This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकपञ्चाशः सर्गः ॥१-५१॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे एकपञ्चाशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe ekapañcāśaḥ sargaḥ ..1..
तस्य तद् वचनं श्रुत्वा विश्वामित्रस्य धीमतः। हृष्टरोमा महातेजाः शतानन्दो महातपाः॥ १॥
तस्य तत् वचनम् श्रुत्वा विश्वामित्रस्य धीमतः। हृष्ट-रोमा महा-तेजाः शतानन्दः महा-तपाः॥ १॥
tasya tat vacanam śrutvā viśvāmitrasya dhīmataḥ. hṛṣṭa-romā mahā-tejāḥ śatānandaḥ mahā-tapāḥ.. 1..
गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः। रामसंदर्शनादेव परं विस्मयमागतः॥ २॥
गौतमस्य सुतः ज्येष्ठः तपसा द्योतित-प्रभः। राम-संदर्शनात् एव परम् विस्मयम् आगतः॥ २॥
gautamasya sutaḥ jyeṣṭhaḥ tapasā dyotita-prabhaḥ. rāma-saṃdarśanāt eva param vismayam āgataḥ.. 2..
एतौ निषण्णौ सम्प्रेक्ष्य शतानन्दो नृपात्मजौ। सुखासीनौ मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत्॥ ३॥
एतौ निषण्णौ सम्प्रेक्ष्य शतानन्दः नृप-आत्मजौ। सुख-आसीनौ मुनि-श्रेष्ठम् विश्वामित्रम् अथ अब्रवीत्॥ ३॥
etau niṣaṇṇau samprekṣya śatānandaḥ nṛpa-ātmajau. sukha-āsīnau muni-śreṣṭham viśvāmitram atha abravīt.. 3..
अपि ते मुनिशार्दूल मम माता यशस्विनी। दर्शिता राजपुत्राय तपोदीर्घमुपागता॥ ४॥
अपि ते मुनि-शार्दूल मम माता यशस्विनी। दर्शिता राज-पुत्राय तपः दीर्घम् उपागता॥ ४॥
api te muni-śārdūla mama mātā yaśasvinī. darśitā rāja-putrāya tapaḥ dīrgham upāgatā.. 4..
अपि रामे महातेजा मम माता यशस्विनी। वन्यैरुपाहरत् पूजां पूजार्हे सर्वदेहिनाम्॥ ५॥
अपि रामे महा-तेजाः मम माता यशस्विनी। वन्यैः उपाहरत् पूजाम् पूजा-अर्हे सर्व-देहिनाम्॥ ५॥
api rāme mahā-tejāḥ mama mātā yaśasvinī. vanyaiḥ upāharat pūjām pūjā-arhe sarva-dehinām.. 5..
अपि रामाय कथितं यद् वृत्तं तत् पुरातनम्। मम मातुर्महातेजो देवेन दुरनुष्ठितम्॥ ६॥
अपि रामाय कथितम् यत् वृत्तम् तत् पुरातनम्। मम मातुः महा-तेजः देवेन दुरनुष्ठितम्॥ ६॥
api rāmāya kathitam yat vṛttam tat purātanam. mama mātuḥ mahā-tejaḥ devena duranuṣṭhitam.. 6..
अपि कौशिक भद्रं ते गुरुणा मम संगता। मम माता मुनिश्रेष्ठ रामसंदर्शनादितः॥ ७॥
अपि कौशिक भद्रम् ते गुरुणा मम संगता। मम माता मुनि-श्रेष्ठ राम-संदर्शनात् इतस्॥ ७॥
api kauśika bhadram te guruṇā mama saṃgatā. mama mātā muni-śreṣṭha rāma-saṃdarśanāt itas.. 7..
अपि मे गुरुणा रामः पूजितः कुशिकात्मज। इहागतो महातेजाः पूजां प्राप्य महात्मनः॥ ८॥
अपि मे गुरुणा रामः पूजितः कुशिक-आत्मज। इह आगतः महा-तेजाः पूजाम् प्राप्य महात्मनः॥ ८॥
api me guruṇā rāmaḥ pūjitaḥ kuśika-ātmaja. iha āgataḥ mahā-tejāḥ pūjām prāpya mahātmanaḥ.. 8..
अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज। इहागतेन रामेण पूजितेनाभिवादितः॥ ९॥
अपि शान्तेन मनसा गुरुः मे कुशिक-आत्मज। इह आगतेन रामेण पूजितेन अभिवादितः॥ ९॥
api śāntena manasā guruḥ me kuśika-ātmaja. iha āgatena rāmeṇa pūjitena abhivāditaḥ.. 9..
तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः। प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम्॥ १०॥
तत् श्रुत्वा वचनम् तस्य विश्वामित्रः महा-मुनिः। प्रत्युवाच शतानन्दम् वाक्य-ज्ञः वाक्य-कोविदम्॥ १०॥
tat śrutvā vacanam tasya viśvāmitraḥ mahā-muniḥ. pratyuvāca śatānandam vākya-jñaḥ vākya-kovidam.. 10..
नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया। संगता मुनिना पत्नी भार्गवेणेव रेणुका॥ ११॥
न अतिक्रान्तम् मुनि-श्रेष्ठ यत् कर्तव्यम् कृतम् मया। संगता मुनिना पत्नी भार्गवेण इव रेणुका॥ ११॥
na atikrāntam muni-śreṣṭha yat kartavyam kṛtam mayā. saṃgatā muninā patnī bhārgaveṇa iva reṇukā.. 11..
तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः। शतानन्दो महातेजा रामं वचनमब्रवीत्॥ १२॥
तत् श्रुत्वा वचनम् तस्य विश्वामित्रस्य धीमतः। शतानन्दः महा-तेजाः रामम् वचनम् अब्रवीत्॥ १२॥
tat śrutvā vacanam tasya viśvāmitrasya dhīmataḥ. śatānandaḥ mahā-tejāḥ rāmam vacanam abravīt.. 12..
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव। विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम्॥ १३॥
स्वागतम् ते नर-श्रेष्ठ दिष्ट्या प्राप्तः असि राघव। विश्वामित्रम् पुरस्कृत्य महा-ऋषिम् अपराजितम्॥ १३॥
svāgatam te nara-śreṣṭha diṣṭyā prāptaḥ asi rāghava. viśvāmitram puraskṛtya mahā-ṛṣim aparājitam.. 13..
अचिन्त्यकर्मा तपसा ब्रह्मर्षिरमितप्रभः। विश्वामित्रो महातेजा वेद्म्येनं परमां गतिम्॥ १४॥
अचिन्त्य-कर्मा तपसा ब्रह्मर्षिः अमित-प्रभः। विश्वामित्रः महा-तेजाः वेद्मि एनम् परमाम् गतिम्॥ १४॥
acintya-karmā tapasā brahmarṣiḥ amita-prabhaḥ. viśvāmitraḥ mahā-tejāḥ vedmi enam paramām gatim.. 14..
नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन। गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः॥ १५॥
न अस्ति धन्यतरः राम त्वत्तः अन्यः भुवि कश्चन। गोप्ता कुशिक-पुत्रः ते येन तप्तम् महत् तपः॥ १५॥
na asti dhanyataraḥ rāma tvattaḥ anyaḥ bhuvi kaścana. goptā kuśika-putraḥ te yena taptam mahat tapaḥ.. 15..
श्रूयतां चाभिधास्यामि कौशिकस्य महात्मनः। यथाबलं यथातत्त्वं तन्मे निगदतः शृणु॥ १६॥
श्रूयताम् च अभिधास्यामि कौशिकस्य महात्मनः। यथाबलम् यथातत्त्वम् तत् मे निगदतः शृणु॥ १६॥
śrūyatām ca abhidhāsyāmi kauśikasya mahātmanaḥ. yathābalam yathātattvam tat me nigadataḥ śṛṇu.. 16..
राजाऽऽसीदेष धर्मात्मा दीर्घकालमरिंदमः। धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः॥ १७॥
राजा आसीत् एष धर्म-आत्मा दीर्घ-कालम् अरिंदमः। धर्म-ज्ञः कृत-विद्यः च प्रजानाम् च हिते रतः॥ १७॥
rājā āsīt eṣa dharma-ātmā dīrgha-kālam ariṃdamaḥ. dharma-jñaḥ kṛta-vidyaḥ ca prajānām ca hite rataḥ.. 17..
प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः। कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः॥ १८॥
प्रजापति-सुतः तु आसीत् कुशः नाम महीपतिः। कुशस्य पुत्रः बलवान् कुशनाभः सु धार्मिकः॥ १८॥
prajāpati-sutaḥ tu āsīt kuśaḥ nāma mahīpatiḥ. kuśasya putraḥ balavān kuśanābhaḥ su dhārmikaḥ.. 18..
कुशनाभसुतस्त्वासीद् गाधिरित्येव विश्रुतः। गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः॥ १९॥
कुशनाभ-सुतः तु आसीत् गाधिः इति एव विश्रुतः। गाधेः पुत्रः महा-तेजाः विश्वामित्रः महा-मुनिः॥ १९॥
kuśanābha-sutaḥ tu āsīt gādhiḥ iti eva viśrutaḥ. gādheḥ putraḥ mahā-tejāḥ viśvāmitraḥ mahā-muniḥ.. 19..
