This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तत्रिंशः सर्गः ॥१-३७॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे सप्तत्रिंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe saptatriṃśaḥ sargaḥ ..1..
तप्यमाने तदा देवे सेन्द्राः साग्निपुरोगमाः । सेनापतिमभीप्सन्तः पितामहमुपागमन् ॥१-३७-१॥
तप्यमाने तदा देवे स इन्द्राः स अग्नि-पुरोगमाः । सेनापतिम् अभीप्सन्तः पितामहम् उपागमन् ॥१॥
tapyamāne tadā deve sa indrāḥ sa agni-purogamāḥ . senāpatim abhīpsantaḥ pitāmaham upāgaman ..1..
ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् । प्रणिपत्य सुराराम सेन्द्राः साग्निपुरोगमाः ॥१-३७-२॥
ततस् अब्रुवन् सुराः सर्वे भगवन्तम् पितामहम् । प्रणिपत्य सुराराम स इन्द्राः स अग्नि-पुरोगमाः ॥१॥
tatas abruvan surāḥ sarve bhagavantam pitāmaham . praṇipatya surārāma sa indrāḥ sa agni-purogamāḥ ..1..
येन सेनापतिर्देव दत्तो भगवता पुरा । स तपः परमास्थाय तप्यते स्म सहोमया ॥१-३७-३॥
येन सेनापतिः देव दत्तः भगवता पुरा । स तपः परम् आस्थाय तप्यते स्म सह उमया ॥१॥
yena senāpatiḥ deva dattaḥ bhagavatā purā . sa tapaḥ param āsthāya tapyate sma saha umayā ..1..
यदत्रानन्तरं कार्यं लोकानां हितकाम्यया । संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ॥१-३७-४॥
यत् अत्र अनन्तरम् कार्यम् लोकानाम् हित-काम्यया । संविधत्स्व विधान-ज्ञ त्वम् हि नः परमा गतिः ॥१॥
yat atra anantaram kāryam lokānām hita-kāmyayā . saṃvidhatsva vidhāna-jña tvam hi naḥ paramā gatiḥ ..1..
देवतानां वचः श्रुत्वा सर्वलोकपितामहः । सान्त्वयन् मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् ॥१-३७-५॥
देवतानाम् वचः श्रुत्वा सर्व-लोक-पितामहः । सान्त्वयन् मधुरैः वाक्यैः त्रिदशान् इदम् अब्रवीत् ॥१॥
devatānām vacaḥ śrutvā sarva-loka-pitāmahaḥ . sāntvayan madhuraiḥ vākyaiḥ tridaśān idam abravīt ..1..
शैलपुत्र्या यदुक्तं तन्न प्रजाः स्वासु पत्निषु । तस्या वचनमक्लिष्टं सत्यमेव न संशयः ॥१-३७-६॥
शैलपुत्र्या यत् उक्तम् तत् न प्रजाः स्वासु । तस्याः वचनम् अक्लिष्टम् सत्यम् एव न संशयः ॥१॥
śailaputryā yat uktam tat na prajāḥ svāsu . tasyāḥ vacanam akliṣṭam satyam eva na saṃśayaḥ ..1..
इयमाकाशगङ्गा च यस्यां पुत्रं हुताशनः । जनयिष्यति देवानां सेनापतिमरिंदमम् ॥१-३७-७॥
इयम् आकाशगङ्गा च यस्याम् पुत्रम् हुताशनः । जनयिष्यति देवानाम् सेनापतिम् अरिंदमम् ॥१॥
iyam ākāśagaṅgā ca yasyām putram hutāśanaḥ . janayiṣyati devānām senāpatim ariṃdamam ..1..
ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम् । उमायास्तद्बहुमतं भविष्यति न संशयः ॥१-३७-८॥
ज्येष्ठा शैलेन्द्र-दुहिता मानयिष्यति तम् सुतम् । उमायाः तत् बहु-मतम् भविष्यति न संशयः ॥१॥
jyeṣṭhā śailendra-duhitā mānayiṣyati tam sutam . umāyāḥ tat bahu-matam bhaviṣyati na saṃśayaḥ ..1..
तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन । प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ॥१-३७-९॥
तत् श्रुत्वा वचनम् तस्य कृतार्थाः रघुनन्दन । प्रणिपत्य सुराः सर्वे पितामहम् अपूजयन् ॥१॥
tat śrutvā vacanam tasya kṛtārthāḥ raghunandana . praṇipatya surāḥ sarve pitāmaham apūjayan ..1..
ते गत्वा परमं राम कैलासं धातुमण्डितम् । अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः ॥१-३७-१०॥
ते गत्वा परमम् राम कैलासम् धातु-मण्डितम् । अग्निम् नियोजयामासुः पुत्र-अर्थम् सर्व-देवताः ॥१॥
te gatvā paramam rāma kailāsam dhātu-maṇḍitam . agnim niyojayāmāsuḥ putra-artham sarva-devatāḥ ..1..
देवकार्यमिदं देव समाधत्स्व हुताशन । शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज ॥१-३७-११॥
देव-कार्यम् इदम् देव समाधत्स्व हुताशन । शैलपुत्र्याम् महा-तेजः गङ्गायाम् तेजः उत्सृज ॥१॥
deva-kāryam idam deva samādhatsva hutāśana . śailaputryām mahā-tejaḥ gaṅgāyām tejaḥ utsṛja ..1..
देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः । गर्भं धारय वै देवि देवतानामिदं प्रियम् ॥१-३७-१२॥
देवतानाम् प्रतिज्ञाय गङ्गाम् अभ्येत्य पावकः । गर्भम् धारय वै देवि देवतानाम् इदम् प्रियम् ॥१॥
devatānām pratijñāya gaṅgām abhyetya pāvakaḥ . garbham dhāraya vai devi devatānām idam priyam ..1..
इत्येतद् वचनं श्रुत्वा दिव्यं रूपमधारयत् । स तस्या महिमां दृष्ट्वा समन्तादवशीर्यत ॥१-३७-१३॥
इति एतत् वचनम् श्रुत्वा दिव्यम् रूपम् अधारयत् । स तस्याः महिमाम् दृष्ट्वा समन्तात् अवशीर्यत ॥१॥
iti etat vacanam śrutvā divyam rūpam adhārayat . sa tasyāḥ mahimām dṛṣṭvā samantāt avaśīryata ..1..
समन्ततस्तदा देवीमभ्यषिञ्चत पावकः । सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥१-३७-१४॥
समन्ततः तदा देवीम् अभ्यषिञ्चत पावकः । सर्व-स्रोतांसि पूर्णानि गङ्गायाः रघुनन्दन ॥१॥
samantataḥ tadā devīm abhyaṣiñcata pāvakaḥ . sarva-srotāṃsi pūrṇāni gaṅgāyāḥ raghunandana ..1..
तमुवाच ततो गङ्गा सर्वदेवपुरोगमम् । अशक्ता धारणे देव तेजस्तव समुद्धतम् ॥१-३७-१५॥
तम् उवाच ततस् गङ्गा सर्व-देव-पुरोगमम् । अशक्ताः धारणे देव तेजः तव समुद्धतम् ॥१॥
tam uvāca tatas gaṅgā sarva-deva-purogamam . aśaktāḥ dhāraṇe deva tejaḥ tava samuddhatam ..1..
दह्यमानाग्निना तेन सम्प्रव्यथितचेतना । अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः ॥१-३७-१६॥
दह्यमान-अग्निना तेन सम्प्रव्यथित-चेतना । अथ अब्रवीत् इदम् गङ्गाम् सर्व-देव-हुताशनः ॥१॥
dahyamāna-agninā tena sampravyathita-cetanā . atha abravīt idam gaṅgām sarva-deva-hutāśanaḥ ..1..
