This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्चत्वारिंशः सर्गः ॥१-४६॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे षट्चत्वारिंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe ṣaṭcatvāriṃśaḥ sargaḥ ..1..
हतेषु तेषु पुत्रेषु दितिः परमदुःखिता। मारीचं कश्यपं नाम भर्तारमिदमब्रवीत्॥ १॥
हतेषु तेषु पुत्रेषु दितिः परम-दुःखिता। मारीचम् कश्यपम् नाम भर्तारम् इदम् अब्रवीत्॥ १॥
hateṣu teṣu putreṣu ditiḥ parama-duḥkhitā. mārīcam kaśyapam nāma bhartāram idam abravīt.. 1..
हतपुत्रास्मि भगवंस्तव पुत्रौर्महाबलैः। शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोर्जितम्॥ २॥
हत-पुत्रा अस्मि भगवन् तव पुत्रौः महा-बलैः। शक्र-हन्तारम् इच्छामि पुत्रम् दीर्घ-तपः-ऊर्जितम्॥ २॥
hata-putrā asmi bhagavan tava putrauḥ mahā-balaiḥ. śakra-hantāram icchāmi putram dīrgha-tapaḥ-ūrjitam.. 2..
साहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि। ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि॥ ३॥
सा अहम् तपः चरिष्यामि गर्भम् मे दातुम् अर्हसि। ईश्वरम् शक्र-हन्तारम् त्वम् अनुज्ञातुम् अर्हसि॥ ३॥
sā aham tapaḥ cariṣyāmi garbham me dātum arhasi. īśvaram śakra-hantāram tvam anujñātum arhasi.. 3..
तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तदा। प्रत्युवाच महातेजा दितिं परमदुःखिताम्॥ ४॥
तस्याः तत् वचनम् श्रुत्वा मारीचः कश्यपः तदा। प्रत्युवाच महा-तेजाः दितिम् परम-दुःखिताम्॥ ४॥
tasyāḥ tat vacanam śrutvā mārīcaḥ kaśyapaḥ tadā. pratyuvāca mahā-tejāḥ ditim parama-duḥkhitām.. 4..
एवं भवतु भद्रं ते शुचिर्भव तपोधने। जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे॥ ५॥
एवम् भवतु भद्रम् ते शुचिः भव तपोधने। जनयिष्यसि पुत्रम् त्वम् शक्र-हन्तारम् आहवे॥ ५॥
evam bhavatu bhadram te śuciḥ bhava tapodhane. janayiṣyasi putram tvam śakra-hantāram āhave.. 5..
पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि। पुत्रं त्रैलोक्यहन्तारं मत्तस्त्वं जनयिष्यसि॥ ६॥
पूर्णे वर्ष-सहस्रे तु शुचिः यदि भविष्यसि। पुत्रम् त्रैलोक्य-हन्तारम् मत्तः त्वम् जनयिष्यसि॥ ६॥
pūrṇe varṣa-sahasre tu śuciḥ yadi bhaviṣyasi. putram trailokya-hantāram mattaḥ tvam janayiṣyasi.. 6..
एवमुक्त्वा महातेजाः पाणिना सम्ममार्ज ताम्। तामालभ्य ततः स्वस्ति इत्युक्त्वा तपसे ययौ॥ ७॥
एवम् उक्त्वा महा-तेजाः पाणिना सम्ममार्ज ताम्। ताम् आलभ्य ततस् स्वस्ति इति उक्त्वा तपसे ययौ॥ ७॥
evam uktvā mahā-tejāḥ pāṇinā sammamārja tām. tām ālabhya tatas svasti iti uktvā tapase yayau.. 7..
