्रं तपोधनम् । पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितम् ॥१-३१-२२॥
अथ रामः महा-तेजाः विश्वामित्रम् तपोधनम् । पप्रच्छ मुनि-शार्दूलम् कौतूहल-समन्वितम् ॥१॥
atha rāmaḥ mahā-tejāḥ viśvāmitram tapodhanam . papraccha muni-śārdūlam kautūhala-samanvitam ..1..
भगवन् को न्वयं देशः समृद्धवनशोभितः । श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः ॥१-३१-२३॥
भगवन् कः नु अयम् देशः समृद्ध-वन-शोभितः । श्रोतुम् इच्छामि भद्रम् ते वक्तुम् अर्हसि तत्त्वतः ॥१॥
bhagavan kaḥ nu ayam deśaḥ samṛddha-vana-śobhitaḥ . śrotum icchāmi bhadram te vaktum arhasi tattvataḥ ..1..
चोदितो रामवाक्येन कथयामास सुव्रतः । तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥१-३१-२४॥
चोदितः राम-वाक्येन कथयामास सुव्रतः । तस्य देशस्य निखिल-मृषि-मध्ये महा-तपाः ॥१॥
coditaḥ rāma-vākyena kathayāmāsa suvrataḥ . tasya deśasya nikhila-mṛṣi-madhye mahā-tapāḥ ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकत्रिंशः सर्गः ॥१-३१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकत्रिंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekatriṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In