This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-३९॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे एकोनचत्वारिंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe ekonacatvāriṃśaḥ sargaḥ ..1..
विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनः । उवाच परमप्रीतो मुनिं दीप्तमिवानलम् ॥१-३९-१॥
विश्वामित्र-वचः श्रुत्वा कथा-अन्ते रघुनन्दनः । उवाच परम-प्रीतः मुनिम् दीप्तम् इव अनलम् ॥१॥
viśvāmitra-vacaḥ śrutvā kathā-ante raghunandanaḥ . uvāca parama-prītaḥ munim dīptam iva analam ..1..
श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम् । पूर्वजो मे कथं ब्रह्मन् यज्ञं वै समुपाहरत् ॥१-३९-२॥
श्रोतुम् इच्छामि भद्रम् ते विस्तरेण कथाम् इमाम् । पूर्वजः मे कथम् ब्रह्मन् यज्ञम् वै समुपाहरत् ॥१॥
śrotum icchāmi bhadram te vistareṇa kathām imām . pūrvajaḥ me katham brahman yajñam vai samupāharat ..1..
तस्य तद् वचनं श्रुत्वा कौतूहलसमन्वितः । विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव ॥१-३९-३॥
तस्य तत् वचनम् श्रुत्वा कौतूहल-समन्वितः । विश्वामित्रः तु काकुत्स्थम् उवाच प्रहसन् इव ॥१॥
tasya tat vacanam śrutvā kautūhala-samanvitaḥ . viśvāmitraḥ tu kākutstham uvāca prahasan iva ..1..
श्रूयतां विस्तरो राम सगरस्य महात्मनः । शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः ॥१-३९-४॥
श्रूयताम् विस्तरः राम सगरस्य महात्मनः । शंकरश्वशुरः नाम्ना हिमवान् इति विश्रुतः ॥१॥
śrūyatām vistaraḥ rāma sagarasya mahātmanaḥ . śaṃkaraśvaśuraḥ nāmnā himavān iti viśrutaḥ ..1..
विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम् । तयोर्मध्ये समभवद् यज्ञः स पुरुषोत्तम ॥१-३९-५॥
विन्ध्य-पर्वतम् आसाद्य निरीक्षेते परस्परम् । तयोः मध्ये समभवत् यज्ञः स पुरुषोत्तम ॥१॥
vindhya-parvatam āsādya nirīkṣete parasparam . tayoḥ madhye samabhavat yajñaḥ sa puruṣottama ..1..
स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि । तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः ॥१-३९-६॥
स हि देशः नर-व्याघ्र प्रशस्तः यज्ञ-कर्मणि । तस्य अश्व-चर्याम् काकुत्स्थ दृढ-धन्वा महा-रथः ॥१॥
sa hi deśaḥ nara-vyāghra praśastaḥ yajña-karmaṇi . tasya aśva-caryām kākutstha dṛḍha-dhanvā mahā-rathaḥ ..1..
अंशुमानकरोत् तात सगरस्य मते स्थितः । तस्य पर्वणि तं यज्ञं यजमानस्य वासवः ॥१-३९-७॥
अंशुमान् अकरोत् तात सगरस्य मते स्थितः । तस्य पर्वणि तम् यज्ञम् यजमानस्य वासवः ॥१॥
aṃśumān akarot tāta sagarasya mate sthitaḥ . tasya parvaṇi tam yajñam yajamānasya vāsavaḥ ..1..
राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत् । ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः ॥१-३९-८॥
राक्षसीम् तनुम् आस्थाय यज्ञिय-अश्वम् अपाहरत् । ह्रियमाणे तु काकुत्स्थ तस्मिन् अश्वे महात्मनः ॥१॥
rākṣasīm tanum āsthāya yajñiya-aśvam apāharat . hriyamāṇe tu kākutstha tasmin aśve mahātmanaḥ ..1..
उपाध्यायगणाः सर्वे यजमानमथाब्रुवन् । अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते ॥१-३९-९॥
उपाध्याय-गणाः सर्वे यजमानम् अथ अब्रुवन् । अयम् पर्वणि वेगेन यज्ञिय-अश्वः अपनीयते ॥१॥
upādhyāya-gaṇāḥ sarve yajamānam atha abruvan . ayam parvaṇi vegena yajñiya-aśvaḥ apanīyate ..1..
हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम् । यज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नः ॥१-३९-१०॥
हर्तारम् जहि काकुत्स्थ हयः च एव उपनीयताम् । यज्ञ-छिद्रम् भवति एतत् सर्वेषाम् अशिवाय नः ॥१॥
hartāram jahi kākutstha hayaḥ ca eva upanīyatām . yajña-chidram bhavati etat sarveṣām aśivāya naḥ ..1..
तत् तथा क्रियतां राजन् यज्ञोच्छिद्रः कृतो भवेत् । सोपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः ॥१-३९-११॥
तत् तथा क्रियताम् राजन् यज्ञ-उच्छिद्रः कृतः भवेत् । स उपाध्याय-वचः श्रुत्वा तस्मिन् सदसि पार्थिवः ॥१॥
tat tathā kriyatām rājan yajña-ucchidraḥ kṛtaḥ bhavet . sa upādhyāya-vacaḥ śrutvā tasmin sadasi pārthivaḥ ..1..
षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह । गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः ॥१-३९-१२॥
षष्टिम् पुत्र-सहस्राणि वाक्यम् एतत् उवाच ह । गतिम् पुत्राः न पश्यामि रक्षसाम् पुरुष-ऋषभाः ॥१॥
ṣaṣṭim putra-sahasrāṇi vākyam etat uvāca ha . gatim putrāḥ na paśyāmi rakṣasām puruṣa-ṛṣabhāḥ ..1..
मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः । तद् गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः ॥१-३९-१३॥
मन्त्र-पूतैः महाभागैः आस्थितः हि महा-क्रतुः । तत् गच्छत विचिन्वध्वम् पुत्रकाः भद्रम् अस्तु वः ॥१॥
mantra-pūtaiḥ mahābhāgaiḥ āsthitaḥ hi mahā-kratuḥ . tat gacchata vicinvadhvam putrakāḥ bhadram astu vaḥ ..1..
समुद्रमालिनीं सर्वां पृथिवीमनुगच्छथ । एकैकं योजनं पुत्रा विस्तारमभिगच्छत ॥१-३९-१४॥
समुद्र-मालिनीम् सर्वाम् पृथिवीम् अनुगच्छथ । एकैकम् योजनम् पुत्राः विस्तारम् अभिगच्छत ॥१॥
samudra-mālinīm sarvām pṛthivīm anugacchatha . ekaikam yojanam putrāḥ vistāram abhigacchata ..1..
यावत् तुरगसंदर्शस्तावत् खनत मेदिनीम् । तमेव हयहर्तारं मार्गमाणा ममाज्ञया ॥१-३९-१५॥
यावत् तुरग-संदर्शः तावत् खनत मेदिनीम् । तम् एव हय-हर्तारम् मार्गमाणाः मम आज्ञया ॥१॥
yāvat turaga-saṃdarśaḥ tāvat khanata medinīm . tam eva haya-hartāram mārgamāṇāḥ mama ājñayā ..1..
दीक्षितः पौत्रसहितः सोपाध्यायगणस्त्वहम् । इह स्थास्यामि भद्रं वो यावत् तुरगदर्शनम् ॥१-३९-१६॥
दीक्षितः पौत्र-सहितः स उपाध्याय-गणः तु अहम् । इह स्थास्यामि भद्रम् वः यावत् तुरग-दर्शनम् ॥१॥
dīkṣitaḥ pautra-sahitaḥ sa upādhyāya-gaṇaḥ tu aham . iha sthāsyāmi bhadram vaḥ yāvat turaga-darśanam ..1..
ते सर्वे हृष्टमनसो राजपुत्रा महाबलाः । जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः ॥१-३९-१७॥
ते सर्वे हृष्ट-मनसः राज-पुत्राः महा-बलाः । जग्मुः मही-तलम् राम पितुः वचन-यन्त्रिताः ॥१॥
te sarve hṛṣṭa-manasaḥ rāja-putrāḥ mahā-balāḥ . jagmuḥ mahī-talam rāma pituḥ vacana-yantritāḥ ..1..
गत्वा तु पृथिवीं सर्वामदृष्ट्वा तं महाबलाः । योजनायामविस्तारमेकैको धरणीतलम् । बिभिदुः पुरुषव्याघ्रा वज्रस्पर्शसमैर्भुजैः ॥१-३९-१८॥
गत्वा तु पृथिवीम् सर्वाम् अ दृष्ट्वा तम् महा-बलाः । योजन-आयाम-विस्तारम् एकैकः धरणी-तलम् । बिभिदुः पुरुष-व्याघ्राः वज्र-स्पर्श-समैः भुजैः ॥१॥
gatvā tu pṛthivīm sarvām a dṛṣṭvā tam mahā-balāḥ . yojana-āyāma-vistāram ekaikaḥ dharaṇī-talam . bibhiduḥ puruṣa-vyāghrāḥ vajra-sparśa-samaiḥ bhujaiḥ ..1..
शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः । भिद्यमाना वसुमती ननाद रघुनन्दन ॥१-३९-१९॥
शूलैः अशनि-कल्पैः च हलैः च अपि सु दारुणैः । भिद्यमाना वसुमती ननाद रघुनन्दन ॥१॥
śūlaiḥ aśani-kalpaiḥ ca halaiḥ ca api su dāruṇaiḥ . bhidyamānā vasumatī nanāda raghunandana ..1..
नागानां वध्यमानानामसुराणां च राघव । राक्षसानां दुराधर्षं सत्त्वानां निनदोऽभवत् ॥१-३९-२०॥
नागानाम् वध्यमानानाम् असुराणाम् च राघव । राक्षसानाम् दुराधर्षम् सत्त्वानाम् निनदः अभवत् ॥१॥
nāgānām vadhyamānānām asurāṇām ca rāghava . rākṣasānām durādharṣam sattvānām ninadaḥ abhavat ..1..
योजनानां सहस्राणि षष्टिं तु रघुनन्दन । बिभिदुर्धरणीं राम रसातलमनुत्तमम् ॥१-३९-२१॥
योजनानाम् सहस्राणि षष्टिम् तु रघुनन्दन । बिभिदुः धरणीम् राम रसातलम् अनुत्तमम् ॥१॥
yojanānām sahasrāṇi ṣaṣṭim tu raghunandana . bibhiduḥ dharaṇīm rāma rasātalam anuttamam ..1..
एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः । खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः ॥१-३९-२२॥
एवम् पर्वत-संबाधम् जम्बूद्वीपम् नृप-आत्मजाः । खनन्तः नृप-शार्दूल सर्वतस् परिचक्रमुः ॥१॥
evam parvata-saṃbādham jambūdvīpam nṛpa-ātmajāḥ . khanantaḥ nṛpa-śārdūla sarvatas paricakramuḥ ..1..
ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः । सम्भ्रान्तमनसः सर्वे पितामहमुपागमन् ॥१-३९-२३॥
ततस् देवाः स गन्धर्वाः स असुराः सह पन्नगाः । सम्भ्रान्त-मनसः सर्वे पितामहम् उपागमन् ॥१॥
tatas devāḥ sa gandharvāḥ sa asurāḥ saha pannagāḥ . sambhrānta-manasaḥ sarve pitāmaham upāgaman ..1..
ते प्रसाद्य महात्मानं विषण्णवदनास्तदा । ऊचुः परमसंत्रस्ताः पितामहमिदं वचः ॥१-३९-२४॥
ते प्रसाद्य महात्मानम् विषण्ण-वदनाः तदा । ऊचुः परम-संत्रस्ताः पितामहम् इदम् वचः ॥१॥
te prasādya mahātmānam viṣaṇṇa-vadanāḥ tadā . ūcuḥ parama-saṃtrastāḥ pitāmaham idam vacaḥ ..1..
भगवन् पृथिवी सर्वा खन्यते सगरात्मजैःबहवश्च महात्मानो वध्यन्ते जलचारिणः ॥१-३९-२५॥
भगवन् पृथिवी सर्वा खन्यते सगर-आत्मजैः बहवः च महात्मानः वध्यन्ते जलचारिणः ॥१॥
bhagavan pṛthivī sarvā khanyate sagara-ātmajaiḥ bahavaḥ ca mahātmānaḥ vadhyante jalacāriṇaḥ ..1..
अयं यज्ञहरोऽस्माकमनेनाश्वोऽपनीयते । इति ते सर्वभूतानि हिंसन्ति सगरात्मजाः ॥१-३९-२६॥
अयम् यज्ञ-हरः अस्माकम् अनेन अश्वः अपनीयते । इति ते सर्व-भूतानि हिंसन्ति सगर-आत्मजाः ॥१॥
ayam yajña-haraḥ asmākam anena aśvaḥ apanīyate . iti te sarva-bhūtāni hiṃsanti sagara-ātmajāḥ ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१-३९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनचत्वारिंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekonacatvāriṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In