This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चत्रिंशः सर्गः ॥१-३५॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे पञ्चत्रिंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe pañcatriṃśaḥ sargaḥ ..1..
उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः । निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ॥१-३५-१॥
उपास्य रात्रि-शेषम् तु शोणा-कूले महा-ऋषिभिः । निशायाम् सु प्रभातायाम् विश्वामित्रः अभ्यभाषत ॥१॥
upāsya rātri-śeṣam tu śoṇā-kūle mahā-ṛṣibhiḥ . niśāyām su prabhātāyām viśvāmitraḥ abhyabhāṣata ..1..
सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते । उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय ॥१-३५-२॥
सु प्रभाता निशा राम पूर्वा संध्या प्रवर्तते । उत्तिष्ठ उत्तिष्ठ भद्रम् ते गमनाय अभिरोचय ॥१॥
su prabhātā niśā rāma pūrvā saṃdhyā pravartate . uttiṣṭha uttiṣṭha bhadram te gamanāya abhirocaya ..1..
तच्छ्रुत्वा वचनं तस्य कृतपूर्वाह्णिकक्रियः । गमनं रोचयामास वाक्यं चेदमुवाच ह ॥१-३५-३॥
तत् श्रुत्वा वचनम् तस्य कृत-पूर्वाह्णिक-क्रियः । गमनम् रोचयामास वाक्यम् च इदम् उवाच ह ॥१॥
tat śrutvā vacanam tasya kṛta-pūrvāhṇika-kriyaḥ . gamanam rocayāmāsa vākyam ca idam uvāca ha ..1..
अयं शोणः शुभजलोऽगाधः पुलिनमण्डितः । कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् ॥१-३५-४॥
अयम् शोणः शुभ-जलः अगाधः पुलिन-मण्डितः । कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् ॥१॥
ayam śoṇaḥ śubha-jalaḥ agādhaḥ pulina-maṇḍitaḥ . katareṇa pathā brahman saṃtariṣyāmahe vayam ..1..
एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् । एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥१-३५-५॥
एवम् उक्तः तु रामेण विश्वामित्रः अब्रवीत् इदम् । एष पन्थाः मया उद्दिष्टः येन यान्ति महा-ऋषयः ॥१॥
evam uktaḥ tu rāmeṇa viśvāmitraḥ abravīt idam . eṣa panthāḥ mayā uddiṣṭaḥ yena yānti mahā-ṛṣayaḥ ..1..
एवमुक्ता महर्षयो विश्वामित्रेण धीमता । पश्यन्तस्ते प्रयाता वै वनानि विविधानि च ॥१-३५-०६॥
एवम् उक्ताः महा-ऋषयः विश्वामित्रेण धीमता । पश्यन्तः ते प्रयाताः वै वनानि विविधानि च ॥१॥
evam uktāḥ mahā-ṛṣayaḥ viśvāmitreṇa dhīmatā . paśyantaḥ te prayātāḥ vai vanāni vividhāni ca ..1..
ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा । जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥१-३५-७॥
ते गत्वा दूरम् अध्वानम् गते अर्धदिवसे तदा । जाह्नवीम् सरिताम् श्रेष्ठाम् ददृशुः मुनि-सेविताम् ॥१॥
te gatvā dūram adhvānam gate ardhadivase tadā . jāhnavīm saritām śreṣṭhām dadṛśuḥ muni-sevitām ..1..
तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् । बभूवुर्मुनयः सर्वे मुदिताः सहराघवाः ॥१-३५-८॥
ताम् दृष्ट्वा पुण्य-सलिलाम् हंस-सारस-सेविताम् । बभूवुः मुनयः सर्वे मुदिताः सह राघवाः ॥१॥
tām dṛṣṭvā puṇya-salilām haṃsa-sārasa-sevitām . babhūvuḥ munayaḥ sarve muditāḥ saha rāghavāḥ ..1..
