This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्त्रिंशः सर्गः ॥१-३६॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे षट्त्रिंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe ṣaṭtriṃśaḥ sargaḥ ..1..
उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ । प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम् ॥१-३६-१॥
उक्त-वाक्ये मुनौ तस्मिन् उभौ राघव-लक्ष्मणौ । प्रतिनन्द्य कथाम् वीरौ ऊचतुः मुनि-पुङ्गवम् ॥१॥
ukta-vākye munau tasmin ubhau rāghava-lakṣmaṇau . pratinandya kathām vīrau ūcatuḥ muni-puṅgavam ..1..
धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया । दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि ।
धर्म-युक्तम् इदम् ब्रह्मन् कथितम् परमम् त्वया । दुहितुः शैलराजस्य ज्येष्ठायाः वक्तुम् अर्हसि ।
dharma-yuktam idam brahman kathitam paramam tvayā . duhituḥ śailarājasya jyeṣṭhāyāḥ vaktum arhasi .
त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी । कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा ॥१-३६-३॥
त्रीन् पथः हेतुना केन प्लावयेत् लोक-पावनी । कथम् गङ्गाम् त्रिपथगा विश्रुता सरित् उत्तमा ॥१॥
trīn pathaḥ hetunā kena plāvayet loka-pāvanī . katham gaṅgām tripathagā viśrutā sarit uttamā ..1..
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता । तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ॥१-३६-४॥
त्रिषु लोकेषु धर्म-ज्ञ कर्मभिः कैः समन्विता । तथा ब्रुवति काकुत्स्थे विश्वामित्रः तपोधनः ॥१॥
triṣu lokeṣu dharma-jña karmabhiḥ kaiḥ samanvitā . tathā bruvati kākutsthe viśvāmitraḥ tapodhanaḥ ..1..
निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् । पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः ॥१-३६-५॥
निखिलेन कथाम् सर्वाम् ऋषि-मध्ये न्यवेदयत् । पुरा राम कृत-उद्वाहः शितिकण्ठः महा-तपाः ॥१॥
nikhilena kathām sarvām ṛṣi-madhye nyavedayat . purā rāma kṛta-udvāhaḥ śitikaṇṭhaḥ mahā-tapāḥ ..1..
तस्य संक्रीडमानस्य महादेवस्य धीमतः । शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ॥१-३६-६॥
तस्य संक्रीडमानस्य महादेवस्य धीमतः । शितिकण्ठस्य देवस्य दिव्यम् वर्ष-शतम् गतम् ॥१॥
tasya saṃkrīḍamānasya mahādevasya dhīmataḥ . śitikaṇṭhasya devasya divyam varṣa-śatam gatam ..1..
न चापि तनयो राम तस्यामासीत् परंतप । सर्वे देवाः समुद्युक्ताः पितामहपुरोगमाः ॥१-३६-७॥
न च अपि तनयः राम तस्याम् आसीत् परंतप । सर्वे देवाः समुद्युक्ताः पितामह-पुरोगमाः ॥१॥
na ca api tanayaḥ rāma tasyām āsīt paraṃtapa . sarve devāḥ samudyuktāḥ pitāmaha-purogamāḥ ..1..
यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यति । अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ॥१-३६-८॥
यत् इह उत्पद्यते भूतम् कः तत् प्रतिसहिष्यति । अभिगम्य सुराः सर्वे प्रणिपत्य इदम् अब्रुवन् ॥१॥
yat iha utpadyate bhūtam kaḥ tat pratisahiṣyati . abhigamya surāḥ sarve praṇipatya idam abruvan ..1..
देवदेव महादेव लोकस्यास्य हिते रत । सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥१-३६-९॥
देवदेव महादेव लोकस्य अस्य हिते रत । सुराणाम् प्रणिपातेन प्रसादम् कर्तुम् अर्हसि ॥१॥
devadeva mahādeva lokasya asya hite rata . surāṇām praṇipātena prasādam kartum arhasi ..1..
न लोका धारयिष्यन्ति तव तेजः सुरोत्तम । ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ॥१-३६-१०॥
न लोकाः धारयिष्यन्ति तव तेजः सुर-उत्तम । ब्राह्मेण तपसा युक्तः देव्या सह तपः चर ॥१॥
na lokāḥ dhārayiṣyanti tava tejaḥ sura-uttama . brāhmeṇa tapasā yuktaḥ devyā saha tapaḥ cara ..1..
