This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विचत्वारिंशः सर्गः ॥१-४२॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे द्विचत्वारिंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe dvicatvāriṃśaḥ sargaḥ ..1..
कालधर्मं गते राम सगरे प्रकृतीजनाः । राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् ॥१-४२-१॥
कालधर्मम् गते राम सगरे प्रकृती-जनाः । राजानम् रोचयामासुः अंशुमन्तम् सु धार्मिकम् ॥१॥
kāladharmam gate rāma sagare prakṛtī-janāḥ . rājānam rocayāmāsuḥ aṃśumantam su dhārmikam ..1..
स राजा सुमहानासीदंशुमान् रघुनन्दन । तस्य पुत्रो महानासीद् दिलीप इति विश्रुतः ॥१-४२-२॥
स राजा सु महान् आसीत् अंशुमान् रघुनन्दन । तस्य पुत्रः महान् आसीत् दिलीपः इति विश्रुतः ॥१॥
sa rājā su mahān āsīt aṃśumān raghunandana . tasya putraḥ mahān āsīt dilīpaḥ iti viśrutaḥ ..1..
तस्मै राज्यं समादिश्य दिलीपे रघुनन्दन । हिमवच्छिखरे रम्ये तपस्तेपे सुदारुणम् ॥१-४२-३॥
तस्मै राज्यम् समादिश्य दिलीपे रघुनन्दन । हिमवत्-शिखरे रम्ये तपः तेपे सु दारुणम् ॥१॥
tasmai rājyam samādiśya dilīpe raghunandana . himavat-śikhare ramye tapaḥ tepe su dāruṇam ..1..
द्वात्रिंशच्छतसाहस्रं वर्षाणि सुमहायशाः । तपोवनगतो राजा स्वर्गं लेभे तपोधनः ॥१-४२-४॥
द्वात्रिंशत्-शत-साहस्रम् वर्षाणि सु महा-यशाः । तपः-वन-गतः राजा स्वर्गम् लेभे तपोधनः ॥१॥
dvātriṃśat-śata-sāhasram varṣāṇi su mahā-yaśāḥ . tapaḥ-vana-gataḥ rājā svargam lebhe tapodhanaḥ ..1..
दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् । दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत ॥१-४२-५॥
दिलीपः तु महा-तेजाः श्रुत्वा पैतामहम् वधम् । दुःख-उपहतया बुद्ध्या निश्चयम् न अध्यगच्छत ॥१॥
dilīpaḥ tu mahā-tejāḥ śrutvā paitāmaham vadham . duḥkha-upahatayā buddhyā niścayam na adhyagacchata ..1..
कथं गङ्गावतरणं कथं तेषां जलक्रिया । तारयेयं कथं चैतानिति चिन्तापरोऽभवत् ॥१-४२-६॥
कथम् गङ्गा-अवतरणम् कथम् तेषाम् जलक्रिया । तारयेयम् कथम् च एतान् इति चिन्ता-परः अभवत् ॥१॥
katham gaṅgā-avataraṇam katham teṣām jalakriyā . tārayeyam katham ca etān iti cintā-paraḥ abhavat ..1..
तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः । पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ॥१-४२-७॥
तस्य चिन्तयतः नित्यम् धर्मेण विदित-आत्मनः । पुत्रः भगीरथः नाम जज्ञे परम-धार्मिकः ॥१॥
tasya cintayataḥ nityam dharmeṇa vidita-ātmanaḥ . putraḥ bhagīrathaḥ nāma jajñe parama-dhārmikaḥ ..1..
दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् । त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् ॥१-४२-८॥
दिलीपः तु महा-तेजाः यज्ञैः बहुभिः इष्टवान् । त्रिंशत्-वर्ष-सहस्राणि राजा राज्यम् अकारयत् ॥१॥
dilīpaḥ tu mahā-tejāḥ yajñaiḥ bahubhiḥ iṣṭavān . triṃśat-varṣa-sahasrāṇi rājā rājyam akārayat ..1..
अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति । व्याधिना नरशार्दूल कालधर्ममुपेयिवान् ॥१-४२-९॥
अ गत्वा निश्चयम् राजा तेषाम् उद्धरणम् प्रति । व्याधिना नर-शार्दूल कालधर्मम् उपेयिवान् ॥१॥
a gatvā niścayam rājā teṣām uddharaṇam prati . vyādhinā nara-śārdūla kāladharmam upeyivān ..1..
इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा । राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः ॥१-४२-१०॥
इन्द्र-लोकम् गतः राजा स्व-अर्जितेन एव कर्मणा । राज्ये भगीरथम् पुत्रम् अभिषिच्य नर-ऋषभः ॥१॥
indra-lokam gataḥ rājā sva-arjitena eva karmaṇā . rājye bhagīratham putram abhiṣicya nara-ṛṣabhaḥ ..1..
भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन । अनपत्यो महाराजः प्रजाकामः स च प्रजाः ॥१-४२-११॥
भगीरथः तु राजर्षिः धार्मिकः रघुनन्दन । अनपत्यः महा-राजः प्रजा-कामः स च प्रजाः ॥१॥
bhagīrathaḥ tu rājarṣiḥ dhārmikaḥ raghunandana . anapatyaḥ mahā-rājaḥ prajā-kāmaḥ sa ca prajāḥ ..1..
मन्त्रिष्वाधाय तद् राज्यं गङ्गावतरणे रतः । तपो दीर्घं समातिष्ठद् गोकर्णे रघुनन्दन ॥१-४२-१२॥
मन्त्रिषु आधाय तत् राज्यम् गङ्गा-अवतरणे रतः । तपः दीर्घम् समातिष्ठत् गोकर्णे रघुनन्दन ॥१॥
mantriṣu ādhāya tat rājyam gaṅgā-avataraṇe rataḥ . tapaḥ dīrgham samātiṣṭhat gokarṇe raghunandana ..1..
ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः । तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः ॥१-४२-१३॥
ऊर्ध्वबाहुः पञ्चतपाः मासाहारः जित-इन्द्रियः । तस्य वर्ष-सहस्राणि घोरे तपसि तिष्ठतः ॥१॥
ūrdhvabāhuḥ pañcatapāḥ māsāhāraḥ jita-indriyaḥ . tasya varṣa-sahasrāṇi ghore tapasi tiṣṭhataḥ ..1..
अतीतानि महाबाहो तस्य राज्ञो महात्मनः । सुप्रीतो भगवान् ब्रह्मा प्रजानां प्रभुरीश्वरः ॥१-४२-१५॥
अतीतानि महा-बाहो तस्य राज्ञः महात्मनः । सु प्रीतः भगवान् ब्रह्मा प्रजानाम् प्रभुः ईश्वरः ॥१॥
atītāni mahā-bāho tasya rājñaḥ mahātmanaḥ . su prītaḥ bhagavān brahmā prajānām prabhuḥ īśvaraḥ ..1..
ततः सुरगणैः सार्धमुपागम्य पितामहः । भगीरथं महात्मानं तप्यमानमथाब्रवीत् ॥१-४२-१५॥
ततस् सुर-गणैः सार्धम् उपागम्य पितामहः । भगीरथम् महात्मानम् तप्यमानम् अथ अब्रवीत् ॥१॥
tatas sura-gaṇaiḥ sārdham upāgamya pitāmahaḥ . bhagīratham mahātmānam tapyamānam atha abravīt ..1..
भगीरथ महाराज प्रीतस्तेऽहं जनाधिप । तपसा च सुतप्तेन वरं वरय सुव्रत ॥१-४२-१६॥
भगीरथ महा-राज प्रीतः ते अहम् जनाधिप । तपसा च सु तप्तेन वरम् वरय सुव्रत ॥१॥
bhagīratha mahā-rāja prītaḥ te aham janādhipa . tapasā ca su taptena varam varaya suvrata ..1..
तमुवाच महातेजाः सर्वलोकपितामहम् । भगीरथो महाबाहुः कृताञ्जलिपुटः स्थितः ॥१-४२-१७॥
तम् उवाच महा-तेजाः सर्व-लोक-पितामहम् । भगीरथः महा-बाहुः कृत-अञ्जलि-पुटः स्थितः ॥१॥
tam uvāca mahā-tejāḥ sarva-loka-pitāmaham . bhagīrathaḥ mahā-bāhuḥ kṛta-añjali-puṭaḥ sthitaḥ ..1..
