This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चमः सर्गः ॥१-५॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे पञ्चमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe pañcamaḥ sargaḥ ..1..
सर्वा पूर्वमियं येषामासीत् कृत्स्ना वसुंधरा । प्रजापतिमुपादाय नृपाणां जयशालिनाम् ॥१-५-१॥
सर्वा पूर्वम् इयम् येषाम् आसीत् कृत्स्ना वसुंधरा । प्रजापतिम् उपादाय नृपाणाम् जय-शालिनाम् ॥१॥
sarvā pūrvam iyam yeṣām āsīt kṛtsnā vasuṃdharā . prajāpatim upādāya nṛpāṇām jaya-śālinām ..1..
येषां स सगरो नाम सागरो येन खानितः । षष्टिपुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥१-५-२॥
येषाम् स सगरः नाम सागरः येन खानितः । षष्टि-पुत्र-सहस्राणि यम् यान्तम् पर्यवारयन् ॥१॥
yeṣām sa sagaraḥ nāma sāgaraḥ yena khānitaḥ . ṣaṣṭi-putra-sahasrāṇi yam yāntam paryavārayan ..1..
इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् । महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥१-५-३॥
इक्ष्वाकूणाम् इदम् तेषाम् राज्ञाम् वंशे महात्मनाम् । महत् उत्पन्नम् आख्यानम् रामायणम् इति श्रुतम् ॥१॥
ikṣvākūṇām idam teṣām rājñām vaṃśe mahātmanām . mahat utpannam ākhyānam rāmāyaṇam iti śrutam ..1..
तदिदं वर्तयिष्यावः सर्वं निखिलमादितः । धर्मकामार्थसहितं श्रोतव्यमनसूयता ॥१-५-४॥
तत् इदम् वर्तयिष्यावः सर्वम् निखिलम् आदितस् । धर्म-काम-अर्थ-सहितम् श्रोतव्यम् अनसूयता ॥१॥
tat idam vartayiṣyāvaḥ sarvam nikhilam āditas . dharma-kāma-artha-sahitam śrotavyam anasūyatā ..1..
कोसलो नाम मुदितः स्फीतो जनपदो महान् । निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥१-५-५॥
कोसलः नाम मुदितः स्फीतः जनपदः महान् । निविष्टः सरयू-तीरे प्रभूत-धन-धान्यवान् ॥१॥
kosalaḥ nāma muditaḥ sphītaḥ janapadaḥ mahān . niviṣṭaḥ sarayū-tīre prabhūta-dhana-dhānyavān ..1..
अयोध्या नाम नगरी तत्रासील्लोकविश्रुता । मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥१-५-६॥
अयोध्या नाम नगरी तत्र आसीत् लोक-विश्रुता । मनुना मानव-इन्द्रेण या पुरी निर्मिता स्वयम् ॥१॥
ayodhyā nāma nagarī tatra āsīt loka-viśrutā . manunā mānava-indreṇa yā purī nirmitā svayam ..1..
आयता दश च द्वे च योजनानि महापुरी । श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥१-५-७॥
आयता दश च द्वे च योजनानि महा-पुरी । श्रीमती त्रीणि विस्तीर्णा सुविभक्त-महापथा ॥१॥
āyatā daśa ca dve ca yojanāni mahā-purī . śrīmatī trīṇi vistīrṇā suvibhakta-mahāpathā ..1..
राजमार्गेण महता सुविभक्तेन शोभिता । मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥१-५-८॥
राजमार्गेण महता सुविभक्तेन शोभिता । मुक्त-पुष्प-अवकीर्णेन जल-सिक्तेन नित्यशस् ॥१॥
rājamārgeṇa mahatā suvibhaktena śobhitā . mukta-puṣpa-avakīrṇena jala-siktena nityaśas ..1..
तां तु राजा दशरथो महाराष्ट्रविवर्धनः । पुरीमावासयामास दिवि देवपतिर्यथा ॥१-५-९॥
ताम् तु राजा दशरथः महा-राष्ट्र-विवर्धनः । पुरीम् आवासयामास दिवि देवपतिः यथा ॥१॥
tām tu rājā daśarathaḥ mahā-rāṣṭra-vivardhanaḥ . purīm āvāsayāmāsa divi devapatiḥ yathā ..1..
कपाटतोरणवतीं सुविभक्तान्तरापणाम् । सर्वयन्त्रायुधवतीमुषितां सर्वशिल्पिभिः ॥१-५-१०॥
कपाटतोरणवतीम् सुविभक्त-अन्तरापणाम् । सर्व-यन्त्र-आयुधवतीम् उषिताम् सर्व-शिल्पिभिः ॥१॥
kapāṭatoraṇavatīm suvibhakta-antarāpaṇām . sarva-yantra-āyudhavatīm uṣitām sarva-śilpibhiḥ ..1..
सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् । उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम् ॥१-५-११॥
सूत-मागध-सम्बाधाम् श्रीमतीम् अतुल-प्रभाम् । उच्च-अट्टाल-ध्वजवतीम् शतघ्नी-शत-संकुलाम् ॥१॥
sūta-māgadha-sambādhām śrīmatīm atula-prabhām . ucca-aṭṭāla-dhvajavatīm śataghnī-śata-saṃkulām ..1..
वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् । उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ॥१-५-१२॥
वधू-नाटक-सङ्घैः च संयुक्ताम् सर्वतस् पुरीम् । उद्यान-आम्रवण-उपेताम् महतीम् साल-मेखलाम् ॥१॥
vadhū-nāṭaka-saṅghaiḥ ca saṃyuktām sarvatas purīm . udyāna-āmravaṇa-upetām mahatīm sāla-mekhalām ..1..