त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय । रक्ष सर्वानिमाँल्लोकान् नालोकं कर्तुमर्हसि ॥१-३६-११॥
त्रैलोक्य-हित-काम-अर्थम् तेजः तेजसि धारय । रक्ष सर्वान् इमान् लोकान् न अ लोकम् कर्तुम् अर्हसि ॥१॥
trailokya-hita-kāma-artham tejaḥ tejasi dhāraya . rakṣa sarvān imān lokān na a lokam kartum arhasi ..1..
देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः । बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह ॥१-३६-१२॥
देवतानाम् वचः श्रुत्वा सर्व-लोक-महेश्वरः । बाढम् इति अब्रवीत् सर्वान् पुनर् च इदम् उवाच ह ॥१॥
devatānām vacaḥ śrutvā sarva-loka-maheśvaraḥ . bāḍham iti abravīt sarvān punar ca idam uvāca ha ..1..
धारयिष्याम्यहं तेजस्तेजसैव सहोमया । त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥१-३६-१३॥
धारयिष्यामि अहम् तेजः तेजसा एव सह उमया । त्रिदशाः पृथिवी च एव निर्वाणम् अधिगच्छतु ॥१॥
dhārayiṣyāmi aham tejaḥ tejasā eva saha umayā . tridaśāḥ pṛthivī ca eva nirvāṇam adhigacchatu ..1..
यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् । धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः ॥१-३६-१४॥
यत् इदम् क्षुभितम् स्थानात् मम तेजः हि अनुत्तमम् । धारयिष्यति कः तत् मे ब्रुवन्तु सुर-सत्तमाः ॥१॥
yat idam kṣubhitam sthānāt mama tejaḥ hi anuttamam . dhārayiṣyati kaḥ tat me bruvantu sura-sattamāḥ ..1..
एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् । यत्तेजः क्षुभितं ह्यद्य तद्धरा धारयिष्यति ॥१-३६-१५॥
एवम् उक्ताः ततस् देवाः प्रत्यूचुः वृषभध्वजम् । यत् तेजः क्षुभितम् हि अद्य तत् धरा धारयिष्यति ॥१॥
evam uktāḥ tatas devāḥ pratyūcuḥ vṛṣabhadhvajam . yat tejaḥ kṣubhitam hi adya tat dharā dhārayiṣyati ..1..
एवमुक्तः सुरपतिः प्रमुमोच महाबलः । तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥१-३६-१६॥
एवम् उक्तः सुरपतिः प्रमुमोच महा-बलः । तेजसा पृथिवी येन व्याप्ता स गिरि-कानना ॥१॥
evam uktaḥ surapatiḥ pramumoca mahā-balaḥ . tejasā pṛthivī yena vyāptā sa giri-kānanā ..1..
ततो देवाः पुनरिदमूचुश्चापि हुताशनम् । आविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥१-३६-१७॥
ततस् देवाः पुनर् इदम् ऊचुः च अपि हुताशनम् । आविश त्वम् महा-तेजः रौद्रम् वायु-समन्वितः ॥१॥
tatas devāḥ punar idam ūcuḥ ca api hutāśanam . āviśa tvam mahā-tejaḥ raudram vāyu-samanvitaḥ ..1..
तदग्निना पुनर्व्याप्तं संजातं श्वेतपर्वतम् । दिव्यं शरवणं चैव पावकादित्यसंनिभम् ॥१-३६-१८॥
तद्-अग्निना पुनर् व्याप्तम् संजातम् श्वेतपर्वतम् । दिव्यम् शरवणम् च एव पावक-आदित्य-संनिभम् ॥१॥
tad-agninā punar vyāptam saṃjātam śvetaparvatam . divyam śaravaṇam ca eva pāvaka-āditya-saṃnibham ..1..
