This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तपञ्चाशः सर्गः ॥१-५७॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे सप्तपञ्चाशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe saptapañcāśaḥ sargaḥ ..1..
ततः संतप्तहृदयः स्मरन्निग्रहमात्मनः। विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना॥ १॥
ततस् संतप्त-हृदयः स्मरन् निग्रहम् आत्मनः। विनिःश्वस्य विनिःश्वस्य कृत-वैरः महात्मना॥ १॥
tatas saṃtapta-hṛdayaḥ smaran nigraham ātmanaḥ. viniḥśvasya viniḥśvasya kṛta-vairaḥ mahātmanā.. 1..
स दक्षिणां दिशं गत्वा महिष्या सह राघव। तताप परमं घोरं विश्वामित्रो महातपाः॥ २॥
स दक्षिणाम् दिशम् गत्वा महिष्या सह राघव। तताप परमम् घोरम् विश्वामित्रः महा-तपाः॥ २॥
sa dakṣiṇām diśam gatvā mahiṣyā saha rāghava. tatāpa paramam ghoram viśvāmitraḥ mahā-tapāḥ.. 2..
फलमूलाशनो दान्तश्चचार परमं तपः। अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः॥ ३॥
फल-मूल-अशनः दान्तः चचार परमम् तपः। अथ अस्य जज्ञिरे पुत्राः सत्य-धर्म-परायणाः॥ ३॥
phala-mūla-aśanaḥ dāntaḥ cacāra paramam tapaḥ. atha asya jajñire putrāḥ satya-dharma-parāyaṇāḥ.. 3..
हविष्पन्दो मधुष्पन्दो दृढनेत्रो महारथः। पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः॥ ४॥
हविष्पन्दः मधुष्पन्दः दृढ-नेत्रः महा-रथः। पूर्णे वर्ष-सहस्रे तु ब्रह्मा लोकपितामहः॥ ४॥
haviṣpandaḥ madhuṣpandaḥ dṛḍha-netraḥ mahā-rathaḥ. pūrṇe varṣa-sahasre tu brahmā lokapitāmahaḥ.. 4..
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्। जिता राजर्षिलोकास्ते तपसा कुशिकात्मज॥ ५॥
अब्रवीत् मधुरम् वाक्यम् विश्वामित्रम् तपोधनम्। जिताः राजर्षि-लोकाः ते तपसा कुशिक-आत्मज॥ ५॥
abravīt madhuram vākyam viśvāmitram tapodhanam. jitāḥ rājarṣi-lokāḥ te tapasā kuśika-ātmaja.. 5..
अनेन तपसा त्वां हि राजर्षिरिति विद्महे। एवमुक्त्वा महातेजा जगाम सह दैवतैः॥ ६॥
अनेन तपसा त्वाम् हि राजर्षिः इति विद्महे। एवम् उक्त्वा महा-तेजाः जगाम सह दैवतैः॥ ६॥
anena tapasā tvām hi rājarṣiḥ iti vidmahe. evam uktvā mahā-tejāḥ jagāma saha daivataiḥ.. 6..
त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः। विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किंचिदवाङ्मुखः॥ ७॥
त्रिविष्टपम् ब्रह्मलोकम् लोकानाम् परमेश्वरः। विश्वामित्रः अपि तत् श्रुत्वा ह्रिया किंचिद् अवाङ्मुखः॥ ७॥
triviṣṭapam brahmalokam lokānām parameśvaraḥ. viśvāmitraḥ api tat śrutvā hriyā kiṃcid avāṅmukhaḥ.. 7..
दुःखेन महताविष्टः समन्युरिदमब्रवीत्। तपश्च सुमहत् तप्तं राजर्षिरिति मां विदुः॥ ८॥
दुःखेन महता आविष्टः स मन्युः इदम् अब्रवीत्। तपः च सु महत् तप्तम् राजर्षिः इति माम् विदुः॥ ८॥
duḥkhena mahatā āviṣṭaḥ sa manyuḥ idam abravīt. tapaḥ ca su mahat taptam rājarṣiḥ iti mām viduḥ.. 8..
देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपः फलम्। एवं निश्चित्य मनसा भूय एव महातपाः॥ ९॥
देवाः स ऋषि-गणाः सर्वे न अस्ति मन्ये तपः फलम्। एवम् निश्चित्य मनसा भूयस् एव महा-तपाः॥ ९॥
devāḥ sa ṛṣi-gaṇāḥ sarve na asti manye tapaḥ phalam. evam niścitya manasā bhūyas eva mahā-tapāḥ.. 9..
तपश्चचार धर्मात्मा काकुत्स्थ परमात्मवान्। एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः॥ १०॥
तपः चचार धर्म-आत्मा काकुत्स्थ परम-आत्मवान्। एतस्मिन् एव काले तु सत्य-वादी जित-इन्द्रियः॥ १०॥
tapaḥ cacāra dharma-ātmā kākutstha parama-ātmavān. etasmin eva kāle tu satya-vādī jita-indriyaḥ.. 10..
त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्धनः। तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव॥ ११॥
त्रिशङ्कुः इति विख्यातः इक्ष्वाकु-कुल-वर्धनः। तस्य बुद्धिः समुत्पन्ना यजेयम् इति राघव॥ ११॥
triśaṅkuḥ iti vikhyātaḥ ikṣvāku-kula-vardhanaḥ. tasya buddhiḥ samutpannā yajeyam iti rāghava.. 11..
