This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥१-४४॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे चतुश्चत्वारिंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe catuścatvāriṃśaḥ sargaḥ ..1..
स गत्वा सागरं राजा गङ्गायानुगतस्तदा । प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ॥१-४४-१॥
स गत्वा सागरम् राजा गङ्गाय अनुगतः तदा । प्रविवेश तलम् भूमेः यत्र ते भस्मसात्कृताः ॥१॥
sa gatvā sāgaram rājā gaṅgāya anugataḥ tadā . praviveśa talam bhūmeḥ yatra te bhasmasātkṛtāḥ ..1..
भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै । सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ॥१-४४-२॥
भस्मनि अथ आप्लुते राम गङ्गायाः सलिलेन वै । सर्व-लोक-प्रभुः ब्रह्मा राजानम् इदम् अब्रवीत् ॥१॥
bhasmani atha āplute rāma gaṅgāyāḥ salilena vai . sarva-loka-prabhuḥ brahmā rājānam idam abravīt ..1..
तारिता नरशार्दूल दिवं याताश्च च देववत् । षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ॥१-४४-३॥
तारिताः नर-शार्दूल दिवम् याताः च च देव-वत् । षष्टिः पुत्र-सहस्राणि सगरस्य महात्मनः ॥१॥
tāritāḥ nara-śārdūla divam yātāḥ ca ca deva-vat . ṣaṣṭiḥ putra-sahasrāṇi sagarasya mahātmanaḥ ..1..
सागरस्य जलं लोके यावत्स्थास्यति पार्थिव । सगरस्यात्मजाः सर्वे दिवि स्थास्यन्ति देववत् ॥१-४४-४॥
सागरस्य जलम् लोके यावत् स्थास्यति पार्थिव । सगरस्य आत्मजाः सर्वे दिवि स्थास्यन्ति देव-वत् ॥१॥
sāgarasya jalam loke yāvat sthāsyati pārthiva . sagarasya ātmajāḥ sarve divi sthāsyanti deva-vat ..1..
इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति । त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता ॥१-४४-५॥
इयम् च दुहिता ज्येष्ठा तव गङ्गा भविष्यति । त्वद्-कृतेन च नाम्ना अथ लोके स्थास्यति विश्रुता ॥१॥
iyam ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati . tvad-kṛtena ca nāmnā atha loke sthāsyati viśrutā ..1..
गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च । त्रीन् पथो भावयन्तीति तस्मात् त्रिपथगा स्मृता ॥१-४४-६॥
गङ्गा त्रिपथगा नाम दिव्या भागीरथी इति च । त्रीन् पथः भावयन्ति इति तस्मात् त्रिपथगा स्मृता ॥१॥
gaṅgā tripathagā nāma divyā bhāgīrathī iti ca . trīn pathaḥ bhāvayanti iti tasmāt tripathagā smṛtā ..1..
पितामहानां सर्वेषां त्वमत्र मनुजाधिप । कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय ॥१-४४-७॥
पितामहानाम् सर्वेषाम् त्वम् अत्र मनुज-अधिप । कुरुष्व सलिलम् राजन् प्रतिज्ञाम् अपवर्जय ॥१॥
pitāmahānām sarveṣām tvam atra manuja-adhipa . kuruṣva salilam rājan pratijñām apavarjaya ..1..
पूर्वकेण हि ते राजंस्तेनातियशसा तदा । धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः ॥१-४४-८॥
पूर्वकेण हि ते राजन् तेन अति यशसा तदा । धर्मिणाम् प्रवरेण अथ न एष प्राप्तः मनोरथः ॥१॥
pūrvakeṇa hi te rājan tena ati yaśasā tadā . dharmiṇām pravareṇa atha na eṣa prāptaḥ manorathaḥ ..1..
तथैवांशुमता तात लोकेऽप्रतिमतेजसा । गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ॥१-४४-९॥
तथा एव अंशुमता तात लोके अप्रतिम-तेजसा । गङ्गाम् प्रार्थयता नेतुम् प्रतिज्ञा ना अपवर्जिता ॥१॥
tathā eva aṃśumatā tāta loke apratima-tejasā . gaṅgām prārthayatā netum pratijñā nā apavarjitā ..1..
राजर्षिणा गुणवता महर्षिसमतेजसा । मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च ॥१-४४-१०॥
राजर्षिणा गुणवता महा-ऋषि-सम-तेजसा । मद्-तुल्य-तपसा च एव क्षत्र-धर्म-स्थितेन च ॥१॥
rājarṣiṇā guṇavatā mahā-ṛṣi-sama-tejasā . mad-tulya-tapasā ca eva kṣatra-dharma-sthitena ca ..1..
दिलीपेन महाभाग तव पित्रातितेजसा । पुनर्न शकिता नेतुं गङ्गां प्रार्थयतानघ ॥१-४४-११॥
दिलीपेन महाभाग तव पित्रा अतितेजसा । पुनर् न शकिता नेतुम् गङ्गाम् प्रार्थयता अनघ ॥१॥
dilīpena mahābhāga tava pitrā atitejasā . punar na śakitā netum gaṅgām prārthayatā anagha ..1..
सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ । प्राप्तोऽसि परमं लोके यशः परमसम्मतम् ॥१-४४-१२॥
सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुष-ऋषभ । प्राप्तः असि परमम् लोके यशः परम-सम्मतम् ॥१॥
sā tvayā samatikrāntā pratijñā puruṣa-ṛṣabha . prāptaḥ asi paramam loke yaśaḥ parama-sammatam ..1..