इह हैमवते पार्श्वे गर्भोऽयं संनिवेश्यताम् । श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् ॥१-३७-१७॥
इह हैमवते पार्श्वे गर्भः अयम् संनिवेश्यताम् । श्रुत्वा तु अग्नि-वचः गङ्गा तम् गर्भम् अति भास्वरम् ॥१॥
iha haimavate pārśve garbhaḥ ayam saṃniveśyatām . śrutvā tu agni-vacaḥ gaṅgā tam garbham ati bhāsvaram ..1..
उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ । यदस्या निर्गतं तस्मात् तप्तजाम्बूनदप्रभम् ॥१-३७-१८॥
उत्ससर्ज महा-तेजाः स्रोतोभ्यः हि तदा अनघ । यत् अस्याः निर्गतम् तस्मात् तप्त-जाम्बूनद-प्रभम् ॥१॥
utsasarja mahā-tejāḥ srotobhyaḥ hi tadā anagha . yat asyāḥ nirgatam tasmāt tapta-jāmbūnada-prabham ..1..
काञ्चनं धरणीं प्राप्तं हिरण्यमतुलप्रभम् । ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभिजायत ॥१-३७-१९॥
काञ्चनम् धरणीम् प्राप्तम् हिरण्यम् अतुल-प्रभम् । ताम्रम् कार्ष्णायसम् च एव तैक्ष्ण्यात् एव अभिजायत ॥१॥
kāñcanam dharaṇīm prāptam hiraṇyam atula-prabham . tāmram kārṣṇāyasam ca eva taikṣṇyāt eva abhijāyata ..1..
मलं तस्याभवत् तत्र त्रपु सीसकमेव च । तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥१-३७-२०॥
मलम् तस्य अभवत् तत्र त्रपु सीसकम् एव च । तत् एतत् धरणीम् प्राप्य नाना धातुः अवर्धत ॥१॥
malam tasya abhavat tatra trapu sīsakam eva ca . tat etat dharaṇīm prāpya nānā dhātuḥ avardhata ..1..
निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् । सर्वं पर्वतसंनद्धं सौवर्णमभवद् वनम् ॥१-३७-२१॥
निक्षिप्त-मात्रे गर्भे तु तेजोभिः अभिरञ्जितम् । सर्वम् पर्वत-संनद्धम् सौवर्णम् अभवत् वनम् ॥१॥
nikṣipta-mātre garbhe tu tejobhiḥ abhirañjitam . sarvam parvata-saṃnaddham sauvarṇam abhavat vanam ..1..
सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् । तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम् ॥१-३७-२२॥
सुवर्णम् पुरुष-व्याघ्र हुताशन-सम-प्रभम् । तृण-वृक्ष-लता-गुल्मम् सर्वम् भवति काञ्चनम् ॥१॥
suvarṇam puruṣa-vyāghra hutāśana-sama-prabham . tṛṇa-vṛkṣa-latā-gulmam sarvam bhavati kāñcanam ..1..
तं कुमारं ततो जातं सेन्द्राः सह मरुद्गणाः । क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन् ॥१-३७-२३॥
तम् कुमारम् ततस् जातम् स इन्द्राः सह मरुत्-गणाः । क्षीर-सम्भावना-अर्थाय कृत्तिकाः समयोजयन् ॥१॥
tam kumāram tatas jātam sa indrāḥ saha marut-gaṇāḥ . kṣīra-sambhāvanā-arthāya kṛttikāḥ samayojayan ..1..
ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् । ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः ॥१-३७-२४॥
ताः क्षीरम् जात-मात्रस्य कृत्वा समयम् उत्तमम् । ददुः पुत्रः अयम् अस्माकम् सर्वासाम् इति निश्चिताः ॥१॥
tāḥ kṣīram jāta-mātrasya kṛtvā samayam uttamam . daduḥ putraḥ ayam asmākam sarvāsām iti niścitāḥ ..1..
ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् । पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः ॥१-३७-२५॥
ततस् तु देवताः सर्वाः कार्तिकेयः इति ब्रुवन् । पुत्रः त्रैलोक्य-विख्यातः भविष्यति न संशयः ॥१॥
tatas tu devatāḥ sarvāḥ kārtikeyaḥ iti bruvan . putraḥ trailokya-vikhyātaḥ bhaviṣyati na saṃśayaḥ ..1..
तेषां तद् वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे । स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम् ॥१-३७-२६॥
तेषाम् तत् वचनम् श्रुत्वा स्कन्नम् गर्भपरिस्रवे । स्नापयन् परया लक्ष्म्या दीप्यमानम् यथा अनलम् ॥१॥
teṣām tat vacanam śrutvā skannam garbhaparisrave . snāpayan parayā lakṣmyā dīpyamānam yathā analam ..1..
स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवे । कार्तिकेयं महाबाहुं काकुत्स्थ ज्वलनोपमम् ॥१-३७-२७॥
स्कन्दः इति अब्रुवन् देवाः स्कन्नम् गर्भपरिस्रवे । कार्तिकेयम् महा-बाहुम् काकुत्स्थ ज्वलन-उपमम् ॥१॥
skandaḥ iti abruvan devāḥ skannam garbhaparisrave . kārtikeyam mahā-bāhum kākutstha jvalana-upamam ..1..
प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् । षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ॥१-३७-२८॥
प्रादुर्भूतम् ततस् क्षीरम् कृत्तिकानाम् अनुत्तमम् । षण्णाम् षष्-आननः भूत्वा जग्राह स्तन-जम् पयः ॥१॥
prādurbhūtam tatas kṣīram kṛttikānām anuttamam . ṣaṇṇām ṣaṣ-ānanaḥ bhūtvā jagrāha stana-jam payaḥ ..1..
गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा । अजयत् स्वेन वीर्येण दैत्यसैन्यगणान् विभुः ॥१-३७-२९॥
गृहीत्वा क्षीरम् एक-अह्ना सुकुमार-वपुः तदा । अजयत् स्वेन वीर्येण दैत्य-सैन्य-गणान् विभुः ॥१॥
gṛhītvā kṣīram eka-ahnā sukumāra-vapuḥ tadā . ajayat svena vīryeṇa daitya-sainya-gaṇān vibhuḥ ..1..
सुरसेनागणपतिमभ्यषिञ्चन्महाद्युतिम् । ततस्तममराः सर्वे समेत्याग्निपुरोगमाः ॥१-३७-३०॥
सुर-सेना-गणपतिम् अभ्यषिञ्चत् महा-द्युतिम् । ततस् तम् अमराः सर्वे समेत्य अग्नि-पुरोगमाः ॥१॥
sura-senā-gaṇapatim abhyaṣiñcat mahā-dyutim . tatas tam amarāḥ sarve sametya agni-purogamāḥ ..1..
एष ते राम गङ्गाया विस्तरोऽभिहितो मया । कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ॥१-३७-३१॥
एष ते राम गङ्गायाः विस्तरः अभिहितः मया । कुमारसम्भवः च एव धन्यः पुण्यः तथा एव च ॥१॥
eṣa te rāma gaṅgāyāḥ vistaraḥ abhihitaḥ mayā . kumārasambhavaḥ ca eva dhanyaḥ puṇyaḥ tathā eva ca ..1..
भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः । आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ॥१-३७-३२॥
भक्तः च यः कार्तिकेये काकुत्स्थ भुवि मानवः । आयुष्मान् पुत्र-पौत्रैः च स्कन्द-सालोक्य-ताम् व्रजेत् ॥१॥
bhaktaḥ ca yaḥ kārtikeye kākutstha bhuvi mānavaḥ . āyuṣmān putra-pautraiḥ ca skanda-sālokya-tām vrajet ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तत्रिंशः सर्गः ॥१-३६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तत्रिंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptatriṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In