गच्छेयं स्वशरीरेण देवतानां परां गतिम्। वसिष्ठं स समाहूय कथयामास चिन्तितम्॥ १२॥
गच्छेयम् स्व-शरीरेण देवतानाम् पराम् गतिम्। वसिष्ठम् स समाहूय कथयामास चिन्तितम्॥ १२॥
gaccheyam sva-śarīreṇa devatānām parām gatim. vasiṣṭham sa samāhūya kathayāmāsa cintitam.. 12..
अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना। प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम्॥ १३॥
अशक्यम् इति च अपि उक्तः वसिष्ठेन महात्मना। प्रत्याख्यातः वसिष्ठेन स ययौ दक्षिणाम् दिशम्॥ १३॥
aśakyam iti ca api uktaḥ vasiṣṭhena mahātmanā. pratyākhyātaḥ vasiṣṭhena sa yayau dakṣiṇām diśam.. 13..
ततस्तत्कर्मसिद्ध्यर्थं पुत्रांस्तस्य गतो नृपः। वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे॥ १४॥
ततस् तद्-कर्म-सिद्धि-अर्थम् पुत्रान् तस्य गतः नृपः। वासिष्ठाः दीर्घतपसः तपः यत्र हि तेपिरे॥ १४॥
tatas tad-karma-siddhi-artham putrān tasya gataḥ nṛpaḥ. vāsiṣṭhāḥ dīrghatapasaḥ tapaḥ yatra hi tepire.. 14..
त्रिशङ्कुस्तु महातेजाः शतं परमभास्वरम्। वसिष्ठपुत्रान् ददृशे तप्यमानान् मनस्विनः॥ १५॥
त्रिशङ्कुः तु महा-तेजाः शतम् परम-भास्वरम्। वसिष्ठ-पुत्रान् ददृशे तप्यमानान् मनस्विनः॥ १५॥
triśaṅkuḥ tu mahā-tejāḥ śatam parama-bhāsvaram. vasiṣṭha-putrān dadṛśe tapyamānān manasvinaḥ.. 15..
सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान्। अभिवाद्यानुपूर्वेण ह्रिया किंचिदवाङ्मुखः॥ १६॥
सः अभिगम्य महात्मानः सर्वान् एव गुरोः सुतान्। अभिवाद्य अनुपूर्वेण ह्रिया किंचिद् अवाङ्मुखः॥ १६॥
saḥ abhigamya mahātmānaḥ sarvān eva guroḥ sutān. abhivādya anupūrveṇa hriyā kiṃcid avāṅmukhaḥ.. 16..
अब्रवीत् स महात्मानः सर्वानेव कृताञ्जलिः। शरणं वः प्रपन्नोऽहं शरण्यान् शरणं गतः॥ १७॥
अब्रवीत् स महात्मानः सर्वान् एव कृताञ्जलिः। शरणम् वः प्रपन्नः अहम् शरण्यान् शरणम् गतः॥ १७॥
abravīt sa mahātmānaḥ sarvān eva kṛtāñjaliḥ. śaraṇam vaḥ prapannaḥ aham śaraṇyān śaraṇam gataḥ.. 17..
प्रत्याख्यातो हि भद्रं वो वसिष्ठेन महात्मना। यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ॥ १८॥
प्रत्याख्यातः हि भद्रम् वः वसिष्ठेन महात्मना। यष्टु-कामः महा-यज्ञम् तत् अनुज्ञातुम् अर्हथ॥ १८॥
pratyākhyātaḥ hi bhadram vaḥ vasiṣṭhena mahātmanā. yaṣṭu-kāmaḥ mahā-yajñam tat anujñātum arhatha.. 18..
गुरुपुत्रानहं सर्वान् नमस्कृत्य प्रसादये। शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान्॥ १९॥
गुरु-पुत्रान् अहम् सर्वान् नमस्कृत्य प्रसादये। शिरसा प्रणतः याचे ब्राह्मणान् तपसि स्थितान्॥ १९॥
guru-putrān aham sarvān namaskṛtya prasādaye. śirasā praṇataḥ yāce brāhmaṇān tapasi sthitān.. 19..
ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः। सशरीरो यथाहं वै देवलोकमवाप्नुयाम्॥ २०॥
ते माम् भवन्तः सिद्धि-अर्थम् याजयन्तु समाहिताः। स शरीरः यथा अहम् वै देव-लोकम् अवाप्नुयाम्॥ २०॥
te mām bhavantaḥ siddhi-artham yājayantu samāhitāḥ. sa śarīraḥ yathā aham vai deva-lokam avāpnuyām.. 20..
प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः। गुरुपुत्रानृते सर्वान् नाहं पश्यामि कांचन॥ २१॥
प्रत्याख्यातः वसिष्ठेन गतिम् अन्याम् तपोधनाः। गुरु-पुत्र-अनृते सर्वान् न अहम् पश्यामि कांचन॥ २१॥
pratyākhyātaḥ vasiṣṭhena gatim anyām tapodhanāḥ. guru-putra-anṛte sarvān na aham paśyāmi kāṃcana.. 21..
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः। तस्मादनन्तरं सर्वे भवन्तो दैवतं मम॥ २२॥
इक्ष्वाकूणाम् हि सर्वेषाम् पुरोधाः परमा गतिः। तस्मात् अनन्तरम् सर्वे भवन्तः दैवतम् मम॥ २२॥
ikṣvākūṇām hi sarveṣām purodhāḥ paramā gatiḥ. tasmāt anantaram sarve bhavantaḥ daivatam mama.. 22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तपञ्चाशः सर्गः ॥१-५७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तपञ्चाशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe saptapañcāśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In