तस्यास्तीरे तदा सर्वे चक्रुर्वासपरिग्रहम् । ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताः ॥१-३५-९॥
तस्याः तीरे तदा सर्वे चक्रुः वास-परिग्रहम् । ततस् स्नात्वा यथान्यायम् संतर्प्य पितृ-देवताः ॥१॥
tasyāḥ tīre tadā sarve cakruḥ vāsa-parigraham . tatas snātvā yathānyāyam saṃtarpya pitṛ-devatāḥ ..1..
हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः । विविशुर्जाह्नवीतीरे शुभा मुदितमानसाः ॥१-३५-१०॥
हुत्वा च एव अग्निहोत्राणि प्राश्य च अमृत-वत् हविः । विविशुः जाह्नवी-तीरे शुभाः मुदित-मानसाः ॥१॥
hutvā ca eva agnihotrāṇi prāśya ca amṛta-vat haviḥ . viviśuḥ jāhnavī-tīre śubhāḥ mudita-mānasāḥ ..1..
विश्वामित्रं महात्मानं परिवार्य समन्ततः । विष्ठिताश्च यथान्यायं राघवौ च यथार्हतः । संप्रहृष्टमना रामो विश्वामित्रमथाब्रवीत् ॥१-३५-११॥
विश्वामित्रम् महात्मानम् परिवार्य समन्ततः । विष्ठिताः च यथान्यायम् राघवौ च यथार्हतः । संप्रहृष्ट-मनाः रामः विश्वामित्रम् अथ अब्रवीत् ॥१॥
viśvāmitram mahātmānam parivārya samantataḥ . viṣṭhitāḥ ca yathānyāyam rāghavau ca yathārhataḥ . saṃprahṛṣṭa-manāḥ rāmaḥ viśvāmitram atha abravīt ..1..
भगवञ्छ्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् । त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥१-३५-१२॥
भगवन् श्रोतुम् इच्छामि गङ्गाम् त्रिपथगाम् नदीम् । त्रैलोक्यम् कथम् आक्रम्य गताः नदनदीपतिम् ॥१॥
bhagavan śrotum icchāmi gaṅgām tripathagām nadīm . trailokyam katham ākramya gatāḥ nadanadīpatim ..1..
चोदितो रामवाक्येन विश्वामित्रो महामुनिः । वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे ॥१-३५-१३॥
चोदितः राम-वाक्येन विश्वामित्रः महा-मुनिः । वृद्धिम् जन्म च गङ्गायाः वक्तुम् एवा उपचक्रमे ॥१॥
coditaḥ rāma-vākyena viśvāmitraḥ mahā-muniḥ . vṛddhim janma ca gaṅgāyāḥ vaktum evā upacakrame ..1..
शैलेन्द्रो हिमवान् राम धातूनामाकरो महान् । तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥१-३५-१४॥
शैल-इन्द्रः हिमवान् राम धातूनाम् आकरः महान् । तस्य कन्या-द्वयम् राम रूपेण अप्रतिमम् भुवि ॥१॥
śaila-indraḥ himavān rāma dhātūnām ākaraḥ mahān . tasya kanyā-dvayam rāma rūpeṇa apratimam bhuvi ..1..
या मेरुदुहिता राम तयोर्माता सुमध्यमा । नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया ॥१-३५-१५॥
याः मेरु-दुहिताः राम तयोः माता सुमध्यमा । नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया ॥१॥
yāḥ meru-duhitāḥ rāma tayoḥ mātā sumadhyamā . nāmnā menā manojñā vai patnī himavataḥ priyā ..1..
तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता । उमा नाम द्वितीयाभूत् कन्या तस्यैव राघव ॥१-३५-१६॥
तस्याम् गङ्गा इयम् अभवत् ज्येष्ठा हिमवतः सुता । उमा नाम द्वितीया अभूत् कन्या तस्य एव राघव ॥१॥
tasyām gaṅgā iyam abhavat jyeṣṭhā himavataḥ sutā . umā nāma dvitīyā abhūt kanyā tasya eva rāghava ..1..
