This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टपञ्चाशः सर्गः ॥१-५८॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे अष्टपञ्चाशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe aṣṭapañcāśaḥ sargaḥ ..1..
ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम्। ऋषिपुत्रशतं राम राजानमिदमब्रवीत्॥ १॥
ततस् त्रिशङ्कोः वचनम् श्रुत्वा क्रोध-समन्वितम्। ऋषि-पुत्र-शतम् राम राजानम् इदम् अब्रवीत्॥ १॥
tatas triśaṅkoḥ vacanam śrutvā krodha-samanvitam. ṛṣi-putra-śatam rāma rājānam idam abravīt.. 1..
प्रत्याख्यातोऽसि दुर्मेधो गुरुणा सत्यवादिना। तं कथं समतिक्रम्य शाखान्तरमुपेयिवान्॥ २॥
प्रत्याख्यातः असि दुर्मेधः गुरुणा सत्य-वादिना। तम् कथम् समतिक्रम्य शाखा-अन्तरम् उपेयिवान्॥ २॥
pratyākhyātaḥ asi durmedhaḥ guruṇā satya-vādinā. tam katham samatikramya śākhā-antaram upeyivān.. 2..
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः। न चातिक्रमितुं शक्यं वचनं सत्यवादिनः॥ ३॥
इक्ष्वाकूणाम् हि सर्वेषाम् पुरोधाः परमा गतिः। न च अतिक्रमितुम् शक्यम् वचनम् सत्य-वादिनः॥ ३॥
ikṣvākūṇām hi sarveṣām purodhāḥ paramā gatiḥ. na ca atikramitum śakyam vacanam satya-vādinaḥ.. 3..
अशक्यमिति सोवाच वसिष्ठो भगवानृषिः। तं वयं वै समाहर्तुं क्रतुं शक्ताः कथंचन॥ ४॥
अशक्यम् इति सः उवाच वसिष्ठः भगवान् ऋषिः। तम् वयम् वै समाहर्तुम् क्रतुम् शक्ताः कथंचन॥ ४॥
aśakyam iti saḥ uvāca vasiṣṭhaḥ bhagavān ṛṣiḥ. tam vayam vai samāhartum kratum śaktāḥ kathaṃcana.. 4..
बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः। याजने भगवान् शक्तस्त्रैलोक्यस्यापि पार्थिव॥ ५॥
बालिशः त्वम् नर-श्रेष्ठ गम्यताम् स्व-पुरम् पुनर्। याजने भगवान् शक्तः त्रैलोक्यस्य अपि पार्थिव॥ ५॥
bāliśaḥ tvam nara-śreṣṭha gamyatām sva-puram punar. yājane bhagavān śaktaḥ trailokyasya api pārthiva.. 5..
अवमानं कथं कर्तुं तस्य शक्ष्यामहे वयम्। तेषां तद् वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम्॥ ६॥
अवमानम् कथम् कर्तुम् तस्य शक्ष्यामहे वयम्। तेषाम् तत् वचनम् श्रुत्वा क्रोध-पर्याकुल-अक्षरम्॥ ६॥
avamānam katham kartum tasya śakṣyāmahe vayam. teṣām tat vacanam śrutvā krodha-paryākula-akṣaram.. 6..
स राजा पुनरेवैतानिदं वचनमब्रवीत्। प्रत्याख्यातो भगवता गुरुपुत्रैस्तथैव हि॥ ७॥
स राजा पुनर् एव एतान् इदम् वचनम् अब्रवीत्। प्रत्याख्यातः भगवता गुरु-पुत्रैः तथा एव हि॥ ७॥
sa rājā punar eva etān idam vacanam abravīt. pratyākhyātaḥ bhagavatā guru-putraiḥ tathā eva hi.. 7..
अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः। ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम्॥ ८॥
अन्याम् गतिम् गमिष्यामि स्वस्ति वः अस्तु तपोधनाः। ऋषि-पुत्राः तु तत् श्रुत्वा वाक्यम् घोर-अभिसंहितम्॥ ८॥
anyām gatim gamiṣyāmi svasti vaḥ astu tapodhanāḥ. ṛṣi-putrāḥ tu tat śrutvā vākyam ghora-abhisaṃhitam.. 8..
शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसि। इत्युक्त्वा ते महात्मानो विविशुः स्वं स्वमाश्रमम्॥ ९॥
शेपुः परम-संक्रुद्धाः चण्डाल-त्वम् गमिष्यसि। इति उक्त्वा ते महात्मानः विविशुः स्वम् स्वम् आश्रमम्॥ ९॥
śepuḥ parama-saṃkruddhāḥ caṇḍāla-tvam gamiṣyasi. iti uktvā te mahātmānaḥ viviśuḥ svam svam āśramam.. 9..
अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः। नीलवस्त्रधरो नीलः पुरुषो ध्वस्तमूर्धजः॥ १०॥
अथ रात्र्याम् व्यतीतायाम् राजा चण्डाल-ताम् गतः। नील-वस्त्र-धरः नीलः पुरुषः ध्वस्त-मूर्धजः॥ १०॥
atha rātryām vyatītāyām rājā caṇḍāla-tām gataḥ. nīla-vastra-dharaḥ nīlaḥ puruṣaḥ dhvasta-mūrdhajaḥ.. 10..
चित्यमाल्यांगरागश्च आयसाभरणोऽभवत्। तं दृष्ट्वा मन्त्रिणः सर्वे त्यज्य चण्डालरूपिणम्॥ ११॥
चित्य-माल्य-अंगरागः च आयस-आभरणः अभवत्। तम् दृष्ट्वा मन्त्रिणः सर्वे त्यज्य चण्डाल-रूपिणम्॥ ११॥
citya-mālya-aṃgarāgaḥ ca āyasa-ābharaṇaḥ abhavat. tam dṛṣṭvā mantriṇaḥ sarve tyajya caṇḍāla-rūpiṇam.. 11..
प्राद्रवन् सहिता राम पौरा येऽस्यानुगामिनः। एको हि राजा काकुत्स्थ जगाम परमात्मवान्॥ १२॥
प्राद्रवन् सहिताः राम पौराः ये अस्य अनुगामिनः। एकः हि राजा काकुत्स्थ जगाम परम-आत्मवान्॥ १२॥
prādravan sahitāḥ rāma paurāḥ ye asya anugāminaḥ. ekaḥ hi rājā kākutstha jagāma parama-ātmavān.. 12..
दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम्। विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम्॥ १३॥
दह्यमानः दिवारात्रम् विश्वामित्रम् तपोधनम्। विश्वामित्रः तु तम् दृष्ट्वा राजानम् विफलीकृतम्॥ १३॥
dahyamānaḥ divārātram viśvāmitram tapodhanam. viśvāmitraḥ tu tam dṛṣṭvā rājānam viphalīkṛtam.. 13..
चण्डालरूपिणं राम मुनिः कारुण्यमागतः। कारुण्यात् स महातेजा वाक्यं परमधार्मिकः॥ १४॥
चण्डाल-रूपिणम् राम मुनिः कारुण्यम् आगतः। कारुण्यात् स महा-तेजाः वाक्यम् परम-धार्मिकः॥ १४॥
caṇḍāla-rūpiṇam rāma muniḥ kāruṇyam āgataḥ. kāruṇyāt sa mahā-tejāḥ vākyam parama-dhārmikaḥ.. 14..
इदं जगाद भद्रं ते राजानं घोरदर्शनम्। किमागमनकार्यं ते राजपुत्र महाबल॥ १५॥
इदम् जगाद भद्रम् ते राजानम् घोर-दर्शनम्। किम् आगमन-कार्यम् ते राज-पुत्र महा-बल॥ १५॥
idam jagāda bhadram te rājānam ghora-darśanam. kim āgamana-kāryam te rāja-putra mahā-bala.. 15..
अयोध्याधिपते वीर शापाच्चण्डालतां गतः। अथ तद्वाक्यमाकर्ण्य राजा चण्डालतां गतः॥ १६॥
अयोध्या-अधिपते वीर शापात् चण्डाल-ताम् गतः। अथ तद्-वाक्यम् आकर्ण्य राजा चण्डाल-ताम् गतः॥ १६॥
ayodhyā-adhipate vīra śāpāt caṇḍāla-tām gataḥ. atha tad-vākyam ākarṇya rājā caṇḍāla-tām gataḥ.. 16..