यत्र जातो महातेजाः कार्तिकेयोऽग्निसम्भवः । अथोमां च शिवं चैव देवाः सर्षिगणास्तदा ॥१-३६-१९॥
यत्र जातः महा-तेजाः कार्तिकेयः अग्नि-सम्भवः । अथ उमाम् च शिवम् च एव देवाः स ऋषि-गणाः तदा ॥१॥
yatra jātaḥ mahā-tejāḥ kārtikeyaḥ agni-sambhavaḥ . atha umām ca śivam ca eva devāḥ sa ṛṣi-gaṇāḥ tadā ..1..
पूजयामासुरत्यर्थं सुप्रीतमनसस्तदा । अथ शैलसुता राम त्रिदशानिदमब्रवीत् ॥१-३६-२०॥
पूजयामासुः अत्यर्थम् सु प्रीत-मनसः तदा । अथ शैलसुता राम त्रिदशान् इदम् अब्रवीत् ॥१॥
pūjayāmāsuḥ atyartham su prīta-manasaḥ tadā . atha śailasutā rāma tridaśān idam abravīt ..1..
समन्युरशपत् सर्वान् क्रोधसंरक्तलोचना । यस्मान्निवारिता चाहं संगता पुत्रकाम्यया ॥१-३६-२१॥
समन्युः अशपत् सर्वान् क्रोध-संरक्त-लोचना । यस्मात् निवारिता च अहम् संगता पुत्र-काम्यया ॥१॥
samanyuḥ aśapat sarvān krodha-saṃrakta-locanā . yasmāt nivāritā ca aham saṃgatā putra-kāmyayā ..1..
अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ । अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः ॥१-३६-२२॥
अपत्यम् स्वेषु दारेषु न उत्पादयितुम् अर्हथ । अद्य प्रभृति युष्माकम् अप्रजाः सन्तु पत्नयः ॥१॥
apatyam sveṣu dāreṣu na utpādayitum arhatha . adya prabhṛti yuṣmākam aprajāḥ santu patnayaḥ ..1..
एवमुक्त्वा सुरान् सर्वाञ्शशाप पृथिवीमपि । अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥१-३६-२३॥
एवम् उक्त्वा सुरान् सर्वान् शशाप पृथिवीम् अपि । अवने ना एकरूपा त्वम् बहु-भार्या भविष्यसि ॥१॥
evam uktvā surān sarvān śaśāpa pṛthivīm api . avane nā ekarūpā tvam bahu-bhāryā bhaviṣyasi ..1..
न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता । प्राप्स्यसि त्वं सुदुर्मेधो मम पुत्रमनिच्छती ॥१-३६-२४॥
न च पुत्र-कृताम् प्रीतिम् मद्-क्रोध-कलुषीकृता । प्राप्स्यसि त्वम् सु दुर्मेधः मम पुत्रम् अन् इच्छती ॥१॥
na ca putra-kṛtām prītim mad-krodha-kaluṣīkṛtā . prāpsyasi tvam su durmedhaḥ mama putram an icchatī ..1..
तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा । गमनायोपचक्राम दिशं वरुणपालिताम् ॥१-३६-२५॥
तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिः तदा । गमनाय उपचक्राम दिशम् वरुण-पालिताम् ॥१॥
tān sarvān pīḍitān dṛṣṭvā surān surapatiḥ tadā . gamanāya upacakrāma diśam varuṇa-pālitām ..1..
स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः । हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः ॥१-३६-२६॥
स गत्वा तपः आतिष्ठत् पार्श्वे तस्य उत्तरे गिरेः । हिमवत्-प्रभवे शृङ्गे सह देव्याः महेश्वरः ॥१॥
sa gatvā tapaḥ ātiṣṭhat pārśve tasya uttare gireḥ . himavat-prabhave śṛṅge saha devyāḥ maheśvaraḥ ..1..
एष ते विस्तरो राम शैलपुत्र्या निवेदितःगङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मण ॥१-३६-२७॥
एष ते विस्तरः राम शैलपुत्र्याः निवेदितः गङ्गायाः प्रभवम् च एव शृणु मे सहलक्ष्मण ॥१॥
eṣa te vistaraḥ rāma śailaputryāḥ niveditaḥ gaṅgāyāḥ prabhavam ca eva śṛṇu me sahalakṣmaṇa ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्त्रिंशः सर्गः ॥१-३६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्त्रिंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣaṭtriṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In