This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तचत्वारिंशः सर्गः ॥१-४७॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे सप्तचत्वारिंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe saptacatvāriṃśaḥ sargaḥ ..1..
सप्तधा तु कृते गर्भे दितिः परमदुःखिता। सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत्॥ १॥
सप्तधा तु कृते गर्भे दितिः परम-दुःखिता। सहस्राक्षम् दुराधर्षम् वाक्यम् स अनुनया ब्रवीत्॥ १॥
saptadhā tu kṛte garbhe ditiḥ parama-duḥkhitā. sahasrākṣam durādharṣam vākyam sa anunayā bravīt.. 1..
ममापराधाद् गर्भोऽयं सप्तधा शकलीकृतः। नापराधो हि देवेश तवात्र बलसूदन॥ २॥
मम अपराधात् गर्भः अयम् सप्तधा शकलीकृतः। न अपराधः हि देवेश तव अत्र बलसूदन॥ २॥
mama aparādhāt garbhaḥ ayam saptadhā śakalīkṛtaḥ. na aparādhaḥ hi deveśa tava atra balasūdana.. 2..
प्रियं त्वत्कृतमिच्छामि मम गर्भविपर्यये। मरुतां सप्त सप्तानां स्थानपाला भवन्तु ते॥ ३॥
प्रियम् त्वद्-कृतम् इच्छामि मम गर्भ-विपर्यये। मरुताम् सप्त सप्तानाम् स्थानपालाः भवन्तु ते॥ ३॥
priyam tvad-kṛtam icchāmi mama garbha-viparyaye. marutām sapta saptānām sthānapālāḥ bhavantu te.. 3..
वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रक। मारुता इति विख्याता दिव्यरूपा ममात्मजाः॥ ४॥
वातस्कन्धाः इमे सप्त चरन्तु दिवि पुत्रक। मारुताः इति विख्याताः दिव्य-रूपाः मम आत्मजाः॥ ४॥
vātaskandhāḥ ime sapta carantu divi putraka. mārutāḥ iti vikhyātāḥ divya-rūpāḥ mama ātmajāḥ.. 4..
ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरः। दिव्यवायुरिति ख्यातस्तृतीयोऽपि महायशाः॥ ५॥
ब्रह्म-लोकम् चरतु एकः इन्द्र-लोकम् तथा अपरः। दिव्यवायुः इति ख्यातः तृतीयः अपि महा-यशाः॥ ५॥
brahma-lokam caratu ekaḥ indra-lokam tathā aparaḥ. divyavāyuḥ iti khyātaḥ tṛtīyaḥ api mahā-yaśāḥ.. 5..
चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात्। संचरिष्यन्ति भद्रं ते कालेन हि ममात्मजाः॥ ६॥
चत्वारः तु सुरश्रेष्ठ दिशः वै तव शासनात्। संचरिष्यन्ति भद्रम् ते कालेन हि मम आत्मजाः॥ ६॥
catvāraḥ tu suraśreṣṭha diśaḥ vai tava śāsanāt. saṃcariṣyanti bhadram te kālena hi mama ātmajāḥ.. 6..
त्वत्कृतेनैव नाम्ना वै मारुता इति विश्रुताः। तस्यास्तद् वचनं श्रुत्वा सहस्राक्षः पुरन्दरः॥ ७॥
त्वद्-कृतेन एव नाम्ना वै मारुताः इति विश्रुताः। तस्याः तत् वचनम् श्रुत्वा सहस्राक्षः पुरन्दरः॥ ७॥
tvad-kṛtena eva nāmnā vai mārutāḥ iti viśrutāḥ. tasyāḥ tat vacanam śrutvā sahasrākṣaḥ purandaraḥ.. 7..
उवाच प्राञ्जलिर्वाक्यमतीदं बलसूदनः। सर्वमेतद् यथोक्तं ते भविष्यति न संशयः॥ ८॥
उवाच प्राञ्जलिः वाक्यम् अतीदम् बलसूदनः। सर्वम् एतत् यथा उक्तम् ते भविष्यति न संशयः॥ ८॥
uvāca prāñjaliḥ vākyam atīdam balasūdanaḥ. sarvam etat yathā uktam te bhaviṣyati na saṃśayaḥ.. 8..
विचरिष्यन्ति भद्रं ते देवरूपास्तवात्मजाः। एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने॥ ९॥
विचरिष्यन्ति भद्रम् ते देव-रूपाः तव आत्मजाः। एवम् तौ निश्चयम् कृत्वा माता-पुत्रौ तपः-वने॥ ९॥
vicariṣyanti bhadram te deva-rūpāḥ tava ātmajāḥ. evam tau niścayam kṛtvā mātā-putrau tapaḥ-vane.. 9..
जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम्। एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा॥ १०॥
जग्मतुः त्रिदिवम् राम कृतार्थौ इति नः श्रुतम्। एष देशः स काकुत्स्थ महा-इन्द्र-अध्युषितः पुरा॥ १०॥
jagmatuḥ tridivam rāma kṛtārthau iti naḥ śrutam. eṣa deśaḥ sa kākutstha mahā-indra-adhyuṣitaḥ purā.. 10..
दितिं यत्र तपःसिद्धामेवं परिचचार सः। इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः॥ ११॥
दितिम् यत्र तपः-सिद्धाम् एवम् परिचचार सः। इक्ष्वाकोः तु नर-व्याघ्र पुत्रः परम-धार्मिकः॥ ११॥
ditim yatra tapaḥ-siddhām evam paricacāra saḥ. ikṣvākoḥ tu nara-vyāghra putraḥ parama-dhārmikaḥ.. 11..
