This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिपञ्चाशः सर्गः ॥१-५३॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे त्रिपञ्चाशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe tripañcāśaḥ sargaḥ ..1..
एवमुक्ता वसिष्ठेन शबला शत्रुसूदन। विदधे कामधुक् कामान् यस्य यस्येप्सितं यथा॥ १॥
एवम् उक्ता वसिष्ठेन शबला शत्रु-सूदन। विदधे कामधुक् कामान् यस्य यस्य ईप्सितम् यथा॥ १॥
evam uktā vasiṣṭhena śabalā śatru-sūdana. vidadhe kāmadhuk kāmān yasya yasya īpsitam yathā.. 1..
इक्षून् मधूंस्तथा लाजान् मैरेयांश्च वरासवान्। पानानि च महार्हाणि भक्ष्यांश्चोच्चावचानपि॥ २॥
इक्षून् मधून् तथा लाजान् मैरेयान् च वर-आसवान्। पानानि च महार्हाणि भक्ष्यान् च उच्चावचान् अपि॥ २॥
ikṣūn madhūn tathā lājān maireyān ca vara-āsavān. pānāni ca mahārhāṇi bhakṣyān ca uccāvacān api.. 2..
उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः। मृष्टान्यन्नानि सूपांश्च दधिकुल्यास्तथैव च॥ ३॥
उष्ण-आढ्यस्य ओदनस्य अत्र राशयः पर्वत-उपमाः। मृष्टानि अन्नानि सूपान् च दधि-कुल्याः तथा एव च॥ ३॥
uṣṇa-āḍhyasya odanasya atra rāśayaḥ parvata-upamāḥ. mṛṣṭāni annāni sūpān ca dadhi-kulyāḥ tathā eva ca.. 3..
नानास्वादुरसानां च खाण्डवानां तथैव च। भोजनानि सुपूर्णानि गौडानि च सहस्रशः॥ ४॥
नाना स्वादु-रसानाम् च खाण्डवानाम् तथा एव च। भोजनानि सु पूर्णानि गौडानि च सहस्रशस्॥ ४॥
nānā svādu-rasānām ca khāṇḍavānām tathā eva ca. bhojanāni su pūrṇāni gauḍāni ca sahasraśas.. 4..
सर्वमासीत् सुसंतुष्टं हृष्टपुष्टजनायुतम्। विश्वामित्रबलं राम वसिष्ठेन सुतर्पितम्॥ ५॥
सर्वम् आसीत् सु संतुष्टम् हृष्ट-पुष्ट-जन-आयुतम्। विश्वामित्र-बलम् राम वसिष्ठेन सु तर्पितम्॥ ५॥
sarvam āsīt su saṃtuṣṭam hṛṣṭa-puṣṭa-jana-āyutam. viśvāmitra-balam rāma vasiṣṭhena su tarpitam.. 5..
विश्वामित्रो हि राजर्षिर्हृष्टपुष्टस्तदाभवत्। सान्तःपुरवरो राजा सब्राह्मणपुरोहितः॥ ६॥
विश्वामित्रः हि राजर्षिः हृष्ट-पुष्टः तदा भवत्। स अन्तःपुर-वरः राजा स ब्राह्मण-पुरोहितः॥ ६॥
viśvāmitraḥ hi rājarṣiḥ hṛṣṭa-puṣṭaḥ tadā bhavat. sa antaḥpura-varaḥ rājā sa brāhmaṇa-purohitaḥ.. 6..
सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा। युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत्॥ ७॥
स अमात्यः मन्त्रि-सहितः स भृत्यः पूजितः तदा। युक्तः परम-हर्षेण वसिष्ठम् इदम् अब्रवीत्॥ ७॥
sa amātyaḥ mantri-sahitaḥ sa bhṛtyaḥ pūjitaḥ tadā. yuktaḥ parama-harṣeṇa vasiṣṭham idam abravīt.. 7..
पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः। श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद॥ ८॥
पूजितः अहम् त्वया ब्रह्मन् पूजा-अर्हेण सु सत्कृतः। श्रूयताम् अभिधास्यामि वाक्यम् वाक्य-विशारद॥ ८॥
pūjitaḥ aham tvayā brahman pūjā-arheṇa su satkṛtaḥ. śrūyatām abhidhāsyāmi vākyam vākya-viśārada.. 8..
