This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनपञ्चाशः सर्गः ॥१-४९॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे एकोनपञ्चाशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe ekonapañcāśaḥ sargaḥ ..1..
अफलस्तु ततः शक्रो देवानग्निपुरोगमान्। अब्रवीत् त्रस्तनयनः सिद्धगन्धर्वचारणान्॥ १॥
अफलः तु ततस् शक्रः देवान् अग्नि-पुरोगमान्। अब्रवीत् त्रस्त-नयनः सिद्ध-गन्धर्व-चारणान्॥ १॥
aphalaḥ tu tatas śakraḥ devān agni-purogamān. abravīt trasta-nayanaḥ siddha-gandharva-cāraṇān.. 1..
कुर्वता तपसो विघ्नं गौतमस्य महात्मनः। क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम्॥ २॥
कुर्वता तपसः विघ्नम् गौतमस्य महात्मनः। क्रोधम् उत्पाद्य हि मया सुर-कार्यम् इदम् कृतम्॥ २॥
kurvatā tapasaḥ vighnam gautamasya mahātmanaḥ. krodham utpādya hi mayā sura-kāryam idam kṛtam.. 2..
अफलोऽस्मि कृतस्तेन क्रोधात् सा च निराकृता। शापमोक्षेण महता तपोऽस्यापहृतं मया॥ ३॥
अफलः अस्मि कृतः तेन क्रोधात् सा च निराकृता। शाप-मोक्षेण महता तपः अस्य अपहृतम् मया॥ ३॥
aphalaḥ asmi kṛtaḥ tena krodhāt sā ca nirākṛtā. śāpa-mokṣeṇa mahatā tapaḥ asya apahṛtam mayā.. 3..
तन्मां सुरवराः सर्वे सर्षिसङ्घाः सचारणाः। सुरकार्यकरं यूयं सफलं कर्तुमर्हथ॥ ४॥
तत् माम् सुर-वराः सर्वे स ऋषि-सङ्घाः स चारणाः। सुर-कार्य-करम् यूयम् सफलम् कर्तुम् अर्हथ॥ ४॥
tat mām sura-varāḥ sarve sa ṛṣi-saṅghāḥ sa cāraṇāḥ. sura-kārya-karam yūyam saphalam kartum arhatha.. 4..
शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः। पितृदेवानुपेत्याहुः सर्वे सह मरुद्गणैः॥ ५॥
शतक्रतोः वचः श्रुत्वा देवाः स अग्नि-पुरोगमाः। पितृ-देवान् उपेत्य आहुः सर्वे सह मरुत्-गणैः॥ ५॥
śatakratoḥ vacaḥ śrutvā devāḥ sa agni-purogamāḥ. pitṛ-devān upetya āhuḥ sarve saha marut-gaṇaiḥ.. 5..
अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः। मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत॥ ६॥
अयम् मेषः स वृषणः शक्रः हि अवृषणः कृतः। मेषस्य वृषणौ गृह्य शक्राय आशु प्रयच्छत॥ ६॥
ayam meṣaḥ sa vṛṣaṇaḥ śakraḥ hi avṛṣaṇaḥ kṛtaḥ. meṣasya vṛṣaṇau gṛhya śakrāya āśu prayacchata.. 6..
अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति। भवतां हर्षणार्थं च ये च दास्यन्ति मानवाः। अक्षयं हि फलं तेषां यूयं दास्यथ पुष्कलम्॥ ७॥
अफलः तु कृतः मेषः पराम् तुष्टिम् प्रदास्यति। भवताम् हर्षण-अर्थम् च ये च दास्यन्ति मानवाः। अक्षयम् हि फलम् तेषाम् यूयम् दास्यथ पुष्कलम्॥ ७॥
aphalaḥ tu kṛtaḥ meṣaḥ parām tuṣṭim pradāsyati. bhavatām harṣaṇa-artham ca ye ca dāsyanti mānavāḥ. akṣayam hi phalam teṣām yūyam dāsyatha puṣkalam.. 7..
अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः। उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन्॥ ८॥
अग्नेः तु वचनम् श्रुत्वा पितृ-देवाः समागताः। उत्पाट्य मेष-वृषणौ सहस्राक्षे न्यवेशयन्॥ ८॥
agneḥ tu vacanam śrutvā pitṛ-devāḥ samāgatāḥ. utpāṭya meṣa-vṛṣaṇau sahasrākṣe nyaveśayan.. 8..
तदाप्रभृति काकुत्स्थ पितृदेवाः समागताः। अफलान् भुञ्जते मेषान् फलैस्तेषामयोजयन्॥ ९॥
तदा प्रभृति काकुत्स्थ पितृ-देवाः समागताः। अफलान् भुञ्जते मेषान् फलैः तेषाम् अयोजयन्॥ ९॥
tadā prabhṛti kākutstha pitṛ-devāḥ samāgatāḥ. aphalān bhuñjate meṣān phalaiḥ teṣām ayojayan.. 9..
इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव। गौतमस्य प्रभावेण तपसा च महात्मनः॥ १०॥
इन्द्रः तु मेष-वृषणः तदा प्रभृति राघव। गौतमस्य प्रभावेण तपसा च महात्मनः॥ १०॥
indraḥ tu meṣa-vṛṣaṇaḥ tadā prabhṛti rāghava. gautamasya prabhāveṇa tapasā ca mahātmanaḥ.. 10..
तदागच्छ महातेज आश्रमं पुण्यकर्मणः। तारयैनां महाभागामहल्यां देवरूपिणीम्॥ ११॥
तदा आगच्छ महा-तेजः आश्रमम् पुण्य-कर्मणः। तारया एनाम् महाभागाम् अहल्याम् देव-रूपिणीम्॥ ११॥
tadā āgaccha mahā-tejaḥ āśramam puṇya-karmaṇaḥ. tārayā enām mahābhāgām ahalyām deva-rūpiṇīm.. 11..