अलम्बुषायामुत्पन्नो विशाल इति विश्रुतः। तेन चासीदिह स्थाने विशालेति पुरी कृता॥ १२॥
अलम्बुषायाम् उत्पन्नः विशालः इति विश्रुतः। तेन च आसीत् इह स्थाने विशाला इति पुरी कृता॥ १२॥
alambuṣāyām utpannaḥ viśālaḥ iti viśrutaḥ. tena ca āsīt iha sthāne viśālā iti purī kṛtā.. 12..
विशालस्य सुतो राम हेमचन्द्रो महाबलः। सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः॥ १३॥
विशालस्य सुतः राम हेमचन्द्रः महा-बलः। सुचन्द्रः इति विख्यातः हेमचन्द्रात् अनन्तरः॥ १३॥
viśālasya sutaḥ rāma hemacandraḥ mahā-balaḥ. sucandraḥ iti vikhyātaḥ hemacandrāt anantaraḥ.. 13..
सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः। धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत॥ १४॥
सुचन्द्र-तनयः राम धूम्राश्वः इति विश्रुतः। धूम्राश्व-तनयः च अपि सृञ्जयः समपद्यत॥ १४॥
sucandra-tanayaḥ rāma dhūmrāśvaḥ iti viśrutaḥ. dhūmrāśva-tanayaḥ ca api sṛñjayaḥ samapadyata.. 14..
सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान्। कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः॥ १५॥
सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान्। कुशाश्वः सहदेवस्य पुत्रः परम-धार्मिकः॥ १५॥
sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān. kuśāśvaḥ sahadevasya putraḥ parama-dhārmikaḥ.. 15..
कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान्। सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः॥ १६॥
कुशाश्वस्य महा-तेजाः सोमदत्तः प्रतापवान्। सोमदत्तस्य पुत्रः तु काकुत्स्थः इति विश्रुतः॥ १६॥
kuśāśvasya mahā-tejāḥ somadattaḥ pratāpavān. somadattasya putraḥ tu kākutsthaḥ iti viśrutaḥ.. 16..
तस्य पुत्रो महातेजाः सम्प्रत्येष पुरीमिमाम्। आवसत् परमप्रख्यः सुमतिर्नाम दुर्जयः॥ १७॥
तस्य पुत्रः महा-तेजाः सम्प्रति एष पुरीम् इमाम्। आवसत् परम-प्रख्यः सुमतिः नाम दुर्जयः॥ १७॥
tasya putraḥ mahā-tejāḥ samprati eṣa purīm imām. āvasat parama-prakhyaḥ sumatiḥ nāma durjayaḥ.. 17..
इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः। दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः॥ १८॥
इक्ष्वाकोः तु प्रसादेन सर्वे वैशालिकाः नृपाः। दीर्घ-आयुषः महात्मानः वीर्यवन्तः सु धार्मिकाः॥ १८॥
ikṣvākoḥ tu prasādena sarve vaiśālikāḥ nṛpāḥ. dīrgha-āyuṣaḥ mahātmānaḥ vīryavantaḥ su dhārmikāḥ.. 18..
इहाद्य रजनीमेकां सुखं स्वप्स्यामहे वयम्। श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि॥ १९॥
इह अद्य रजनीम् एकाम् सुखम् स्वप्स्यामहे वयम्। श्वस् प्रभाते नर-श्रेष्ठ जनकम् द्रष्टुम् अर्हसि॥ १९॥
iha adya rajanīm ekām sukham svapsyāmahe vayam. śvas prabhāte nara-śreṣṭha janakam draṣṭum arhasi.. 19..
सुमतिस्तु महातेजा विश्वामित्रमुपागतम्। श्रुत्वा नरवरश्रेष्ठः प्रत्यागच्छन्महायशाः॥ २०॥
सुमतिः तु महा-तेजाः विश्वामित्रम् उपागतम्। श्रुत्वा नर-वर-श्रेष्ठः प्रत्यागच्छत् महा-यशाः॥ २०॥
sumatiḥ tu mahā-tejāḥ viśvāmitram upāgatam. śrutvā nara-vara-śreṣṭhaḥ pratyāgacchat mahā-yaśāḥ.. 20..
पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः। प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत्॥ २१॥
पूजाम् च परमाम् कृत्वा स उपाध्यायः स बान्धवः। प्राञ्जलिः कुशलम् पृष्ट्वा विश्वामित्रम् अथ अब्रवीत्॥ २१॥
pūjām ca paramām kṛtvā sa upādhyāyaḥ sa bāndhavaḥ. prāñjaliḥ kuśalam pṛṣṭvā viśvāmitram atha abravīt.. 21..
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुने। सम्प्राप्तो दर्शनं चैव नास्ति धन्यतरो मम॥ २२॥
धन्यः अस्मि अनुगृहीतः अस्मि यस्य मे विषयम् मुने। सम्प्राप्तः दर्शनम् च एव ना अस्ति धन्यतरः मम॥ २२॥
dhanyaḥ asmi anugṛhītaḥ asmi yasya me viṣayam mune. samprāptaḥ darśanam ca eva nā asti dhanyataraḥ mama.. 22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तचत्वारिंशः सर्गः ॥१-४७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तचत्वारिंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptacatvāriṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In