दुर्गगम्भीरपरिखां दुर्गामन्यैर्दुरासदाम् । वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥१-५-१३॥
दुर्ग-गम्भीर-परिखाम् दुर्गाम् अन्यैः दुरासदाम् । वाजि-वारण-सम्पूर्णाम् गोभिः उष्ट्रैः खरैः तथा ॥१॥
durga-gambhīra-parikhām durgām anyaiḥ durāsadām . vāji-vāraṇa-sampūrṇām gobhiḥ uṣṭraiḥ kharaiḥ tathā ..1..
सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् । नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥१-५-१४॥
सामन्त-राज-सङ्घैः च बलि-कर्मभिः आवृताम् । नाना देश-निवासैः च वणिग्भिः उपशोभिताम् ॥१॥
sāmanta-rāja-saṅghaiḥ ca bali-karmabhiḥ āvṛtām . nānā deśa-nivāsaiḥ ca vaṇigbhiḥ upaśobhitām ..1..
प्रासादै रत्नविकृतैः पर्वतैरिव शोभिताम् । कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ॥१-५-१५॥
प्रासादैः रत्न-विकृतैः पर्वतैः इव शोभिताम् । कूटागारैः च सम्पूर्णाम् इन्द्रस्य इव अमरावतीम् ॥१॥
prāsādaiḥ ratna-vikṛtaiḥ parvataiḥ iva śobhitām . kūṭāgāraiḥ ca sampūrṇām indrasya iva amarāvatīm ..1..
चित्रामष्टापदाकारां वरनारीगणायुताम् । सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥१-५-१६॥
चित्राम् अष्टापद-आकाराम् वर-नारी-गण-आयुताम् । सर्व-रत्न-समाकीर्णाम् विमान-गृह-शोभिताम् ॥१॥
citrām aṣṭāpada-ākārām vara-nārī-gaṇa-āyutām . sarva-ratna-samākīrṇām vimāna-gṛha-śobhitām ..1..
गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् । शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् ॥१-५-१७॥
गृह-गाढाम् अविच्छिद्राम् सम-भूमौ निवेशिताम् । शालि-तण्डुल-सम्पूर्णाम् इक्षु-काण्ड-रस-उदकाम् ॥१॥
gṛha-gāḍhām avicchidrām sama-bhūmau niveśitām . śāli-taṇḍula-sampūrṇām ikṣu-kāṇḍa-rasa-udakām ..1..
दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा । नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥१-५-१८॥
दुन्दुभीभिः मृदङ्गैः च वीणाभिः पणवैः तथा । नादिताम् भृशम् अत्यर्थम् पृथिव्याम् ताम् अनुत्तमाम् ॥१॥
dundubhībhiḥ mṛdaṅgaiḥ ca vīṇābhiḥ paṇavaiḥ tathā . nāditām bhṛśam atyartham pṛthivyām tām anuttamām ..1..
विमानमिव सिद्धानां तपसाधिगतं दिवि । सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥१-५-१९॥
विमानम् इव सिद्धानाम् तपसा अधिगतम् दिवि । सु निवेशित-वेश्म-अन्ताम् नर-उत्तम-समावृताम् ॥१॥
vimānam iva siddhānām tapasā adhigatam divi . su niveśita-veśma-antām nara-uttama-samāvṛtām ..1..
ये च बाणैर्न विध्यन्ति विविक्तमपरापरम् । शब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥१-५-२०॥
ये च बाणैः न विध्यन्ति विविक्तम् अपर-अपरम् । शब्दवेध्यम् च विततम् लघु-हस्ताः विशारदाः ॥१॥
ye ca bāṇaiḥ na vidhyanti viviktam apara-aparam . śabdavedhyam ca vitatam laghu-hastāḥ viśāradāḥ ..1..
सिंहव्याघ्रवराहाणां मत्तानां नदतां वने । हन्तारो निशितैः शस्त्रैर्बलाद् बाहुबलैरपि ॥१-५-२१॥
सिंह-व्याघ्र-वराहाणाम् मत्तानाम् नदताम् वने । हन्तारः निशितैः शस्त्रैः बलात् बाहु-बलैः अपि ॥१॥
siṃha-vyāghra-varāhāṇām mattānām nadatām vane . hantāraḥ niśitaiḥ śastraiḥ balāt bāhu-balaiḥ api ..1..
तादृशानां सहस्रैस्तामभिपूर्णां महारथैः । पुरीमावासयामास राजा दशरथस्तदा ॥१-५-२२॥
तादृशानाम् सहस्रैः ताम् अभिपूर्णाम् महा-रथैः । पुरीम् आवासयामास राजा दशरथः तदा ॥१॥
tādṛśānām sahasraiḥ tām abhipūrṇām mahā-rathaiḥ . purīm āvāsayāmāsa rājā daśarathaḥ tadā ..1..
तामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः । सहस्रदैः सत्यरतैर्महात्मभि- र्महर्षिकल्पैर्ऋषिभिश्च केवलैः ॥१-५-२३॥
ताम् अग्निमद्भिः गुणवद्भिः आवृताम् द्विजोत्तमैः वेद-षडङ्ग-पारगैः । सहस्र-दैः सत्य-रतैः महात्मभिः महा-ऋषि-कल्पैः ऋषिभिः च केवलैः ॥१॥
tām agnimadbhiḥ guṇavadbhiḥ āvṛtām dvijottamaiḥ veda-ṣaḍaṅga-pāragaiḥ . sahasra-daiḥ satya-rataiḥ mahātmabhiḥ mahā-ṛṣi-kalpaiḥ ṛṣibhiḥ ca kevalaiḥ ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चमः सर्गः ॥१-५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In