गवां शतसहस्रेण दीयतां शबला मम। रत्नं हि भगवन्नेतद् रत्नहारी च पार्थिवः॥ ९॥
गवाम् शत-सहस्रेण दीयताम् शबला मम। रत्नम् हि भगवन् एतत् रत्न-हारी च पार्थिवः॥ ९॥
gavām śata-sahasreṇa dīyatām śabalā mama. ratnam hi bhagavan etat ratna-hārī ca pārthivaḥ.. 9..
तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज। एवमुक्तस्तु भगवान् वसिष्ठो मुनिपुंगवः॥ १०॥
तस्मात् मे शबलाम् देहि मम एषा धर्मतः द्विज। एवम् उक्तः तु भगवान् वसिष्ठः मुनि-पुंगवः॥ १०॥
tasmāt me śabalām dehi mama eṣā dharmataḥ dvija. evam uktaḥ tu bhagavān vasiṣṭhaḥ muni-puṃgavaḥ.. 10..
विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम्। नाहं शतसहस्रेण नापि कोटिशतैर्गवाम्॥ ११॥
विश्वामित्रेण धर्म-आत्मा प्रत्युवाच महीपतिम्। न अहम् शत-सहस्रेण ना अपि कोटि-शतैः गवाम्॥ ११॥
viśvāmitreṇa dharma-ātmā pratyuvāca mahīpatim. na aham śata-sahasreṇa nā api koṭi-śataiḥ gavām.. 11..
राजन् दास्यामि शबलां राशिभी रजतस्य वा। न परित्यागमर्हेयं मत्सकाशादरिंदम॥ १२॥
राजन् दास्यामि शबलाम् राशिभिः रजतस्य वा। न परित्यागम् अर्हेयम् मद्-सकाशात् अरिंदम॥ १२॥
rājan dāsyāmi śabalām rāśibhiḥ rajatasya vā. na parityāgam arheyam mad-sakāśāt ariṃdama.. 12..
शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा। अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च॥ १३॥
शाश्वती शबला मह्यम् कीर्तिः आत्मवतः यथा। अस्याम् हव्यम् च कव्यम् च प्राण-यात्रा तथा एव च॥ १३॥
śāśvatī śabalā mahyam kīrtiḥ ātmavataḥ yathā. asyām havyam ca kavyam ca prāṇa-yātrā tathā eva ca.. 13..
आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च। स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा॥ १४॥
आयत्तम् अग्निहोत्रम् च बलिः होमः तथा एव च। स्वाहाकार-वषट्कारौ विद्याः च विविधाः तथा॥ १४॥
āyattam agnihotram ca baliḥ homaḥ tathā eva ca. svāhākāra-vaṣaṭkārau vidyāḥ ca vividhāḥ tathā.. 14..
आयत्तमत्र राजर्षे सर्वमेतन्न संशयः। सर्वस्वमेतत् सत्येन मम तुष्टिकरी तथा॥ १५॥
आयत्तम् अत्र राजर्षे सर्वम् एतत् न संशयः। सर्वस्वम् एतत् सत्येन मम तुष्टि-करी तथा॥ १५॥
āyattam atra rājarṣe sarvam etat na saṃśayaḥ. sarvasvam etat satyena mama tuṣṭi-karī tathā.. 15..
कारणैर्बहुभी राजन् न दास्ये शबलां तव। वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत् तदा॥ १६॥
कारणैः बहुभिः राजन् न दास्ये शबलाम् तव। वसिष्ठेन एवम् उक्तः तु विश्वामित्रः अब्रवीत् तदा॥ १६॥
kāraṇaiḥ bahubhiḥ rājan na dāsye śabalām tava. vasiṣṭhena evam uktaḥ tu viśvāmitraḥ abravīt tadā.. 16..
संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः। हैरण्यकक्षग्रैवेयान् सुवर्णाङ्कुशभूषितान्॥ १७॥
संरब्धतरम् अत्यर्थम् वाक्यम् वाक्य-विशारदः। हैरण्य-कक्ष-ग्रैवेयान् सुवर्ण-अङ्कुश-भूषितान्॥ १७॥
saṃrabdhataram atyartham vākyam vākya-viśāradaḥ. hairaṇya-kakṣa-graiveyān suvarṇa-aṅkuśa-bhūṣitān.. 17..
