This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चचत्वारिंशः सर्गः ॥१-४५॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे पञ्चचत्वारिंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe pañcacatvāriṃśaḥ sargaḥ ..1..
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः। विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत्॥ १॥
विश्वामित्र-वचः श्रुत्वा राघवः सहलक्ष्मणः। विस्मयम् परमम् गत्वा विश्वामित्रम् अथ अब्रवीत्॥ १॥
viśvāmitra-vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ. vismayam paramam gatvā viśvāmitram atha abravīt.. 1..
अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया। गङ्गावतरणं पुण्यं सागरस्यापि पूरणम्॥ २॥
अति अद्भुतम् इदम् ब्रह्मन् कथितम् परमम् त्वया। गङ्गा-अवतरणम् पुण्यम् सागरस्य अपि पूरणम्॥ २॥
ati adbhutam idam brahman kathitam paramam tvayā. gaṅgā-avataraṇam puṇyam sāgarasya api pūraṇam.. 2..
क्षणभूतेव नौ रात्रिः संवृत्तेयं परंतप। इमां चिन्तयतोः सर्वां निखिलेन कथां तव॥ ३॥
क्षण-भूता इव नौः रात्रिः संवृत्ता इयम् परंतप। इमाम् चिन्तयतोः सर्वाम् निखिलेन कथाम् तव॥ ३॥
kṣaṇa-bhūtā iva nauḥ rātriḥ saṃvṛttā iyam paraṃtapa. imām cintayatoḥ sarvām nikhilena kathām tava.. 3..
तस्य सा शर्वरी सर्वा मम सौमित्रिणा सह। जगाम चिन्तयानस्य विश्वामित्र कथां शुभाम्॥ ४॥
तस्य सा शर्वरी सर्वा मम सौमित्रिणा सह। जगाम चिन्तयानस्य विश्वामित्र कथाम् शुभाम्॥ ४॥
tasya sā śarvarī sarvā mama saumitriṇā saha. jagāma cintayānasya viśvāmitra kathām śubhām.. 4..
ततः प्रभाते विमले विश्वामित्रं तपोधनम्। उवाच राघवो वाक्यं कृताह्निकमरिन्दमः॥ ५॥
ततस् प्रभाते विमले विश्वामित्रम् तपोधनम्। उवाच राघवः वाक्यम् कृत-आह्निकम् अरिन्दमः॥ ५॥
tatas prabhāte vimale viśvāmitram tapodhanam. uvāca rāghavaḥ vākyam kṛta-āhnikam arindamaḥ.. 5..
गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम्। तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्॥ ६॥
गता भगवती रात्रिः श्रोतव्यम् परमम् श्रुतम्। तराम सरिताम् श्रेष्ठाम् पुण्याम् त्रिपथगाम् नदीम्॥ ६॥
gatā bhagavatī rātriḥ śrotavyam paramam śrutam. tarāma saritām śreṣṭhām puṇyām tripathagām nadīm.. 6..
नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम्। भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता॥ ७॥
नौः एषा हि सुख-आस्तीर्णा ऋषीणाम् पुण्य-कर्मणाम्। भगवन्तम् इह प्राप्तम् ज्ञात्वा त्वरितम् आगता॥ ७॥
nauḥ eṣā hi sukha-āstīrṇā ṛṣīṇām puṇya-karmaṇām. bhagavantam iha prāptam jñātvā tvaritam āgatā.. 7..
तस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः। सन्तारं कारयामास सर्षिसङ्घस्य कौशिकः॥ ८॥
तस्य तत् वचनम् श्रुत्वा राघवस्य महात्मनः। सन्तारम् कारयामास स ऋषि-सङ्घस्य कौशिकः॥ ८॥
tasya tat vacanam śrutvā rāghavasya mahātmanaḥ. santāram kārayāmāsa sa ṛṣi-saṅghasya kauśikaḥ.. 8..
उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं ततः। गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम्॥ ९॥
उत्तरम् तीरम् आसाद्य सम्पूज्य ऋषि-गणम् ततस्। गङ्गा-कूले निविष्टाः ते विशालाम् ददृशुः पुरीम्॥ ९॥
uttaram tīram āsādya sampūjya ṛṣi-gaṇam tatas. gaṅgā-kūle niviṣṭāḥ te viśālām dadṛśuḥ purīm.. 9..
ततो मुनिवरस्तूर्णं जगाम सहराघवः। विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा॥ १०॥
ततस् मुनि-वरः तूर्णम् जगाम सह राघवः। विशालाम् नगरीम् रम्याम् दिव्याम् स्वर्ग-उपमाम् तदा॥ १०॥
tatas muni-varaḥ tūrṇam jagāma saha rāghavaḥ. viśālām nagarīm ramyām divyām svarga-upamām tadā.. 10..
अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम्। पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम्॥ ११॥
अथ रामः महा-प्राज्ञः विश्वामित्रम् महा-मुनिम्। पप्रच्छ प्राञ्जलिः भूत्वा विशालाम् उत्तमाम् पुरीम्॥ ११॥
atha rāmaḥ mahā-prājñaḥ viśvāmitram mahā-munim. papraccha prāñjaliḥ bhūtvā viśālām uttamām purīm.. 11..
कतमो राजवंशोऽयं विशालायां महामुने। श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे॥ १२॥
कतमः राज-वंशः अयम् विशालायाम् महा-मुने। श्रोतुम् इच्छामि भद्रम् ते परम् कौतूहलम् हि मे॥ १२॥
katamaḥ rāja-vaṃśaḥ ayam viśālāyām mahā-mune. śrotum icchāmi bhadram te param kautūhalam hi me.. 12..
तस्य तद् वचनं श्रुत्वा रामस्य मुनिपुङ्गवः। आख्यातुं तत्समारेभे विशालायाः पुरातनम्॥ १३॥
तस्य तत् वचनम् श्रुत्वा रामस्य मुनि-पुङ्गवः। आख्यातुम् तत् समारेभे विशालायाः पुरातनम्॥ १३॥
tasya tat vacanam śrutvā rāmasya muni-puṅgavaḥ. ākhyātum tat samārebhe viśālāyāḥ purātanam.. 13..
श्रूयतां राम शक्रस्य कथां कथयतः श्रुताम्। अस्मिन् देशे हि यद् वृत्तं शृणु तत्त्वेन राघव॥ १४॥
श्रूयताम् राम शक्रस्य कथाम् कथयतः श्रुताम्। अस्मिन् देशे हि यत् वृत्तम् शृणु तत्त्वेन राघव॥ १४॥
śrūyatām rāma śakrasya kathām kathayataḥ śrutām. asmin deśe hi yat vṛttam śṛṇu tattvena rāghava.. 14..
पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः। अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः॥ १५॥
पूर्वम् कृत-युगे राम दितेः पुत्राः महा-बलाः। अदितेः च महाभागाः वीर्यवन्तः सु धार्मिकाः॥ १५॥
pūrvam kṛta-yuge rāma diteḥ putrāḥ mahā-balāḥ. aditeḥ ca mahābhāgāḥ vīryavantaḥ su dhārmikāḥ.. 15..
ततस्तेषां नरव्याघ्र बुद्धिरासीन्महात्मनाम्। अमरा विजराश्चैव कथं स्यामो निरामयाः॥ १६॥
ततस् तेषाम् नर-व्याघ्र बुद्धिः आसीत् महात्मनाम्। अमराः विजराः च एव कथम् स्यामः निरामयाः॥ १६॥
tatas teṣām nara-vyāghra buddhiḥ āsīt mahātmanām. amarāḥ vijarāḥ ca eva katham syāmaḥ nirāmayāḥ.. 16..
तेषां चिन्तयतां तत्र बुद्धिरासीद् विपश्चिताम्। क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै॥ १७॥
तेषाम् चिन्तयताम् तत्र बुद्धिः आसीत् विपश्चिताम्। क्षीरोद-मथनम् कृत्वा रसम् प्राप्स्याम तत्र वै॥ १७॥
teṣām cintayatām tatra buddhiḥ āsīt vipaścitām. kṣīroda-mathanam kṛtvā rasam prāpsyāma tatra vai.. 17..
ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम्। मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः॥ १८॥
ततस् निश्चित्य मथनम् योक्त्रम् कृत्वा च वासुकिम्। मन्थानम् मन्दरम् कृत्वा ममन्थुः अमित-ओजसः॥ १८॥
tatas niścitya mathanam yoktram kṛtvā ca vāsukim. manthānam mandaram kṛtvā mamanthuḥ amita-ojasaḥ.. 18..
अथ वर्षसहस्रेण योक्त्रसर्पशिरांसि च। वमन्तोऽतिविषं तत्र ददंशुर्दशनैः शिलाः॥ १९॥
अथ वर्ष-सहस्रेण योक्त्र-सर्प-शिरांसि च। वमन्तः अतिविषम् तत्र ददंशुः दशनैः शिलाः॥ १९॥
atha varṣa-sahasreṇa yoktra-sarpa-śirāṃsi ca. vamantaḥ ativiṣam tatra dadaṃśuḥ daśanaiḥ śilāḥ.. 19..