तच्च गङ्गावतरणं त्वया कृतमरिंदम । अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् ॥१-४४-१३॥
तत् च गङ्गा-अवतरणम् त्वया कृतम् अरिंदम । अनेन च भवान् प्राप्तः धर्मस्य आयतनम् महत् ॥१॥
tat ca gaṅgā-avataraṇam tvayā kṛtam ariṃdama . anena ca bhavān prāptaḥ dharmasya āyatanam mahat ..1..
प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते । सलिले पुरुषश्रेष्ठ शुचिः पुण्यफलो भव ॥१-४४-१४॥
प्लावयस्व त्वम् आत्मानम् नर-उत्तम सदा उचिते । सलिले पुरुष-श्रेष्ठ शुचिः पुण्य-फलः भव ॥१॥
plāvayasva tvam ātmānam nara-uttama sadā ucite . salile puruṣa-śreṣṭha śuciḥ puṇya-phalaḥ bhava ..1..
पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् । स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ॥१-४४-१५॥
पितामहानाम् सर्वेषाम् कुरुष्व सलिलक्रियाम् । स्वस्ति ते अस्तु गमिष्यामि स्वम् लोकम् गम्यताम् नृप ॥१॥
pitāmahānām sarveṣām kuruṣva salilakriyām . svasti te astu gamiṣyāmi svam lokam gamyatām nṛpa ..1..
इत्येवमुक्त्वा देवेशः सर्वलोकपितामहःयथागतं तथागच्चद् देवलोकं महायशाः ॥१-४४-१६॥
इति एवम् उक्त्वा देवेशः सर्व-लोक-पितामहः यथागतम् तथा अगच्चत् देव-लोकम् महा-यशाः ॥१॥
iti evam uktvā deveśaḥ sarva-loka-pitāmahaḥ yathāgatam tathā agaccat deva-lokam mahā-yaśāḥ ..1..
भगीरथस्तु राजर्षिः कृत्वा सलिलमुत्तमम्यथाक्रमं यथान्यायं सागराणां महायशाः ॥१-४४-१७॥
भगीरथः तु राजर्षिः कृत्वा सलिलम् उत्तमम् यथाक्रमम् यथान्यायम् सागराणाम् महा-यशाः ॥१॥
bhagīrathaḥ tu rājarṣiḥ kṛtvā salilam uttamam yathākramam yathānyāyam sāgarāṇām mahā-yaśāḥ ..1..
कृतोदकः शुची राजा स्वपुरं प्रविवेश ह । समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह ॥१-४४-१८॥
कृत-उदकः शुचिः राजा स्व-पुरम् प्रविवेश ह । समृद्ध-अर्थः नर-श्रेष्ठ स्व-राज्यम् प्रशशास ह ॥१॥
kṛta-udakaḥ śuciḥ rājā sva-puram praviveśa ha . samṛddha-arthaḥ nara-śreṣṭha sva-rājyam praśaśāsa ha ..1..
प्रमुमोद च लोकस्तं नृपमासाद्य राघव । नष्टशोकः समृद्धार्थो बभूव विगतज्वरः॥१-४४-१९॥
प्रमुमोद च लोकः तम् नृपम् आसाद्य राघव । नष्ट-शोकः समृद्ध-अर्थः बभूव विगत-ज्वरः॥१॥
pramumoda ca lokaḥ tam nṛpam āsādya rāghava . naṣṭa-śokaḥ samṛddha-arthaḥ babhūva vigata-jvaraḥ..1..
एष ते राम गंगाया विस्तरोऽभिहितो मया । स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते ॥१-४४-२०॥
एष ते राम गंगायाः विस्तरः अभिहितः मया । स्वस्ति प्राप्नुहि भद्रम् ते संध्या-कालः अतिवर्तते ॥१॥
eṣa te rāma gaṃgāyāḥ vistaraḥ abhihitaḥ mayā . svasti prāpnuhi bhadram te saṃdhyā-kālaḥ ativartate ..1..
धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्ग्यमथापि च। यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च ॥१-४४-२१॥
धन्यम् यशस्यम् आयुष्यम् पुत्र्यम् स्वर्ग्यम् अथ अपि च। यः श्रावयति विप्रेषु क्षत्रियेषु इतरेषु च ॥१॥
dhanyam yaśasyam āyuṣyam putryam svargyam atha api ca. yaḥ śrāvayati vipreṣu kṣatriyeṣu itareṣu ca ..1..
प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च । इदमाख्यानमायुष्यं गंगावतरणं शुभम् ॥१-४४-२२॥
प्रीयन्ते पितरः तस्य प्रीयन्ते दैवतानि च । इदम् आख्यानम् आयुष्यम् गंगा-अवतरणम् शुभम् ॥१॥
prīyante pitaraḥ tasya prīyante daivatāni ca . idam ākhyānam āyuṣyam gaṃgā-avataraṇam śubham ..1..
यः शृणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात् । सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते ॥१-४४-२३॥
यः शृणोति च काकुत्स्थ सर्वान् कामान् अवाप्नुयात् । सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिः च वर्धते ॥१॥
yaḥ śṛṇoti ca kākutstha sarvān kāmān avāpnuyāt . sarve pāpāḥ praṇaśyanti āyuḥ kīrtiḥ ca vardhate ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥१-४३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe catuścatvāriṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In