ददामि कुञ्जराणां ते सहस्राणि चतुर्दश। हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम्॥ १८॥
ददामि कुञ्जराणाम् ते सहस्राणि चतुर्दश। हैरण्यानाम् रथानाम् च श्वेत-अश्वानाम् चतुर्-युजाम्॥ १८॥
dadāmi kuñjarāṇām te sahasrāṇi caturdaśa. hairaṇyānām rathānām ca śveta-aśvānām catur-yujām.. 18..
ददामि ते शतान्यष्टौ किंकिणीकविभूषितान्। हयानां देशजातानां कुलजानां महौजसाम्। सहस्रमेकं दश च ददामि तव सुव्रत॥ १९॥
ददामि ते शतानि अष्टौ किंकिणीक-विभूषितान्। हयानाम् देश-जातानाम् कुल-जानाम् महा-ओजसाम्। सहस्रम् एकम् दश च ददामि तव सुव्रत॥ १९॥
dadāmi te śatāni aṣṭau kiṃkiṇīka-vibhūṣitān. hayānām deśa-jātānām kula-jānām mahā-ojasām. sahasram ekam daśa ca dadāmi tava suvrata.. 19..
नानावर्णविभक्तानां वयःस्थानां तथैव च। ददाम्येकां गवां कोटिं शबला दीयतां मम॥ २०॥
नाना वर्ण-विभक्तानाम् वयःस्थानाम् तथा एव च। ददामि एकाम् गवाम् कोटिम् शबला दीयताम् मम॥ २०॥
nānā varṇa-vibhaktānām vayaḥsthānām tathā eva ca. dadāmi ekām gavām koṭim śabalā dīyatām mama.. 20..
यावदिच्छसि रत्नानि हिरण्यं वा द्विजोत्तम। तावद् ददामि ते सर्वं दीयतां शबला मम॥ २१॥
यावत् इच्छसि रत्नानि हिरण्यम् वा द्विजोत्तम। तावत् ददामि ते सर्वम् दीयताम् शबला मम॥ २१॥
yāvat icchasi ratnāni hiraṇyam vā dvijottama. tāvat dadāmi te sarvam dīyatām śabalā mama.. 21..
एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता। न दास्यामीति शबलां प्राह राजन् कथंचन॥ २२॥
एवम् उक्तः तु भगवान् विश्वामित्रेण धीमता। न दास्यामि इति शबलाम् प्राह राजन् कथंचन॥ २२॥
evam uktaḥ tu bhagavān viśvāmitreṇa dhīmatā. na dāsyāmi iti śabalām prāha rājan kathaṃcana.. 22..
एतदेव हि मे रत्नमेतदेव हि मे धनम्। एतदेव हि सर्वस्वमेतदेव हि जीवितम्॥ २३॥
एतत् एव हि मे रत्नम् एतत् एव हि मे धनम्। एतत् एव हि सर्वस्वम् एतत् एव हि जीवितम्॥ २३॥
etat eva hi me ratnam etat eva hi me dhanam. etat eva hi sarvasvam etat eva hi jīvitam.. 23..
दर्शश्च पौर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः। एतदेव हि मे राजन् विविधाश्च क्रियास्तथा॥ २४॥
दर्शः च पौर्णमासः च यज्ञाः च एव आप्त-दक्षिणाः। एतत् एव हि मे राजन् विविधाः च क्रियाः तथा॥ २४॥
darśaḥ ca paurṇamāsaḥ ca yajñāḥ ca eva āpta-dakṣiṇāḥ. etat eva hi me rājan vividhāḥ ca kriyāḥ tathā.. 24..
अतोमूलाः क्रियाः सर्वा मम राजन् न संशयः। बहुना किं प्रलापेन न दास्ये कामदोहिनीम्॥ २५॥
अतोमूलाः क्रियाः सर्वाः मम राजन् न संशयः। बहुना किम् प्रलापेन न दास्ये कामदोहिनीम्॥ २५॥
atomūlāḥ kriyāḥ sarvāḥ mama rājan na saṃśayaḥ. bahunā kim pralāpena na dāsye kāmadohinīm.. 25..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिपञ्चाशः सर्गः ॥१-५३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिपञ्चाशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe tripañcāśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In