गते तस्मिन् नरश्रेष्ठ दितिः परमहर्षिता। कुशप्लवं समासाद्य तपस्तेपे सुदारुणम्॥ ८॥
गते तस्मिन् नर-श्रेष्ठ दितिः परम-हर्षिता। कुशप्लवम् समासाद्य तपः तेपे सु दारुणम्॥ ८॥
gate tasmin nara-śreṣṭha ditiḥ parama-harṣitā. kuśaplavam samāsādya tapaḥ tepe su dāruṇam.. 8..
तपस्तस्यां हि कुर्वत्यां परिचर्यां चकार ह। सहस्राक्षो नरश्रेष्ठ परया गुणसम्पदा॥ ९॥
तपः तस्याम् हि कुर्वत्याम् परिचर्याम् चकार ह। सहस्राक्षः नर-श्रेष्ठ परया गुण-सम्पदा॥ ९॥
tapaḥ tasyām hi kurvatyām paricaryām cakāra ha. sahasrākṣaḥ nara-śreṣṭha parayā guṇa-sampadā.. 9..
अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च। न्यवेदयत् सहस्राक्षो यच्चान्यदपि कांक्षितम्॥ १०॥
अग्निम् कुशान् काष्ठम् अपः फलम् मूलम् तथा एव च। न्यवेदयत् सहस्राक्षः यत् च अन्यत् अपि कांक्षितम्॥ १०॥
agnim kuśān kāṣṭham apaḥ phalam mūlam tathā eva ca. nyavedayat sahasrākṣaḥ yat ca anyat api kāṃkṣitam.. 10..
गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा। शक्रः सर्वेषु कालेषु दितिं परिचचार ह॥ ११॥
गात्र-संवाहनैः च एव श्रम-अपनयनैः तथा। शक्रः सर्वेषु कालेषु दितिम् परिचचार ह॥ ११॥
gātra-saṃvāhanaiḥ ca eva śrama-apanayanaiḥ tathā. śakraḥ sarveṣu kāleṣu ditim paricacāra ha.. 11..
पूर्णे वर्षसहस्रे सा दशोने रघुनन्दन। दितिः परमसंहृष्टा सहस्राक्षमथाब्रवीत्॥ १२॥
पूर्णे वर्ष-सहस्रे सा दश-ऊने रघुनन्दन। दितिः परम-संहृष्टा सहस्राक्षम् अथ अब्रवीत्॥ १२॥
pūrṇe varṣa-sahasre sā daśa-ūne raghunandana. ditiḥ parama-saṃhṛṣṭā sahasrākṣam atha abravīt.. 12..
तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर। अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः॥ १३॥
तपः चरन्त्याः वर्षाणि दश वीर्यवताम् वर। अवशिष्टानि भद्रम् ते भ्रातरम् द्रक्ष्यसे ततस्॥ १३॥
tapaḥ carantyāḥ varṣāṇi daśa vīryavatām vara. avaśiṣṭāni bhadram te bhrātaram drakṣyase tatas.. 13..
यमहं त्वत्कृते पुत्र तमाधास्ये जयोत्सुकम्। त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वर॥ १४॥
यम् अहम् त्वद्-कृते पुत्र तम् आधास्ये जय-उत्सुकम्। त्रैलोक्य-विजयम् पुत्र सह भोक्ष्यसि विज्वर॥ १४॥
yam aham tvad-kṛte putra tam ādhāsye jaya-utsukam. trailokya-vijayam putra saha bhokṣyasi vijvara.. 14..
याचितेन सुरश्रेष्ठ पित्रा तव महात्मना। वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति॥ १५॥
याचितेन सुरश्रेष्ठ पित्रा तव महात्मना। वरः वर्ष-सहस्र-अन्ते मम दत्तः सुतम् प्रति॥ १५॥
yācitena suraśreṣṭha pitrā tava mahātmanā. varaḥ varṣa-sahasra-ante mama dattaḥ sutam prati.. 15..
