This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःपञ्चाशः सर्गः ॥१-५४॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे चतुःपञ्चाशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe catuḥpañcāśaḥ sargaḥ ..1..
कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः। तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत॥ १॥
कामधेनुम् वसिष्ठः अपि यदा न त्यजते मुनिः। तदा अस्य शबलाम् राम विश्वामित्रः अन्वकर्षत॥ १॥
kāmadhenum vasiṣṭhaḥ api yadā na tyajate muniḥ. tadā asya śabalām rāma viśvāmitraḥ anvakarṣata.. 1..
नीयमाना तु शबला राम राज्ञा महात्मना। दुःखिता चिन्तयामास रुदन्ती शोककर्शिता॥ २॥
नीयमाना तु शबला राम राज्ञा महात्मना। दुःखिता चिन्तयामास रुदन्ती शोक-कर्शिता॥ २॥
nīyamānā tu śabalā rāma rājñā mahātmanā. duḥkhitā cintayāmāsa rudantī śoka-karśitā.. 2..
परित्यक्ता वसिष्ठेन किमहं सुमहात्मना। याहं राजभृतैर्दीना ह्रियेय भृशदुःखिता॥ ३॥
परित्यक्ता वसिष्ठेन किम् अहम् सु महात्मना। या अहम् राजभृतैः दीना ह्रियेय भृश-दुःखिता॥ ३॥
parityaktā vasiṣṭhena kim aham su mahātmanā. yā aham rājabhṛtaiḥ dīnā hriyeya bhṛśa-duḥkhitā.. 3..
किं मयापकृतं तस्य महर्षेर्भावितात्मनः। यन्मामनागसं दृष्ट्वा भक्तां त्यजति धार्मिकः॥ ४॥
किम् मया अपकृतम् तस्य महा-ऋषेः भावितात्मनः। यत् माम् अनागसम् दृष्ट्वा भक्ताम् त्यजति धार्मिकः॥ ४॥
kim mayā apakṛtam tasya mahā-ṛṣeḥ bhāvitātmanaḥ. yat mām anāgasam dṛṣṭvā bhaktām tyajati dhārmikaḥ.. 4..
इति संचिन्तयित्वा तु निःश्वस्य च पुनः पुनः। जगाम वेगेन तदा वसिष्ठं परमौजसम्॥ ५॥
इति संचिन्तयित्वा तु निःश्वस्य च पुनर् पुनर्। जगाम वेगेन तदा वसिष्ठम् परम-ओजसम्॥ ५॥
iti saṃcintayitvā tu niḥśvasya ca punar punar. jagāma vegena tadā vasiṣṭham parama-ojasam.. 5..
निर्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन। जगामानिलवेगेन पादमूलं महात्मनः॥ ६॥
निर्धूय तान् तदा भृत्यान् शतशस् शत्रु-सूदन। जगाम अनिल-वेगेन पाद-मूलम् महात्मनः॥ ६॥
nirdhūya tān tadā bhṛtyān śataśas śatru-sūdana. jagāma anila-vegena pāda-mūlam mahātmanaḥ.. 6..
शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत्। वसिष्ठस्याग्रतः स्थित्वा रुदन्ती मेघनिःस्वना॥ ७॥
शबला सा रुदन्ती च क्रोशन्ती च इदम् अब्रवीत्। वसिष्ठस्य अग्रतस् स्थित्वा रुदन्ती मेघ-निःस्वना॥ ७॥
śabalā sā rudantī ca krośantī ca idam abravīt. vasiṣṭhasya agratas sthitvā rudantī megha-niḥsvanā.. 7..
भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत। यस्माद् राजभटा मां हि नयन्ते त्वत्सकाशतः॥ ८॥
भगवन् किम् परित्यक्ता त्वया अहम् ब्रह्मणः सुत। यस्मात् राज-भटाः माम् हि नयन्ते त्वद्-सकाशतः॥ ८॥
bhagavan kim parityaktā tvayā aham brahmaṇaḥ suta. yasmāt rāja-bhaṭāḥ mām hi nayante tvad-sakāśataḥ.. 8..
एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत्। शोकसंतप्तहृदयां स्वसारमिव दुःखिताम्॥ ९॥
एवम् उक्तः तु ब्रह्मर्षिः इदम् वचनम् अब्रवीत्। शोक-संतप्त-हृदयाम् स्वसारम् इव दुःखिताम्॥ ९॥
evam uktaḥ tu brahmarṣiḥ idam vacanam abravīt. śoka-saṃtapta-hṛdayām svasāram iva duḥkhitām.. 9..
न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया। एष त्वां नयते राजा बलान्मत्तो महाबलः॥ १०॥
न त्वाम् त्यजामि शबले ना अपि मे अपकृतम् त्वया। एष त्वाम् नयते राजा बलात् मत्तः महा-बलः॥ १०॥
na tvām tyajāmi śabale nā api me apakṛtam tvayā. eṣa tvām nayate rājā balāt mattaḥ mahā-balaḥ.. 10..
नहि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः। बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च॥ ११॥
नहि तुल्यम् बलम् मह्यम् राजा तु अद्य विशेषतः। बली राजा क्षत्रियः च पृथिव्याः पतिः एव च॥ ११॥
nahi tulyam balam mahyam rājā tu adya viśeṣataḥ. balī rājā kṣatriyaḥ ca pṛthivyāḥ patiḥ eva ca.. 11..
इयमक्षौहिणी पूर्णा गजवाजिरथाकुला। हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः॥ १२॥
इयम् अक्षौहिणी पूर्णा गज-वाजि-रथ-आकुला। हस्ति-ध्वज-समाकीर्णा तेन असौ बलवत्तरः॥ १२॥
iyam akṣauhiṇī pūrṇā gaja-vāji-ratha-ākulā. hasti-dhvaja-samākīrṇā tena asau balavattaraḥ.. 12..
एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत्। वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम्॥ १३॥
एवम् उक्ता वसिष्ठेन प्रत्युवाच विनीत-वत्। वचनम् वचन-ज्ञा सा ब्रह्मर्षिम् अतुल-प्रभम्॥ १३॥
evam uktā vasiṣṭhena pratyuvāca vinīta-vat. vacanam vacana-jñā sā brahmarṣim atula-prabham.. 13..
न बलं क्षत्रियस्याहुर्ब्राह्मणा बलवत्तराः। ब्रह्मन् ब्रह्मबलं दिव्यं क्षात्राच्च बलवत्तरम्॥ १४॥
न बलम् क्षत्रियस्य आहुः ब्राह्मणाः बलवत्तराः। ब्रह्मन् ब्रह्म-बलम् दिव्यम् क्षात्रात् च बलवत्तरम्॥ १४॥
na balam kṣatriyasya āhuḥ brāhmaṇāḥ balavattarāḥ. brahman brahma-balam divyam kṣātrāt ca balavattaram.. 14..
अप्रमेयं बलं तुभ्यं न त्वया बलवत्तरः। विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम्॥ १५॥
अप्रमेयम् बलम् तुभ्यम् न त्वया बलवत्तरः। विश्वामित्रः महा-वीर्यः तेजः तव दुरासदम्॥ १५॥
aprameyam balam tubhyam na tvayā balavattaraḥ. viśvāmitraḥ mahā-vīryaḥ tejaḥ tava durāsadam.. 15..
नियुङ्क्ष्व मां महातेजस्त्वं ब्रह्मबलसम्भृताम्। तस्य दर्पं बलं यत्नं नाशयामि दुरात्मनः॥ १६॥
नियुङ्क्ष्व माम् महा-तेजः त्वम् ब्रह्म-बल-सम्भृताम्। तस्य दर्पम् बलम् यत्नम् नाशयामि दुरात्मनः॥ १६॥
niyuṅkṣva mām mahā-tejaḥ tvam brahma-bala-sambhṛtām. tasya darpam balam yatnam nāśayāmi durātmanaḥ.. 16..
इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः। सृजस्वेति तदोवाच बलं परबलार्दनम्॥ १७॥
इति उक्तः तु तया राम वसिष्ठः तु महा-यशाः। सृजस्व इति तदा उवाच बलम् पर-बल-अर्दनम्॥ १७॥
iti uktaḥ tu tayā rāma vasiṣṭhaḥ tu mahā-yaśāḥ. sṛjasva iti tadā uvāca balam para-bala-ardanam.. 17..
तस्य तद् वचनं श्रुत्वा सुरभिः सासृजत् तदा। तस्या हुंभारवोत्सृष्टाः पह्लवाः शतशो नृप॥ १८॥
तस्य तत् वचनम् श्रुत्वा सुरभिः सा असृजत् तदा। तस्याः हुंभा-रव-उत्सृष्टाः पह्लवाः शतशस् नृप॥ १८॥
tasya tat vacanam śrutvā surabhiḥ sā asṛjat tadā. tasyāḥ huṃbhā-rava-utsṛṣṭāḥ pahlavāḥ śataśas nṛpa.. 18..
नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः। स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः॥ १९॥
नाशयन्ति बलम् सर्वम् विश्वामित्रस्य पश्यतः। स राजा परम-क्रुद्धः क्रोध-विस्फारित-ईक्षणः॥ १९॥
nāśayanti balam sarvam viśvāmitrasya paśyataḥ. sa rājā parama-kruddhaḥ krodha-visphārita-īkṣaṇaḥ.. 19..
पह्लवान् नाशयामास शस्त्रैरुच्चावचैरपि। विश्वामित्रार्दितान् दृष्ट्वा पह्लवान् शतशस्तदा॥ २०॥
पह्लवान् नाशयामास शस्त्रैः उच्चावचैः अपि। विश्वामित्र-अर्दितान् दृष्ट्वा पह्लवान् शतशस् तदा॥ २०॥
pahlavān nāśayāmāsa śastraiḥ uccāvacaiḥ api. viśvāmitra-arditān dṛṣṭvā pahlavān śataśas tadā.. 20..
भूय एवासृजद् घोरान् शकान् यवनमिश्रितान्। तैरासीत् संवृता भूमिः शकैर्यवनमिश्रितैः॥ २१॥
भूयस् एव असृजत् घोरान् शकान् यवन-मिश्रितान्। तैः आसीत् संवृता भूमिः शकैः यवन-मिश्रितैः॥ २१॥
bhūyas eva asṛjat ghorān śakān yavana-miśritān. taiḥ āsīt saṃvṛtā bhūmiḥ śakaiḥ yavana-miśritaiḥ.. 21..
प्रभावद्भिर्महावीर्यैर्हेमकिंजल्कसंनिभैः। तीक्ष्णासिपट्टिशधरैर्हेमवर्णाम्बरावृतैः॥ २२॥
प्रभावद्भिः महा-वीर्यैः हेम-किंजल्क-संनिभैः। तीक्ष्ण-असि-पट्टिश-धरैः हेम-वर्ण-अम्बर-आवृतैः॥ २२॥
prabhāvadbhiḥ mahā-vīryaiḥ hema-kiṃjalka-saṃnibhaiḥ. tīkṣṇa-asi-paṭṭiśa-dharaiḥ hema-varṇa-ambara-āvṛtaiḥ.. 22..
निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः। ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह। तैस्ते यवनकाम्बोजा बर्बराश्चाकुलीकृताः॥ २३॥
निर्दग्धम् तत् बलम् सर्वम् प्रदीप्तैः इव पावकैः। ततस् अस्त्राणि महा-तेजाः विश्वामित्रः मुमोच ह। तैः ते यवन-काम्बोजाः बर्बराः च आकुलीकृताः॥ २३॥
nirdagdham tat balam sarvam pradīptaiḥ iva pāvakaiḥ. tatas astrāṇi mahā-tejāḥ viśvāmitraḥ mumoca ha. taiḥ te yavana-kāmbojāḥ barbarāḥ ca ākulīkṛtāḥ.. 23..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःपञ्चाशः सर्गः ॥१-५४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःपञ्चाशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe catuḥpañcāśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In