उत्पपाताग्निसंकाशं हालाहलमहाविषम्। तेन दग्धं जगत् सर्वं सदेवासुरमानुषम्॥ २०॥
उत्पपात अग्नि-संकाशम् हालाहल-महा-विषम्। तेन दग्धम् जगत् सर्वम् स देव-असुर-मानुषम्॥ २०॥
utpapāta agni-saṃkāśam hālāhala-mahā-viṣam. tena dagdham jagat sarvam sa deva-asura-mānuṣam.. 20..
अथ देवा महादेवं शङ्करं शरणार्थिनः। जग्मुः पशुपतिं रुद्रं त्राहि त्राहीति तुष्टुवुः॥ २१॥
अथ देवाः महादेवम् शङ्करम् शरण-अर्थिनः। जग्मुः पशुपतिम् रुद्रम् त्राहि त्राहि इति तुष्टुवुः॥ २१॥
atha devāḥ mahādevam śaṅkaram śaraṇa-arthinaḥ. jagmuḥ paśupatim rudram trāhi trāhi iti tuṣṭuvuḥ.. 21..
एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः। प्रादुरासीत् ततोऽत्रैव शङ्खचक्रधरो हरिः॥ २२॥
एवम् उक्तः ततस् देवैः देवदेव-ईश्वरः प्रभुः। प्रादुरासीत् ततस् अत्र एव शङ्ख-चक्र-धरः हरिः॥ २२॥
evam uktaḥ tatas devaiḥ devadeva-īśvaraḥ prabhuḥ. prādurāsīt tatas atra eva śaṅkha-cakra-dharaḥ hariḥ.. 22..
उवाचैनं स्मितं कृत्वा रुद्रं शूलधरं हरिः। दैवतैर्मथ्यमाने तु यत्पूर्वं समुपस्थितम्॥ २३॥
उवाच एनम् स्मितम् कृत्वा रुद्रम् शूल-धरम् हरिः। दैवतैः मथ्यमाने तु यत् पूर्वम् समुपस्थितम्॥ २३॥
uvāca enam smitam kṛtvā rudram śūla-dharam hariḥ. daivataiḥ mathyamāne tu yat pūrvam samupasthitam.. 23..
तत् त्वदीयं सुरश्रेष्ठ सुराणामग्रतो हि यत्। अग्रपूजामिह स्थित्वा गृहाणेदं विषं प्रभो॥ २४॥
तत् त्वदीयम् सुरश्रेष्ठ सुराणाम् अग्रतस् हि यत्। अग्र-पूजाम् इह स्थित्वा गृहाण इदम् विषम् प्रभो॥ २४॥
tat tvadīyam suraśreṣṭha surāṇām agratas hi yat. agra-pūjām iha sthitvā gṛhāṇa idam viṣam prabho.. 24..
इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवान्तरधीयत। देवतानां भयं दृष्ट्वा श्रुत्वा वाक्यं तु शार्ङ्गिणः॥ २५॥
इति उक्त्वा च सुरश्रेष्ठः तत्र एव अन्तरधीयत। देवतानाम् भयम् दृष्ट्वा श्रुत्वा वाक्यम् तु शार्ङ्गिणः॥ २५॥
iti uktvā ca suraśreṣṭhaḥ tatra eva antaradhīyata. devatānām bhayam dṛṣṭvā śrutvā vākyam tu śārṅgiṇaḥ.. 25..
हालाहलं विषं घोरं संजग्राहामृतोपमम्। देवान् विसृज्य देवेशो जगाम भगवान् हरः॥ २६॥
हालाहलम् विषम् घोरम् संजग्राह अमृत-उपमम्। देवान् विसृज्य देवेशः जगाम भगवान् हरः॥ २६॥
hālāhalam viṣam ghoram saṃjagrāha amṛta-upamam. devān visṛjya deveśaḥ jagāma bhagavān haraḥ.. 26..
ततो देवासुराः सर्वे ममन्थू रघुनन्दन। प्रविवेशाथ पातालं मन्थानः पर्वतोत्तमः॥ २७॥
ततस् देव-असुराः सर्वे ममन्थुः रघुनन्दन। प्रविवेश अथ पातालम् मन्थानः पर्वत-उत्तमः॥ २७॥
tatas deva-asurāḥ sarve mamanthuḥ raghunandana. praviveśa atha pātālam manthānaḥ parvata-uttamaḥ.. 27..