विश्वामित्रो महातेजाः पालयामास मेदिनीम्। बहुवर्षसहस्राणि राजा राज्यमकारयत्॥ २०॥
विश्वामित्रः महा-तेजाः पालयामास मेदिनीम्। बहु-वर्ष-सहस्राणि राजा राज्यम् अकारयत्॥ २०॥
viśvāmitraḥ mahā-tejāḥ pālayāmāsa medinīm. bahu-varṣa-sahasrāṇi rājā rājyam akārayat.. 20..
कदाचित् तु महातेजा योजयित्वा वरूथिनीम्। अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम्॥ २१॥
कदाचिद् तु महा-तेजाः योजयित्वा वरूथिनीम्। अक्षौहिणी-परिवृतः परिचक्राम मेदिनीम्॥ २१॥
kadācid tu mahā-tejāḥ yojayitvā varūthinīm. akṣauhiṇī-parivṛtaḥ paricakrāma medinīm.. 21..
नगराणि च राष्ट्राणि सरितश्च महागिरीन्। आश्रमान् क्रमशो राजा विचरन्नाजगाम ह॥ २२॥
नगराणि च राष्ट्राणि सरितः च महा-गिरीन्। आश्रमान् क्रमशस् राजा विचरन् आजगाम ह॥ २२॥
nagarāṇi ca rāṣṭrāṇi saritaḥ ca mahā-girīn. āśramān kramaśas rājā vicaran ājagāma ha.. 22..
वसिष्ठस्याश्रमपदं नानापुष्पलताद्रुमम्। नानामृगगणाकीर्णं सिद्धचारणसेवितम्॥ २३॥
वसिष्ठस्य आश्रम-पदम् नाना पुष्प-लता-द्रुमम्। नाना मृग-गण-आकीर्णम् सिद्ध-चारण-सेवितम्॥ २३॥
vasiṣṭhasya āśrama-padam nānā puṣpa-latā-drumam. nānā mṛga-gaṇa-ākīrṇam siddha-cāraṇa-sevitam.. 23..
देवदानवगन्धर्वैः किंनरैरुपशोभितम्। प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम्॥ २४॥
देव-दानव-गन्धर्वैः किंनरैः उपशोभितम्। प्रशान्त-हरिण-आकीर्णम् द्विज-सङ्घ-निषेवितम्॥ २४॥
deva-dānava-gandharvaiḥ kiṃnaraiḥ upaśobhitam. praśānta-hariṇa-ākīrṇam dvija-saṅgha-niṣevitam.. 24..
ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम्। तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः॥ २५॥
ब्रह्मर्षि-गण-संकीर्णम् देवर्षि-गण-सेवितम्। तपः-चरण-संसिद्धैः अग्नि-कल्पैः महात्मभिः॥ २५॥
brahmarṣi-gaṇa-saṃkīrṇam devarṣi-gaṇa-sevitam. tapaḥ-caraṇa-saṃsiddhaiḥ agni-kalpaiḥ mahātmabhiḥ.. 25..
सततं संकुलं श्रीमद्ब्रह्मकल्पैर्महात्मभिः। अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा॥ २६॥
सततम् संकुलम् श्रीमत्-ब्रह्म-कल्पैः महात्मभिः। अब्भक्षैः वायुभक्षैः च शीर्ण-पर्ण-अशनैः तथा॥ २६॥
satatam saṃkulam śrīmat-brahma-kalpaiḥ mahātmabhiḥ. abbhakṣaiḥ vāyubhakṣaiḥ ca śīrṇa-parṇa-aśanaiḥ tathā.. 26..
फलमूलाशनैर्दान्तैर्जितदोषैर्जितेन्द्रियैः। ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः॥ २७॥
फल-मूल-अशनैः दान्तैः जित-दोषैः जित-इन्द्रियैः। ऋषिभिः वालखिल्यैः च जप-होम-परायणैः॥ २७॥
phala-mūla-aśanaiḥ dāntaiḥ jita-doṣaiḥ jita-indriyaiḥ. ṛṣibhiḥ vālakhilyaiḥ ca japa-homa-parāyaṇaiḥ.. 27..
अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम्। वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम्। ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः॥ २८॥
अन्यैः वैखानसैः च एव समन्तात् उपशोभितम्। वसिष्ठस्य आश्रम-पदम् ब्रह्म-लोकम् इव अपरम्। ददर्श जयताम् श्रेष्ठः विश्वामित्रः महा-बलः॥ २८॥
anyaiḥ vaikhānasaiḥ ca eva samantāt upaśobhitam. vasiṣṭhasya āśrama-padam brahma-lokam iva aparam. dadarśa jayatām śreṣṭhaḥ viśvāmitraḥ mahā-balaḥ.. 28..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकपञ्चाशः सर्गः ॥१-५१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकपञ्चाशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekapañcāśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In