इत्युक्त्वा च दितिस्तत्र प्राप्ते मध्यं दिनेश्वरे। निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः॥ १६॥
इति उक्त्वा च दितिः तत्र प्राप्ते मध्यम् दिनेश्वरे। निद्रया अपहृता देवी पादौ कृत्वा अथ शीर्षतः॥ १६॥
iti uktvā ca ditiḥ tatra prāpte madhyam dineśvare. nidrayā apahṛtā devī pādau kṛtvā atha śīrṣataḥ.. 16..
दृष्ट्वा तामशुचिं शक्रः पादयोः कृतमूर्धजाम्। शिरःस्थाने कृतौ पादौ जहास च मुमोद च॥ १७॥
दृष्ट्वा ताम् अशुचिम् शक्रः पादयोः कृत-मूर्धजाम्। शिरः-स्थाने कृतौ पादौ जहास च मुमोद च॥ १७॥
dṛṣṭvā tām aśucim śakraḥ pādayoḥ kṛta-mūrdhajām. śiraḥ-sthāne kṛtau pādau jahāsa ca mumoda ca.. 17..
तस्याः शरीरविवरं प्रविवेश पुरंदरः। गर्भं च सप्तधा राम चिच्छेद परमात्मवान्॥ १८॥
तस्याः शरीर-विवरम् प्रविवेश पुरंदरः। गर्भम् च सप्तधा राम चिच्छेद परम-आत्मवान्॥ १८॥
tasyāḥ śarīra-vivaram praviveśa puraṃdaraḥ. garbham ca saptadhā rāma ciccheda parama-ātmavān.. 18..
भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा। रुरोद सुस्वरं राम ततो दितिरबुध्यत॥ १९॥
भिद्यमानः ततस् गर्भः वज्रेण शतपर्वणा। रुरोद सु स्वरम् राम ततस् दितिः अबुध्यत॥ १९॥
bhidyamānaḥ tatas garbhaḥ vajreṇa śataparvaṇā. ruroda su svaram rāma tatas ditiḥ abudhyata.. 19..
मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत। बिभेद च महातेजा रुदन्तमपि वासवः॥ २०॥
मा रुदः मा रुदः च इति गर्भम् शक्रः अभ्यभाषत। बिभेद च महा-तेजाः रुदन्तम् अपि वासवः॥ २०॥
mā rudaḥ mā rudaḥ ca iti garbham śakraḥ abhyabhāṣata. bibheda ca mahā-tejāḥ rudantam api vāsavaḥ.. 20..
न हन्तव्यं न हन्तव्यमित्येव दितिरब्रवीत्। निष्पपात ततः शक्रो मातुर्वचनगौरवात्॥ २१॥
न हन्तव्यम् न हन्तव्यम् इति एव दितिः अब्रवीत्। निष्पपात ततस् शक्रः मातुः वचन-गौरवात्॥ २१॥
na hantavyam na hantavyam iti eva ditiḥ abravīt. niṣpapāta tatas śakraḥ mātuḥ vacana-gauravāt.. 21..
प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत। अशुचिर्देवि सुप्तासि पादयोः कृतमूर्धजा॥ २२॥
प्राञ्जलिः वज्र-सहितः दितिम् शक्रः अभ्यभाषत। अशुचिः देवि सुप्ता असि पादयोः कृत-मूर्धजा॥ २२॥
prāñjaliḥ vajra-sahitaḥ ditim śakraḥ abhyabhāṣata. aśuciḥ devi suptā asi pādayoḥ kṛta-mūrdhajā.. 22..
तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे। अभिन्दं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि॥ २३॥
तद्-अन्तरम् अहम् लब्ध्वा शक्र-हन्तारम् आहवे। अभिन्दम् सप्तधा देवि तत् मे त्वम् क्षन्तुम् अर्हसि॥ २३॥
tad-antaram aham labdhvā śakra-hantāram āhave. abhindam saptadhā devi tat me tvam kṣantum arhasi.. 23..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्चत्वारिंशः सर्गः ॥१-४६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्चत्वारिंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣaṭcatvāriṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In