This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चत्वारिंशः सर्गः ॥१-४०॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे चत्वारिंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe catvāriṃśaḥ sargaḥ ..1..
देवतानां वचः श्रुत्वा भगवान् वै पितामहः । प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान् ॥१-४०-१॥
देवतानाम् वचः श्रुत्वा भगवान् वै पितामहः । प्रत्युवाच सु संत्रस्तान् कृतान्त-बल-मोहितान् ॥१॥
devatānām vacaḥ śrutvā bhagavān vai pitāmahaḥ . pratyuvāca su saṃtrastān kṛtānta-bala-mohitān ..1..
यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः । महिषी माधवस्यैषा स एव भगवन् प्रभुः ॥१-४०-२॥
यस्य इयम् वसुधा कृत्स्ना वासुदेवस्य धीमतः । महिषी माधवस्य एषा सः एव भगवन् प्रभुः ॥१॥
yasya iyam vasudhā kṛtsnā vāsudevasya dhīmataḥ . mahiṣī mādhavasya eṣā saḥ eva bhagavan prabhuḥ ..1..
कापिलं रूपमास्थाय धारयत्यनिशं धराम् । तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः ॥१-४०-३॥
कापिलम् रूपम् आस्थाय धारयति अनिशम् धराम् । तस्य कोप-अग्निना दग्धाः भविष्यन्ति नृप-आत्मजाः ॥१॥
kāpilam rūpam āsthāya dhārayati aniśam dharām . tasya kopa-agninā dagdhāḥ bhaviṣyanti nṛpa-ātmajāḥ ..1..
पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः । सगरस्य च पुत्राणां विनाशो दीर्घदर्शिनाम् ॥१-४०-४॥
पृथिव्याः च अपि निर्भेदः दृष्टः एव सनातनः । सगरस्य च पुत्राणाम् विनाशः दीर्घदर्शिनाम् ॥१॥
pṛthivyāḥ ca api nirbhedaḥ dṛṣṭaḥ eva sanātanaḥ . sagarasya ca putrāṇām vināśaḥ dīrghadarśinām ..1..
पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिंदमाः । देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ॥१-४०-५॥
पितामह-वचः श्रुत्वा त्रयस्त्रिंशत्-अरिंदमाः । देवाः परम-संहृष्टाः पुनर् जग्मुः यथागतम् ॥१॥
pitāmaha-vacaḥ śrutvā trayastriṃśat-ariṃdamāḥ . devāḥ parama-saṃhṛṣṭāḥ punar jagmuḥ yathāgatam ..1..
सगरस्य च पुत्राणां प्रादुरासीन्महास्वनः । पृथिव्यां भिद्यमानायां निर्घातसमनिस्वनः ॥१-४०-६॥
सगरस्य च पुत्राणाम् प्रादुरासीत् महा-स्वनः । पृथिव्याम् भिद्यमानायाम् निर्घात-सम-निस्वनः ॥१॥
sagarasya ca putrāṇām prādurāsīt mahā-svanaḥ . pṛthivyām bhidyamānāyām nirghāta-sama-nisvanaḥ ..1..
ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम् । सहिताः सागराः सर्वे पितरं वाक्यमब्रुवन् ॥१-४०-७॥
ततस् भित्त्वा महीम् सर्वाम् कृत्वा च अपि प्रदक्षिणम् । सहिताः सागराः सर्वे पितरम् वाक्यम् अब्रुवन् ॥१॥
tatas bhittvā mahīm sarvām kṛtvā ca api pradakṣiṇam . sahitāḥ sāgarāḥ sarve pitaram vākyam abruvan ..1..
परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः । देवदानवरक्षांसि पिशाचोरगपन्नगाः ॥१-४०-८॥
परिक्रान्ता मही सर्वा सत्त्ववन्तः च सूदिताः । देव-दानव-रक्षांसि पिशाच-उरग-पन्नगाः ॥१॥
parikrāntā mahī sarvā sattvavantaḥ ca sūditāḥ . deva-dānava-rakṣāṃsi piśāca-uraga-pannagāḥ ..1..
न च पश्यामहेऽश्वं ते अश्वहर्तारमेव च । किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम्॥१-४०-९॥
न च पश्यामहे अश्वम् ते अश्व-हर्तारम् एव च । किम् करिष्याम भद्रम् ते बुद्धिः अत्र विचार्यताम्॥१॥
na ca paśyāmahe aśvam te aśva-hartāram eva ca . kim kariṣyāma bhadram te buddhiḥ atra vicāryatām..1..
तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः । समन्युरब्रवीद् वाक्यं सगरो रघुनन्दन ॥१-४०-१०॥
तेषाम् तत् वचनम् श्रुत्वा पुत्राणाम् राज-सत्तमः । स मन्युः अब्रवीत् वाक्यम् सगरः रघुनन्दन ॥१॥
teṣām tat vacanam śrutvā putrāṇām rāja-sattamaḥ . sa manyuḥ abravīt vākyam sagaraḥ raghunandana ..1..