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः। विश्वामित्रं पुरस्कृत्य आश्रमं प्रविवेश ह॥ १२॥
विश्वामित्र-वचः श्रुत्वा राघवः सहलक्ष्मणः। विश्वामित्रम् पुरस्कृत्य आश्रमम् प्रविवेश ह॥ १२॥
viśvāmitra-vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ. viśvāmitram puraskṛtya āśramam praviveśa ha.. 12..
ददर्श च महाभागां तपसा द्योतितप्रभाम्। लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः॥ १३॥
ददर्श च महाभागाम् तपसा द्योतित-प्रभाम्। लोकैः अपि समागम्य दुर्निरीक्ष्याम् सुर-असुरैः॥ १३॥
dadarśa ca mahābhāgām tapasā dyotita-prabhām. lokaiḥ api samāgamya durnirīkṣyām sura-asuraiḥ.. 13..
प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव। धूमेनाभिपरीतांगीं दीप्तामग्निशिखामिव॥ १४॥
प्रयत्नात् निर्मिताम् धात्रा दिव्याम् माया-मयीम् इव। धूमेन अभिपरीत-अंगीम् दीप्ताम् अग्नि-शिखाम् इव॥ १४॥
prayatnāt nirmitām dhātrā divyām māyā-mayīm iva. dhūmena abhiparīta-aṃgīm dīptām agni-śikhām iva.. 14..
सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव। मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव॥ १५॥
स तुषार-आवृताम् स अभ्राम् पूर्ण-चन्द्र-प्रभाम् इव। मध्ये अम्भसः दुराधर्षाम् दीप्ताम् सूर्य-प्रभाम् इव॥ १५॥
sa tuṣāra-āvṛtām sa abhrām pūrṇa-candra-prabhām iva. madhye ambhasaḥ durādharṣām dīptām sūrya-prabhām iva.. 15..
त्रयाणामपि लोकानां यावद् रामस्य दर्शनम्। शापस्यान्तमुपागम्य तेषां दर्शनमागता॥ १६॥
त्रयाणाम् अपि लोकानाम् यावत् रामस्य दर्शनम्। शापस्य अन्तम् उपागम्य तेषाम् दर्शनम् आगता॥ १६॥
trayāṇām api lokānām yāvat rāmasya darśanam. śāpasya antam upāgamya teṣām darśanam āgatā.. 16..
राघवौ तु तदा तस्याः पादौ जगृहतुर्मुदा। स्मरन्ती गौतमवचः प्रतिजग्राह सा हि तौ॥ १७॥
राघवौ तु तदा तस्याः पादौ जगृहतुः मुदा। स्मरन्ती गौतम-वचः प्रतिजग्राह सा हि तौ॥ १७॥
rāghavau tu tadā tasyāḥ pādau jagṛhatuḥ mudā. smarantī gautama-vacaḥ pratijagrāha sā hi tau.. 17..
पाद्यमर्घ्यं तथाऽऽतिथ्यं चकार सुसमाहिता। प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा॥ १८॥
पाद्यम् अर्घ्यम् तथा आतिथ्यम् चकार सु समाहिता। प्रतिजग्राह काकुत्स्थः विधि-दृष्टेन कर्मणा॥ १८॥
pādyam arghyam tathā ātithyam cakāra su samāhitā. pratijagrāha kākutsthaḥ vidhi-dṛṣṭena karmaṇā.. 18..
पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिःस्वनैः। गन्धर्वाप्सरसां चैव महानासीत् समुत्सवः॥ १९॥
पुष्प-वृष्टिः महती आसीत् देव-दुन्दुभि-निःस्वनैः। गन्धर्व-अप्सरसाम् च एव महान् आसीत् समुत्सवः॥ १९॥
puṣpa-vṛṣṭiḥ mahatī āsīt deva-dundubhi-niḥsvanaiḥ. gandharva-apsarasām ca eva mahān āsīt samutsavaḥ.. 19..
साधु साध्विति देवास्तामहल्यां समपूजयन्। तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम्॥ २०॥
साधु साधु इति देवाः ताम् अहल्याम् समपूजयन्। तपः-बल-विशुद्ध-अङ्गीम् गौतमस्य वश-अनुगाम्॥ २०॥
sādhu sādhu iti devāḥ tām ahalyām samapūjayan. tapaḥ-bala-viśuddha-aṅgīm gautamasya vaśa-anugām.. 20..
गौतमोऽपि महातेजा अहल्यासहितः सुखी। रामं सम्पूज्य विधिवत् तपस्तेपे महातपाः॥ २१॥
गौतमः अपि महा-तेजाः अहल्या-सहितः सुखी। रामम् सम्पूज्य विधिवत् तपः तेपे महा-तपाः॥ २१॥
gautamaḥ api mahā-tejāḥ ahalyā-sahitaḥ sukhī. rāmam sampūjya vidhivat tapaḥ tepe mahā-tapāḥ.. 21..
रामोऽपि परमां पूजां गौतमस्य महामुनेः। सकाशाद् विधिवत् प्राप्य जगाम मिथिलां ततः॥ २२॥
रामः अपि परमाम् पूजाम् गौतमस्य महा-मुनेः। सकाशात् विधिवत् प्राप्य जगाम मिथिलाम् ततस्॥ २२॥
rāmaḥ api paramām pūjām gautamasya mahā-muneḥ. sakāśāt vidhivat prāpya jagāma mithilām tatas.. 22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनपञ्चाशः सर्गः ॥१-४९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनपञ्चाशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekonapañcāśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In