ततो देवाः सगन्धर्वास्तुष्टुवुर्मधुसूदनम्। त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम्॥ २८॥
ततस् देवाः स गन्धर्वाः तुष्टुवुः मधुसूदनम्। त्वम् गतिः सर्व-भूतानाम् विशेषेण दिवौकसाम्॥ २८॥
tatas devāḥ sa gandharvāḥ tuṣṭuvuḥ madhusūdanam. tvam gatiḥ sarva-bhūtānām viśeṣeṇa divaukasām.. 28..
पालयास्मान् महाबाहो गिरिमुद्धर्तुमर्हसि। इति श्रुत्वा हृषीकेशः कामठं रूपमास्थितः॥ २९॥
पालय अस्मान् महा-बाहो गिरिम् उद्धर्तुम् अर्हसि। इति श्रुत्वा हृषीकेशः कामठम् रूपम् आस्थितः॥ २९॥
pālaya asmān mahā-bāho girim uddhartum arhasi. iti śrutvā hṛṣīkeśaḥ kāmaṭham rūpam āsthitaḥ.. 29..
पर्वतं पृष्ठतः कृत्वा शिष्ये तत्रोदधौ हरिः। पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः॥ ३०॥
पर्वतम् पृष्ठतस् कृत्वा शिष्ये तत्र उदधौ हरिः। पर्वत-अग्रम् तु लोक-आत्मा हस्तेन आक्रम्य केशवः॥ ३०॥
parvatam pṛṣṭhatas kṛtvā śiṣye tatra udadhau hariḥ. parvata-agram tu loka-ātmā hastena ākramya keśavaḥ.. 30..
देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः। अथ वर्षसहस्रेण आयुर्वेदमयः पुमान्॥ ३१॥
देवानाम् मध्यतस् स्थित्वा ममन्थ पुरुषोत्तमः। अथ वर्ष-सहस्रेण आयुर्वेद-मयः पुमान्॥ ३१॥
devānām madhyatas sthitvā mamantha puruṣottamaḥ. atha varṣa-sahasreṇa āyurveda-mayaḥ pumān.. 31..
उदतिष्ठत् सुधर्मात्मा सदण्डः सकमण्डलुः। पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः॥ ३२॥
उदतिष्ठत् सु धर्म-आत्मा स दण्डः स कमण्डलुः। पूर्वम् धन्वन्तरिः नाम अप्सराः च सुवर्चसः॥ ३२॥
udatiṣṭhat su dharma-ātmā sa daṇḍaḥ sa kamaṇḍaluḥ. pūrvam dhanvantariḥ nāma apsarāḥ ca suvarcasaḥ.. 32..
अप्सु निर्मथनादेव रसात् तस्माद् वरस्त्रियः। उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्॥ ३३॥
अप्सु निर्मथनात् एव रसात् तस्मात् वर-स्त्रियः। उत्पेतुः मनुज-श्रेष्ठ तस्मात् अप्सरसः अभवन्॥ ३३॥
apsu nirmathanāt eva rasāt tasmāt vara-striyaḥ. utpetuḥ manuja-śreṣṭha tasmāt apsarasaḥ abhavan.. 33..
षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम्। असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः॥ ३४॥
षष्टिः कोट्यः अभवन् तासाम् अप्सराणाम् सु वर्चसाम्। असंख्येयाः तु काकुत्स्थ याः तासाम् परिचारिकाः॥ ३४॥
ṣaṣṭiḥ koṭyaḥ abhavan tāsām apsarāṇām su varcasām. asaṃkhyeyāḥ tu kākutstha yāḥ tāsām paricārikāḥ.. 34..
न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः। अप्रतिग्रहणादेव ता वै साधारणाः स्मृताः॥ ३५॥
न ताः स्म प्रतिगृह्णन्ति सर्वे ते देव-दानवाः। अ प्रतिग्रहणात् एव ताः वै साधारणाः स्मृताः॥ ३५॥
na tāḥ sma pratigṛhṇanti sarve te deva-dānavāḥ. a pratigrahaṇāt eva tāḥ vai sādhāraṇāḥ smṛtāḥ.. 35..
वरुणस्य ततः कन्या वारुणी रघुनन्दन। उत्पपात महाभागा मार्गमाणा परिग्रहम्॥ ३६॥
वरुणस्य ततस् कन्या वारुणी रघुनन्दन। उत्पपात महाभागा मार्गमाणा परिग्रहम्॥ ३६॥
varuṇasya tatas kanyā vāruṇī raghunandana. utpapāta mahābhāgā mārgamāṇā parigraham.. 36..
दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम्। अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम्॥ ३७॥
दितेः पुत्राः न ताम् राम जगृहुः वरुण-आत्मजाम्। अदितेः तु सुताः वीर जगृहुः ताम् अनिन्दिताम्॥ ३७॥
diteḥ putrāḥ na tām rāma jagṛhuḥ varuṇa-ātmajām. aditeḥ tu sutāḥ vīra jagṛhuḥ tām aninditām.. 37..
असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः। हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात् सुराः॥ ३८॥
असुराः तेन दैतेयाः सुराः तेन अदितेः सुताः। हृष्टाः प्रमुदिताः च आसन् वारुणी-ग्रहणात् सुराः॥ ३८॥
asurāḥ tena daiteyāḥ surāḥ tena aditeḥ sutāḥ. hṛṣṭāḥ pramuditāḥ ca āsan vāruṇī-grahaṇāt surāḥ.. 38..
उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम्। उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम्॥ ३९॥
उच्चैःश्रवाः हय-श्रेष्ठः मणि-रत्नम् च कौस्तुभम्। उदतिष्ठत् नर-श्रेष्ठ तथा एव अमृतम् उत्तमम्॥ ३९॥
uccaiḥśravāḥ haya-śreṣṭhaḥ maṇi-ratnam ca kaustubham. udatiṣṭhat nara-śreṣṭha tathā eva amṛtam uttamam.. 39..
अथ तस्य कृते राम महानासीत् कुलक्षयः। अदितेस्तु ततः पुत्रा दितिपुत्रानयोधयन्॥ ४०॥
अथ तस्य कृते राम महान् आसीत् कुल-क्षयः। अदितेः तु ततस् पुत्राः दिति-पुत्रान् अयोधयन्॥ ४०॥
atha tasya kṛte rāma mahān āsīt kula-kṣayaḥ. aditeḥ tu tatas putrāḥ diti-putrān ayodhayan.. 40..
एकतामगमन् सर्वे असुरा राक्षसैः सह। युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम्॥ ४१॥
एकताम् अगमन् सर्वे असुराः राक्षसैः सह। युद्धम् आसीत् महा-घोरम् वीर त्रैलोक्य-मोहनम्॥ ४१॥
ekatām agaman sarve asurāḥ rākṣasaiḥ saha. yuddham āsīt mahā-ghoram vīra trailokya-mohanam.. 41..
यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः। अमृतं सोऽहरत् तूर्णं मायामास्थाय मोहिनीम्॥ ४२॥
यदा क्षयम् गतम् सर्वम् तदा विष्णुः महा-बलः। अमृतम् सः अहरत् तूर्णम् मायाम् आस्थाय मोहिनीम्॥ ४२॥
yadā kṣayam gatam sarvam tadā viṣṇuḥ mahā-balaḥ. amṛtam saḥ aharat tūrṇam māyām āsthāya mohinīm.. 42..
ये गताभिमुखं विष्णुमक्षरं पुरुषोत्तमम्। सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना॥ ४३॥
ये गत-अभिमुखम् विष्णुम् अक्षरम् पुरुषोत्तमम्। सम्पिष्टाः ते तदा युद्धे विष्णुना प्रभविष्णुना॥ ४३॥
ye gata-abhimukham viṣṇum akṣaram puruṣottamam. sampiṣṭāḥ te tadā yuddhe viṣṇunā prabhaviṣṇunā.. 43..
अदितेरात्मजा वीरा दितेः पुत्रान् निजघ्निरे। अस्मिन् घोरे महायुद्धे दैतेयादित्ययोर्भृशम्॥ ४४॥
अदितेः आत्मजाः वीराः दितेः पुत्रान् निजघ्निरे। अस्मिन् घोरे महा-युद्धे दैतेय-आदित्ययोः भृशम्॥ ४४॥
aditeḥ ātmajāḥ vīrāḥ diteḥ putrān nijaghnire. asmin ghore mahā-yuddhe daiteya-ādityayoḥ bhṛśam.. 44..
निहत्य दितिपुत्रांस्तु राज्यं प्राप्य पुरंदरः। शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान्॥ ४५॥
निहत्य दिति-पुत्रान् तु राज्यम् प्राप्य पुरंदरः। शशास मुदितः लोकान् स ऋषि-सङ्घान् स चारणान्॥ ४५॥
nihatya diti-putrān tu rājyam prāpya puraṃdaraḥ. śaśāsa muditaḥ lokān sa ṛṣi-saṅghān sa cāraṇān.. 45..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चचत्वारिंशः सर्गः ॥१-४५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चचत्वारिंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcacatvāriṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In