भूयः खनत भद्रं वो विभेद्य वसुधातलम् । अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तत ॥१-४०-११॥
भूयस् खनत भद्रम् वः विभेद्य वसुधा-तलम् । अश्व-हर्तारम् आसाद्य कृतार्थाः च निवर्तत ॥१॥
bhūyas khanata bhadram vaḥ vibhedya vasudhā-talam . aśva-hartāram āsādya kṛtārthāḥ ca nivartata ..1..
पितुर्वचनमासाद्य सगरस्य महात्मनः । षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् ॥१-४०-१२॥
पितुः वचनम् आसाद्य सगरस्य महात्मनः । षष्टिः पुत्र-सहस्राणि रसातलम् अभिद्रवन् ॥१॥
pituḥ vacanam āsādya sagarasya mahātmanaḥ . ṣaṣṭiḥ putra-sahasrāṇi rasātalam abhidravan ..1..
खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम् । दिशागजं विरूपाक्षं धारयन्तं महीतलम् ॥१-४०-१३॥
खन्यमाने ततस् तस्मिन् ददृशुः पर्वत-उपमम् । दिशागजम् विरूपाक्षम् धारयन्तम् मही-तलम् ॥१॥
khanyamāne tatas tasmin dadṛśuḥ parvata-upamam . diśāgajam virūpākṣam dhārayantam mahī-talam ..1..
सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन । धारयामास शिरसा विरूपाक्षो महागजः ॥१-४०-१४॥
स पर्वत-वनाम् कृत्स्नाम् पृथिवीम् रघुनन्दन । धारयामास शिरसा विरूपाक्षः महा-गजः ॥१॥
sa parvata-vanām kṛtsnām pṛthivīm raghunandana . dhārayāmāsa śirasā virūpākṣaḥ mahā-gajaḥ ..1..
यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः । खेदाच्चालयते शीर्षं भूमिकम्पस्तदा भवेत् ॥१-४०-१५॥
यदा पर्वणि काकुत्स्थ विश्रम-अर्थम् महागजः । खेदात् चालयते शीर्षम् भूमिकम्पः तदा भवेत् ॥१॥
yadā parvaṇi kākutstha viśrama-artham mahāgajaḥ . khedāt cālayate śīrṣam bhūmikampaḥ tadā bhavet ..1..
ते तं प्रदक्षिणं कृत्वा दिशापालं महागजम् । मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम् ॥१-४०-१६॥
ते तम् प्रदक्षिणम् कृत्वा दिशापालम् महागजम् । मानयन्तः हि ते राम जग्मुः भित्त्वा रसातलम् ॥१॥
te tam pradakṣiṇam kṛtvā diśāpālam mahāgajam . mānayantaḥ hi te rāma jagmuḥ bhittvā rasātalam ..1..
ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः । दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् ॥१-४०-१७॥
ततस् पूर्वाम् दिशम् भित्त्वा दक्षिणाम् बिभिदुः पुनर् । दक्षिणस्याम् अपि दिशि ददृशुः ते महागजम् ॥१॥
tatas pūrvām diśam bhittvā dakṣiṇām bibhiduḥ punar . dakṣiṇasyām api diśi dadṛśuḥ te mahāgajam ..1..
महापद्मं महात्मानं सुमहत्पर्वतोपमम् । शिरसा धारयन्तं गां विस्मयं जग्मुरुत्तमम् ॥१-४०-१८॥
महापद्मम् महात्मानम् सु महत्-पर्वत-उपमम् । शिरसा धारयन्तम् गाम् विस्मयम् जग्मुः उत्तमम् ॥१॥
mahāpadmam mahātmānam su mahat-parvata-upamam . śirasā dhārayantam gām vismayam jagmuḥ uttamam ..1..
ते तं प्रदक्षिणं कृत्वा सगरस्य महात्मनः । षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ॥१-४०-१९॥
ते तम् प्रदक्षिणम् कृत्वा सगरस्य महात्मनः । षष्टिः पुत्र-सहस्राणि पश्चिमाम् बिभिदुः दिशम् ॥१॥
te tam pradakṣiṇam kṛtvā sagarasya mahātmanaḥ . ṣaṣṭiḥ putra-sahasrāṇi paścimām bibhiduḥ diśam ..1..
पश्चिमायामपि दिशि महान्तमचलोपमम् । दिशागजं सौमनसं ददृशुस्ते महाबलाः ॥१-४०-२०॥
पश्चिमायाम् अपि दिशि महान्तम् अचल-उपमम् । दिशागजम् सौमनसम् ददृशुः ते महा-बलाः ॥१॥
paścimāyām api diśi mahāntam acala-upamam . diśāgajam saumanasam dadṛśuḥ te mahā-balāḥ ..1..
तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् । खनन्तः समुपक्रान्ता दिशं सोमवतीं तदा ॥१-४०-२१॥
तम् ते प्रदक्षिणम् कृत्वा पृष्ट्वा च अपि निरामयम् । खनन्तः समुपक्रान्ताः दिशम् सोमवतीम् तदा ॥१॥
tam te pradakṣiṇam kṛtvā pṛṣṭvā ca api nirāmayam . khanantaḥ samupakrāntāḥ diśam somavatīm tadā ..1..
उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम् । भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ॥१-४०-२२॥
उत्तरस्याम् रघु-श्रेष्ठ ददृशुः हिम-पाण्डुरम् । भद्रम् भद्रेण वपुषा धारयन्तम् महीम् इमाम् ॥१॥
uttarasyām raghu-śreṣṭha dadṛśuḥ hima-pāṇḍuram . bhadram bhadreṇa vapuṣā dhārayantam mahīm imām ..1..
समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् । षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ॥१-४०-२३॥
समालभ्य ततस् सर्वे कृत्वा च एनम् प्रदक्षिणम् । षष्टिः पुत्र-सहस्राणि बिभिदुः वसुधा-तलम् ॥१॥
samālabhya tatas sarve kṛtvā ca enam pradakṣiṇam . ṣaṣṭiḥ putra-sahasrāṇi bibhiduḥ vasudhā-talam ..1..
ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् । रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः ॥१-४०-२४॥
ततस् प्रागुत्तराम् गत्वा सागराः प्रथिताम् दिशम् । रोषात् अभ्यखनन् सर्वे पृथिवीम् सगर-आत्मजाः ॥१॥
tatas prāguttarām gatvā sāgarāḥ prathitām diśam . roṣāt abhyakhanan sarve pṛthivīm sagara-ātmajāḥ ..1..
ते तु सर्वे महत्मानो भिमवेगा महबलाः । ददृशुः कपिलं तत्र वासुदेवं सनातनम् ॥१-४०-२५॥
ते तु सर्वे महत्मानः भिम-वेगाः मह-बलाः । ददृशुः कपिलम् तत्र वासुदेवम् सनातनम् ॥१॥
te tu sarve mahatmānaḥ bhima-vegāḥ maha-balāḥ . dadṛśuḥ kapilam tatra vāsudevam sanātanam ..1..
हयं च तस्य देवस्य चरन्तमविदूरतः । प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनंदन ॥१-४०-२६॥
हयम् च तस्य देवस्य चरन्तम् अविदूरतः । प्रहर्षम् अतुलम् प्राप्ताः सर्वे ते रघुनंदन ॥१॥
hayam ca tasya devasya carantam avidūrataḥ . praharṣam atulam prāptāḥ sarve te raghunaṃdana ..1..
ते तं यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः । खनित्रलाङ्गलधरा नानावृक्षशिलाधराः ॥१-४०-२७॥
ते तम् यज्ञहनम् ज्ञात्वा क्रोध-पर्याकुल-ईक्षणाः । खनित्र-लाङ्गल-धराः नाना वृक्ष-शिला-धराः ॥१॥
te tam yajñahanam jñātvā krodha-paryākula-īkṣaṇāḥ . khanitra-lāṅgala-dharāḥ nānā vṛkṣa-śilā-dharāḥ ..1..
अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् । अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि ॥१-४०-२८॥
अभ्यधावन्त संक्रुद्धाः तिष्ठ तिष्ठ इति च अब्रुवन् । अस्माकम् त्वम् हि तुरगम् यज्ञियम् हृतवान् असि ॥१॥
abhyadhāvanta saṃkruddhāḥ tiṣṭha tiṣṭha iti ca abruvan . asmākam tvam hi turagam yajñiyam hṛtavān asi ..1..
दुर्मेधस्त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् । श्रुत्वा तद्वचनं तेषां कपिलो रघुनन्दन ॥१-४०-२९॥
दुर्मेधः त्वम् हि संप्राप्तान् विद्धि नः सगर-आत्मजान् । श्रुत्वा तत् वचनम् तेषाम् कपिलः रघुनन्दन ॥१॥
durmedhaḥ tvam hi saṃprāptān viddhi naḥ sagara-ātmajān . śrutvā tat vacanam teṣām kapilaḥ raghunandana ..1..
रोषेण महताविष्टो हुंकारमकरोत् तदा । ततस्तेनाप्रमेयेण कपिलेन महात्मना । भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः ॥१-४०-३०॥
रोषेण महता आविष्टः हुंकारम् अकरोत् तदा । ततस् तेन अप्रमेयेण कपिलेन महात्मना । भस्म-राशीकृताः सर्वे काकुत्स्थ सगर-आत्मजाः ॥१॥
roṣeṇa mahatā āviṣṭaḥ huṃkāram akarot tadā . tatas tena aprameyeṇa kapilena mahātmanā . bhasma-rāśīkṛtāḥ sarve kākutstha sagara-ātmajāḥ ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चत्वारिंशः सर्गः ॥१-४०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चत्वारिंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe catvāriṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In