This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३३॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे त्रयस्त्रिंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe trayastriṃśaḥ sargaḥ ..1..
तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः । शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ॥१-३३-१॥
तस्य तत् वचनम् श्रुत्वा कुशनाभस्य धीमतः । शिरोभिः चरणौ स्पृष्ट्वा कन्या-शतम् अभाषत ॥१॥
tasya tat vacanam śrutvā kuśanābhasya dhīmataḥ . śirobhiḥ caraṇau spṛṣṭvā kanyā-śatam abhāṣata ..1..
वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति । अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ॥१-३३-२॥
वायुः सर्व-आत्मकः राजन् प्रधर्षयितुम् इच्छति । अशुभम् मार्गम् आस्थाय न धर्मम् प्रत्यवेक्षते ॥१॥
vāyuḥ sarva-ātmakaḥ rājan pradharṣayitum icchati . aśubham mārgam āsthāya na dharmam pratyavekṣate ..1..
पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः । पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥१-३३-३॥
पितृमत्यः स्म भद्रम् ते स्वच्छन्दे न वयम् स्थिताः । पितरम् नः वृणीष्व त्वम् यदि नः दास्यते तव ॥१॥
pitṛmatyaḥ sma bhadram te svacchande na vayam sthitāḥ . pitaram naḥ vṛṇīṣva tvam yadi naḥ dāsyate tava ..1..
तेन पापानुबन्धेन वचनं न प्रतीच्छता । एवं ब्रुवन्त्यः सर्वाः स्म वायुनाभिहता भृशम् ॥१-३३-४॥
तेन पाप-अनुबन्धेन वचनम् न प्रतीच्छता । एवम् ब्रुवन्त्यः सर्वाः स्म वायुना अभिहताः भृशम् ॥१॥
tena pāpa-anubandhena vacanam na pratīcchatā . evam bruvantyaḥ sarvāḥ sma vāyunā abhihatāḥ bhṛśam ..1..
तासां तु वचनं श्रुत्वा राजा परमधार्मिकः । प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ॥१-३३-५॥
तासाम् तु वचनम् श्रुत्वा राजा परम-धार्मिकः । प्रत्युवाच महा-तेजाः कन्या-शतम् अनुत्तमम् ॥१॥
tāsām tu vacanam śrutvā rājā parama-dhārmikaḥ . pratyuvāca mahā-tejāḥ kanyā-śatam anuttamam ..1..
क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम् । ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥१-३३-६॥
क्षान्तम् क्षमावताम् पुत्र्यः कर्तव्यम् सु महत् कृतम् । ऐकमत्यम् उपागम्य कुलम् च अवेक्षितम् मम ॥१॥
kṣāntam kṣamāvatām putryaḥ kartavyam su mahat kṛtam . aikamatyam upāgamya kulam ca avekṣitam mama ..1..
अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा । दुष्करं तच्च वै क्षान्तं त्रिदशेषु विशेषतः ॥१-३३-७॥
अलङ्कारः हि नारीणाम् क्षमा तु पुरुषस्य वा । दुष्करम् तत् च वै क्षान्तम् त्रिदशेषु विशेषतः ॥१॥
alaṅkāraḥ hi nārīṇām kṣamā tu puruṣasya vā . duṣkaram tat ca vai kṣāntam tridaśeṣu viśeṣataḥ ..1..
यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः । क्षमा दानं क्षमा सत्यं क्षमा यज्ञाश्च पुत्रिकाः ॥१-३३-८॥
यादृशी वः क्षमा पुत्र्यः सर्वासाम् अविशेषतः । क्षमा दानम् क्षमा सत्यम् क्षमा यज्ञाः च पुत्रिकाः ॥१॥
yādṛśī vaḥ kṣamā putryaḥ sarvāsām aviśeṣataḥ . kṣamā dānam kṣamā satyam kṣamā yajñāḥ ca putrikāḥ ..1..
क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् । विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः ॥१-३३-९॥
क्षमा यशः क्षमा धर्मः क्षमायाम् विष्ठितम् जगत् । विसृज्य कन्याः काकुत्स्थ राजा त्रिदश-विक्रमः ॥१॥
kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyām viṣṭhitam jagat . visṛjya kanyāḥ kākutstha rājā tridaśa-vikramaḥ ..1..
मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः । देशे काले च कर्तव्यं सदृशे प्रतिपादनम् ॥१-३३-१०॥
मन्त्र-ज्ञः मन्त्रयामास प्रदानम् सह मन्त्रिभिः । देशे काले च कर्तव्यम् सदृशे प्रतिपादनम् ॥१॥
mantra-jñaḥ mantrayāmāsa pradānam saha mantribhiḥ . deśe kāle ca kartavyam sadṛśe pratipādanam ..1..
एतस्मिन्नेव काले तु चूली नाम महाद्युतिःऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् ॥१-३३-११॥
एतस्मिन् एव काले तु चूली नाम महा-द्युतिः ऊर्ध्वरेताः शुभ-आचारः ब्राह्मम् तपः उपागमत् ॥१॥
etasmin eva kāle tu cūlī nāma mahā-dyutiḥ ūrdhvaretāḥ śubha-ācāraḥ brāhmam tapaḥ upāgamat ..1..
तपस्यन्तमृषिं तत्र गन्धर्वी पर्युपासते । सोमदा नाम भद्रं ते ऊर्मिलातनया तदा ॥१-३३-१२॥
तपस्यन्तम् ऋषिम् तत्र गन्धर्वी पर्युपासते । सोमदा नाम भद्रम् ते ऊर्मिला-तनया तदा ॥१॥
tapasyantam ṛṣim tatra gandharvī paryupāsate . somadā nāma bhadram te ūrmilā-tanayā tadā ..1..
सा च तं प्रणता भूत्वा शुश्रूषणपरायणा । उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद् गुरुः ॥१-३३-१३॥
सा च तम् प्रणता भूत्वा शुश्रूषण-परायणा । उवास काले धर्मिष्ठा तस्याः तुष्टः अभवत् गुरुः ॥१॥
sā ca tam praṇatā bhūtvā śuśrūṣaṇa-parāyaṇā . uvāsa kāle dharmiṣṭhā tasyāḥ tuṣṭaḥ abhavat guruḥ ..1..
स च तां कालयोगेन प्रोवाच रघुनन्दन । परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम् ॥१-३३-१४॥
स च ताम् काल-योगेन प्रोवाच रघुनन्दन । परितुष्टः अस्मि भद्रम् ते किम् करोमि तव प्रियम् ॥१॥
sa ca tām kāla-yogena provāca raghunandana . parituṣṭaḥ asmi bhadram te kim karomi tava priyam ..1..
परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम् । उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ॥१-३३-१५॥
परितुष्टम् मुनिम् ज्ञात्वा गन्धर्वी मधुर-स्वरम् । उवाच परम-प्रीताः वाक्य-ज्ञाः वाक्य-कोविदम् ॥१॥
parituṣṭam munim jñātvā gandharvī madhura-svaram . uvāca parama-prītāḥ vākya-jñāḥ vākya-kovidam ..1..
लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः । ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम् ॥१-३३-१६॥
लक्ष्म्या समुदितः ब्राह्म्या ब्रह्म-भूतः महा-तपाः । ब्राह्मेण तपसा युक्तम् पुत्रम् इच्छामि धार्मिकम् ॥१॥
lakṣmyā samuditaḥ brāhmyā brahma-bhūtaḥ mahā-tapāḥ . brāhmeṇa tapasā yuktam putram icchāmi dhārmikam ..1..
अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित् । ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् ॥१-३३-१७॥
अपतिः च अस्मि भद्रम् ते भार्या च अस्मि न कस्यचिद् । ब्राह्मेण उपगतायाः च दातुम् अर्हसि मे सुतम् ॥१॥
apatiḥ ca asmi bhadram te bhāryā ca asmi na kasyacid . brāhmeṇa upagatāyāḥ ca dātum arhasi me sutam ..1..
तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ ब्राह्ममनुत्तमम् । ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ॥१-३३-१८॥
तस्याः प्रसन्नः ब्रह्मर्षिः ददौ ब्राह्मम् अनुत्तमम् । ब्रह्मदत्तः इति ख्यातम् मानसम् चूलिनः सुतम् ॥१॥
tasyāḥ prasannaḥ brahmarṣiḥ dadau brāhmam anuttamam . brahmadattaḥ iti khyātam mānasam cūlinaḥ sutam ..1..