अथ ज्येष्ठां सुराः सर्वे देवकार्यचिकीर्षया । शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम् ॥१-३५-१७॥
अथ ज्येष्ठाम् सुराः सर्वे देव-कार्य-चिकीर्षया । शैल-इन्द्रम् वरयामासुः गङ्गाम् त्रिपथगाम् नदीम् ॥१॥
atha jyeṣṭhām surāḥ sarve deva-kārya-cikīrṣayā . śaila-indram varayāmāsuḥ gaṅgām tripathagām nadīm ..1..
ददौ धर्मेण हिमवांस्तनयां लोकपावनीम् । स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥१-३५-१८॥
ददौ धर्मेण हिमवान् तनयाम् लोक-पावनीम् । स्वच्छन्द-पथ-गाम् गङ्गाम् त्रैलोक्य-हित-काम्यया ॥१॥
dadau dharmeṇa himavān tanayām loka-pāvanīm . svacchanda-patha-gām gaṅgām trailokya-hita-kāmyayā ..1..
प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकांक्षिणः । गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना ॥१-३५-१९॥
प्रतिगृह्य त्रिलोक-अर्थम् त्रिलोक-हित-कांक्षिणः । गङ्गाम् आदाय ते अगच्छन् कृतार्थेन अन्तरात्मना ॥१॥
pratigṛhya triloka-artham triloka-hita-kāṃkṣiṇaḥ . gaṅgām ādāya te agacchan kṛtārthena antarātmanā ..1..
या चान्या शैलदुहिता कन्याऽसीद् रघुनन्दन । उग्रं सुव्रतमास्थाय तपस्तेपे तपोधना ॥१-३५-२०॥
या च अन्या शैलदुहिता कन्या आसीत् रघुनन्दन । उग्रम् सुव्रतम् आस्थाय तपः तेपे तपोधना ॥१॥
yā ca anyā śailaduhitā kanyā āsīt raghunandana . ugram suvratam āsthāya tapaḥ tepe tapodhanā ..1..
उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् । रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥१-३५-२१॥
उग्रेण तपसा युक्ताम् ददौ शैलवरः सुताम् । रुद्राय अप्रतिरूपाय उमाम् लोक-नमस्कृताम् ॥१॥
ugreṇa tapasā yuktām dadau śailavaraḥ sutām . rudrāya apratirūpāya umām loka-namaskṛtām ..1..
एते ते शैलराजस्य सुते लोकनमस्कृते । गङ्गा च सरितां श्रेष्ठा उमादेवी च राघव ॥१-३५-२२॥
एते ते शैलराजस्य सुते लोक-नमस्कृते । गङ्गा च सरिताम् श्रेष्ठा उमा-देवी च राघव ॥१॥
ete te śailarājasya sute loka-namaskṛte . gaṅgā ca saritām śreṣṭhā umā-devī ca rāghava ..1..
एतत् ते सर्वमाख्यातं यथा त्रिपथगामिनी । खं गता प्रथमं तात गतिं गतिमतां वर ॥१-३५-२३॥
एतत् ते सर्वम् आख्यातम् यथा त्रिपथगामिनी । खम् गता प्रथमम् तात गतिम् गतिमताम् वर ॥१॥
etat te sarvam ākhyātam yathā tripathagāminī . kham gatā prathamam tāta gatim gatimatām vara ..1..
सैषा सुरनदी रम्या शैलेन्द्रतनया तदा । सुरलोकं समारूढा विपापा जलवाहिनी ॥१-३५-२४॥
सा एषा सुर-नदी रम्या शैलेन्द्र-तनया तदा । सुर-लोकम् समारूढा विपापा जल-वाहिनी ॥१॥
sā eṣā sura-nadī ramyā śailendra-tanayā tadā . sura-lokam samārūḍhā vipāpā jala-vāhinī ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चत्रिंशः सर्गः ॥१-३५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चत्रिंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcatriṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In