अब्रवीत् प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम्। प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च॥ १७॥
अब्रवीत् प्राञ्जलिः वाक्यम् वाक्य-ज्ञः वाक्य-कोविदम्। प्रत्याख्यातः अस्मि गुरुणा गुरु-पुत्रैः तथा एव च॥ १७॥
abravīt prāñjaliḥ vākyam vākya-jñaḥ vākya-kovidam. pratyākhyātaḥ asmi guruṇā guru-putraiḥ tathā eva ca.. 17..
अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः। सशरीरो दिवं यायामिति मे सौम्यदर्शन॥ १८॥
अन् अवाप्य एव तम् कामम् मया प्राप्तः विपर्ययः। स शरीरः दिवम् यायाम् इति मे सौम्य-दर्शन॥ १८॥
an avāpya eva tam kāmam mayā prāptaḥ viparyayaḥ. sa śarīraḥ divam yāyām iti me saumya-darśana.. 18..
मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम्। अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन॥ १९॥
मया च इष्टम् क्रतु-शतम् तत् च ना अवाप्यते फलम्। अनृतम् न उक्त-पूर्वम् मे न च वक्ष्ये कदाचन॥ १९॥
mayā ca iṣṭam kratu-śatam tat ca nā avāpyate phalam. anṛtam na ukta-pūrvam me na ca vakṣye kadācana.. 19..
कृच्छ्रेष्वपि गतः सौम्य क्षत्रधर्मेण ते शपे। यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः॥ २०॥
कृच्छ्रेषु अपि गतः सौम्य क्षत्र-धर्मेण ते शपे। यज्ञैः बहुविधैः इष्टम् प्रजाः धर्मेण पालिताः॥ २०॥
kṛcchreṣu api gataḥ saumya kṣatra-dharmeṇa te śape. yajñaiḥ bahuvidhaiḥ iṣṭam prajāḥ dharmeṇa pālitāḥ.. 20..
गुरवश्च महात्मानः शीलवृत्तेन तोषिताः। धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः॥ २१॥
गुरवः च महात्मानः शील-वृत्तेन तोषिताः। धर्मे प्रयतमानस्य यज्ञम् च आहर्तुम् इच्छतः॥ २१॥
guravaḥ ca mahātmānaḥ śīla-vṛttena toṣitāḥ. dharme prayatamānasya yajñam ca āhartum icchataḥ.. 21..
परितोषं न गच्छन्ति गुरवो मुनिपुंगव। दैवमेव परं मन्ये पौरुषं तु निरर्थकम्॥ २२॥
परितोषम् न गच्छन्ति गुरवः मुनि-पुंगव। दैवम् एव परम् मन्ये पौरुषम् तु निरर्थकम्॥ २२॥
paritoṣam na gacchanti guravaḥ muni-puṃgava. daivam eva param manye pauruṣam tu nirarthakam.. 22..
दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः। तस्य मे परमार्तस्य प्रसादमभिकांक्षतः। कर्तुमर्हसि भद्रं ते दैवोपहतकर्मणः॥ २३॥
दैवेन आक्रम्यते सर्वम् दैवम् हि परमा गतिः। तस्य मे परम-आर्तस्य प्रसादम् अभिकांक्षतः। कर्तुम् अर्हसि भद्रम् ते दैव-उपहत-कर्मणः॥ २३॥
daivena ākramyate sarvam daivam hi paramā gatiḥ. tasya me parama-ārtasya prasādam abhikāṃkṣataḥ. kartum arhasi bhadram te daiva-upahata-karmaṇaḥ.. 23..
नान्यां गतिं गमिष्यामि नान्यच्छरणमस्ति मे। दैवं पुरुषकारेण निवर्तयितुमर्हसि॥ २४॥
न अन्याम् गतिम् गमिष्यामि न अन्यत् शरणम् अस्ति मे। दैवम् पुरुषकारेण निवर्तयितुम् अर्हसि॥ २४॥
na anyām gatim gamiṣyāmi na anyat śaraṇam asti me. daivam puruṣakāreṇa nivartayitum arhasi.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टपञ्चाशः सर्गः ॥१-५८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टपञ्चाशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe aṣṭapañcāśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In