स राजा ब्रह्मदत्तस्तु पुरीमध्यवसत् तदा । काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥१-३३-१९॥
स राजा ब्रह्मदत्तः तु पुरीम् अध्यवसत् तदा । काम्पिल्याम् परया लक्ष्म्या देवराजः यथा दिवम् ॥१॥
sa rājā brahmadattaḥ tu purīm adhyavasat tadā . kāmpilyām parayā lakṣmyā devarājaḥ yathā divam ..1..
स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः । ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा ॥१-३३-२०॥
स बुद्धिम् कृतवान् राजा कुशनाभः सु धार्मिकः । ब्रह्मदत्ताय काकुत्स्थ दातुम् कन्या-शतम् तदा ॥१॥
sa buddhim kṛtavān rājā kuśanābhaḥ su dhārmikaḥ . brahmadattāya kākutstha dātum kanyā-śatam tadā ..1..
तमाहूय महातेजा ब्रह्मदत्तं महीपतिः । ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ॥१-३३-२१॥
तम् आहूय महा-तेजाः ब्रह्मदत्तम् महीपतिः । ददौ कन्या-शतम् राजा सु प्रीतेन अन्तरात्मना ॥१॥
tam āhūya mahā-tejāḥ brahmadattam mahīpatiḥ . dadau kanyā-śatam rājā su prītena antarātmanā ..1..
यथाक्रमं तदा पाणिं जग्राह रघुनन्दन । ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥१-३३-२२॥
यथाक्रमम् तदा पाणिम् जग्राह रघुनन्दन । ब्रह्मदत्तः महीपालः तासाम् देवपतिः यथा ॥१॥
yathākramam tadā pāṇim jagrāha raghunandana . brahmadattaḥ mahīpālaḥ tāsām devapatiḥ yathā ..1..
स्पृष्टमात्रे तदा पाणौ विकुब्जा विगतज्वराः । युक्तं परमया लक्ष्म्या बभौ कन्याशतं तदा ॥१-३३-२३॥
स्पृष्ट-मात्रे तदा पाणौ विकुब्जाः विगत-ज्वराः । युक्तम् परमया लक्ष्म्या बभौ कन्या-शतम् तदा ॥१॥
spṛṣṭa-mātre tadā pāṇau vikubjāḥ vigata-jvarāḥ . yuktam paramayā lakṣmyā babhau kanyā-śatam tadā ..1..
स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः । बभूव परमप्रीतो हर्षं लेभे पुनः पुनः ॥१-३३-२४॥
स दृष्ट्वा वायुना मुक्ताः कुशनाभः महीपतिः । बभूव परम-प्रीतः हर्षम् लेभे पुनर् पुनर् ॥१॥
sa dṛṣṭvā vāyunā muktāḥ kuśanābhaḥ mahīpatiḥ . babhūva parama-prītaḥ harṣam lebhe punar punar ..1..
कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिम् । सदारं प्रेषयामास सोपाध्यायगणं तदा ॥१-३३-२५॥
कृत-उद्वाहम् तु राजानम् ब्रह्मदत्तम् महीपतिम् । स दारम् प्रेषयामास स उपाध्याय-गणम् तदा ॥१॥
kṛta-udvāham tu rājānam brahmadattam mahīpatim . sa dāram preṣayāmāsa sa upādhyāya-gaṇam tadā ..1..
सोमदापि सुतं दृष्ट्वा पुत्रस्य सदृशीं क्रियाम् । यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत । स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च ॥१-३३-२६॥
सोमदा अपि सुतम् दृष्ट्वा पुत्रस्य सदृशीम् क्रियाम् । यथान्यायम् च गन्धर्वी स्नुषाः ताः प्रत्यनन्दत । स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभम् प्रशस्य च ॥१॥
somadā api sutam dṛṣṭvā putrasya sadṛśīm kriyām . yathānyāyam ca gandharvī snuṣāḥ tāḥ pratyanandata . spṛṣṭvā spṛṣṭvā ca tāḥ kanyāḥ kuśanābham praśasya ca ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe trayastriṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In