This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३४॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे चतुस्त्रिंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe catustriṃśaḥ sargaḥ ..1..
कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव । अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ॥१-३४-१॥
कृत-उद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव । अपुत्रः पुत्र-लाभाय पौत्रीम् इष्टिम् अकल्पयत् ॥१॥
kṛta-udvāhe gate tasmin brahmadatte ca rāghava . aputraḥ putra-lābhāya pautrīm iṣṭim akalpayat ..1..
इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम् । उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ॥१-३४-२॥
इष्ट्याम् तु वर्तमानायाम् कुशनाभम् महीपतिम् । उवाच परम-उदारः कुशः ब्रह्म-सुतः तदा ॥१॥
iṣṭyām tu vartamānāyām kuśanābham mahīpatim . uvāca parama-udāraḥ kuśaḥ brahma-sutaḥ tadā ..1..
पुत्रस्ते सदृशः पुत्र भविष्यति सुधार्मिकः । गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥१-३४-३॥
पुत्रः ते सदृशः पुत्र भविष्यति सु धार्मिकः । गाधिम् प्राप्स्यसि तेन त्वम् कीर्तिम् लोके च शाश्वतीम् ॥१॥
putraḥ te sadṛśaḥ putra bhaviṣyati su dhārmikaḥ . gādhim prāpsyasi tena tvam kīrtim loke ca śāśvatīm ..1..
एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् । जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ॥१-३४-४॥
एवम् उक्त्वा कुशः राम कुशनाभम् महीपतिम् । जगाम आकाशम् आविश्य ब्रह्म-लोकम् सनातनम् ॥१॥
evam uktvā kuśaḥ rāma kuśanābham mahīpatim . jagāma ākāśam āviśya brahma-lokam sanātanam ..1..
कस्यचित् त्वथ कालस्य कुशनाभस्य धीमतः । जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः ॥१-३४-५॥
कस्यचिद् तु अथ कालस्य कुशनाभस्य धीमतः । जज्ञे परम-धर्मिष्ठः गाधिः इति एव नामतः ॥१॥
kasyacid tu atha kālasya kuśanābhasya dhīmataḥ . jajñe parama-dharmiṣṭhaḥ gādhiḥ iti eva nāmataḥ ..1..
स पिता मम काकुत्स्थ गाधिः परमधार्मिकः । कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन ॥१-३४-६॥
स पिता मम काकुत्स्थ गाधिः परम-धार्मिकः । कुश-वंश-प्रसूतः अस्मि कौशिकः रघुनन्दन ॥१॥
sa pitā mama kākutstha gādhiḥ parama-dhārmikaḥ . kuśa-vaṃśa-prasūtaḥ asmi kauśikaḥ raghunandana ..1..
पूर्वजा भगिनी चापि मम राघव सुव्रता । नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥१-३४-७॥
पूर्वजा भगिनी च अपि मम राघव सुव्रता । नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥१॥
pūrvajā bhaginī ca api mama rāghava suvratā . nāmnā satyavatī nāma ṛcīke pratipāditā ..1..
सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी । कौशिकी परमोदारा सा प्रवृत्ता महानदी ॥१-३४-८॥
स शरीरा गता स्वर्गम् भर्तारम् अनुवर्तिनी । कौशिकी परमा उदारा सा प्रवृत्ता महा-नदी ॥१॥
sa śarīrā gatā svargam bhartāram anuvartinī . kauśikī paramā udārā sā pravṛttā mahā-nadī ..1..
दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रितालोकस्य हितकार्यार्थं प्रवृत्ता भगिनी मम ॥१-३४-९॥
दिव्या पुण्य-उदका रम्या हिमवन्तम् उपाश्रिता आलोकस्य हित-कार्य-अर्थम् प्रवृत्ता भगिनी मम ॥१॥
divyā puṇya-udakā ramyā himavantam upāśritā ālokasya hita-kārya-artham pravṛttā bhaginī mama ..1..
ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम्भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ॥१-३४-१०॥
ततस् अहम् हिमवत्-पार्श्वे वसामि नियतः सुखम्भगिन्याम् स्नेह-संयुक्तः कौशिक्याम् रघुनन्दन ॥१॥
tatas aham himavat-pārśve vasāmi niyataḥ sukhambhaginyām sneha-saṃyuktaḥ kauśikyām raghunandana ..1..
सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठितापतिव्रता महाभागा कौशिकी सरितां वरा ॥१-३४-११॥
सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता अ पतिव्रता महाभागा कौशिकी सरिताम् वरा ॥१॥
sā tu satyavatī puṇyā satye dharme pratiṣṭhitā a pativratā mahābhāgā kauśikī saritām varā ..1..
अहं हि नियमाद्राम हित्वा तां समुपागतःसिद्धाश्रममनुप्राप्तः सिद्धोऽस्मि तव तेजसा ॥१-३४-१२॥
अहम् हि नियमात् राम हित्वा ताम् समुपागतः सिद्धाश्रमम् अनुप्राप्तः सिद्धः अस्मि तव तेजसा ॥१॥
aham hi niyamāt rāma hitvā tām samupāgataḥ siddhāśramam anuprāptaḥ siddhaḥ asmi tava tejasā ..1..
एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तितादेशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ॥१-३४-१३॥
एषा राम मम उत्पत्तिः स्वस्य वंशस्य कीर्तित-आदेशस्य च महा-बाहो यत् माम् त्वम् परिपृच्छसि ॥१॥
eṣā rāma mama utpattiḥ svasya vaṃśasya kīrtita-ādeśasya ca mahā-bāho yat mām tvam paripṛcchasi ..1..
गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम । निद्रामभ्येहि भद्रं ते मा भूद् विघ्नोऽध्वनीह नः ॥१-३४-१४॥
गतः अर्धरात्रः काकुत्स्थ कथाः कथयतः मम । निद्राम् अभ्येहि भद्रम् ते मा भूत् विघ्नः अध्वनि इह नः ॥१॥
gataḥ ardharātraḥ kākutstha kathāḥ kathayataḥ mama . nidrām abhyehi bhadram te mā bhūt vighnaḥ adhvani iha naḥ ..1..
निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः । नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ॥१-३४-१५॥
निष्पन्दाः तरवः सर्वे निलीनाः मृग-पक्षिणः । नैशेन तमसा व्याप्ताः दिशः च रघुनन्दन ॥१॥
niṣpandāḥ taravaḥ sarve nilīnāḥ mṛga-pakṣiṇaḥ . naiśena tamasā vyāptāḥ diśaḥ ca raghunandana ..1..
शनैर्विसृज्यते संध्या नभो नेत्रैरिवावृतम् । नक्षत्रतारागहनं ज्योतिर्भिरवभासते ॥ १६ ॥१-३४-१६॥
शनैस् विसृज्यते संध्या नभः नेत्रैः इव आवृतम् । नक्षत्र-तारा-गहनम् ज्योतिर्भिः अवभासते ॥ १६ ॥१॥
śanais visṛjyate saṃdhyā nabhaḥ netraiḥ iva āvṛtam . nakṣatra-tārā-gahanam jyotirbhiḥ avabhāsate .. 16 ..1..
उत्तिष्ठते च शीतांशुः शशी लोकतमोनुदः । ह्लादयन् प्राणिनां लोके मनांसि प्रभया स्वया ॥१-३४-१७॥
उत्तिष्ठते च शीतांशुः शशी लोक-तमोनुदः । ह्लादयन् प्राणिनाम् लोके मनांसि प्रभया स्वया ॥१॥
uttiṣṭhate ca śītāṃśuḥ śaśī loka-tamonudaḥ . hlādayan prāṇinām loke manāṃsi prabhayā svayā ..1..
नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः । यक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः ॥॥१-३४-१८॥
नैशानि सर्व-भूतानि प्रचरन्ति ततस् ततस् । यक्ष-राक्षस-संघाः च रौद्राः च पिशित-अशनाः ॥॥१॥
naiśāni sarva-bhūtāni pracaranti tatas tatas . yakṣa-rākṣasa-saṃghāḥ ca raudrāḥ ca piśita-aśanāḥ ....1..
एवमुक्त्वा महातेजा विरराम महामुनिः । साधुसाध्विति तं सर्वे मुनयो ह्यभ्यपूजयन् ॥१-३४-१९॥
एवम् उक्त्वा महा-तेजाः विरराम महा-मुनिः । साधु-साधु इति तम् सर्वे मुनयः हि अभ्यपूजयन् ॥१॥
evam uktvā mahā-tejāḥ virarāma mahā-muniḥ . sādhu-sādhu iti tam sarve munayaḥ hi abhyapūjayan ..1..
कुशिकानामयं वंशो महान् धर्मपरः सदा । ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः ॥१-३४-२०॥
कुशिकानाम् अयम् वंशः महान् धर्म-परः सदा । ब्रह्म-उपमाः महात्मानः कुश-वंश्याः नर-उत्तमाः ॥१॥
kuśikānām ayam vaṃśaḥ mahān dharma-paraḥ sadā . brahma-upamāḥ mahātmānaḥ kuśa-vaṃśyāḥ nara-uttamāḥ ..1..
विशेषेण भवानेव विश्वामित्र महायशः । कौशिकी सरितां श्रेष्ठा कुलोद्योतकरी तव ॥१-३४-२१॥
विशेषेण भवान् एव विश्वामित्र महा-यशः । कौशिकी सरिताम् श्रेष्ठा कुल-उद्योत-करी तव ॥१॥
viśeṣeṇa bhavān eva viśvāmitra mahā-yaśaḥ . kauśikī saritām śreṣṭhā kula-udyota-karī tava ..1..
मुदितैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः । निद्रामुपागमच्छ्रीमानस्तंगत इवांशुमान् ॥१-३४-२२॥
मुदितैः मुनि-शार्दूलैः प्रशस्तः कुशिक-आत्मजः । निद्राम् उपागमत् श्रीमान् अस्तंगतः इव अंशुमान् ॥१॥
muditaiḥ muni-śārdūlaiḥ praśastaḥ kuśika-ātmajaḥ . nidrām upāgamat śrīmān astaṃgataḥ iva aṃśumān ..1..
रामोऽपि सहसौमित्रिः किञ्चिदागतविस्मयः । प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते ॥१-३४-२३॥
रामः अपि सहसौमित्रिः किञ्चिद् आगत-विस्मयः । प्रशस्य मुनि-शार्दूलम् निद्राम् समुपसेवते ॥१॥
rāmaḥ api sahasaumitriḥ kiñcid āgata-vismayaḥ . praśasya muni-śārdūlam nidrām samupasevate ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुस्त्रिंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe catustriṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In