This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे एकचत्वारिंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe ekacatvāriṃśaḥ sargaḥ ..1..
पुत्रांश्चिरगताञ्ज्ञात्वा सगरो रघुनन्दन । नप्तारमब्रवीद् राजा दीप्यमानं स्वतेजसा ॥१-४१-१॥
पुत्रान् चिर-गतान् ज्ञात्वा सगरः रघुनन्दन । नप्तारम् अब्रवीत् राजा दीप्यमानम् स्व-तेजसा ॥१॥
putrān cira-gatān jñātvā sagaraḥ raghunandana . naptāram abravīt rājā dīpyamānam sva-tejasā ..1..
शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा । पितॄणां गतिमन्विच्छ येन चाश्वोऽपवाहितः ॥१-४१-२॥
शूरः च कृत-विद्यः च पूर्वैः तुल्यः असि तेजसा । पितॄणाम् गतिम् अन्विच्छ येन च अश्वः अपवाहितः ॥१॥
śūraḥ ca kṛta-vidyaḥ ca pūrvaiḥ tulyaḥ asi tejasā . pitṝṇām gatim anviccha yena ca aśvaḥ apavāhitaḥ ..1..
अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च । तेषां तु प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ॥१-४१-३॥
अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च । तेषाम् तु प्रतिघात-अर्थम् स असिम् गृह्णीष्व कार्मुकम् ॥१॥
antarbhaumāni sattvāni vīryavanti mahānti ca . teṣām tu pratighāta-artham sa asim gṛhṇīṣva kārmukam ..1..
अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि । सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥१-४१-४॥
अभिवाद्य अभिवाद्यान् त्वम् हत्वा विघ्न-करान् अपि । सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥१॥
abhivādya abhivādyān tvam hatvā vighna-karān api . siddhārthaḥ saṃnivartasva mama yajñasya pāragaḥ ..1..
एवमुक्तोंऽशुमान् सम्यक् सगरेण महात्मना । धनुरादाय खड्गं च जगाम लघुविक्रमः ॥१-४१-५॥
एवम् उक्तः उंशुमान् सम्यक् सगरेण महात्मना । धनुः आदाय खड्गम् च जगाम लघु-विक्रमः ॥१॥
evam uktaḥ uṃśumān samyak sagareṇa mahātmanā . dhanuḥ ādāya khaḍgam ca jagāma laghu-vikramaḥ ..1..
स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः । प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः ॥१-४१-६॥
स खातम् पितृभिः मार्गम् अन्तर्भौमम् महात्मभिः । प्रापद्यत नर-श्रेष्ठ तेन राज्ञा अभिचोदितः ॥१॥
sa khātam pitṛbhiḥ mārgam antarbhaumam mahātmabhiḥ . prāpadyata nara-śreṣṭha tena rājñā abhicoditaḥ ..1..
देवदानवरक्षोभिः पिशाचपतगोरगैः । पूज्यमानं महातेजा दिशागजमपश्यत ॥१-४१-७॥
देव-दानव-रक्षोभिः पिशाच-पतग-उरगैः । पूज्यमानम् महा-तेजाः दिशागजम् अपश्यत ॥१॥
deva-dānava-rakṣobhiḥ piśāca-pataga-uragaiḥ . pūjyamānam mahā-tejāḥ diśāgajam apaśyata ..1..
स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् । पितॄन् स परिपप्रच्छ वाजिहर्तारमेव च ॥१-४१-८॥
स तम् प्रदक्षिणम् कृत्वा पृष्ट्वा च एव निरामयम् । पितॄन् स परिपप्रच्छ वाजि-हर्तारम् एव च ॥१॥
sa tam pradakṣiṇam kṛtvā pṛṣṭvā ca eva nirāmayam . pitṝn sa paripapraccha vāji-hartāram eva ca ..1..
दिशागजस्तु तच्छ्रुत्वा प्रत्युवाच महामतिः । आसमञ्ज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥१-४१-९॥
दिशागजः तु तत् श्रुत्वा प्रत्युवाच महामतिः । आसमञ्ज कृतार्थः त्वम् सह अश्वः शीघ्रम् एष्यसि ॥१॥
diśāgajaḥ tu tat śrutvā pratyuvāca mahāmatiḥ . āsamañja kṛtārthaḥ tvam saha aśvaḥ śīghram eṣyasi ..1..
तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् । यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥१-४१-१०॥
तस्य तत् वचनम् श्रुत्वा सर्वान् एव दिशागजान् । यथाक्रमम् यथान्यायम् प्रष्टुम् समुपचक्रमे ॥१॥
tasya tat vacanam śrutvā sarvān eva diśāgajān . yathākramam yathānyāyam praṣṭum samupacakrame ..1..
तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः । पूजितः सहयश्चैवागन्तासीत्यभिचोदितः ॥१-४१-११॥
तैः च सर्वैः दिशापालैः वाक्य-ज्ञैः वाक्य-कोविदैः । पूजितः स हयः च एव आगन्तासि इति अभिचोदितः ॥१॥
taiḥ ca sarvaiḥ diśāpālaiḥ vākya-jñaiḥ vākya-kovidaiḥ . pūjitaḥ sa hayaḥ ca eva āgantāsi iti abhicoditaḥ ..1..
तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः । भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥१-४१-१२॥
तेषाम् तत् वचनम् श्रुत्वा जगाम लघु-विक्रमः । भस्म-राशीकृताः यत्र पितरः तस्य सागराः ॥१॥
teṣām tat vacanam śrutvā jagāma laghu-vikramaḥ . bhasma-rāśīkṛtāḥ yatra pitaraḥ tasya sāgarāḥ ..1..
स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा । चुक्रोश परमार्तस्तु वधात् तेषां सुदुःखितः ॥१-४१-१३॥
स दुःख-वशम् आपन्नः तु असमञ्ज-सुतः तदा । चुक्रोश परम-आर्तः तु वधात् तेषाम् सु दुःखितः ॥१॥
sa duḥkha-vaśam āpannaḥ tu asamañja-sutaḥ tadā . cukrośa parama-ārtaḥ tu vadhāt teṣām su duḥkhitaḥ ..1..
यज्ञियं च हयं तत्र चरन्तमविदूरतः । ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥१-४१-१४॥
यज्ञियम् च हयम् तत्र चरन्तम् अविदूरतः । ददर्श पुरुष-व्याघ्रः दुःख-शोक-समन्वितः ॥१॥
yajñiyam ca hayam tatra carantam avidūrataḥ . dadarśa puruṣa-vyāghraḥ duḥkha-śoka-samanvitaḥ ..1..
स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् । स जलार्थी महातेजा न चापश्यज्जलाशयम् ॥१-४१-१५॥
स तेषाम् राज-पुत्राणाम् कर्तु-कामः जलक्रियाम् । स जल-अर्थी महा-तेजाः न च अपश्यत् जलाशयम् ॥१॥
sa teṣām rāja-putrāṇām kartu-kāmaḥ jalakriyām . sa jala-arthī mahā-tejāḥ na ca apaśyat jalāśayam ..1..
विसार्य निपुणां दृष्टिं ततोऽपश्यत् खगाधिपम् । पितॄणां मातुलं राम सुपर्णमनिलोपमम् ॥१-४१-१६॥
विसार्य निपुणाम् दृष्टिम् ततस् अपश्यत् खग-अधिपम् । पितॄणाम् मातुलम् राम सुपर्णम् अनिल-उपमम् ॥१॥
visārya nipuṇām dṛṣṭim tatas apaśyat khaga-adhipam . pitṝṇām mātulam rāma suparṇam anila-upamam ..1..
स चैनमब्रवीद् वाक्यं वैनतेयो महाबलः । मा शुचः पुरुषव्याघ्र वधोऽयं लोकसम्मतः ॥१-४१-१७॥
स च एनम् अब्रवीत् वाक्यम् वैनतेयः महा-बलः । मा शुचः पुरुष-व्याघ्र वधः अयम् लोक-सम्मतः ॥१॥
sa ca enam abravīt vākyam vainateyaḥ mahā-balaḥ . mā śucaḥ puruṣa-vyāghra vadhaḥ ayam loka-sammataḥ ..1..
कपिलेनाप्रमेयेण दग्धा हीमे महाबलाः । सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ॥१-४१-१८॥
कपिलेन अप्रमेयेण दग्धाः हि इमे महा-बलाः । सलिलम् ना अर्हसि प्राज्ञ दातुम् एषाम् हि लौकिकम् ॥१॥
kapilena aprameyeṇa dagdhāḥ hi ime mahā-balāḥ . salilam nā arhasi prājña dātum eṣām hi laukikam ..1..
गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ । तस्यां कुरु महाबाहो पितॄणां तु जल क्रियाम् ॥१-४१-१९ ॥
गङ्गा हिमवतः ज्येष्ठा दुहिता पुरुष-ऋषभ । तस्याम् कुरु महा-बाहो पितॄणाम् तु जल-क्रियाम् ॥१ ॥
gaṅgā himavataḥ jyeṣṭhā duhitā puruṣa-ṛṣabha . tasyām kuru mahā-bāho pitṝṇām tu jala-kriyām ..1 ..
भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी । तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया । षष्टिं पुत्रसहस्राणि स्वर्गलोकं गमिष्यति ॥१-४१-२०॥
भस्म-राशीकृतान् एतान् प्लावयेत् लोक-पावनी । तया क्लिन्नम् इदम् भस्म गङ्गया लोक-कान्तया । षष्टिम् पुत्र-सहस्राणि स्वर्ग-लोकम् गमिष्यति ॥१॥
bhasma-rāśīkṛtān etān plāvayet loka-pāvanī . tayā klinnam idam bhasma gaṅgayā loka-kāntayā . ṣaṣṭim putra-sahasrāṇi svarga-lokam gamiṣyati ..1..
निर्गच्छाश्वं महाभाग संगृह्य पुरुषर्षभ। यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि॥१-४१-२१ ॥
निर्गच्छ अश्वम् महाभाग संगृह्य पुरुष-ऋषभ। यज्ञम् पैतामहम् वीर निर्वर्तयितुम् अर्हसि॥१ ॥
nirgaccha aśvam mahābhāga saṃgṛhya puruṣa-ṛṣabha. yajñam paitāmaham vīra nirvartayitum arhasi..1 ..
सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान् । त्वरितं हयमादाय पुनरायान्महातपाः ॥१-४१-२२ ॥
सुपर्ण-वचनम् श्रुत्वा सः ओम् अशुमान् अति वीर्यवान् । त्वरितम् हयम् आदाय पुनर् आयात् महा-तपाः ॥१ ॥
suparṇa-vacanam śrutvā saḥ om aśumān ati vīryavān . tvaritam hayam ādāya punar āyāt mahā-tapāḥ ..1 ..
ततो राजानमासाद्य दीक्षितं रघुनन्दन । न्यवेदयद् यथावृत्तं सुपर्णवचनं तथा ॥१-४१-२३॥
ततस् राजानम् आसाद्य दीक्षितम् रघुनन्दन । न्यवेदयत् यथावृत्तम् सुपर्ण-वचनम् तथा ॥१॥
tatas rājānam āsādya dīkṣitam raghunandana . nyavedayat yathāvṛttam suparṇa-vacanam tathā ..1..
तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः । यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि ॥१-४१-२४॥
तत् श्रुत्वा घोर-संकाशम् वाक्यम् अंशुमतः नृपः । यज्ञम् निर्वर्तयामास यथाकल्पम् यथाविधि ॥१॥
tat śrutvā ghora-saṃkāśam vākyam aṃśumataḥ nṛpaḥ . yajñam nirvartayāmāsa yathākalpam yathāvidhi ..1..
स्वपुरं त्वगमच्छ्रीमानिष्टयज्ञो महीपतिः । गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥१-४१-२५॥
स्व-पुरम् तु अगमत् श्रीमान् इष्ट-यज्ञः महीपतिः । गङ्गायाः च आगमे राजा निश्चयम् न अध्यगच्छत ॥१॥
sva-puram tu agamat śrīmān iṣṭa-yajñaḥ mahīpatiḥ . gaṅgāyāḥ ca āgame rājā niścayam na adhyagacchata ..1..
अगत्वा निश्चयं राजा कालेन महता महान् । त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥१-४१-२६॥
अ गत्वा निश्चयम् राजा कालेन महता महान् । त्रिंशत्-वर्ष-सहस्राणि राज्यम् कृत्वा दिवम् गतः ॥१॥
a gatvā niścayam rājā kālena mahatā mahān . triṃśat-varṣa-sahasrāṇi rājyam kṛtvā divam gataḥ ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकचत्वारिंशः सर्गः ॥१-४१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकचत्वारिंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekacatvāriṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In