यदि मे भगवान् प्रीतो यद्यस्ति तपसः फलम् । सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः ॥१-४२-१८॥
यदि मे भगवान् प्रीतः यदि अस्ति तपसः फलम् । सगरस्य आत्मजाः सर्वे मत्तः सलिलम् आप्नुयुः ॥१॥
yadi me bhagavān prītaḥ yadi asti tapasaḥ phalam . sagarasya ātmajāḥ sarve mattaḥ salilam āpnuyuḥ ..1..
गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् । स्वर्गं गच्छेयुरत्यन्तं सर्वे च प्रपितामहाः ॥१-४२-१९॥
गङ्गायाः सलिल-क्लिन्ने भस्मनि एषाम् महात्मनाम् । स्वर्गम् गच्छेयुः अत्यन्तम् सर्वे च प्रपितामहाः ॥१॥
gaṅgāyāḥ salila-klinne bhasmani eṣām mahātmanām . svargam gaccheyuḥ atyantam sarve ca prapitāmahāḥ ..1..
देव याचे ह संतत्यै नावसीदेत् कुलं च नः । इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः ॥१-४२-२०॥
देव याचे ह संतत्यै न अवसीदेत् कुलम् च नः । इक्ष्वाकूणाम् कुले देवः एष मे अस्तु वरः परः ॥१॥
deva yāce ha saṃtatyai na avasīdet kulam ca naḥ . ikṣvākūṇām kule devaḥ eṣa me astu varaḥ paraḥ ..1..
उक्तवाक्यं तु राजानं सर्वलोकपितामहः । प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम् ॥१-४२-२१॥
उक्त-वाक्यम् तु राजानम् सर्व-लोक-पितामहः । प्रत्युवाच शुभाम् वाणीम् मधुराम् मधुर-अक्षराम् ॥१॥
ukta-vākyam tu rājānam sarva-loka-pitāmahaḥ . pratyuvāca śubhām vāṇīm madhurām madhura-akṣarām ..1..
मनोरथो महानेष भगीरथ महारथ । एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन ॥१-४२-२२॥
मनोरथः महान् एष भगीरथ महा-रथ । एवम् भवतु भद्रम् ते इक्ष्वाकु-कुल-वर्धन ॥१॥
manorathaḥ mahān eṣa bhagīratha mahā-ratha . evam bhavatu bhadram te ikṣvāku-kula-vardhana ..1..
इयं हैमवती ज्येष्ठा गङ्गा हिमवतः सुता । तां वै धारयितुं राजन् हरस्तत्र नियुज्यताम् ॥१-४२-२३॥
इयम् हैमवती ज्येष्ठा गङ्गा हिमवतः सुता । ताम् वै धारयितुम् राजन् हरः तत्र नियुज्यताम् ॥१॥
iyam haimavatī jyeṣṭhā gaṅgā himavataḥ sutā . tām vai dhārayitum rājan haraḥ tatra niyujyatām ..1..
गङ्गायाः पतनं राजन् पृथिवी न सहिष्यते । तां वै धारयितुं राजन् नान्यं पश्यामि शूलिनः ॥१-४२-२४॥
गङ्गायाः पतनम् राजन् पृथिवी न सहिष्यते । ताम् वै धारयितुम् राजन् न अन्यम् पश्यामि शूलिनः ॥१॥
gaṅgāyāḥ patanam rājan pṛthivī na sahiṣyate . tām vai dhārayitum rājan na anyam paśyāmi śūlinaḥ ..1..
तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् । जगाम त्रिदिवं देवैः सर्वैः सह मरुद्गणैः ॥१-४२-२५॥
तम् एवम् उक्त्वा राजानम् गङ्गाम् च आभाष्य लोककृत् । जगाम त्रिदिवम् देवैः सर्वैः सह मरुत्-गणैः ॥१॥
tam evam uktvā rājānam gaṅgām ca ābhāṣya lokakṛt . jagāma tridivam devaiḥ sarvaiḥ saha marut-gaṇaiḥ ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विचत्वारिंशः सर्गः ॥१-४१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विचत्वारिंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe dvicatvāriṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In